Ad Code

१.१.८ सूत्राणि:॥ मुखनासिकावचनोऽनुनासिकः ॥ ॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥

 


१.१.८

सूत्राणि:॥ मुखनासिकावचनोऽनुनासिकः

॥ व्याख्या: ॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - मुखनासिकावचन: १।१ अनुनासिक: १।१


समासः - मुखं च नासिका च एतयोः समाहारः - मुखनासिकम् । ईषद्वचनम् - आवचनम् । मुखनासिकम् आवचनं यस्य स मुखनासिकावचन: (समाहारद्वन्द्वगर्भितबहुव्रीहिः) ।


अर्थ: - मुखनासिकावचनो वर्णोऽनुनासिक - संज्ञको भवति । 


उदाहरणम् - अभ्र आँ अप: । गभीर आँ उग्र पुत्रे । चन आँ इन्द्रः । 


आर्यभाषार्थ - (मुखनासिकावचन:) मुख और नासिका से उच्चारण किये जानेवाले वर्ण की (अनुनासिक:) अनुनासिक संज्ञा होती है ।


उदाहरणम् - अभ्र आँ अपः । गभीर आँ उम्र पुत्रे । चन आँ इन्द्रः ।


सिद्धिः - आँ - यहां 'आङोऽनुनासिकश्छन्दसि' (६.१.११६) से आ को अनुनासिक हो जाता है । इसका उच्चारण मुख सहित नासिका से किया जाता है । अत: यह अनुनासिक है ।


॥ काशिका ॥

मुखसहिता नासिका मुखनासिका, तया य उच्चार्यते वर्णः सोऽनुनासिकसंज्ञो भवति । “आडोनुनासिकश्छन्दसि” (६.१.१२६/३५२५) अभ्र आँ अपः, गंभीर उग्रपुत्रे । चन आँ इन्द्रः । मुखग्रहणं किम् ? अनुस्वारस्यैव हि स्यात् । नासिकाग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिकप्रदेशाः - “आडोऽनुनासिकश्छन्दसि” (६.१.१२६/३५२५) इत्येवमादयः ।


॥ न्यासः ॥

‘मुखसहिता नासिका मुखनासिका’ इत्यनेन मुखनासिकाशब्दोऽयं तत्पुरुषः, न द्वन्द्व इति दर्शयति । तत्पुरुषस्तु मयूरव्यंसकादित्वाद्वेदितव्यः । यदि च मुखं च नासिका चेति द्वन्द्व स्यात्, प्राणितूर्यादिसूत्रेण (२.४.२) एकवद्भावः स्यात् । ततश्च ‘स नपुंसकम्’ (२.४.१७) इति नपुंसकत्वं स्यात् । तस्मिंश्च सति ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७) इति ह्रस्वत्वं प्रसज्येतेति भावः । ननु चोच्यतेअनयेति करणे ल्युटि कृते, तदन्तात् ‘टिड्ढाणञ्’ (४.१.१५) इत्यादिना ङीपा भवितव्यम्, ततशच् तदन्तेन बहुव्रीहौ ‘मुखनासिकावचनः’ इति निर्देशो नोपपद्यते ? नैतदस्ति; वचनशब्दोऽयं कृत्यल्युटो बहुलम् (३.३.११३) इति बहुलवचनात् कर्मसाधनः - उच्यत इति वचनो वर्णे वर्तते, न नासिकायाम् । अत एवाह - ‘तया य उच्चार्यते’ इति । ‘ उच्चार्यते’ इति कर्मणि लकारः । एवं कृत्वा मुखनासिकावचनः’ इति षष्ठीसमासोऽयं वेदितव्यः, न बहुव्रीहिः । ‘अनुस्वास्यैव’ इति । अनुस्वारे ह्युच्यमाने नासिकायाश्च व्यापारो न मुखस्य; तेन तस्यैव स्यात्, न तु स्यात् ञमङणनानाम्; नापि ‘अभ्र आँ अपः’ (ऋ.५.४८.१) इत्यात्रार्धचन्द्राकृतेर्वर्णस्य; तदुच्चारणे मुखस्यापि व्यापारात् । ततश्च ‘यरोऽ नुनासिके’ (८.४.४५) इत्येतस्मिन् कार्ये कर्त्तव्येऽनुस्वारस्यैव ग्रहणं स्यात्, न तु ङकारादीनामित्यभिप्रायः । ननु च प्रासादवासिन्यायेन तेषामपि भविष्यति ? यथा ‘प्रासादवासिन आनीयन्ताम्’ इत्युक्ते ये प्रासाद एव निवसन्ति, तेषामपि ग्रहणं भवति, येऽपि प्रासादे भूमौ च उभयत्र वसन्ति तेषामपि । यथा ह्यभय आनीयन्ते, तथेहापि ‘नासिकावचनः’ इत्येतावत्युच्यमाने नासिकावचनस्यानुस्वारस्य मुखानसिकावचनानां च ङकारादीनां ग्रहणं भविष्यति, ततश्चानुस्वारस्य हि स्यादित्ययुक्तमुक्तम्. एवं तु वक्तव्यम्- अनुस्वारस्यापि हि स्यादिति ? नैतदस्ति; इह हि त्रीणि दर्शनानि सम्भवन्ति,-’ समस्त एवानुनासिको वर्णओ नासिकावचनो मुखवचनश्च’ इत्येकं दर्शनम्; पूर्वभागस्त्वस्य मुखवचनः’ इति तृतीयम् । उभयोरप्यनन्तरयोर्दर्शनयोर्नासिकामुख भागे तथानुरागं करोति यथाऽसावपि नासिकावचनभाग इव लक्ष्यते । तत्र यदेतदनन्तरदर्शनद्वयम्, तस्यान्यरत् पाणिनेरभिमतम् । न चास्मिन् प्रासादवासिन्याय एकत्राप्यवतर -  यदि हि ङकारादयो नासिकायोऽपि साकल्येनोच्चार्येरन्, मुखेनापि ततः प्रासादवासि न्यायेन ‘नासिकावचनः’ इत्येतावत्युक्ते तेषामपि ग्रहणं स्यात् । न चैवं भागस्यैव; तेषां नासिकया मुखेन चोच्चारणात् । तदसति मुखग्रहणे तेषां ग्रहणं न स्यात्, तदभावे च सञ्ज्ञा न स्यादिति युक्तमुक्तम्- अनुस्वनारस्यैव हि स्यात्’ इति । ‘कचटतपानां मा भूत्’ इति । एते हि ककारादयो मुखेनैवोच्चार्यन्ते, न नासिकया; ततश्चासति नासिकाग्रहणे तेषामेव स्यात् । एवं च ‘शक्तः’, ‘सुप्तम्’ इत्यत्र ‘अनुदात्तोपदेशवनति’ (६.४.३७) इत्यादिना लोपः प्रसज्येत, ‘ओदनपक्’ इत्यत्र ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६.४.१५) इति दीर्घत्वम् । अथ किमर्थं महती सञ्ज्ञा क्रियते ? अनु पश्चान्नासिका व्याप्रियते यस्मिन्, अथवा - अनु पश्चान्नासिकाया व्याप्रियते यस्मिन्, यद्वा - नासिकायाः पश्चात् व्याप्रियते ? मुखस्य तु प्रकृतत्वात् तदेव गम्यते । तत्र ये ते द्वे दर्शने, ययोः पाणिनेरन्यतरदभीष्टम्, तयोः पूर्वस्मिन् नासिका मुखात् पश्चात् व्याप्रियते, उत्तरत्र मुखं नासिकायाः । अन्वर्थसञ्ज्ञाकरणं तु पूर्वोक्तयोर्दर्शनयोरन्यतराभ्युपगमसूचनार्थम् । तदभ्युपगमसूचनं तु प्रासादवासिन्यायमाश्रित्य मुखग्रहणं ये प्रत्यचक्षीरन्, तेषां निराकरणार्थम् । 


॥ पदपञ्जरी ॥

यद्यत्र “मुखं च नासिका च” इति द्वन्द्वः स्याद्, “द्वन्द्वश्च प्राणितूर्य” आदिसूत्रेणैकवद्भावः स्यात्, ततश्च “स नपुंसकम्” इति नपुंसकत्वे, “ह्रस्वो नपुंसके” इति ह्रस्वत्वे च’मुखनासिकवचनः’ इति प्राप्नोतीत्युत्तरपदलोपिनं तत्पुरुषं दर्शयति - “मुखसहिता नासिके”ति । “तयोच्चार्यत” इति । एतेन “कृत्यल्युटो बहुलम्” इति कर्मणि ल्युटं दर्शयति । “तया” इति करणे कर्त्तरि वा तृतीया; करणस्यैव कर्तृत्वेन विवक्षणात् । सूत्रेऽपि “मुखनासिकावचन: “ इति “कर्तृकरणे कृता बहुलम्” इति तृतीयासमासः, षष्ठीसमासो वा । “अनुस्वारस्यैव हि स्यादिति । तस्मिन्नुच्चार्यमाणे नासिकाया एव व्यापारो न मुखस्य, तेन तस्यैव स्याद्, न तु ञमङणनानाम्, नाप्यभ्र आँ अप इत्यस्य तदुच्चारणे मुखस्यापि व्यापारादित्येवकारेण दर्शयति । ननु यथा “प्रासादवासिन आनीयन्ताम्” इत्युक्ते ये प्रासाद एव निवसन्ति ये च प्रासादे भूमौ च, ते द्वयेऽप्यानीयन्ते, प्रसादवासान्वय उभयेषामस्तीति, तथेहापि “नासिकावचनः” इत्युक्ते यः केवलनासिकावचनः, यश्च मुखनासिकावचनः - उभयोरपि ग्रहणं भविष्यति; नासिकान्वयस्य विवक्षितत्वात् । तत्किमुच्यतेऽनुस्वारस्यैव हि स्यादिति, अनुस्वारस्यापि हि स्यादिति तु वक्तव्यम् ? उच्यते; इह त्रीणि दर्शनानि - कृत्स्न एवानुनासिको मुखेन नासिकया चोच्चार्यते, पूर्वो भागो मुखेन परो नासिकया, विपरीतं वा । नासिक्यभागानुरागाच्चेतरोऽपि भागस्तद्वदेव भासते इति । तत्रोत्तरस्मिन्दर्शनद्वये नासिकान्वयस्य भागविषयत्वान्नासिकावचनग्रहणेनोभयवचनो न गृह्यते इति सुष्ठुक्तम् - “अनुस्वारस्यैव हि स्यादिति । “कचटतपानां मा भूदिति । ते हि मुखेनैवोच्चार्यन्ते इत्यसति नासिकाग्रहणे तेषामेव स्यात्, ततश्च ततुमिति “अनुदात्तोपदेश” इत्यनुनासिकलोपः स्यात्, “ओदनपक्” इति “अनुनासिकस्य क्विझलोः क्ङिति” इति दीर्घः स्यादिति महासंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - “अनु पश्चान्मुखस्य नासिका व्याप्रियते यस्मिन्”,”नासिकाया वा पश्चान्मुखं व्याप्रियते यस्मिन्” इति । तेन भागविषयो नासिकाव्यापार इति सूचनात् प्रासादवासिन्यायस्यायमविषय इत्युक्तं भवति । 


