Ad Code

१.१.५ सूत्राणि:॥ क्ङिति च ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

 


१.१.५

सूत्राणि:॥ क्ङिति च

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - क्ङिति ७।१। च अव्ययपदम् ।

समासः - गश्च, कश्च, ङश्च ते क्क्ङ, इच्च इच्च इच्च ते इत: । क्क्ङ इतो यस्य स क्क्ङित्, तस्मिन्  क्क्ङिति । (इतरेतरद्वन्द्वगर्भितबहुव्रीहिः) ।

अनुवृत्तिः - इको गुणवृद्धी, न इति चानुवर्तते ।

अन्वयः - क्ङिति च इको गुणवृद्धी न ।

अर्थ: - गिति किति ङिति च प्रत्यये परत: इक: स्थाने गुणवृद्धी न भवतः ।

उदाहरणम् - (गिति) जिष्णुः । भूष्णुः । (किति) चित: । चितवान् । स्तुतः । स्तुतवान् । मृष्टः। मृष्टवान् । (ङिति) चिनुतः । चिन्वन्ति । मृष्टः । मृजन्ति ।

आर्यभाषार्थ - (क्ङिति) गित, कित् और ङित् प्रत्यय के परे होने पर (च) भी (इक:) इक् के स्थान में (गुणवृद्धी) गुण और वृद्धि (न) नहीं होती है ।

उदाहरणम् - (गित्) जिष्णुः । जीतनेवाला । भूष्णुः। सत्तावाला । (कित्) चितः, चितवान् । चयन किया । स्तुतः स्तुतवान् । स्तुति की । मृष्टः, मृष्टवान् । शुद्ध किया । (ङित्) चिनुतः, वे दोनों चुनते हैं । चिन्वन्ति । वे सब चुनते हैं ।

सिद्धिः - (१) जिष्णुः । जि + ग्स्नु । जि + स्नु । जिष्णु + सु । जिष्णुः। यहां जि जये (भ्वा.प.) धातु से 'ग्लाजिस्थश्च ग्स्सुः' (३.२.१३८) से ग्स्नु प्रत्यय करने पर जि धातु के इक् को 'सार्वधातुकार्धधातुकयो:' (७.३.८४) से गुण प्राप्त होता हैं किन्तु स्तु प्रत्यय के गित होने से गुण का प्रतिषेध हो जाता है ।

(२) भूष्णुः । भू + स्नु । भू + स्नु । भूष्णु + सु । भूष्णुः । यहां 'भू सत्तायाम्' (भ्वा.प.) धातु से 'भुवश्च' (३.२.१४०) से ग्स्नु प्रत्यय होता है । शेष कार्य पूर्ववत् है ।

(३) चितः । चि + क्त । चि + त । चित + सु । चितः । यहां चिञ् चयने (स्वा०उ०) धातु से क्त प्रत्यय करने पर 'सार्वधातुकार्धधातुकयोः' (७.३.८०) से चि धातु के इक् को गुण प्राप्त होता है किन्तु क्त प्रत्यय के कितु होने से गुण का प्रतिषेध हो जाता है ।

(४) चितवान् । चि + क्तवतु। चि + तवत् । चितवत् + सु । चितवान् । यहाँ चि धातु से क्तवतु प्रत्यय है । शेष पूर्ववत् है ।

(५) पृष्ट: । मृज् + क्त। यहां मृजूष शुद्धी (अदा.प.) धातु से क्त प्रत्यय करने पर 'मृजेर्वृद्धि:' (७.२.११४) से मृज् धातु के इक् को वृद्धि प्राप्त होती है, किन्तु क्त प्रत्यय के कित् होने से वृद्धि का निषेध हो जाता है ।

(६) मृष्टवान् । यहां 'मृजूष शुद्धौ' (अदा.प.) धातु से क्तवतु प्रत्यय है । शेष पूर्ववत् है ।

(७) चिनुतः । चि + लट् । चि + श्नु + तस्। चि + नु + तस् । चिनुतः । यहां चि धातु से लट्लकार में तस् प्रत्यय और श्नु विकरण प्रत्यय करने पर यह पद सिद्ध होता है । तस् प्रत्यय के परे होने पर श्नु के इक को तथा श्नु प्रत्यय के परे होने पर चि धातु के इक को 'सार्वधातुकार्धधातुकयो:' (७.३.८४) से गुण प्राप्त होता है, किन्तु तस् प्रत्यय और इनु प्रत्यय के ङित् होने से गुण का प्रतिषेध हो जाता है । तस् और श्नु प्रत्यय 'सार्वधातुकमपित' (१.२.४) से ङित् माने जाते हैं । ऐसे ही - चिन्वन्ति ।

(८) सृष्ट: । मृज् + लट् । मृज् + शप् + तस्। मृज + ० + तस् । मृज् + तस् । मृष्टः । यहां 'मृजूष शुद्धौ' (अदा.प.) धातु से तस् प्रत्यय है । उसके परे रहने पर 'मृज्' धातु के इक् को 'मृजेर्वृद्धि:' (७.२.११४) से वृद्धि प्राप्त होती है, किन्तु तस् प्रत्यय के ङित् होने से वृद्धि का प्रतिषेध हो जाता है ।

विशेष - प्रश्न- यहां सूत्रार्थ में गित्, कित् और ङित् प्रत्यय के परे रहने पर इक् के स्थान में प्राप्त गुण और वृद्धि का प्रतिषेध किया है, किन्तु 'क्ङिति च' सूत्र में तो कित् और ङित् प्रत्यय के परे रहने पर गुण और वृद्धि का प्रतिषेध दिखाई दे रहा ?