॥ शब्दकौस्तुभः ॥

मुखसहिता नासिका मुखनासिका तयोच्चार्य्यमाणोऽनुनासिकसंज्ञः स्यात् । संज्ञाप्रदेशा आङोऽनुनासिकश्छन्दसि (६.१.१२६) इत्यादयः । अभ्रआँ अपो वृणाना,गभीरआँ उग्रपुत्रे । इहोच्यत इति वचनः, कृत्यल्युटो बहुलम् (३.३.११३) इति बाहुलकात्कर्मणि ल्युट्। ‘राजभोजनाः शालय’ इतिवदिति वृत्त्यंनुसारिणः । भाष्यकैयटयोस्तु उच्यतेऽनेनेति वचनम् । करणे ल्युट्, सामान्ये नपुंसकम् ‘शक्यंच क्षुदपहन्तुम्’ इतिवत्, तेन तुल्यं क्रिया चेत् (५.१.११५) संस्कृतं भक्षाः (४.२.१६) इतिवच्च । इदञ्च विशेषणानाञ्चाजातेः (१.२.१६) इत्यत्र वक्ष्यमाणेन पदसंस्कारपक्षे गुणवचनानामित्यादि वाचनिकमित्यनेन सह यथा न विरुध्यते, तथा तत्रैव वक्ष्यामः । ततो मुखनासिका वचनं यस्येति बहुव्रीहिः । मुखेति किम् ? यमानुस्वाराणामेवमा भूदिति भाष्यम् । तत्र वर्गेष्वादितश्चतुर्णां पञ्चमे परे तन्मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्येष्वागमत्वेन विहितं तद्यमसंज्ञम् । यम इव यमः, यमौ हि लोके प्रायेण समानाकारौ भवतः । यथा’पलिक्रक्रीः’ ‘चख्खनतुः’ ‘अग्रग्निः’ ‘अघ्रघ्नन्’ इत्यत्र कखगघ इत्येभ्यः परभागे तत्तत्सदृशो यमागमः । यक्तुक्तं विवरणे वर्गपञ्चमयुक्ताः प्रथमादयो यमाः इति । तच्चिन्त्यम्, अयोगवाहत्वप्रतिपादकेन हयवरट्सूत्रस्थभाष्येण सह विरोधात्, केवलनासिक्यत्वपरेण यमानुस्वाराणामेवेति भाष्येण सह विरोधाच्च । यथेदं भाष्यं न केवलनासिक्यत्वपरं किन्तु आँ इत्यादीनां भागमात्रं नासिक्यं, यमानुस्वाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेन नासिक्यत्वमप्यस्ति, न तु तदीयं भागमात्रं तथेत्येवंपरं; तथाप्यादितश्चतुर्णां तदसम्भव एव । किञ्चैवं नैव दोषो नैव प्रयोजनम् इति त दुत्तरभाष्यग्रन्थविरोधः ‘यद् घ्नन्ति’ इत्यादौ यरोनुनासिके (८.४.४५) इत्यस्य प्रवृत्त्यापत्त्या त्वत्पक्षे दोषस्योद्भटत्वात् । अत एव प्रातिशाख्ये स्पर्शा यमानननुनासिकाः स्वान्परेषु स्वर्शेष्वनुनासिकेषु (ऋ.प्रा.६.२९) इत्युपक्रम्भ ‘प्रदोधुवच्छ्मश्रुषु’ इत्यत्र यमं निषेद्धुमारब्धे न स्पर्शस्योष्मप्रकृतेः परस्ताद्यमापत्तिम् (ऋ.प्रा. ६.३०) इति सूत्रे परस्ताच्छब्दः प्रयुक्तः । यमः प्रकृत्यैव सदृक् श्रुतिर्वा य मेन मुख्यास्ति समानकाले (ऋ.प्रा. ६.३३) इत्यादिसूत्रान्तरेष्वपि स्पष्ठमेव यमस्य वर्णान्तरत्वम् । तथा नारदियशिक्षायामपि -


अनन्त्यश्च भवेत्पूर्वो ह्यन्तश्च परतो यदि । तत्र मध्ये यमस्तिष्ठेत्सवर्ण पूर्ववर्णयोः ॥ इति ॥


सवर्ण सदृशः । अत्र पूर्ववर्णयोरिति द्वित्त्वमविवक्षितम् । ‘यज्झः’ इत्यादौ जकारद्वयसत्त्वेपि ‘ज्मया अत्र वसवोरन्तदेवाः’ इत्यादौ जकारद्वयाभावादिति तद्व्याख्यातारः । तथा ऋक्तन्त्रव्याकरणाख्यास्य छान्दौग्यलक्षणस्य प्रणेता औदव्रजिरप्यसूत्रयत् अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः । मध्ये यमः पूर्वस्य गुणः इति । पूर्वस्य गुण इत्यस्य पूर्वभक्त इत्यर्थः तेनागमत्वं स्फुटीकरोति । तथा संयोगशृङ्कलाख्याया औतमशिक्षायामपि अथ चतुरक्षराणामुदाहरणं ‘सयमायमाभ्याम्’ । सयमास्तावद्यथा ‘अग्निः’ इति द्वौ गकारौ यमनकारौ, ‘यज्ज्ञः’ इति द्वो जकारौ यमञकारौ इतियादि । तथाऽत्रैव ग्रन्थारम्भे अयस्पिणअडो दारुपिण्ड ऊर्णापिण्डश्चेति त्रेधा संयोगं विभज्य यमसहितमयस्पिण्डम् इत्युक्त्तवा -


अन्तस्थ यमसंयोगे विशेषो नोपलभ्यते । अशरीरं यम प्राहुरन्तस्थः पिण्डनायकः ॥


इत्युक्तम् । अन्तस्थोऽत्र वर्गपञ्चमः । अशरीरमिति स्वरभक्त्यादिवद्व्यञ्जकलिपिविशेषशून्यमित्यर्थः । लक्षणवशेनैव तदीयस्थलविशेषनिश्चयसंभवाल्लिपिसंप्रदायप्रवर्त्तकाचार्य्यैः स्वग्भक्तेरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेत्यर्थः । ‘रलयोरूष्मणि परे मध्ये स्वरभक्तिः’ इति हि प्रसिद्धं शिक्षादौ । यत्र तु नैवंविधेन लक्षणेन स्थलावधारणं कर्त्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्त्तितम् । यथा विसर्गादौ । पाणिनीयशिक्षायामपि ।


त्रिषष्ठिश्चतुःषष्ठिर्वा वर्णाः सम्भवतो मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥


स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥


अनुस्वारो विसर्गश्चकपौ चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेया लृकारः प्लुत एव च ॥ (पा.शि.३।४।५) इति ।


अत्र हि यमानां पृथग्गणनात्स्पष्टमेव वर्णान्तरत्वम् । गणना त्वित्थम् अइउऋ इति चतुर्णां ह्रस्वदीर्घप्लुतभेदात्त्रैविध्ये द्वादश, लृकार एकः एचां दीर्घप्सुतभेदादष्टौ, इत्थं स्वरा एकविंशतिः । स्पर्शाः पञ्चविंशतिः । यरलवशषसहेत्यष्टौ। यमाश्चत्वारः प्रथमयमद्वितीययमादिभेदेन विभजनात् । अत एव कुं खुं गुं घुं इति यमचतुष्टयं न्यासादावुदाहृतम् । ‘कचटतपाः कः’ ‘खछठथफाः खुः’ इत्यादिपरिभाषामाश्रित्य तत्तदुत्तरस्याशरीरस्यापि कथञ्चित्प्रदर्शनतात्परर्यकं चेदमिति ध्येयम् । अनुस्वारविसर्गकपाश्चात्वारः, दुस्पृष्टश्च बह्वृचानां प्रसिद्धः ईळे वोळेहेति । इत्थं त्रिषष्टिः। लृकारस्य प्लुतसम्भवात्तेन सह चतुःषष्टिः। तदेतदुक्तं ‘सम्भवतः’ इति ।


हयवरट्सूत्रे क्षीरोदकारोऽप्याह वर्गान्त्येनन्त्यात्परे तयोर्मध्यवर्त्ती नासिकास्थानो यम इति । यत्तु कश्चिदाह यमा आदेशाः। न च तेषामानुनासिक्यपक्षे ‘तज्ज्ञः’ ‘तद् घ्नन्ति’ इत्यादौ यरोऽनुनासिके(८.४.४५) इत्यनुनासिकादेशापत्त्या नैव दोषो नैव प्रयोजनम् इति भाष्यं विरुध्येतेति वाच्यम्, व्यवस्थितविभाषाश्रयणादिति । तत्तुच्छम्, प्रागुक्तप्रातिशाख्यनारदीयशिक्षादिसकलग्रन्थविरोधेन आदेशपक्षस्य गर्भस्रावेणैव गतत्वात्, व्यवस्तितविभाषाकल्पनस्य निर्मूलत्वाच्च । एतेन एतदीयलेखनप्रामाण्यभ्रमेण अनुपसर्गात् ज्ञः (१.३.७६) इत्यादौ चवर्गाभाव दृढीकृत्य श्चुत्वाभावं साधयन्तस्तदनुगामिनोऽपि परस्ता, नारदेन ‘यज्ञः’ इत्यत्र जकारद्वयस्य स्फुटमभिदानात् नस्यैतस्य त्रयस्यास्थ्नामज्ञां पर्वणामिति इत्यारण्यकप्रयोग इव सजातीयसमभिव्याहारान्न स्पष्टो भेद इति तु प्रसिद्धं शास्त्र। अत एव न व्यञ्जनपरस्यैकस्यानेकस्य वा विशेषोस्ति इति भाष्यम् । व्यञ्जनात्परस्य व्यञ्जनं परं यस्येत्येवम्भूतस्य च दुर्लक्षो भेदाभेदविभाग इत्येवम्परतया तत्रतत्र कैयटेन व्याख्यातम् । अत एव च बहुषु पुस्तकेषु तज्ज्ञापयत्याचार्यः इति भाष्यग्रन्थः । अनुपसर्गात् (१.३.७६) इति सूत्रेऽपि केषाञ्चित् श्चुत्वपाठः सम्मत एव । पाठान्तरं तु अल्पाच्तरम् (२.२.३४) ‘आलुच्’ ‘तदसहने’ इतिवत्सौत्रत्वादसंहितया वा समाधेयामिति दिक् ।


तदेतत्सकलमभिधाय प्रक्रियाप्रकाशे गुरुचरणैरुक्तम् तज्ज्ञानमित्यादौ तु श्युत्वं भवत्येव । यमश्च मुखनासिक्यः केवलनासिकास्थानो वेति मतद्वयम् नासिक्या नासिकास्थानाः मुखनासिक्या वा इति तैत्तिरीयप्रातिशाख्यात् । अनुनासिकविषये तु दर्शनत्रयम् कृत्स्नो वर्णो मुखेन नासिकया चोच्चार्यत इत्येकम्, पूर्वो भागो मुखेन परोनासिकयेति द्वितीयं, तद्वैपरीत्यात्तृतीयम् । द्वितीयतृतीययोर्भागमात्रस्य नासिक्यत्वेऽपि तदुपरागाद्भागान्तरमपि तद्वदवभासते । तता च नासिकान्वयस्य भागमात्रविषयतया नासिकावचनग्रहणेन मुखनासिक्यो वर्णौ न गृत्द्येत । किन्तु भतविशेषे केवलनासिकास्तानतया यमादय एव गृह्येरन् । ततश्च विधिप्रदेशे अङोऽनुनासिकः (६.१.१२६) इत्यादौ यमानुस्वारा एव विधीयेरन् । विड्वनोरनुनासिकस्यात् (६.४.४२) इत्यादौ त्वनुवादे अप्रतिपत्तिरेव स्यादित्युदाहृतभाष्यशयः । तस्माद्दर्शनद्वये मुखपदोपादानं सार्थकमिति स्थितम् । प्रथछमदर्शने तु प्रासादवसिन्यायाश्रयणेनो भयवचनानामपि स्थितम् । प्रथमदर्शने तु प्रासादवासिन्यायाश्रयणेनोभयवचनानामपि सिद्धासंज्ञा । आन्तरतम्याच्च विधिप्रदेशेषु यमानुस्वाराणामप्रवृत्तिः । तथाच मुखशब्दोपादानं चन कर्त्तव्यमिति भाष्ये स्थितम् । मुखवचन इत्येवोक्ते तु कचटतपादीनामपि स्यात् । ततश्च ‘शक्तः’ इत्यत्र कलोपः स्यात् । ‘पक्कः’ इत्यत्र चकारलोपः स्यात् । ‘तप्तम्’ इत्यत्र पलोपः स्यात् । ‘ओदनपग्’ इत्यादौ अनुनासिकस्य क्विझलोः (६.४.१५) इति दीर्घः स्यात् । अनु पश्चान्नासिका व्याप्रियते यस्मिन्नासिकायाः पश्चान्मुखं व्याप्रियते यस्मिन्नति वाऽन्वर्थसंज्ञेयम् । तेन नासिकाव्या पारस्थ भागविषयकत्वसूचनात्प्रासादवासिन्यायस्याविषयोऽयमिति ध्वनितम् । एतच्च सूत्रं प्रत्याख्यातुं शक्यम् । प्रदेशवाक्येष्वेव प्रागुक्तस्य नासिकामनुगत इत्यस्य वा योगस्याश्रयणेन सकलेष्टसिद्दिरिति दिक् ।


॥ व्याकरणसिद्धान्तसुधानिधिः ॥

मुखयुतनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । अभ्र आँ अपः । आङोऽनुनासिकश्छन्दसि इति आ इत्यस्यानुनासिकः । प्राण्यङ्गत्वेन समाहारद्वन्द्वे क्लीबत्वेन नासिकवचन इत्यापत्तिवारणाय मध्यमपदलोपिसमासाश्रयणम् । निपातनाद्यथाश्रुतस्य साधुत्वे तु मुखनासिकवचन इत्यसाधु । अबाधकान्यपि निपातनानि इति पक्षे तु तदपि साधु । 


यद्वा मुखनासिकपदं कृत्वा ईषदर्थकनञ्समासव्युत्पन्नेन तादृशाङ्पूर्वेण वा वचनपदेन समासः । भागस्य मुखेन भागस्य नासिकया चोच्चरणादीषत्त्वम् । इदं च पूर्वपरयोर्भागयोर्मध्ये एको भागो मुखेनोच्चार्यते द्वितीयस्तु नासिकया । तत्र नासिकावचनभागोपरागवशान्मुखवचनभागस्यापि नासिकावचनवद्भानम् । यथा सँय्यन्तेत्यादौ अनुनासिकयकाराद्युपरागादकारस्याप्यनुनासिकत्वेन प्रतीतिरिति मतमाश्रित्योक्तम् । यदा तु मुखस्य नासिकायाश्चान्तरालवर्त्तिस्थानान्तरमेवैतदुच्चारणे निमित्तम्, तदा मुखोपसंहिता नासिकेति समासः । पदद्वयस्य स्वार्थान्तरालदेशे लक्षणात् । अर्द्धमन्तर्वेदि मिनोत्यर्द्ध बहिर्वेदीत्यस्येव तदन्तराले । तत्राद्यपक्षे प्रासादवासिन्यायः । यथा प्रासादवासिनस्तग्रहणेन भूमिवासिनस्तद्महणेन केवलं गृह्यन्ते । उभयवासिनस्तु प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च गृह्यन्ते । ग्राहकतावच्छेदकधर्मद्वयावच्छिन्नत्वात् । उत्तरमतद्वये तु न तदवतार इति स्पष्टमेव । 


अत्र पदसंस्कारपक्षे वचनपदं करणल्युडन्तम् । उच्यतेऽनेनेति व्युत्पाद्य पश्चान्मुखनासिकापदेन सम्बध्यते । अन्तरङ्गत्वात्प्रवृत्तश्च पदसंस्कारो बहिरङ्गेण पदान्तरान्वयदशायां प्रतीयमानेन स्त्रीत्वेन न बाध्यत इति ङीप्प्रत्ययो न भवति । प्रथममेव स्त्रीत्वविवक्षायां तु मुखनासिकावचनीक इत्यपि निर्बाधम् धम् एवञ्च मुखनासिका वचनं यस्य मुखनासिकं वचनं यस्येति वा बहुब्रीहिरिति भाष्यमतम् । 


केचित्तु राजभोजनाः शालय इतिवत् कर्मणि ल्युप्रत्ययं बाहुलकात् स्वीकृत्य कर्मषष्ठ्या समास इत्याहुः ।  अत्र मुखग्रहणं किम् ? यमानुस्खाराणामेव मा भूदिति भाष्यम् । अस्यार्थः मध्यमदर्शने नासिकावचनपदेन उभयस्थानको वर्णों न गृहोत, किन्तु यमानुस्वारा एव । तेषां मत विशेषे एव केवल ‘नासिकास्थानत्वात् । तथा च तैत्तिरीयप्रातिशाख्यम् नासिक्या नासिकास्थाना मुखनासिक्या वा इति । तथा च आङोऽनुनासिकः इत्यादौ विधिस्थले त एवं विधीयेरन् । विड्वनोरनुनासिकस्याद् इत्याद्यनुवादस्थले तु अनुवादस्य यथाप्राप्तविषयकत्वनियमात् यमानुस्वारपरस्य च विडादिप्रत्ययस्यासिद्धेरप्रतिपत्तिरेव स्यात् । अतस्तद्दर्शने मुखपदं सार्थकम् । 


आद्यमते तु नासिकावचन ‘पदेनैव प्रासादवासिन्यायेन’ मुखवचनानामपि ग्रहणसम्भवात्तद्व्यर्थमेव । न च यमानुस्वारानादायातिप्रसङ्गः । अनुवादे यमानुस्वाराणामसम्भवात्, विधौ च स्थानिनो मुखनासिकावचनत्वात् तदन्तरतमत्वेन मुखनासिकावचनस्यैवादेशत्वात्केवलनासिकावचनानां यमादीनामान्तरतम्या भावादेवातिप्रसङ्गभङ्गात् । तदुक्तं भाष्यकृता नैव दोषो नैव प्रयोजनम् इति । तथा च तेषामपि संज्ञाविधाने दोषाभावात् मुखपदं न देयमेवेति स्थितम् । नासिकापदत्यागे तु कचटतपानामपि स्यात् । ततश्च शक्त इत्यत्र ककारस्य पक्व इत्यत्र चकारस्य तप्तमित्यत्र पकारस्य च लोपः स्यात् । ओदनपगित्यादी अनुनासिकस्य क्विज्झलोः इति दीर्घश्च स्यात् । 


अत्र वदन्ति वर्गेष्वादितश्चतुर्णा पञ्चमे परे मध्ये पूर्ववर्णसमानाकारं वर्णान्तरं प्रातिशाख्ये स्वागमत्वेन विहितं यमसंशम् । यमलजातयोः प्रायेण सारूप्यदर्शनाद्यम इव यम इति गौण्येयं संज्ञा । यथा पलिक्नी चख्छनतुः अग्निः अध्घ्नन् इत्यत्र कखगघेभ्यः परभागे तत्तत्सदृशोऽयमागमः । इयन्तु यमोत्पत्तिरखण्डपदे एवेति तु प्रमाणाभावादुपेक्ष्यम् । परभागे इति मूलग्रन्थेन पूर्वावयवत्वस्यैव लाभात् । अत एव छान्दोग्यलक्षणप्रणेतुरौदव्रजिसंज्ञस्याचार्यस्य सूत्रम् - अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः इति । 


अनन्त्या आद्याश्चत्वारः । अन्त्या ङकारादयः । गुणः पूर्वस्य भक्तः, तदवयव इति यावत् । यत्तु विवरणकारैरुक्तम् वर्गपञ्चमयुक्ताः प्रथमादयो यमा इति तच्चिन्त्यम्, अयोगवाहत्वप्रतिपादकहयवरट्सूत्रीयभाष्यविरोधात् । केवलनासिकास्थानत्वपरोक्त भाष्यविरोधाच्चेति । अत्रेदं विचारणीयम् चतुर्णामाद्यवर्तिनामेवानुनासिकगुणत्वेन भेदात्तज्जातीयत्वेऽपि सानुनासिकयकारादिवदण्सूपदिष्टः स्वसवर्णैरगृहीतत्वाद्युक्तमेवायोगवाहत्वम् । न हि निरनुनासिकाः कादयोऽण्मध्ये पठ्यन्ते, येनैषामपि ग्रहणकशास्त्रेणैव सङ्ग्रहसिद्धौ अयोगवाहत्वप्रतिपादनविरोधः स्यात् । तस्मात्सानुनासिकनिरनुनासिकभेदेन कादीनां द्वैविध्यमित्येव भाष्यादितात्पर्यम्, न तु कादिवृत्तिवर्णत्वसाक्षाद्व्याप्यजात्यभाववत्तायाम्, मानाभावात् । 


अत एव कुँ खुँ गुँ घुँ इति न्यासादिग्रन्थाः सङ्गच्छन्ते । कुँ इत्यस्य तत्तद्वर्गाद्यक्षरपरत्वात् । खुँ इत्यादेश्च वर्गद्वितीयाद्यक्षरपरत्वात् । अनुनासिकत्वमात्रस्य चाधिकस्योपादानात् । नापि द्वितीयो विरोधः । अँ इत्यादीनां भागमात्रं नासिक्यम् । यमानुस्खाराणां तु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेनानु ‘नासिकत्व’ ‘मप्यस्ति, न तु तदीयं भागमात्रं तथा, इत्येवं परत्वस्य भवद्भिरेवोक्तत्वात् । एतेनादितश्चतुर्णां तदसम्भव एवेत्यपास्तम् । प्रमाणसत्त्वे बाधकाभावात् । 


ननु गुणानामभेदकत्वादेव तेषां प्रत्याहारान्तर्भावसम्भवादयोगवाहानामट्सूपदेशपरभाष्यवार्त्तिकविरोध एवेति चेन्नैवम्, अयोगवाहपदेन तेषां सङ्ङ्ग्रहेऽपि विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वाराणामेव तत्रोपदेशप्रयोजनस्योक्तत्वेन यमानां प्रयोजनस्य तत्र कुत्राप्यनुक्तत्वात् तथाऽपि प्रत्याहारविशेषपुरस्कारेणैव तत्रियमसम्पादनार्थकत्वेन तदविरोधाच्च यमानां तत्रोपदेशे तात्पर्याभावनिर्णयात् । 


यत्तूक्तम् नैव दोषो नैव प्रयोजनमिति भाष्यविरोधः, त्वन्मते यद् घ्नन्तीत्यादौ यरोऽनुनासिके इत्यस्य प्रवृत्त्या दोषस्योद्भटत्वादिति तदप्यसत्, द्विर्वचनविध्येकवाक्यतापत्रयर्वस्यैव तेषु नियतत्वेन सत्यपि यमानां यरन्तभवि अनुनासिकत्वादिविध्येकवाक्यतापन्नयर्वस्य बाधाभ्युपगमात् । एवं च यमानां व्यञ्जनपरत्वनियमेन अनचि च इत्यस्य तत्र कदाचिदप्यप्रवृत्त्या फलतो यमांशे यत्र्वादिबाध एव पर्यवस्यतीति सिद्धम् । गुणानामभेदकत्वेऽपि यमानां न तत्तत्कार्यप्रवृत्तिरिति । तस्माद्यमानामयोगवाहत्वप्रतिपादकभाष्यस्य तेषां तत्तत्प्रत्याहारविशेषान्तर्भावप्रयुक्तकार्यानुदाहरणव्याजेन तत्तत्प्रत्याहारानन्तर्भावविधान एव तात्पर्यम् । अन्यथा अन्तर्भावप्रयुक्तकार्याभावे तद्विधानवैयर्थ्यात् । अप्रसक्तस्य च निषेधानर्हत्वात् । प्रसक्तेश्च वर्णान्तरत्वपक्षे वर्णसमाम्नायमध्यानुपदेशेनानुपपन्नत्वात् । ककारादिमध्य एवान्तर्भावः सम्मतः । तथा सति हि गुणानामभेदकत्वेन खफछठेत्यादिभिस्तत्स‌ङ्ग्रहे प्रसक्ते भवति निषेधोपपत्तिः । तस्मादन्यथाऽनुपपन्नमुक्तभाष्यग्रन्थमेव पुरस्कृत्य वक्ष्यमाणवाक्यानां वर्णान्तरत्वतात्पर्येण व्याख्यानं प्रत्यादेश्यम् । 


एकं ब्रह्मास्त्रमादाय नान्यं गणयतः क्वचित् । आस्ते न धीरवीरस्य भङ्गः सङ्गरकेलिषु ॥