उत्तर - यहां वैयाकरण लोग गकार का चर्त्वभूत उपदेश मानते हैं । ग् + क् + ङ् = ग्क्ङ् । यहां 'खरि च' (८.४.५६) से ग् को चर् क् हो जाता है - क्क्ङ् । यहां 'यरोऽनुनासिकेऽनुनासिको वा' (८१४।४५) से द्वितीय क् को अनुनासिक ङ्हो जाता है - कङ्ङ । यहां 'हलो यमां यमि लोपः' (८.४.६४) से मध्यस्थ ङ्का लोप हो जाता है । क्ङ् । 'क्ङिति च' । इस प्रकार यहां चर्त्वभूत गकार का उपदेश किया गया है ।

॥ काशिका ॥

निमित्तसप्तम्येषा । डिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः । चितः, चितवान् । स्तुतः, स्तुतवान् । भिन्नः भिन्नवान् । मृष्टः, मृष्टवान् । ङिति खल्वपि - चिनुतः, चिन्वन्ति । मृष्टः, मृजन्ति । गकारोऽप्यत्र चर्त्वभूतो निर्दिश्यते । “ग्लाजिस्थश्च ग्स्नुः” (३.२.१३९/३११९) जिष्णुः, भूष्णुः । इक इत्येव - कामयते, लैगवायनः । * मृजेरजादौ संक्रमेविभाषा वृद्धिरिष्यते * (म.भा.१.४८) संक्रमो नाम गुणवृद्धिः प्रतिषेधविषयः । परिमृजन्ति, परिमार्जन्ति; परिमृजन्तु, परिमार्जन्तु । लघूपधगुणस्याप्यत्र प्रतिषेधः । अचिनवम्, असुनवमित्यादौ लकारस्य सत्यपि ङित्त्वे यासुटो डिद्वचनं ज्ञापकम् - ‘डिति यत्कार्य तल्लकारे ङिति न भवति’ इति ॥

॥ न्यासः ॥

ङितीति यदीयं परसप्तमी स्यादनन्तरस्यैवेकः प्रतिषेधः स्यात्, ‘चितः, चितवात्’ इत्यादौ व्यवहितस्य ‘भिन्नो भिन्नवात्’ इत्यादौ न स्यात्, ‘तस्मिन्निति निर्दिष्टे स्पूर्वस्य’ (१.१.६६) इत्यत्र निर्दिष्टग्रहणस्यानन्तरर्यार्थत्वात् । निमित्तसप्तम्यां त्वस्यां सर्वत्र भवितव्यम्, व्यवहितयोरपि निमित्तनिमित्तिभावसद्भावादिति मन्यमान आह - ‘निमित्तसप्तम्येषा’ इति । निमित्तात् सप्तमी निमित्तसप्तमी । ‘पञ्चमी भयेन’ (२.१.३७) इति पञ्चमी’ इति योगविभागात् समासः । सा पुनः सप्तमी ‘यस्य च भावेन भावलक्षणम्’ (२.३.३७) इत्यनेन वेदितव्या । ङितो हि निमित्तभावेन गुणवृद्धयोःप्राप्तिलक्षणो भावो लक्ष्यते । अथ निमित्तसप्तम्यामप्यस्यां कस्मादेव व्यवहितस् प्रतिषेधो लभ्यते ? तत्र तस्मिन् (१.१.६६) इत्यादिकायाः परिभाषाया अनुपस्थानात् । ‘क्ङिति च’ (१.१.७३) इत्यादरावप्यस्या इक्परिभाषाया उपस्थानात् ‘शालीयः, मालीयः’ इत्यत्र वृद्धरसञ्ज्ञा न स्यात । यता चेयमिकूपरिभाषा विध्यङ्गशेषभूतत्वाद्विधावेवोपतिष्ठते, तथासावप्यानन्तर्यपरिभाषा । न चेह गुणवृद्धी विधीयेते, किं तर्हि ? विहिते अप्यन्यत्र ङितीत्यनेन विशिष्येते । तस्मान्नात्र तस्याः परिभाषाया उपस्थानमित्यन-न्तरस्यापि प्रतिषेधः सिध्य - ‘डिन्निमित्ते ये गुणवृद्धी’ इति । डिन्निमित्तं ययोस्ते तथोक्ते । ते पुनर्ये डिन्निमित्ते सति प्राप्नुतस्ते विज्ञेये । एतेन गुणवृद्धीविशेषणं ङिद्ग्रहणमिति दर्शय - ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम् ? नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्र प्रधानस्यैव भूयांसमुपकारं कर्तुमात्मनः संस्कारमनुभूय प्रधानेन सम्बन्धमनुभव - यथोक्तम्- ‘गुणः कृतात्मसंस्कारः प्रतिपद्यते । प्रधानस्योपकारे हि तथा भयसि वर्तते ॥ इति ॥

इह तु गुणवृद्धयोः क्डिद्दग्रहणेन विशेषितयोर्महान प्रधानस्य प्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः । ‘भिन्नः’ इति । ‘भिदिर् विदारणे’ (धा.पा. १४३९),क्तः, ‘रदाभ्यां निष्ठातोः (८.२.४२) इति नत्वम् । ‘मृष्टः’ इति । मृजे: ‘व्रश्च (८.२.३६) इत्यादिना जकारस्य षत्वम्, ‘ष्टुना ष्टुः’ (८.४.४१) इति ष्टुत्वम् । चिनुत इत्यादौ तु ‘सार्वधातुकमपित्’ (१.२.४) इति डित्त्वम् । ‘चिन्वन्ति’ इति । ‘हुश्नुवो: सार्वधातुके (६.४.८७) इति यणादेशः । अत्र ‘चितः, चितवान्, स्तुतः स्तुतवान्, चिनतः, चिन्वन्ति’ इत्येषूदाहरणेषु यतायोगं सार्वधातुकार्धधातुकलक्षणस्य गुणस्य प्रतिषेधः, ‘भिन्नः भिन्नवान्’ इति लघूपधलक्षणस्य, परिशिष्टेषु ‘मृजेर्वृद्धिः’ (७.२.११४) इति वृद्धेः । ‘ग्लाजिस्थश्च कस्नुः’ इति । क्स्नुप्रत्ययोऽयं यदि कित् स्यात्, स्थास्नुरित्यत्र घुमास्थादिसूत्रेण (६.४.६६) तिष्ठतेरीत्त्वं स्यात् । अतस्तत्परिहाराय कस्नोर्गित्त्वं प्रतिज्ञायते । तथा हि तत्र वक्ष्यति - ‘गिच्चायं प्रत्ययो न कित् । तेन स्थ ईकारो न भवति (का. २४१) इति । गित्वे च सति ‘भूष्णुः, जिष्णुः’ इत्यत्र’ क्ङितिच’ (१.१.५) इति प्रतिषेध उच्यमानो न प्राप्नो - अत एतद्दोषपरिहारायाह - ‘गकारोऽप्यत्र’ इत्यादि (का२४१) । चर्चभूतः चर्वं प्राप्त इत्यर्थः । चर्त्वं तु खरि च’ (८.४.५५) इति यदि हि कस्नोर्गित्त्वमिष्यते, भूष्णुरित्यत्र ‘श्रयुकः किति (७.२.११) इति किति प्रतिषेध उच्यमानो न स्यात् ? नैष दोषः; तत्रापि भूतो गकारो निर्दिश्यते । तथा हि ग्लाजिस्थश्च क्स्नुः’ (३.२.१३९) इत्यत्र जयादित्यवृत्तौ ग्रन्थ:- ‘‘क्ङिति च’ (१.१.५) इत्यत्र गकारश्चर्श्वभूतो निर्दिश्यते, तेन गुणो न भव - श्रयुकः किति’ (७.२.११) इत्यत्रापि गकारो निर्दिश्यते, तेन भुव इड् न भवति (का. २४१) इति । ‘श्रयुकः किति’ (७.२.११) इत्यत्रापि जयादित्यवृत्तौ ग्रन्थः- ‘गकारोऽप्यत्र चर्च्चभूतो निर्दिश्यते भूष्णुरित्यत्र यथा स्यात्’ इति । वामनस्य त्वेतत् सर्वमनभिमतम् । तथा हि तस्यैव सूत्रस्य तद्विरचितायां वृत्तौ ग्रन्थः केचिदत्र द्विककरानिर्देशेन गकारप्रश्लेषं वर्णयन्ति भूष्णुरित्येवं यथा स्यात् । सौत्रत्वाच्च निर्देशस्य ‘श्रयुकः किति’ (७.२.११) इत्यत्र चर्त्वस्यासिद्धत्वमनाश्रित्य रोरुत्वं न कृतम्, विसर्जनीयश्च कृतः इति । ‘ग्लाजिस्थश्च क्स्नु:’ (३.२.१३९) इत्यत्र स्था आ इत्यकारप्रश्लेषेण स्थास्नोः सिद्धत्वान्न किञ्चदेतत् ‘ (का ८०२) इति । स एवं मन्यते - यदि क्स्नुप्रत्यययस्य कित्त्वे सति तिष्ठतेरीत्त्वं प्राप्नुयात् तथा तत्परिहारार्थं गित्त्वं युज्यते प्रतिज्ञातुम । गित्त्वे च सति जिष्णुः, भूष्णुः’ इत्यत्र यथायोगमिड्गुणयोर्निरासाय ‘डिति च’ (१.१.५) इत्यत्र ‘अयुकः किति’ (७.२.११) इत्यत्र च गकारश्चर्श्वभूतो निर्दिश्यमानः शोभेत । न च क्स्नुप्रत्ययो गित्,किं तर्हि ? किदेव । तत्किमिड्गुण्प्रतिषेधार्थेन चर्च्चभूतगकारस्य निर्देशेन न च क्स्नोः कित्त्वेसति तिष्ठतेरात्वं प्राप्नो - तस्मात् ग्लाजिस्थशअच क्स्नुः’ (३.२.१३९) इत्याकारप्रश्लेषः कृतः, क्स्नुप्रत्ययान्तस्य तिष्ठतेराकार एव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूत् इत्येवमर्थः । ततश्च तेनैव सिद्धत्वात् स्थास्नुशब्दस्याकिञ्चित्करमिह गकारप्रश्लेषवर्णनमिति. ‘कामयते’ इति । ‘कमेर्णिङ (३.१.३०) । अत्र ‘अत उपधायाः’ (७.२.११६) इति वृद्धेः प्रतिषेधो न भवति । ‘लैगवायनः’ इति । लिगुशब्दात् ‘नडादिभ्यःफक्’ (४.१.९९) इति फकि कृते ‘ओर्गुण:’ (६.४.१४६) इति गुणस्य प्रतिषेधो न भवति । ननु चोकारइगेव, तदयुक्तमिदं प्रत्युदाहरणम् ? नैतदस्ति; अत्र हि चकारः क्रियते ‘इक:’ इत्यनुकर्षणार्थः । तत्र चकारेणानुकर्षणसा- मर्थ्यादिक इत्येतदर्थपदार्थतामुत्सृज्य स्वरूपपदार्थतामनुभवति । अन्यथा हि यदिचकारेणाध्यनुकृष्यमाणमर्थपदार्थकमेव स्यात् तदनुकर्षणार्थं चकारकरणमनर्थकं स्यात्, अर्थपदार्थस्य स्वरितत्वादेवानुवृत्तिसिद्धेः । स्वरूपपदार्थके च तस्मिन्निह सन्निहिते सत्ययमर्थो भवति, ‘इकग इत्येवं ये गुणवृद्धी विधीयेते, इक इतीमं शब्दमुचार्य ये गुणवृद्धी विधीयेते, ते डिन्निमित्ते न भवतः’ इति । न च ‘लैगवायनः’ इत्यत्र इकः’ इतीमं शब्दमुचार्य गुणो विधीयते, इक्परिभाषायास्तत्रानुपस्थानात् । अनुपस्थानं तु साक्षादुकारस्य स्थानिनो निर्देशात् । यत्र हि साक्षात् स्थानी न निर्दिश्यते तत्रासावुपतिष्ठते । ननु यदि स्वरूपपदार्थस्येक इत्यस्येह सन्निधानम्, स्थानी न निर्दिष्टः स्यात्, ततश्च न ज्ञायते कस्य गुणवृद्धी प्रतिषिध्येते इति ? नैष दोषः । सामर्थ्यादिक एव गुणवृद्धयोः प्रतिषेधोऽयं गम्यते । न ह्यन्यस्येक इतीमं शब्दुमुचार्य गुणवृद्ध विधीयेते । अथवा ‘ यद्यपीक्परिभाषा विध्यङ्गशेषभूता, तथापीहासत्यपि गुणवृद्धयोर्विधाने चकारेणानुकृशष्य सन्निधाप्यते । एतदेव हि चकारकरणस्य प्रयोजनं यदिदमिक्परिभाषायाः सन्निधापनम् । ततश्च तस्या उपस्थाने सति यत्रासौ व्याप्रियते तत्रैवायं प्रतिषेधो विज्ञायते । क्व चासौ व्याप्रियते ? यत्र स्थानी साक्षान्न् निर्दिश्यते. इह तु निर्दिश्यते स्थानी, तस्मादिक्परिभाषाया व्यापाराभावाद्भवति प्रत्युदाहरन् । ‘मृजेः’ इत्यादि । कथं पुनरिष्यमाणापि सा लभ्यते ? यथा लभ्यते तथा श्रूयताम । ‘अचो ञ्णिति’ श् (७.२.११५) इत्यत्र ‘मृजेर्वृद्धिः’ (७.२.११४) इति वर्तते, ‘जराया जरसन्यतरस्याम्’ (७.२.१०१) इत्यतोऽन्यतरस्यां ग्रहणं च मण्डूकप्लुतिन्यायेनानुवर्त्तते, सा च व्यवस्थितविभाषा । ‘अचः’ इति योगविभागः क्रियते । मृजेरजादौ संक्रमे विभाषा वृद्धिर्भवति, अन्यत्र न भवत्येव । ‘लघूपधगुणस्याप्यत्र प्रतिषेधः’ इति । एतेन संक्रमत्वं दर्शय - अन्ये तु उत्तरसूत्रे ‘कणिता श्वः’ रणिता श्वः’ इत्यनन्तरमनेन ग्रन्थेन भवितव्यम्, इह तु दुर्विन्यस्तकाकुपदजनितभ्रान्तिभिः कुलेखकैर्लिखितमिति वर्णयन्ति । अथवा- निमित्तसप्तम्या एवेदं फलं दर्शितमिति मन्तव्यम् । ‘अचिनवम्, असनुवम्’ इत्यत्र लडो ङित्वात् तदादेशस्यापि मिपो ङित्त्वम् । स्थानिवद्भावेन मिपो ङित्त्वात् तदादेशस्याप्यमो ङित्त्वं पूर्ववत्, ततश्च तदाश्रयो विकरणस्य गुणप्रतिषेधः प्राप्नो - कस्मान्न भवतीत्याह - ‘अचिनवम्’ इत्यादि । आदिशब्देन ‘अकरवम्’ इत्यादिनां परिग्रहः । ‘लकारस्य’ इति । लकारादेशोऽपि पारम्पर्येण लकारपूर्वकत्वादुपचारेण लकार इत्युक्तः । सत्यपीत्यभ्युपगमे ‘हलः श्नः शानज्झौ’ (३.२.८३) इति शानजादेशस्य शित्करणाल्लिङ्गान्नावश्यमनुबन्धकार्येषु स्थानिवद्भावो भवतीत्यध्यवसितोऽयमर्थः । अतो ङित्त्ववचम्’ इत्यादि । यदि ङिति यत्कार्यं विधीयते तल्लकारे ङिति स्यात्, ततो लिङ एव ङित्त्वेन चिनुयादित्यादौ गुणप्रतिषेधस्य सिद्धत्वात् ‘यासुट् परस्मैपदेषूदात्तो ङिच्च’ (३.४.१०३) इति यत् तस्य यासुटो द्विचनं तन्न कुर्यात्, कृतञ्च; ततोऽवसीयते- ‘ङिति यत् कार्यं तल्लकारे इति न भवति’ इति । 