इति न्यायात् । तथाहि स्पर्शा यमा अनुनासिकाः स्वात्परेषु स्पर्शेष्वनुनासिकेषु इति प्रातिशाख्ये स्वपदस्य वर्गाद्यक्षरचतुष्टयपरत्वात् तत्परेष्वनुनासिकस्पर्शे वर्गान्त्यवर्णेषु अनुनासिकत्वविशिष्टाः स्पर्शाः प्रथमाद्याः यमसंज्ञा भवन्तीत्यर्थस्य स्पष्टतया स्पर्शसंज्ञया च कुत्र वर्णान्तरत्वे तात्पर्यम् । एतेन प्रदोध्रुवच्छ्वशुषु इत्यत्रोष्मसंज्ञक ‘शकारादिषूप ‘स्थानीयस्य छकारादेर्यमवारणाय प्रवृत्तेन स्पर्शस्योष्मप्रकृतेः परस्ताद्यमापत्तिः इति सूत्रे परस्ताच्छब्ददर्शनाद्वर्णान्तरत्वमित्यपास्तम् । परस्ताच्छब्देनागमत्वमात्रलाभेऽपि वर्णान्तरत्वस्य लाभे उक्तिसम्भवाभावात् । यदपि नारदीयशिक्षायाम् - 


अनन्त्यश्च भवेत्पूर्वी ह्यन्त्यश्च परतो यदि । तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोः ॥


सवर्णः सदृशः । द्वित्वमपि विवक्षितम् । यज्ञ इत्यादौ जकारद्वयसत्त्वेऽपि ज्यया अत्र वसवो रन्तिदेवा इत्यादौ जकारद्वयाभावादिति तद्व्याख्यातार इति, तदप्यकिञ्चित्करम् । आगमे आगमिवृत्तिवर्णत्वव्याप्यजात्यभाववत्वरूपस्य वर्णान्तरत्वस्य ततोऽनवगमात् सावर्ण्यस्य गुणभेदेनैव निर्वाहात् । औदव्रजिसूत्रेऽपि गुणत्वस्यैव लाभात् । अशरीरं यमं प्राहुः इति गौतमशिक्षायाश्वार्थस्तैरेवोक्तः । अशरीरं स्वरभक्त्यादिवद् व्यञ्जकलिपिविशेषशून्यम् । लक्षणवशेनैव तदीयस्थलविशेषनिश्चयसम्भवाल्लिपिसम्प्रदायप्रवर्त्तकाचार्यैः स्वरभक्तेरिव यमस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेति यावत् । रलयोरूष्मणि परे मध्ये स्वरभक्तिः इति शिक्षादिप्रसिद्धेः । 


यत्र तु नैवंविधलक्षणेन स्थलावधारणं कर्तुं शक्यते, तत्रागत्या लिप्यन्तरं प्रवर्तितम्, यथा विसर्गादाविति । न त्वेतावता वर्णान्तरत्वसिद्धिः । अन्वयदृष्टान्ते वर्णान्तरत्वेऽपि व्यतिरेकदृष्टान्ते तदभावात् । अन्यथा तदनुक्त्या शिक्षादौ विभागस्य न्यूनत्वापत्तेः । यदपि पाणिनीयशिक्षायाम् । 


त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ 


स्वरा विंशतिरेकश्च स्पर्शाः स्युः पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ 


अनुस्वारविसगाँ चक पौ चापि पराश्रयौ । दुःस्पृष्टश्चेति विज्ञेया लृकारः प्लुत एव च ॥


तत्र अइउऋवर्णानां ह्रस्वदीर्घप्लुतभेदात् द्वादश, लृकारस्य ह्रस्व एव, एचां दीर्घप्लुतभेदादष्टाविति अचामेकविंशतिः । स्पर्शाः कादयो मावसानाः । यरलवशषसहेत्यष्टौ । यमाश्चत्वारः । प्रथमत्वद्वितीयत्वतृतीयत्वचतुर्थत्वोपाधिभेदात् । अनुस्वारादयश्चत्वारः स्पष्टाः । दुःस्पृष्टस्तु बाह्वच्ये प्रसिद्धः । एवं त्रिषष्टिः, लृकारस्य प्लुतत्वसम्भवात्तेन सह चतुःषष्टिरिति । 


अत्र यमानां पृथग्गणनात् स्पष्टमेव वर्णान्तरत्वमिति तदप्यसत्, न ह्यत्र एकसङ्ख्येयवृत्तिवर्णत्वव्याप्यजात्यभाववत्त्वं सङ्ख्येयान्तरस्य नियतम् । हस्वौद्यकारादौ तादृश्या अत्वादिजातेः सत्त्वात् । तथा च कुत्रचिज्ञ्जातिभेदेन कुत्रचिद् गुणभेदेन गणनस्यात्र दर्शनात् यमाशेऽपि कादिवृत्तिजात्यभावे प्रामाण्यमस्त्येवेति वक्तुमशक्यत्वात् । 


न चैवं यादीनामष्टत्वानुपपत्तिः, यवलानां गुणभेदेन द्वैविध्यादिति वाच्यम् । तत्रोभयसाधारणजातेरेव विभाजकत्वेनाभिमतत्वात् । स्वतन्त्रेच्छस्य महर्षेर्नियोगप्रत्यनुयोगानर्हत्वात् । तात्पर्यस्य चोक्तरीत्या विघटितत्वात् । तस्माद्विवरण मतमेव रमणीयमिति सूक्ष्ममीक्षणीयम् ॥


॥ सिद्धान्तकौमुदी ॥

मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥

॥ बालमनोरमा ॥

तदेवमनुनासिका नव अचः, अननुनासिकाश्च नवेत्यष्टादशविधत्वमेकैकस्याऽच इति स्थितम् । अथाऽनुनासिकसंज्ञामाह - मुखनासिका । मुखसहिता नासिका मुखनासिका । शाकपार्थिवादित्वात्सहितपदस्य लोपः । उच्यते उच्चार्यते इति वचनः । कर्मणि ल्युट् । मुखनासिकया वचन इति `कर्तृकरणे कृता बहुलम्' इति तृतीयासमासः । तदेतदाह - मुखसहितेत्यादिना । मुखं च नासिका चेति द्वन्द्वस्तु न । तथा सति `द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इति समाहारद्वन्द्वनियमात् `स नपुंसक'मिति नपुंसकत्वे `ह्रस्वो नपुंसके प्रातिपदिकस्य' इति ह्रस्वत्वे `मुखनासिकवचन' इत्यापत्तेः । ननु अष्टादश भेदाः किं सर्वेषामचामविशिष्टाः ? नेत्याह - तदित्थमिति । इयता प्रबन्धेन यत् अचां भेदप्रपञ्चनं तत् - इत्थम् = वक्ष्यमाणप्रकारेण व्यवस्थितं वेदितव्यमित्यर्थः । अष्टादश भेदा इति । अष्टादश प्रकारा इत्यर्थः । दीर्घाभावादिति । तथा च उदात्तलृकारदीर्घः, अनुदात्तलृकारदीर्घः, स्वरितलृकारदीर्घः । ते च अनुनासिकास्त्रयः अननुनासिकास्त्रय इति षड्‌भेदानामभावे सति ह्रस्वप्रपञ्चः प्लुतप्रपञ्चश्च ,ड्विध इति लृकारस्य द्वादशविधत्वमेवेति भावः । लृकारस्य दीर्घाऽभावे होतृ लृकार इत्यत्र सवर्णदीर्घे कृते होतॄकार इति ॠकारस्यैव अकस्सवर्ण इति सूत्रे च भाष्योदाहरणमेव प्रमाणम् । ह्रस्वाभावादिति । यद्येचो ह्रस्वाः स्युस्तर्हि वर्गसमाम्नाये त एव लाघवात् अ इ उ इत्यादिवत् पठ्येरन्, नतु दीर्घाः, गौरवात् । अत एचो ह्रस्वा न सन्तीति विज्ञायते । एवं च ह्रस्वप्रपञ्चषड्भेदाभावाद्द्वादशविधत्वमेवैचामिति भावः ॥


॥ तत्त्वबोधिनी ॥

मुखनासिका । मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे मुखनासिकमिति स्यादत आह - मुखसहितेति । नासिकयोच्चार्येति । फलितार्थकथनमिदम् । उच्यतेऽनेनेति वचनं, मुखनासिका वचनमस्यास्तीति विग्रहः ॥


॥ बृहच्छब्देन्दुशेखरः ॥

कौमुदीमूलम् - मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादशभेदाः । ऌवर्णस्य द्वादश, तस्य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्वाभावात् ॥


मुखनासिकावचनोऽनुनासिकः । उच्यतेऽसौ वचनः, बाहुकात्कर्मणि ल्युट् । मुखसहिता नासिका इति विग्रहः । तया वचन इति - 'साधनं कृते'ति समासस्ताह- मुखसहितेत्यादि । मुखेति किम् ? यमानुस्वराणामेव प्रसज्येत, एवञ्चाङोऽनुनासिक इत्यनुस्वारः स्यात् । नासिकेति किम् ? शक्तेत्यादौ अनुदात्तोपदेश ६.४.३७ इत्यादिना कलोपो मा भूत् ।


अष्टादशेति । यद्यपीदं न व्यक्तिपक्षे, व्यक्तीनामानन्त्यात्तथाप्यष्टादशधर्मवत्त्वमकारजातीयादेरित्यर्थः । ह्रस्वत्वादीनां तत्तत्समानाधिकरणोदात्तत्वानुनासिकत्वादीनाञ्च भेदमाश्रित्येदम्बोद्ध्यम् । एवमग्रेऽपि ।


ऌवर्णस्येति । विवृतस्येत्यर्थः । तेन ऌति ऌ वा इति विधेयस्येषत्स्पृष्टस्य दीर्घत्वेऽपि न क्षतिः । दीर्घाभावादिति । अत एव तुल्यास्यसूत्रे भाष्ये ऌति सवर्णे इत्यनेन पक्षे द्विलकारकाभावे अकः सवर्णे ६.१.१०१ इति दीर्घत्वे होतॄकार इति ॠकारघटितप्रयोगः सङ्गच्छते ।


ह्रस्वाभावादिति । इदम् एओङ् इत्यादौ भाष्ये स्पष्टम् । गानरोदनादौ चतुर्मात्रार्धमात्रादीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच्च नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणं - तस्या लोकेऽपि सत्त्वात् ।


॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥

वृत्तिः - मुखनासिकमावचनं यस्य वर्णस्य सोऽनुनासिकसञ्ज्ञको भवति । अत्र ‘मुखनासिकावचनः’ इति उद्देश्यपदम्, ‘अनुनासिकः’ इति विधेयपदम् ।


खन्यते = अवदीर्य्यतेऽन्नादिकमनेनेति मुखम् । अत्र “डस् खनेर्मुट् चोदात्तः” इत्यनेन ‘खनु अवदारणे’ इत्यस्माद्धातोः डस्प्रत्यये मुट् चागमे मुखमिति । ‘णासृ शब्दे’ इत्यतः “नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः” इत्यनेनाचि प्रत्यये नासते = प्राणवायोः प्रवेशनिर्गमाभ्यां शब्दं करोतीति नासा । तस्मात् “सञ्ज्ञायां कन्” इति सूत्रेण अत्यन्तस्वार्थिके वा कनि नासिकेति यद्वा नासतेर्ण्वुलि नासिकेतियद्वा ‘नासते’ इति विग्रहे णासु शब्दे इत्यस्माद्धातोः कर्तरि ण्वुलि नासिकेति । उच्यते = उच्चारणजन्यज्ञानविषयीक्रियते वर्णोऽनेनेति करणे ल्युटि वचनमिति । यद्वा उच्यतेऽसौ इति बाहुलकात् कर्मणि ल्यटि वचनमिति । 