॥ पदपञ्जरी ॥

ङिद्ग्रहणं यदि विधीयमानस्य प्रतिषेधस्य विशेषणं स्याद् - गुणवृद्धी क्ङिति न भवत इति, ततो विधिसंस्पर्शात् “ तस्मिन्निति निर्दिष्टे पूर्वस्य “ इत्यस्योपस्थानात् ङित्यनन्तर एव प्रतिषेधः स्यात् । यद्यपि प्रतिषेधस्य विधानदशायां पौर्वापर्यं न संभवति, तथा निषेध्यमानयोर्गुणवृद्ध्योरपि; तथापि स्थानिन इकोऽनन्तरे द्धिति प्रतिषेधः स्यात् । एवं हि विधानोत्तरकालमपि तावद् गुणवृद्ध्यभावरूपस्य प्रतिषेधस्य ङिदनन्तरः सम्भवति, “इको यणचि” इत्यादावप्येतावदेव पौर्वापर्यं यद्विधानदशायां तु स्थानिनः, उत्तरकालं तु विधेयस्य । यदा त्वनूद्यमानयोर्गुणवृद्ध्योर्विशेषणम् - क्ङिति सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति, तदाऽनुवादकत्वात्तस्मिन्नित्यादिकायाः परिभाषाया अनुपस्थानम् । न हि “ङिति सति ये गुणवृद्धी” इत्युक्ते विधिव्यापारेण डितः कश्चित् संस्पर्शः । विध्यङ्गभूताश्च परिभाषास्तत्रैवोपतिष्ठन्ते नानुवादे, तस्यापि परार्थत्वाद्, द्वयोश्च परार्थयोः परस्परं सबन्धाभावात्; अन्यथा “वृद्धिर्यस्याचामादिस्तद्वृद्धम्” इत्यत्रेक्परिभाषोपस्थाने शालीय इति वृद्धसंज्ञाया अभावात्तल्लक्षणश्छो न स्यात् । तथा च “उदीचामातः स्थाने” इति स्थानेग्रहणं कृतम् - आतः स्थाने योऽकार इत्यनुवादकत्वात् “षष्ठी स्थानेयोगा” इति स्थानेयोगो न लभ्येतेति । अतोऽस्मिन् पक्षे द्धितीति सति सप्तमी “यस्य च भावेन” इति । द्धितोर्हि सत्तालक्षणेन भावेन गुणवृद्ध्योः प्राप्तलक्षणो भावो लक्ष्यते, निमित्तस्य च सत्तया निमित्तिनः प्राप्तिर्लक्ष्यत इति “क्ङिति सति ये गुणवृद्धी प्राप्नुतः “ इत्यस्य “डिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत” इत्यर्थो भवति । भिन्नः, मृष्ट इत्यादौ चोपधाया अपि प्राप्नुवन्त्यौ गुणवृद्धी डितं निमित्तमाश्रित्य प्राप्नुत इत्येतत्सर्वमालोच्याह - निमित्तसप्तम्येषेति । निमित्तात्सप्तमी निमित्तसप्तमी, पञ्चम्यर्थे शेषत्वेन विवक्षिते पष्ठीसमासः । द्धिन्निमित्ते इति । एतेन गुणवृद्धिविशेषणं डिग्रहणमिति दर्शयति । ननु च विधीयमानतया प्राधान्यात् प्रतिषेधस्यैवैतद्विशेषणं युक्तम्, नैतदस्ति; यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति, तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते, यथा - पानीयमेलादिसंस्कृतं पुरुषेण । उक्तं च -

“गुणः कृतात्मसंस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ ” इति । 

इह च गुणवृद्ध्योः ङिद्ग्रहणेन विशेषितयोर्महान् प्रधानप्रतिषेधस्योपकारो भवति, व्यवहितस्यापि तत्सिद्धेः । “भिन्न” इति - “रदाभ्याम्” इति नत्वम् । “मृष्ट” इति - व्रश्चादिना षत्वम् । चिन्वन्तीति - “सार्वधातुकमपित्” “हुश्नुवोः सार्वधातुके” । यद्येषा निमित्तसप्तमी, शचडन्ते दोष:, “धि धारणे” “रि गतौ”तुदादी ताभ्यां तिपि “तुदादिभ्यः शः” “णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्” धि अति रि अति, श्रि अ त् द्रु अ त् इति स्थिते शचङन्तस्याङ्गस्य तिपि लघूपधलक्षणश्च गुणः प्राप्नोति शचडोः परतः पूर्वस्य सार्वधातुकलक्षणश्च तत्र शचनिमित्तस्यैव प्रतिषेधः स्याद्, न तिनिमित्तस्य । पक्षान्तरे तु तिनिमित्तस्यापि गुणस्य शचडोः परतः प्रतिषेधो लभ्यते । न वा बहिरङ्गलक्षणत्वाद्वहिर्भूततिबाश्रयो गुणो बहिरङ्गोऽन्तर्भूतशचङ्निमित्ताभ्यामियङुवङ्भ्यां बाधिष्यते । “ग्लाजिस्थश्च ग्स्नुः” इत्यत्र वक्ष्यति - “गिच्चायं प्रत्ययो न कित्, तेन स्थ ईकारो न भवति” इति, “ग्रस्नोर्गित्त्वान्न स्थ ईकारः” इति च । ततश्च भूष्णुरित्यत्र प्रतिषेधो न स्यादित्यत आह - “गकारोऽप्यत्रे” त्यादि । “चवे भूतः” - चत्वं प्राप्तः । अत एव गकरप्रश्लेषात् संख्यातानुदेशो न भवति; अन्यथा ङितौ द्वौ गुणवृद्धी अपि द्वे इति संख्यातानुदेशः प्राप्नोति किति गुणस्य, ङिति वृद्धेरिति । ज्ञापकाद्वा, यदयं “मिदेर्गुणः” इति श्यनि ङिति गुणं शास्ति, तज्ज्ञापयत्याचार्य: - “नात्र संख्यातानुदेशो भवति” इति । यदि तर्हि क्स्नुप्रत्ययो गिद्, भूष्णुरितीट् प्राप्नोति, नैष दोष:, “कः किति” इत्यत्रापि गकारश्चर्त्वभूतो निर्दिश्यते, सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि “हशि च” इत्युत्वं न भवति, “कुप्वोः” इति विसर्जनीयश्च भवति । “कामयते” इति - “कमेर्णिङ्” । “लैगवायन” इति - लिगुशब्दात् “ नडादिभ्यः फक्” इति फक् । “ओर्गुणः” इति गुणस्य प्रतिषेधः कथं न भवति यावतोकार इगेव ? नैतदस्ति; अत्र हि चकारः क्रियते, स इत्यर्थो विज्ञायते, तेनेक इतीमं शब्दमुच्चार्य विधीयमानयोर्गुणवृद्ध्योः प्रतिषेधः, न चैवमोर्गुणः । मृजेरित्यादि । इह त्रिमुनि व्याकरणम्, यथोत्तरं च मुनीनां प्रामाण्यमिति दर्शनस्थितिस्तेन सूत्रकारेणानुक्तं वार्त्तिककार आह, तदुक्तं च दूषयति, एवं भाष्यकारो वार्तिककारेण । व्याख्यातृत्वमपि द्वयोश्चास्तीत्येतावत् ? “यस्मिन्विधिस्तदादावल्ग्रहण” इत्यनेन तदादिविधौ सिद्धेऽप्यादिग्रहणं मुख्येऽजादी यथा स्याद् व्यपदेशिवद्भावेनाजादौ मा भूत् । तुन्दपरिमृजः, यूयं ममृज, त्वया ममृजे । “संक्रमो नामे”त्यादि । संक्रामतोऽपक्रामतो गुणवृद्धी अस्मादिति कृत्वा । “लघूपधगुणस्याप्यत्र प्रतिषेध” इति । अत्र सूत्रे लघूपधगुणस्यापि प्रतिषेधः, न तु “सार्वधातुकार्द्धधातुकयोः” इत्येतस्यैवेत्यर्थः । अनेन निमित्तसप्तम्याः फलं दर्शितम् । अत्र इत्यनेन सूत्रं निर्दिश्यते । इह अचिनोदिति डितो लङस्तिबादेशः, स्थानिवद्भावाद् ङिदिति गुणप्रतिषेधः प्राप्नोति, इह “अचिनवम्” इति ङितो लङो मिपि तस्यापि स्थानिवद्भावपरम्परया ङित्त्वाद् गुणप्रतिषेधः स्यादित्यत आह - “अचिनवमित्यादि । यदि ङिति यत्कार्यं तद् डितो लकारस्यादेशे स्थानिव‌द्भावात्स्यात्, यासुटो डिद्वचनमनर्थकं स्याद्, लिडो ङित्त्वादेव तदादेशेषु ङित्कार्यस्य सिद्धत्वात् ॥ 

॥ शब्दकौस्तुभः ॥

इक इति शब्दमुच्चार्य विहिते गुणवृद्धी । गितं कितं ङितञ्च निमित्तनयाऽऽश्रित्य ये प्राप्नुतस्ते न स्तः । गित् जिष्णुः, ग्लाजिस्थश्च ग्स्नुः (३.२.१३९) चायं किदेवास्त्विति वाच्यम्, ‘स्थास्नुः’ इत्यत्र ‘घुमास्था (६.४.६३) इतीत्वप्रसङ्गात् । न चैवं ‘भूष्णुः’ इत्यत्रेट्प्रसङ्गः श्रूयुकः किति (७.४.११) इत्यत्रापि चर्त्त्वेन गकारप्रश्लेषमाश्रित्य तन्निषेधात् । न चैवं चर्त्वस्यासिद्धतया विसर्जनीयो न स्याद्रोरुत्वञ्च प्रवर्त्तेतेति वाच्यम्, न मुने (८.२.३) इत्यत्र नेति योगविभागात्सौत्रत्वाद्वा । तथाच ग्लाजिस्थ (३.२.१३९) इति सूत्रे श्लोकवार्त्तिकम् - क्स्नोर्गित्त्वान्न स्थ ईकारः किन्ङितोरीत्वशासनात् । गुणाभावस्त्रिषु स्मार्यः श्रुयको ऽनिट्त्वं कगोरितोः ॥ इति । 