मुखेन सहिता मुखसहिता “कर्तृकरणे कृता बहुलम्” इति सूत्रेण समासे मुखसहिता चासौ नासिका चेति “विशेषणं विशेष्येण बहुलम्” इति सूत्रेण कर्मधारयसमासे “वर्णो वर्णेन” इति सूत्रे समानाधिकरणाधिकारे ‘शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च’ इति वार्त्तिकेन सहितेत्यस्य लोपे मुखनासिकेति । मुखनासिका वचनमुच्चारणमस्य वर्णस्येति बहुव्रीहिणा मुखनासिकावचनो वर्णोऽनुनासिकसञ्ज्ञ इत्यर्थः । अस्मिन् बहुव्रीहिसमासे वचनशब्दः करणल्युडन्तः ।


मुखसहिता नासिका मुखनासिका, तया वचनः मुखनासिकावचनः । अस्मिन् विग्रहे वचनशब्दो बाहुलकात् कर्मल्युडन्तः । अत्र अधिकरणकारकस्यापि स्थाल्यादेः करणत्वेन विवक्षायां स्थाल्या पच्यते तण्डुल इत्यादिवदत्रापि करणत्वेन विवक्षितत्वात् तृतीयान्तस्य मुखनासिकापदस्य वचनपदेन सह “कृत्यैरधिकार्थवचने” इति सूत्रपठितेन ‘साधनं कृता’ इति वार्त्तिकेन समासे मुखनासिकावचन इति सिध्यति । यद्यपि “कर्तृकरणे कृता बहुलम्” इति सूत्रेणापि समासः कर्तुं शक्यते, तथापि ‘पादहारकः’ इत्यत्र कर्मणि ण्वुल्प्रत्ययात्तेन हारकशब्देन सह पादाभ्यामिति पञ्चम्यन्तस्य एवं सप्तम्यन्तस्य च कृदन्तेन सह समासविधानाय वार्त्तिकारम्भस्य साफल्यं दर्शयितुं वार्त्तिकेन समासोऽभिहितः ।


मुखसहितनासिकयोच्चार्य्यमाणोऽनुनासिक इति तु उच्यतेऽसौ वचन इति कर्मणि ल्युटोऽभिप्रायेण फलितार्थपरम् मुखनासिकं वचनमस्य मुखोपसहिता वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः इत्यादिभाष्यात्करणसाधनस्यैकवचनशब्दस्य बहुव्रीहेश्च प्रतीतेः । 


मुखं च नासिका चेति द्वन्द्वस्तु नात्र, “द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्” इति सूत्रेण समाहारनियमात् “स नपुंसकम्” इति सूत्रेण नपुंसकत्वे “ह्रस्वो नपुंसके प्रातिपदिकस्य” इति सूत्रेण ह्रस्वत्वे मुखनासिकं वचनं यस्य स मुखनासिकवचनः इति प्राप्नोति, प्रयुक्तञ्च सूत्रकृता मुखनासिकावचनः इति । तत्र सौत्रत्वाद् वा निपातनत्वाद् वा सदीर्घतथाप्रयोगो मन्तव्यः । अथवा यथोक्तं भगवता भाष्यकृता ‘मुखनासिकामावचनम् योऽयं मुखनासिकावचनः। आ =ईषद् वचनमावचनमिति । किञ्चिन्मुखवचनं किञ्चिन्नासिकावचनम्’ । ‘भागस्य मुखेन भागस्य नासिकया चोच्चरणादीषत्त्वम् । इदञ्च पूर्वपरयोर्भागयोर्मध्ये एको भागो मुखेनोच्चार्यते द्वितीयस्तु नासिकया । तत्र नासिकावचनभागोपरागवशान्मुखवचनभागस्यापि नासिकावचनवद्भानम् । यथा सँय्यन्तेत्यादौ अनुनासिकयकाराद्युपरागादकारस्याप्यनुनासिकत्वेन प्रतीतिरिति मतमाश्रित्योक्तम् । यदा तु मुखस्य नासिकायाश्चान्तरालवर्त्तिस्थानान्तरमेवैतदुच्चारणे निमित्तम्, तदा मुखोपसंहिता नासिकेति समासः’ । 


ननु मुखनासिकावचनमस्येति विग्रहोऽसङ्गतः, वचनशब्दस्य नासिकाविशेषणतया ‘पचनी, स्थाली’ इत्यत्रेव ङिबापत्तेरिति चेन्न, प्रकृते वचनस्यैव विशेष्यत्वेन विवक्षितत्वात्, मुखनासिकेत्यस्य मुखनासिकास्थानमित्यर्थकत्वात्, पदसंस्कारपक्षे प्रथमम् ‘उच्यतेऽनेनेति वचनम्’ इति ‘सामान्ये नपुंसकम्’ इत्यनेन क्लीबे साधयित्वा पश्चात् मुखनासिकापदेन सामानाधिकरण्येऽपि बहिरङ्गत्वात् ङीबभावः साध्यते । 


यद्यपि नासिकाशब्दसामानाधिकरण्यात्स्त्रीत्वविशिष्टस्यैव करणत्वेन ‘पञ्चमी स्थाली’ इत्यत्रेव ल्युटि ङीपि “नद्यृतश्च” इति सूत्रेण कपि ‘मुखनासिकावचनीकः’ इति प्राप्नोति । तस्माद्वचनशब्दे बाहुलकात्कर्मणि ल्युट्, अन्तरङ्गात्वाच्च तत्पुरुषसमास एवाङ्गीकार्य इति नागेशमतमेव समीचीनमिति प्रतीयते, तथापि पदसंस्कारपक्षे मुखनासिकापदनिरपेक्षं वचनमित्येतत्पदं लिङ्गसर्वनामनपुंसकाश्रयेण संस्क्रियते । पश्चात् स्त्रीत्वस्य पदान्तरसम्बन्धेन प्रतीयमानत्वाद् बहिरङ्गत्वात् ङीप्प्रत्ययो न भवति । 


वाक्यसंस्कारपक्षेण दोषदानं न समीचीनम् । ‘पक्षान्तरैरपि परिहारा भवन्ति’ इति ऋलृक् - सूत्रस्थभाष्योक्तेः । प्रत्युत कर्मसाधनपक्षाङ्गीकारे कर्मणि ल्युटो बाहुलकलभ्यत्वाच्छास्त्रबोधितार्थव्यभिचारकल्पनप्रयुक्तं गौरवं गले पततीति सुधीभिर्विभावनीयम् । 


यद्यपि विलम्बेनोपस्थितेऽन्यपदार्थे वृत्तिकल्पनप्रयुक्तं गौरवं भाष्यकारमते, तेन निषादस्थपतिन्यायविरोधः । नागेशमते तु लौकिकवाक्ये पदार्थस्मरणेन तत्पुरुषलभ्यार्थस्योद्बुद्धसंस्कारेण शीघ्रोपस्थितिकत्वात्तत्पुरुषलभ्येऽर्थे वृत्तिकल्पनप्रयुक्तलाघवमस्ति इति वक्तुं शक्यते । तथा च निषादस्थपतिन्यायसामञ्जस्यमपि लभ्यते, किन्त्वनुशासनप्राप्तस्य करणल्युटो बाहुलकात्कर्मणि कल्पनायां शास्त्रबाधकृतापराधः शिरस्यापतति । अतश्च करणसाधनपक्ष एव श्रेयानिति । 


अनुनासिकत्वस्य लोकप्रसिद्धतया महासञ्ज्ञानुरोधात् अनुशब्दस्य लक्ष्यानुरोधेन ‘अभिहत्य व्यञ्जितः’ इत्यर्थे लक्षणया नासिकामभिहत्य वायुना व्यञ्जितो वर्णोऽनुनासिक इति योगाश्रयणेन वा सिद्धे इदं सूत्रं स्पष्टार्थम् । अनु = पश्चात् = स्थानान्तरेणोच्चारणानन्तरं नासिकां गतोऽनुनासिक इत्यर्थस्तु न ञमङणनानां कण्ठादिस्थानसहितनासिकयोच्चारणेन, यमानुस्वाराणां केवलनासिकयैव वोच्चारणेन चानुनासिकत्वसिद्ध्यनापत्तेः । 


अत्र मुखग्रहणं किम् ? यमानुस्वाराणामेव मा भूदिति भाष्यम् । अस्यार्थः - नासिकावचनः एतावति सूत्रे केवलं नासिकया उच्चार्यमाणानां यमानुस्वाराणामेव अनुनासिकसञ्ज्ञा प्राप्नोति, ‘अनुस्वारयमानाञ्च नासिका स्थानमिष्यते’ इति शिक्षावचनेन तेषां नासिकास्थानस्य निश्चयात् । तथा च ‘अभ्र आं’ इत्यत्र “आङोऽनुनासिकश्छन्दसि” इति सूत्रेण अनुनासिकपदाद् अनुस्वारस्योक्तरीत्या निधानाद् अनुनासिकरूपस्य श्रवणं न स्यात्, अतो मुखग्रहणम् । अनुस्वारस्य नासिकामात्रं स्थानमिति नास्य प्रवृत्तिः । 


ननु ‘नासिकावचनः’ एतावत्पदेनैव प्रासादवासिन्यायेन मुखवचनानामपि ग्रहणसम्भवात्तद्व्यर्थमेव । ननु चानुनासिकसञ्ज्ञा यमानुस्वाराणामपि प्राप्नोति । अनुवादे यमानुस्वाराणामसम्भवात्, विधौ च स्थानिनो मुखनासिकावचनत्वात् तदन्तरतमत्वेन मुखनासिकावचनस्यैवादेशत्वात् केवलनासिकावचनानां यमादीनामान्तरतम्याभावादेव न प्राप्नोति । अत एव भगवान् भाष्यकारस्तु प्रासादवासिन्यायाश्रयणेन मुखग्रहणं प्रत्याचख्यौ । तथाहि - यथा लोके ये प्रासादे वसन्ति तेषां प्रासादवासिनमानय इत्युक्ते आनयनम्, ये भूमौ वसन्ति तेषां भूमिवासिनमानय इत्युक्तौ आनयनं भवति , ये च भूमौ प्रासादे च उभयत्र वसन्ति तेषां प्रासादवासिपदेन भूमिवासिपदेन च ग्रहणं दृष्टम्, तथैवात्रापि ये ञमङणनादयः वर्णा मुखवचना नासिकावचनाश्चभवन्ति, ते मुखवचनेनापि नासिकावचनेनापि च ग्रहिष्यन्ते । अत एव ‘नासिकावचनोऽनुनासिकः’ इत्येतावन्मात्रे सूत्रे सत्यपि स्यादेव तेषामनुनासिकसञ्ज्ञा, केवलनासिकास्थाना ये यमानुस्वारास्तेषामनुनासिकसञ्ज्ञायां सत्यामपि नास्ति किञ्चित् प्रयोजनम्, असत्यामपि न कश्चिद्दोष इति तेषामस्तु । तदुक्तं भाष्यकृता - ‘नैव दोषो नैव प्रयोजनम्’ इति । 


‘परमत्र प्रदीपकारमनुसृत्य न्यासपदमञ्जरीकारा एवमाहुः - अत्रानुनासिकविषये त्रीणि दर्शनानि सन्ति । पूर्णोऽप्यनुनासिकवर्णो मुखेन नासिकया चोच्चार्यते - इत्येकः पक्षः । तस्य पूर्वभागो मुखेन परभागो नासिकया - इति द्वितीयः पक्षः । पूर्वभागो नासिकया परभागो मुखेनेति च तृतीयः पक्षः । एषु पक्षेषु प्रथमपक्षे एव प्रासादवासिन्यायावतारसम्भवात् तस्मिन्नेव पक्षे मुखग्रहणप्रत्याख्यानसम्भवो न तु अन्ययोः पक्षयोः । तयोः पक्षयोः भागस्यैव मुखेन भागस्यैव च नासिकयोच्चारणात्, न ते मुखवचनपदेन न वा नासिकावचनपदेन ग्रहीतुं शक्यन्ते । अतस्तत्र पक्षयोः प्रासादवासिन्यायावतारो न सम्भवति, येन मुखग्रहणं प्रत्याख्यायेत । मुखग्रहणं पूर्वतः सूत्रकारस्य चायमेव पक्षः (भागो नासिकया, भागो मुखेन च) अभिमत आसीदिति निर्धारयितुं शक्यते’ ।