जयादित्योऽप्येवम् । वामनस्तु ग्लाजिस्थश्च (३.२.१३९) इत्यत्र स्था आ इत्याकारं प्रश्लिष्य कस्नुप्रत्ययान्तस्य तिष्ठतेराकार एव न त्वीत्वमिति व्याख्यानादेव स्थास्नोः सिद्धौ न क्वापि गकारप्रश्लेषः कार्य इत्याह । नन्वेतेन तन्मते दंशेच्छन्दस्युपसंख्यानम् (का.वा.) इति क्स्नौ ‘दंक्ष्णवः पशवः’ इत्यत्र अनिदिताम् (६.४.२४) इति नलोपः स्यात् । सत्यम्, छान्दसत्वात्समाधेयः कित् ’चित’ ‘स्तुतं’ ‘मृष्टम्’ । ङित् ’चिनुतः’ ‘सुनुतः’ ‘मृष्टात्’ । निमित्तसप्तम्याश्रयणं किम् ? व्यवहितेऽपि यथा स्यात् ’छिन्नं’ ‘भिन्नम्’ । इक इति किम् ? कामयते । शब्दव्यापाराश्रयणं किम् ? लैगवायनः । ओर्गुणो हीक एव प्रवर्त्तते न तत्रेक्पदोपस्थितिः ओरितिनिर्द्दिष्टस्थानिकत्वात् । तदुक्तम् तद्धितकाम्योरिक्प्रकरणात् इति । ननु क्ङितीति सप्तमीनिर्द्देशात्”तस्मिन्नितिनिर्द्दिष्टे पूर्वस्य (१.१.६६) इति परिभाषोपतिष्ठेत, तत्र निः शब्दस्य नैरन्तर्यपरत्वाद्दिशेश्चोच्चारणक्रियत्वादव्यवहितोच्चारितस्य निषेधः स्यान्न तु ‘छिन्नं’ ‘भिन्नम्’ इत्यादेरपीते चेत् ? भवेदेवं, यदि क्ङितीत्येतन्निषेध्यया क्रियया साक्षात्सम्बध्येत । इह तु गुणवृद्धिभ्यां सम्बध्यते । यस्य च भावेन (२.३.३७) इति सप्तमी, क्रियान्तराश्रयणादौत्सर्गिकसत्ताक्षेपः ततश्च क्ङिति सति प्राप्तेय ये गुणवृद्धी इति सम्बन्धे कृते सिद्धसाध्यसमभिव्याहारन्यायेनोपलक्षणीभूतसत्ताश्रयणस्य निमित्तत्वमुत्सर्गतः फलति न त्विह विशिष्यनिमित्ततायां सप्तमीविधानमस्ति । न चात्र निर्द्दिष्टपरिभाषा सम्भवति, विध्यङ्गभूतानां परिभाषाणां साक्षाद्विधेयनिषेध्यक्रियान्वयिन्येव प्रवृत्तेः । इदन्तु क्रियान्वयिनो विशेषणं न तु क्रियायाः। अतोऽत्र न परिभाषाप्रवृत्तिः । अन्यथा वृद्धिर्यस्याचामादिः (१.१.७३) इत्यत्रेक्परिभाषोपस्थाने शालीयादिर्न सिध्येत् । न ह्यत्रेकः स्ताने वृद्धिः । अत एव उदीचामातः स्थाने (७.३.४६) इति सूत्रे स्थाने ग्रहणं कृतम् । आतः स्थाने योऽकार इत्यनूद्यमानस्य विशेषणे आत इत्यस्मिन् षष्ठी स्थाने योगा (१.१.४९) इति परिभाषाया अप्रवृत्तेः । गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्स्यात् (जै.सू.३।१।२२) इति न्यायोप्यत्रानुसन्धेयः । ननु तर्ह्यनेनैव न्यायेन क्ङितीत्येतत्प्रधानभूतक्रियया सम्बध्यतां न तु तच्छेषबूताभ्यां गुणवृद्धिभ्यां, प्रधानान्वयस्य सम्भवतस्त्यागायोगादिति चेत् ? न , यत्र हि गुणः कृतात्मसंस्कारः प्रधानोपकाराय महते प्रभवति तत्रात्मनोऽपि संस्कारमनुभूय प्रधानेन सम्बध्यते । यथा पानीयमेलादिसंस्कृतं पुरुषेण । उक्तञ्च गुणः कृतत्मसस्कारः प्रधानं प्रतिपद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥ इति ॥

इह गुणवृद्ध्योः क्ङिद्ग्रहणेन विशेषितयोः प्रधानस्य महानुपकारो भवति व्यवहितस्यापि प्रतिषेधसिद्धेः । क्नोः कित्करणञ्चात्र ज्ञापकम् । अन्यथा प्रधानेनैवान्वये निर्द्दिष्टपरिभाषायाश्चोपस्थितौ सत्यां व्यवहिते निषेधस्याप्रवृत्तौ व्यर्थमेव क्नोः कित्त्वं स्यात् । तस्माद्यथाव्याख्यानमेव साधु। ननु न यदीयं परसप्तमी तर्हि शचङ्न्ते दोषः लघूपधलक्षणगुणप्राप्तेरिति चेत् ? न, अन्तरङ्गत्वादियङुवङ्प्रवृत्तेः । धि धारण (धा.सू.१२६) ‘रि पि गतौ (धा.सू.१२४।१२५) तुदादयः, धियति रियति पियति । णिश्र(द्रुस्रु भ्यः कर्त्तरिचङ् (३.१.४८) अशिश्रियत्, अदुद्रुवत् असुस्रुवत् इह तिपमाश्रित्य प्राप्तो गुणोबहिरङ्गः शचङाश्रयावियङुवडावन्तरङ्गौ। तदुक्तम्-”शचङन्तस्यान्तरङ्गलक्षणत्वात् इति । (का.वा.) मृजेरजादौ संक्रमे वृद्धिर्वेष्यते इति काशिकायाम् । इदञ्च इको गुणवृद्धी (१.१.३) इति सूत्रप्रसङ्गाद्वैयाकरणान्तरमतत्वेनोक्तं भाष्ये । अस्यार्थः-संक्रामतो गुणवृद्धी अस्मादिति व्युत्पत्या गुणवृद्धिप्रतिषेधनिमित्तभूतः क्ङित्प्रत्ययोऽत्र संक्रमशब्देनोच्यते, योगरूढेः। तेन ‘मरीमृजः’ इत्यत्र धात्वंशलोपनिमित्ततया वृद्धिप्रतिषेधहेतावप्यच्प्रत्यये नासौ विक्लपः प्रवर्त्तत इत्यवधेयम् । अत एव क्ङित्यचि वा इति वचनं तत्र भाष्ये कृतम् । मृजन्ति, मार्जन्ति । अत्र हरदत्तः अचीत्युच्यमानेऽपि यस्मिन्विधिस्तदादावल्ग्रहणे(प.भा.३३) इति सिद्धे आदिग्रहणं मुख्याजादिग्रहणार्थम् । व्यपदेशिवद्भावेनाजादौ ‘यूयं ममृज’ ‘त्वया ममृजे’ इत्यादौ न भवतीति । तच्चिन्त्यम्, मुख्याजादिपरिग्रहे प्रमाणाभावात् । न हि भाष्ये आदिग्रहणं कृतं येन त्यदुक्तार्थो लभ्येत, किन्तु क्ङित्यचि वा इति वचनं पठितम् । यत्तु ततः प्रागुक्तं भाष्ये”इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते इति, तत्तु तदादिपरिभाषाबललब्धवाक्यार्थानुवादमात्रं न तु परकीयविधिवाक्यशरीरमिदं, येन त्वदुक्तमर्थं ज्ञापयेत् । अत एवात्रेयो ‘मृजा’ इति भिदादिपाठादङ् गणपाठादेव वृध्यभाव इत्याह । अत एव रक्षितेनापि धातुप्रदीपे ‘तुन्दपरि मृजः’ तुन्दपरिमार्जः’ इत्युभयं दर्शितम् । दुर्घटवृत्तौ तु ‘तुन्दपरिमृजः’ इत्यत्र व्यवस्थितविभाषया वृद्दिर्नेत्युक्तम् । अत एव धातुवृत्तिषु ‘यूयं ममृज, ममार्ज’ इति रूपद्वयमुदाहृतम् । यत्तु मुख्याजादिग्रहणवादिनोऽपि मते ऽत्र वृद्धिविक्लपो दुर्वार एव । तताहि, मध्यमपुरुषबहुवचनस्य थस्य परस्मैपदानाम् (३.४.८२) इति सूत्रेण विधीयमानोऽकारादेसोऽलोन्त्यस्य प्राप्नोति । न चैवं विधिवैयर्थ्यम्, णलादीनां यथासंख्यसम्पादनेन चरितार्तत्वादित्याशङ्क्य भाष्यएव द्वेधा समाधास्यति कारद्वयात्मकोऽयमनेकाल्त्वात्सर्वादेशः । यद्वा धातोः (३.१.९१) इत्यधिकारद् आदेः परस्य (१.१.५४) इति थकारमात्रस्याकार इति । तत्र पक्षद्वयेपि अतो गुणे (६.१.९७) इति पररूपस्य अचः परस्मिन् (१.१.५७) इति स्थानिवद्भावान्मुख्याजादित्वमप्यस्त्येवेति कैश्चिद्धरदत्तमिश्रमते दूषणमुक्तम् । तन्न, आद्यन्तवद् (१.१.२१) इत्यतिदेश इव स्थानिवद्भावेऽपि मुख्यत्वाभावस्य सुवचत्वादिति दिक् ।

स्यादेतत्, ‘अचिनोत्’ ‘अमार्ट्’ इत्यादौ स्तानिवद्भावेन तिपो ङित्त्वात् क्ङिति च (१.१.५) इति गुणवृद्दिनिषेधः स्यात् । न चाल्विधित्वात्स्थानिवद्बावासम्भवः अनुबन्धकार्येष्वनल्विदाविति निषेधस्याप्रवृत्तेः । अन्यथा ‘अचिनवम्’ ‘अमार्जम्’ इत्यादावपित्त्वेन सार्वदातुकमपित् (१.२.४) इति ङित्त्वापत्तेः । इह च ज्ञापकं न ल्यपि (६.४.६९) इति सूत्रम् । अन्यथा ल्यपः कित्त्वाभावादेवेत्वाप्राप्तौ किन्तन्निषेदार्थेन सूत्रेण ? यत्तु सेर्ह्यषिच्च (३.४.२७) इत्यपिद्वचनं ज्ञापकमिति । तन्न, शृणीहि विश्वतः प्रति इत्यादौ स्थानेन्तरतमपरिभाषया पित्तवादनुदात्तस्य सिपः स्थानेऽनुदात्तस्यैव हेः प्राप्तवुदात्तसम्पादनेन चरितार्थत्वात् । अपित्त्वसामर्थ्याद्धि तत्रान्तरतमपरिभाषा बाध्यते । प्रतिपत्तिलाघवार्थमुदात्त इति वक्तव्ये ऽपिद्वचनं ज्ञापकमिति वाऽस्तु । न्यायसिद्धोऽप्ययमर्थः, अनुबन्धानामनेकान्तत्वेन स्थानिकोटावप्रविष्टतया स्तान्यलाश्रयविधिवि,यकस्य अनल्विधौ(ए.१.१.५६) इति निषेधस्याप्रवृत्तेः,। अनुबन्धा एकान्ताः (पा.भा.५)इति तेऽपि स्थानित्वप्रतीतेः प्रागेवातरङ्गेण लोपेन तेषामपहारात् । तस्माल्लडाद्यादेशानां तिबादीनां स्थानिवद्भावेन ङित्त्वं दुर्वारमिति ।