अनुनासिकसञ्ज्ञाप्रदेशाः -


1. आङोऽनुनासिकश्छन्दसि - (6-1-124)


आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । उदाहरणम् - अभ्र आँ अपः, गभीर आँ उग्रपुत्रे । 


2. अत्रानुनासिकः पूर्वस्य तु वा - (8-3-2)


अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा स्यात् । उदाहरणम् - सँस्स्कर्ता, संस्स्कर्ता ।  


3. अणोऽप्रगृह्यस्यानुनासिकः - (8-4-57)


अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् । उदाहरणम् - दधिँ, दधि । 


4. यरोऽनुनासिकेऽनुनासिको वा - (8-4-45)


यरः पदान्तस्यानुनासिके परेऽनुनासिको वा । उदाहरणम् - वाङ्नयति, वाग्नयति, । 


अनुवादप्रदेशाः -


1. उपदेशेऽजनुनासिक इत् - (1-3-2)


उपदेशेऽनुनासिकोऽजित्सञ्ज्ञः स्यात् । उदाहरणम् - एधँ - एधते, सुँ - रामः । 


2. अनुनासिकस्य क्विझलोः क्ङिति - (6-4-15)


अनुनासिकान्तस्योपधाया दीर्घः स्यात् क्वौ झलादौ च क्ङिति । उदाहरणम् - प्रशान्, शान्तः, शंशान्तः ।  


3. च्छ्वोः शूडनुनासिके च - (6-4-19)


सतुक्कस्य छस्य वस्य च क्रमात् श् ऊठ् एतावादेशौ स्तोऽनुनासिके क्वौ झलादौ च क्ङिति । उदाहरणम् - विश्नः, स्योनः । 


4. अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति - (6-4-37)


अनुनासिकान्तानामनुदात्तोपदेशानाम्, अनुनासिकान्तां तनोत्यादीनाम्, वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । उदाहरणम् - यतः, यतिः । गतः । 


5. विड्वनोरनुनासिकस्यात् - (6-4-41)


विड्वनोः परयोरनुनासिकस्य आत् स्यात् । उदाहरणम् - अब्जाः, विसखाः । 


6. नुगतोऽनुनासिकान्तस्य - (7-4-85)


अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् यङ्यङ्लुकोः । उदाहरणम् - यंयम्यते, यंयमीति, जङ्गम्यते, जङ्गमीति ।   


7. अनुनासिकात्परोनुस्वारः - (8-3-4)


अनुनासिकाभावपक्षे रोः पूर्वस्मात् परोऽनुस्वारागमः स्यात् । उदाहरणम् - पुंस्कोकिलः ।  


॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥

we will add data soon.

॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥

कौमुदी - मुखनासिकवचनोऽनुनासिकः (१.१.८) मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् । 


मनोरमा - मुखं च नासिका चेति विग्रहे प्राण्यङ्गत्वादेकवद्भावे ‘मुखनासिकम्’ इति स्यात् । अत आह - मुखसहितेति ।


इस सूत्र का कौमुदी में जो अर्थ किया गया 'मुखसहितनासिकया' इत्यादि उसके विषय में मनोरमाकार कहते हैं कि सूत्रस्थ 'मुखनासिकावचन:' इस समस्त पद के घटक 'मुखनासिका' में यदि 'मुखं च नासिका च' ऐसा द्वन्द्व समास माना जाएगा तो इन्द्र घटक दोनों पद प्राणी के अङ्गवाची है तो 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इस पाणिनीय सूत्र के नियमानुसार एकवद्भाब हो जाएगा तो 'मुखनासिकम्' ऐसा बनेगा उसका जब 'वचन' शब्द के साथ समास होगा तो 'मुखनासिकवचन:' ऐसा रूप निष्पन्न होने लगेगा । ‘नासिका' के ककरोत्तरवर्ती आकार सुनाई नहीं पड़ेगा । अतः कौमुदी में ‘मुखसहितनासिकया' ऐसा अर्थ प्रदर्शन किया । इस अर्थ प्रदर्शन से यह सूचित हुआ कि 'मुखनासिका' में मुखसहिता नासिका = मुखनासिका ऐसा मध्यमपदलोपी समास हुआ है । 


॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥

मुखनासिका० (१.१.८) । उच्यतेऽसौ वचनः । बाहुलकात् कर्मणि ल्युट् । मुखसहिता नासिकेति विग्रहः । तया वचन इति 'साधनं कृता' (भा० इ०) इति समासः, तदाह - मुखसहितेत्यादि ।


तदित्थम् । अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः । वर्णस्य द्वादश; तस्य दीर्घाभावात् । एचामपि द्वादश; तेषां हस्वाभावात् । मुखेति किम् ? यमानुरवाराणामेव प्रसज्येत। एवन 'आङोऽनुनासिकः' (६.१.१२६) इत्यत्रानुस्वारः स्यात् । नासिकेति किम् ? 'शक्ता' इत्यादी 'अनुदात्तोपदेश' (६.४.३७) इत्यादिना कलोपो मा भूत् ।


अष्टादशेति । यद्यपीदं न व्यक्तिपक्षे, व्यक्तीनामानन्त्यात्; तथाप्यष्टादशधवत्वमकारजातीयादेरित्यर्थः । ह्रस्वत्वादीनां तत्तसत्समानाधिकरणोदात्तत्वानुनासिकत्वा- वीनाच भेवमाश्रित्येवं बोद्धधम् । एवमग्रेऽपि ।


मुखनासिका इति । मुखञ्च नासिका चेति द्वन्द्वे प्राण्यङ्गत्वात् 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इत्यनेन एक्वद्भावे नपुंसक हस्वे च कृते मुखनासिकमिति निर्देशः स्यादतः आह-मुखसहितेति । मध्यमपदलोपिसमासे आश्रीयमाणे मध्यमपदत्वात् सहितस्य लोपे मुखनासिकाशब्दः सिद्धः । 'वचन' इत्यत्र वाहुलकात् कर्मणि ल्युट् । तया मुखनासिकया वचनः । अधिकरणकारकस्यापि स्थाल्यादेः करणत्वेन विवक्षायां स्थाल्या पच्यते तण्डुल इत्यादिवदत्रापि करणत्वेन विवक्षित्वात् तृतीयान्तस्य मुखनासिकापदस्य वचनपदेन सह 'कृत्यैरधिकार्थवचने' इति सूत्रपठितेन 'साधनं कृता' इति वार्त्तिकेन समासे 'मुखनासिकावचन' इति सिध्यति। यद्यपि 'कर्तृकरणे कृता बहुलम्' इति सूत्रेणापि समासः कर्तुं शक्यते, तथापि पादहारक इत्यत्र कर्मणि ण्वत्प्रत्ययात्तेन हारकशब्देन सह पादाभ्यामिति पञ्चम्यन्तस्य एवं सप्तम्यन्तस्य च कृदन्तेन सह समामविधानाय वार्तिकारम्भस्य साफल्यं दर्शयितुं वार्त्तिकेन समासोऽभिहितः ।


मुखसहिता नासिकेति मुखद्वितीया नासिकेत्यस्योपलक्षणम् मध्यमपदलोपिसमासस्य नित्यत्वेन येन सह समास इष्टः तेन समं विग्रहप्रदर्शनेन समासाभावस्य प्रतीतेः दुष्टत्वात् । तथाच मुखसहिता नासिकेति समासस्य मुखद्वितीया नासिकेति विग्रह उचितः । अथवा मुखशब्दस्यैव मुखनहिते लक्षणेति मध्यमपदलोदिसमासो नावश्यकः । 'नासिकावचनः' एतावदेव सूत्रमस्तु, कि मुखग्रहणेन ? इत्याह-मुखेति । तावति सूत्रे केवलं नासिकमा उच्चार्यमाणानां यमानुस्वाराणामेव अनुनासिकसंज्ञा प्राप्नोति; 'अनुस्वार- यमानाश्च नासिका स्थानमिष्यते' इति शिक्षावचनेन तेषां नासिकास्थानस्य निश्चयात् । तथाच अभ्र आं इत्यत्र 'आङोऽनुनासिक' इत्यनेन अनुनासिकपदात् अनुस्वारस्योक्तरीत्या : विधानात् अनुनासिकरूपस्य श्रवणं न स्यात्, अतो मुखग्रहणम् । अनुस्वारस्य नासिकामात्र स्थानमिति नास्य प्रवृत्तिः ।


न च ये प्रासादे वसन्ति तेषां 'प्रासादवासिनमानय' इत्युक्ते आनयनम्, ये भूमौ वसन्ति तेषां 'भूमिवासिनमानय' इत्युक्ती आनयनं भवति, ये च भूमी प्रसादे च उभयत्र वसन्ति तेषां प्रासादवासिपदेन भूमिवासिपदेन च ग्रहणं दृष्टम्, तथैवात्रापि मुखनासिका- भ्यामुच्चार्यमाणो वर्णोऽपि नासिकया उच्चार्यमाणो भवितुमर्हतीति यमानुस्वाराणामेव अनुनासिकसंज्ञायाः आपादनं मूलोक्तं कथं सगच्छतामिति वाच्यम्; तादृशन्यायस्यात्र अनादरेण तदुक्तेः सामञ्जस्यात् । टिप्पण्यां न्यायमबुध्वेतिपदप्रयोगोऽनौचित्य मावहति ।


सूत्रे नासिकाग्रहणाभावे मुखेनोच्चार्यमाणानां ककारादीनामनुनासिकसंज्ञायां शक्तत्यादौ 'अनुदात्तोपदेश' इत्यादिना ककारस्यापि अनुनासिकत्वेन लोपः स्यादतो नासिकाग्रहणम् | ‘शक्त इत्यादी' इति पाठ: । 'शक्तेत्यादो' इतिपाठे तु शक्धातोः कः प्रत्यये टापि, अथवा कप्रत्ययान्तस्य सम्बोधने तद्रूपं बोध्यम् ।


व्यक्तिपक्षे व्यक्तीनामानन्त्यात् अकारादीनामष्टादशविधत्वं कथम् ? इत्याशङ्कते यद्यपीति । तद्वृत्तिधर्माणां जातिरूपाणामष्टादशविधत्वमादाय तथोक्तिरिति नानी- चित्यम् । जातिपक्षेऽपि व्यक्तिपक्षे इव जातिभिरेवाष्टादशविधत्वस्योपपादनीयतया पक्षद्वयेऽपि समाधान तुल्यम् इति यद्यपीत्यादिना पक्षविशेषे व्यक्तिपक्षमाश्रित्य प्रवृत्तो ग्रन्थश्चिन्त्य इति कस्यचित् चिन्ता मुधैव । जातिपक्षे जातेः प्राधान्यात् 'प्राधान्येन व्यपदेशा भवन्ति' इति नियमेन जातिनिबन्धनोऽष्टादशविधत्वव्यवहारः सुगमः । व्यक्तिपक्षे तु व्यक्तेः प्राधान्यात् व्यक्तिनिबन्धनोऽष्टादशविधत्वव्यवहारः 'अणुरपि विशेषोऽध्यवसायकरः' इत्यभियुक्तोक्त्या कथम् ? इति शङ्काया आञ्जस्येन उपपाद्यमानायाः ग्रन्थेन समाहितत्वादिति चिन्तनीयम् ।


न च स्वसमभिव्याहृतपदार्थत। वच्छेदकव्याप्य मिथोविरुद्धयावद्धर्मबोधनं विधापार्थः । यथा नवविधं द्रव्यमत्र स्वसमभिव्याहृतं पदं द्रव्यपदं तदर्थो द्रव्यं तत्र या पदार्थता तदवच्छेदकं द्रव्यत्वं तद्व्याप्योऽल्पदेशवृत्तिः मिथो विरुद्धो यावान् धर्मः पृथिवीत्वं जलत्वं तेजस्त्वमित्यादिः, तेषां बोधनं जायते । घटत्वपटत्वधर्माधिकबोधने विवक्षिते एकादश विधत्वं द्रव्यस्य स्यादतो मिथोविरुद्धेति निवेशः । तथा च घटत्वपटत्वयोः पृथिवीत्वेन सममेकत्र घटादी समावेशात् घटत्वपृथिवीत्वयोः परस्परं विरोधाभावात् न तमादाय एकादशविधत्वं वक्तुं शक्यम् ।


एवम् 'अकारोऽष्टादशविधः' इत्यत्रापि स्वसमभिव्याहृतं पदम् अकारपदम्, तदर्थः अकारस्तदर्थतावच्छेदकमका रत्वं तद्वयाप्यं परस्परविरुद्धो यावान् धर्मः- उदात्तत्वम् अनुदात्तत्वं स्वरितत्वं ह्रस्वत्वं दीर्घत्वं प्लुतत्वम् अनुनासित्वं निरनुनासिकञ्चेति अष्टसंख्याक एव, तथा च कथमष्टादशविधत्वमित्यत आह - तत्समानेति । उदात्तत्वसमानाधिकरणानुनासिकत्वसमानाधिकरण ह्रस्वत्वम्, उदात्तत्वसमानाधिकरणानुनासिकत्वसमानाधिकरणदीर्घत्वम्, उदात्तत्वसमानाधिकरणानुनासिकत्वसमानाधिकरणप्लुतत्वम् । एवम् अनुदात्तत्वसमानाधिकरणानुनासिकत्वसमानाधिकरणह्रस्वत्वम् एवमेव दीर्घत्वं प्लुतत्वञ्च । तथा स्वरितत्वसमानाधिकरणानुनासिकत्वसमानाधिकरणहस्वत्वम्, एवमेव दीर्घत्वं प्लुतत्वञ्चेति नवभेदाः सङ्कलनया जाताः । एषु नवसु भेदेषु अनुनासिकत्वसमानाधिकरणस्थाने निरनुनासिकत्वसमानाधिकरणेति प्रक्षेपे नव भेदाः । उभयोः सङ्कलनायाम् अष्टादश धर्मा मिथोविरोधिनः, अत्वधर्मेण व्याप्याश्च - इति एषां बोधनं युक्तमिति अष्टादशविधत्वं नानुपपन्नम् ।


लृवर्णस्येति । विवृतस्येत्यर्थः । तेन 'लतिल वा' (का० वा०) इति विधेयस्ये- पुष्टस्य दीर्घत्वेऽपि न क्षतिः । दीर्घाभावादिति । अत एव 'तुल्यास्य' (१.१.९) सूत्रे भाष्ये 'लति सवर्णे' (का०वा०) इत्यनेन पक्षे द्विलकारकाभावे 'अकः सवर्णे' (६.१.१०१) इति दीर्घत्वे ' होतृकारः' इति ऋकारघटित प्रयोगः सङ्गच्छते । ह्रस्वाभावादिति । इदम् 'एओङ' ( मा०सू०३) इत्यादी भाष्ये स्पष्टम् । 


गानरोदनादौ चतुर्मात्राऽर्धमात्रादीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच्च नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणम्; तस्या लोकेऽपि सत्वात् ॥


एवमग्रेऽपि = 'लृवर्णो द्वादश' इत्यत्रापि इत्थमेवानुसन्धेयम् । उदात्तत्वसमाना- धिकरणानुनासिकत्वसमानाधिकरण हस्वत्वम्, उदात्तत्वसमानाधिकरणानुनासित्वसमा- नाधिकरणप्लुतत्वम् एवम् अनुदात्तत्वसमानाधिकरणानुनासिकत्वसमानाधिकरण ह्रस्वत्वम्, तत्समानाधिकरणप्लुतत्वम् एवमेव स्वरितत्वसमानाधिकरणानुनासिकत्वसमानाधिकरणह्रस्वत्वम्, तथैव तत्समानाधिकरणप्लुतत्वमिति षड् धर्माः । इत्थं षट्स्वपि अनुनासिक पदमपहाय निरनुनासिकपदं प्रक्षिप्य षड् भेदाः कल्पनीयाः । सङ्कलनया द्वादश भेदाः भवन्ति । ऌकारस्य दीर्घाभावादस्य षड् भेदा न भवन्ति । दीर्घस्य उदात्तात्वादिघटितास्त्रयो भेदा अनुनासिकत्वसमानाधिकरणाः, तथैव निरनुनासिकत्वसमाना- धिकरणा उदात्तत्वादिघटितभेदाः - इत्येवं षण्णां धर्माणामभावात् विवृतस्य लकारस्य द्वादश भेदा एव । अतो द्वादशविधत्वं तस्य युक्तमुक्तम् । 'लति ल वा' इति वार्त्तिकेन विषीयमानस्तु ऌकारो दीर्घोऽपि भवतीत्याशयेन विवृतस्येत्युक्तम् । वात्तिकविधेयस्तु ईषत्स्पृष्ट इति तस्य दीर्घस्याऽपि स्वीकारे क्षत्यभावात् । अतएव = लकारो दीर्घो नेति स्वीकारादेव ।


एम इत्यादी इति । अत्रादिपदेन ऐओजित्यस्य संग्रहः । इत्थं हि तत्र भाष्यम् - 'ननु च एङः संस्थानतरी अर्ध एकार:, अर्ध ओकारः । न तो स्तः । यदि हि ती स्थातां तावेवायमुपदिशेत्' इति। एतेन अर्थ एकारोऽधं ओकारश्च न स्तः इति स्पष्टं प्रतीयते । गानरोदनादो चतुर्मात्रस्यार्धमात्रस्य चोपलम्भेऽपि तत्र शास्त्रीयकार्याभावात् लोके प्रयोगा - भावाच्च तन्नेह निर्दिष्टम् ॥


॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

 

मुख । उच्यतेऽसौ वचनः, बाहुलकात्कर्मणि ल्युट् । 'मुखसहिता नासिके' ति विग्रहः । तया वचन इति  - 'साधनं कृते'ति समासस्तदाह - मुखसहितेत्यादि । मुखेति किम् ? यमानुस्वाराणामेव प्रसज्येत एवञ्चाङोऽनुनासिक इत्यनुस्वारः स्यात् । नासिकेति किम् ? शक्तेत्यादौ 'अनुदात्तोपदेश' इत्यादिना कलोपो मा भूत ।


“मुखनासिकावचनोऽनुनासिकः” सूत्र की व्याख्या करते हुए कह रहे हैं कि “उच्यतेऽसौ वचनः” इस विग्रह में वच् धातु से बाहुलकात् कर्म में ल्युट् प्रत्यय करने से वचन शब्द बना है । इसका अर्थ है  - उच्चार्यमाण या उच्चारण का विषय । मुखनासिका शब्द की व्युत्पत्ति इस प्रकार है - “मुखेन सहिता मुखसहिता, मुखसहिता चासौ नासिका मुखनासिका”। यहाँ पहले तृतीयातत्पुरुष करके उसके बाद कर्मधारय समास किया जाता है और शाकपार्थिवादित्वात् सहित पद का लोप कर दिया जाता है । इसके बाद तया मुखनासिकया वचनः = “मुखनासिकावचनः” इस पद की सिद्धि होती है । नागेशभट्ट ने यहाँ “साधनं कृता” इस वार्तिक से समास का उल्लेख किया है । यद्यपि यहाँ “कर्तृकरणे कृता बहुलम्” इस सूत्र से समास सिद्ध है तथापि वार्तिक का उल्लेख कर नागेश भट्ट ने यह सूचित किया है कि वार्तिक भी प्रयोजनान्तर के लिए आवश्यक है । इस प्रकार सूत्रघटक पदों की सिद्धि को ध्यान में रखकर इसकी वृत्ति में कहा गया है कि - “मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकः” । मुखसहित नासिका से जिसका उच्चारण होता है वह वर्ण अनुनासिकसंज्ञक होता है । 


यहाँ यह शंका होती है यहाँ शाकपार्थिवादिगण में पाठ की परिकल्पना करके जो सहित पद का लोप किया गया है, वह लोप तो नित्य लोप है । ऐसी स्थिति में वृत्ति में सहित पद का उल्लेख क्यों किया गया है ? इस शंका के उत्तर में कहा जाता है कि “मुखनासिका” शब्द की व्युत्पत्ति इस प्रकार होती है -”मुखं द्वितीयं यस्याः सा मुखद्वितीया, मुखद्वितीया चासौ नासिका मुखनासिका। यहाँ शाकपार्थिवादित्वात् द्वितीय पद का नित्य ही लोप हुआ है । वृत्ति में जो सहित पद का उल्लेख किया गया है वह फलितार्थ कथन मात्र है । कुछ लोगों का कहना है कि “मुखनासिका” शब्द का शाकपार्थिवादिगण में पाठ मानने की अपेक्षा यही लाघव है कि यहाँ मुख पद मुखसहित अर्थ में लाक्षणिक है, ऐसा स्वीकार कर लिया जाय ।


भाष्य में तो “उच्यते येनासौ वचन” इस प्रकार करण में ल्युट् करके वचन शब्द की निष्पत्ति की गई है और “मुखनासिकावचनमस्य” इस विग्रह में बहुव्रीहि समास करके “मुखनासिकावचनः” की सिद्धि की गई है । इस व्युत्पत्ति के अनुसार सूत्रार्थ इस प्रकार होगा - “मुख के साथ नासिका है उच्चारण का साधन जिसका, उस वर्ण की अनुनासिक संज्ञा होती है”। यद्यपि इस अर्थ में और पूर्वोक्त अर्थ में तात्त्विक दृष्टि से कोई भेद नहीं है तथापि अन्यपदार्थ प्रधान बहुव्रीहि की अपेक्षा वर्तिपदार्थ प्रधान तत्पुरुष में ही लाघव है । इसलिए उपर्युक्त व्याख्यान ही श्रेष्ठ है । यहाँ “मुखञ्च नासिका च” ऐसा द्वन्द्वसमासीयविग्रह ठीक नहीं है, क्योंकि वैसा करने पर “द्वन्द्वश्च त्राणितूर्यसेनाङ्गानाम्” इस सूत्र से नपुंसकलिंग और एकवचन होने से “मुखनासिकम्” ऐसा बनने लगेगा । “मुखेति किम् ? नासिकावचनोऽनुनासिकः” ऐसा ही सूत्र करना चाहिए । सूत्र में मुखग्रहण का क्या प्रयोजन है ? इस शंका के उत्तर में कह रहे हैं कि यदि मुखग्रहण नहीं करेंगे तो “अनुस्वारयमानाञ्च नासिकास्थानमिष्यते” इस शिक्षावचन के आधार पर अनुनासिक संज्ञा केवल यम और अनुस्वार की ही होगी, क्योंकि केवल ये ही नासिकावचन हैं । इसका परिणाम यह होगा कि “आङो ऽनुनासिकश्छन्दसि” इस सूत्र से विधेय अनुनासिक की जगह अनुस्वार होने लगेगा । इसलिए सूत्र में मुखग्रहण करना चाहिए । मुखग्रहण करने पर मुखसहित नासिका से उच्चार्यमाण ही अनुनासिक होता है । इस प्रकार “आङोऽनुनासिकः” से विधेय आ” अनुनासिक होता है । 


नासिकेति किम् ? सूत्र में नासिकाग्रहण की क्या उपयोगिता है ? इस प्रश्न के उत्तर में कह रहे हैं कि यदि नासिकाग्रहण नहीं किया जायेगा तो केवल मुखवचन वर्ण ही अनुनासिक होंगे । परिणाम इसका यह होगा कि “शक्ता” प्रयोग में ककार भी अनुनासिक कहा जायेगा और क्त प्रत्य के पर में रहने पर इस अनुनासिक ककार का “अनुदात्तोपदेश” सूत्र से लोप होने लग जायेगा । इसलिए ककार का लोप न होने लगे, इसलिए सूत्र में नासिकाग्रहण भी आवश्यक है । “शक्ता” यह रूप शक् धातु से क्त प्रत्यय करके पुनः टाप् करने से बना हुआ है । इसलिए कित् प्रत्यय को पर में मान कर लोप की आपत्ति की गई है । 


अष्टादशेति । यद्यपीदं न व्यक्तिपक्षे, व्यक्तीनामानन्त्यात्तथाप्यष्टादशधर्मवत्त्वमकारजातीयादेरित्यर्थः । ह्रस्वत्वादीनां तत्तत्समानाधिकरणोदात्तत्वानुनासिकत्वादीनाञ्च भेदमाश्रित्येदम्बोद्ध्यम् । एवमग्रेऽपि । लृवर्णस्येति । विवृतस्येत्यर्थः । तेन 'लृति लृ वे 'ति विधेयस्येषत्स्पृष्टस्य दीर्घत्वेऽपि न क्षतिः । दीर्घाभावादिति । अत एव तुल्यास्यसूत्रे भाष्ये 'लृति सवर्णे' इत्यनेन पक्षे द्विलकारकाभावे 'अकः सवर्णे' इति दीर्घत्वे होतृकार इति ऋकारघटितप्रयोगः सङ्गच्छते ।


इस प्रकार ह्रस्व, दीर्घ और प्लुत के मध्य प्रत्येक के उदात्त, अनुदात्त और स्वरित के भेद से नव - नव प्रकार के हो जाने पर उन नवों के अनुनासिक और अननुनासिक के भेद से अठारह भेद हो जाते हैं । इसलिए 'अ, इ, उ, ऋ' इनके प्रत्येक के अठारह - अठारह भेद होते हैं । यह बात दीक्षितजी ने कौमुदी में कही है । 


नागेश भट्ट इस अष्टादश पद को लेकर कह रहे हैं कि कौमुदीकार का यह अठारह भेद बनाना व्यक्तिपक्ष में सम्भव नहीं है, क्योंकि इस पक्ष में एक ही अकार अनन्त हो जाता है । तथापि कौमुदीकार की इस भेदगणना का तात्पर्य यह समझना चाहिए कि अत्वजात्यवच्छित्र अकार में अष्टादशधर्मवत्त्व है । अर्थात् अकार अष्टादशधर्मवत्त्व से अनतिरिक्त (अतिरिक्त नहीं होता है । यहाँ आदि पद से इकारजातीय और उकार तथा ऋकार जातीय का ग्रहण करना चाहिए । 


यह अठारह भेद ह्रस्वत्व, दीर्घत्व और प्लुतत्व समानाधिकरण, उदात्तत्व, अनुदात्तत्व और स्वरितत्व के आधार पर नव - नव भेद करके उन नवों के समानाधिकरण अनुनासिकत्व और अननुनासिकत्व के आधार पर किया जाता है । इसी प्रकार आगे लवर्ण और एच के बारह भेदों के विषय में भी हस्वत्वादि के आधार को समझना चाहिए । 


लृवर्णस्येति - लृकार के बारह भेद होते हैं, क्योंकि लृकार दीर्घ नहीं होता है, इसलिए दीर्घवाले छः भेद कम होने से लृकार के बारह भेद कहे गये हैं । यहाँ शंका होती है कि “लृति लृ वा” इस वार्तिक से लृ को जब दीर्घ विधान किया जाता है तो यह उक्त कथन कहाँ तक संगत है ? इस शंका के उत्तर में कह रहे हैं कि जिस लू के दीर्घ का अभाव कहा गया वह लृकार विवृतप्रयत्न का लवर्ण है । “लृति लृ वा” इस वार्तिक से विधेय लृकार एक विलक्षण लृकार है । इसके मध्य दो लकार हैं जिनकी एक मात्रा होती हैं । उन दोनों लकारों के चारों ओर अच् भाग की एक मात्रा होती है । इस प्रकार यह लृकार दो मात्रा का होता है । यहाँ हल् वर्ण की एक मात्रा होने के कारण उनकी प्रधानता के आधार पर यह लृकार ईषत्स्पृष्ट प्रयत्न का होता है । इस प्रकार इस लृकार के दीर्घ होने पर भी विवृतप्रयत्न वाला लृकार तो दीर्घ नहीं होता । इसलिए इसका बारह भेद कहना संगत ही है । 


दीर्घाभावादिति - जब विवृतप्रयत्न वाले लृकार को दीर्घ नहीं होता तभी “तुल्यास्यप्रयत्नं सवर्णम्” सूत्र के भाष्य में भाष्यकार के द्वारा “लृति लृ वा” इस वार्तिक से विधेय द्विलकारक लू के अभावपक्ष में “होतृ + लृकारः” इस स्थिति में ऋकार और लृकार के स्थान पर “अकः सवर्णे दीर्घः” सूत्र से दीर्घ ऋकार करके “होतृकारः” ऐसा प्रयोग बनाना संगत होता है । क्योंकि लृकार के दीर्घ न होने के कारण उसके सवर्णी ऋकार का दीर्घ रूप उक्त प्रयोग में ऋकार और लृकार के स्थान पर हो जाता है । 


ह्रस्वाभावादिति । इदमेओङित्यादौ भाष्ये स्पष्टम् । गानरोदनादौ चतुर्मात्रार्धमात्रादीनामुपलम्भेऽपि शास्त्रीयकार्ये उपयोगाभावाल्लोके प्रयोगेष्वप्रयोगाच्च नोक्ताः । अत एवानुदात्ततरस्यानुक्तिः । एकश्रुतेः स्वरान्तरत्वे इदमुपलक्षणं - तस्या लोकेऽपि सत्त्वात् ।


एच् (ए, ओ, ऐ, औ) इन चार वर्णों के भी बारह बारह भेद होते हैं, क्योंकि इनके हस्व का अभाव होता है अर्थात् ये ह्रस्व नहीं होते हैं । यह बात “एओङ्”, “ऐऔच्” सूत्रों के भाष्य में स्पष्ट है । यद्यपि गान करने में और रोदन में चार मात्रा का तथा अर्धमात्रा का भी उपलम्भ होता है, तथापि शास्त्रीय कार्य में चार मात्रा अथवा अर्धमात्रा का कोई उपयोग न होने के कारण तथा लौकिक प्रयोगों में चार मात्रा का अथवा अर्धमात्रा का प्रयोग न होने के कारण यहाँ चतुर्मात्रा या अर्धमात्रा का उल्लेख नहीं किया गया ।


अत एव = शास्त्रीय कार्य में उपयोग न होने के कारण तथा लौकिक प्रयोगों में प्रयुक्त न होने के कारण ही अनुदात्ततर का भी कथन नहीं किया गया है । 


उदात्तादि स्वरों का यह भेदकथन एक श्रुति के स्वरान्तरत्व का उपलक्षण है । उदात्तादि स्वरों की अविभागेन स्थिति को “एकश्रुति” कहते हैं । इसका अन्तर्भाव उदात्त में नहीं किया जा सकता, क्योंकि “उच्चैस्तरां वा वषट्कार:” इस सूत्र से उदात्ततर के विकल्प में एकश्रुति का विधान किया गया है । इससे स्पष्ट है कि यह उदात्त से भिन्न है । इसी प्रकार “उदात्तस्वरितपरस्य सन्नतरः” सूत्र से “सरस्वति” शुतुद्रि प्रयोग में एकश्रुति न करके सन्नतर (अनुदात्ततर) का विधान करने से स्पष्ट है कि एकश्रुति अनुदात्त से भी भिन्न है । इसका प्रयोग लोक में भी होता है । 


॥ महाभाष्यम् ॥

(७. अनुनासिकसञ्ज्ञासूत्रम् १.१.४ आ. ५) 


मुखनासिकावचनोऽनुनासिकः १.१.८


॥ मुखनासिकावचनशब्दार्थनिरूपणम् ॥


आक्षेपभाष्यम् - किमिदं ' मुखनासिकावचनः ' इति ? 


समाधानभाष्यम् - मुखं च नासिका च मुखनासिकम् । मुखनासिकं वचनमस्य सोऽयं मुखनासिकावचनः । वचनः । 


आक्षेपभाष्यम् - यद्येवं मुखनासिकवचन इति प्राप्नोति । 


समाधानभाष्यम् - निपातनाद्दीर्घत्वं भविष्यति । 


समाधानान्तरभाष्यम् - अथवा मुखनासिकमावचनमस्य सोऽयं मुखनासिकावचनः । 


आक्षेपभाष्यम् - अथ किमिदमावचनमिति ? 


समाधानभाष्यम् - ईषद्वचनमावचनमिति । किञ्चिन्मुखवचनं, किञ्चिन्नासिकावचनम् । 


समासान्तरभाष्यम् - मुखद्वितीया वा नासिका वचनमस्य सोऽयं मुखनासिकावचनः । 


समाधानान्तरभाष्यम् - मुखोपसंहिता वा नासिका वचनमस्य सोऽयं मुखनासिका - 


पदकृत्यनिर्वचनायाक्षेपभाष्यम् -  अथ मुखग्रहणं किमर्थम् ? 


समाधानभाष्यम् - ' नासिकावचनोऽनुनासिकः ' इतीयत्युच्यमाने यमानुस्वाराणामेव प्रसज्येत । मुखग्रहणे पुनः क्रियमाणे न दोषो भवति । 


आक्षेपभाष्यम् - अथ नासिकाग्रहणं किमर्थम् ? 


समाधानभाष्यम् - ' मुखवचनोऽनुनासिकः ' इतीयत्युच्यमाने क - च - य - त - पानामेव प्रसज्येत । नासिकाग्रहणे पुनः क्रियमाणे न दोषो भवति । 


मुखग्रहणप्रत्याख्यानभाष्यम् - मुखग्रहणं शक्यमकर्तुम् । 


आक्षेपभाष्यम् - केनेदानीमुभयवचनानां भविष्यति ? 


समाधानभाष्यम् - प्रासादवासिन्यायेन । तद्यथा - केचित्प्रासादवासिनः, केचिद्भूमि - वासिनः, केचिदुभयवासिनः । ये प्रासादवासिनः, गृह्यन्ते ते प्रासादवासिग्रहणेन । ये भूमि - वासिनः, गृह्यन्ते ते भूमिवासिग्रहणेन । ये उभयवासिनः, गृह्यन्त एव ते प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च । एवमिहापि केचिन्मुखवचनाः, केचिन्नासिकावचनाः, केचिदुभयवचनाः । तत्र ये मुखवचनाः, गृह्यन्ते ते मुखग्रहणेन । ये नासिकावचनाः, गृह्यन्ते ते नासिकाग्रहणेन । ये उभयवचनाः, गृह्यन्त एव ते मुखग्रहणेन नासिकाग्रहणेन च । 


आक्षेपभाष्यम् - भवेदुभयवचनानां सिद्धम् । यमानुस्वाराणामपि प्राप्नोति । 


समाधानभाष्यम् - नैव दोषो न प्रयोजनम् । 


अन्योन्याश्रयपरिहारायाक्षेपभाष्यम् - ' इतरेतराश्रयं तु भवति ' । का इतरेतराश्रयता ? सतोऽनुनासिकस्य संज्ञया भवितव्यम्, संज्ञया च नामानुनासिको भाव्यते, तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । 


सिद्धान्तसमाधानभाष्यम् - अनुनासिकसञ्ज्ञायामितरेतराश्रये उक्तम् ' । किमुक्तम् ? ' सिद्धं तु नित्यशब्दत्वात् ' इति । नित्याः शब्दाः । नित्येषु च शब्देषु सतोऽनुनासिकस्य सञ्ज्ञा क्रियते, न संज्ञयाऽनुनासिको भाव्यते । यदि तर्हि नित्याः शब्दाः, किमर्थ शास्त्रम् ? 


(सिद्धान्तभाष्यवार्त्तिकम्) * किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् * 


भाष्यम् - निवर्तकं शास्त्रम् । कथम् ? आङस्मायविशेषेणोपदिष्टोऽननुनासिकः । तस्य सर्वत्राननुनासिकबुद्धिः प्रसक्ता, तस्यानेन निवृत्तिः क्रियते - छन्दस्यचि परत आडोऽननुनासिकस्य प्रसङ्गेऽनुनासिकः साधुर्भवतीति । मुखनासिकावचनोऽनुनासिकः ॥ ८ ॥



एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code