अत्राहुः यासुट् परस्मैपदेषु (३०४.१०३) इति सूत्रे ङिद्वचनं ज्ञापकं-लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । तथाचवार्त्तिकम् लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धम् इति । ननु ‘स्तुयात्’ इत्यादावनिग्लक्षणवृद्धिप्रतिषेधार्थं ‘चिनुयुः’ इत्यादौ जुसिच (७.२.८३) इत्यस्य प्रतिषेधार्थञ्च यासुटो ङित्त्वमस्तु । उतो वृद्धिर्लुकि हलि (७.३.८९) इत्यत्र त्द्युत इति निर्द्दिष्टस्थानिकतयेक्परिभाषा नोपतिष्ठते । जुसि च (७.२.८३) इति तु क्ङिति च (१.१.५) इत्यस्यापवाद एव । तताच स्थानिवद्भावलब्धं ङित्वं ‘स्तुयात्’ ‘चिनुयुः’ इत्यत्र वृद्धिगुणौ निषेद्धुं नालम् । पुनर्ङित्त्वसामर्थ्यात्तु तदुभयनिषेधो भविष्यति । तथाच वृद्धिगुणनिषेधे चरितार्तं यासुटो ङित्त्वङ्कथं लादेशेषु लाश्रयङित्त्वस्य विरहं ज्ञापयेदिति चेत् ? उच्यते, अत औत् ? ? इति वक्तव्ये वृद्धिग्रहणं संज्ञापूर्वको विधिरनित्यो यता स्यादित्येव मर्थम् । तेन ‘स्तुयात्’ इत्यत्र न वृद्धिः, तथा ‘चिनुयुः’ इत्यत्र न गुणः क्सस्याचि (७.३.८२) इत्यतोऽचीत्यनुवर्त्याजादौ जुसि गुणविधानात् । मिदेर्गुणोऽकजुसि च इत्यकारं प्रश्लिष्याच्चासावुस् चेति कर्मधारयाश्रयणेनाजादावुसि गुणपिधानाश्रयणे तु ‘चक्रुः’ ‘जर्हुः’ इत्यादावतिप्रसङ्गः ।

गुणेति लुप्तविभक्तिकमुजुसीति च च्छेदः । उकारादौ जुसीति चार्थः । जुसि गुणे यासुट्प्रतिषेधः (का.वा.) इति वार्त्तिकमप्युक्तरीत्या सिद्धार्थकथनपरमिति तावद्वार्त्तिककारस्य हृदयम् । भाष्यकारमते तु सार्वधातुकमपित्(१.२.४) इति सूत्रेऽपिदिति योगं विभज्य ङिदिति चानुवर्त्यावृत्तिञ्चाश्रित्य ङिच्च पिन्न पिच्च ङिन्न भवतीति वाक्यार्थद्वयं वर्ण्यते । इदञ्च हलः श्नः (३.१.७३) इति सूत्रे भाष्ये स्पष्टम् । तेन ‘ब्रूतात्’ इत्यत्र ब्रुव ईण्न तातङ् औपदेशिकङित्वेनान्तरङ्गेणातिदेशिकस्य बहिरह्गस्य पित्वस्य बाधात्, ‘आतिदिष्टादुपदिष्टं बलीयः’ इति न्यायात् । ‘अचिनोत्’ इत्यादौ त्वौपदेशिकेन तिबादीनां पित्त्वेन लाश्रयमातिदेशिकं ङित्वम्बाध्यते । तेन गुणादिसिद्धिः । अस्मिंश्च पक्षे यासुटो ङित्ववचनं न ज्ञापकं किन्तु ‘मृज्यात्’ इत्यादावप्राप्तङित्वविधायकम् । तेन च पित्त्वस्य ‘चिनोति’ इत्यादौ सावकाशस्य वाधः । अतः ‘स्तुयात्’ इत्यादौ पिति हलीति विधीयमाना वृद्धिर्न प्रवर्त्तते । ‘चिनुयुः’ इति तु प्राग्वदेव समर्थनीयम् । पूर्वोदाहृतवार्त्तिकमते तु ‘ब्रूतात्’ इत्यत्रेट् प्राप्नोति । आगमशासनमनित्यम् इति तु कथं चित्समाधेयः । वस्तुतस्तु हलः श्नः सानज्ज्ञौ (३.१.८३) इति शानचः शित्करणेन क्वचिदनुबन्धकार्येप्यनल्विधाविति निषेधः प्रवर्त्तते इति ज्ञाप्यते । तेन ‘ब्रूतात्’ इत्यादौ न कश्चिद्दोष इति । अत एव भाष्यमते ‘भविषीष्ट’ इत्यत्र ङित्वन्न ‘करिष्यमाणा’ इत्यत्रोगिल्लक्षणाटिल्लक्षणश्च ङीब्नेति दिक् ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

इग्लक्षणे गुणवृद्धी यं प्रत्ययमाश्रित्य ते तस्य गित्त्वे कित्त्वे ङित्त्वे च सति न स्तः । ककारात् पूर्व चत्वेंन गकारस्यापि प्रश्लेषात् । यत्तु किदादिकं निमित्ततयाऽऽश्रित्य ये प्राप्नुत इति व्याख्यानम्, तच्चिन्त्यम्, निमित्तादिपदान्वयिपदजन्यबोधे प्रकारतया भासमानस्य धर्मस्य निमित्तताद्यवच्छेदकत्वेन प्रतीतिनियमात् । दण्डः कारणमित्यादौ दण्डत्वादेः कारणतावच्छेदकत्वस्य, घटः कार्यमित्यादौ घटत्वादेः कार्यतावच्छेदकत्वस्य च प्रत्ययात् । अन्यथा तादृशशब्दात् कारणत्वाद्यग्रहापत्तेः । ततश्च कित्त्वाद्यवच्छिन्नकारणतानिरूप्यकार्यत्वस्य गुणवृद्ध्योः शाब्दविषयत्वे वृत्तेरप्रमाणत्वापत्तेः । तत्र शास्त्रस्यापि तात्पर्ये तु षोडशिग्रहणाग्रहणवद्विकल्पापत्तेरित्यास्तान्तावत् । 

गित् जिष्णुः । ग्लाजिस्थश्च इति ग्स्नुः । कित् स्तुतः, स्तुतवान् । ङित् चिनुतः, सुनुतः । सार्वधातुकमपित् इति ङित्त्वम् । इग्लक्षणे इति किम् ?  लैगवायनः । ओर्गुणः इति निर्दिष्टस्थानिकत्वात् इक्पदानुपस्थित्या फकः कित्त्वेऽपि तन्निमित्तको गुणो यथा स्यात् । अत एव कामयत इत्यत्र कमेर्णिङो ङित्त्वेऽपि तमाश्रित्य अत्त उपधायाः इति वृद्धिर्धात्वकारस्य भवत्येव । आश्रित्येति किम् ? छिन्नम् भिन्नम् इत्यादौ लघुपधगुणोऽपि यथा न स्यात् । 

अत्र इक इत्यनुवर्तते गुणवृद्धी इत्ति च । तत्र विक्ङत्तीत्यनेन इको विशेषणे क्क्ङिति परतो य इगित्यर्थे तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषोपस्थितौ निर्दिष्टशब्दस्याव्यवहितोच्चारितार्थकतया चितम् स्तुतम् इत्यादौ किदाद्यव्यवहितपूर्ववर्त्तिन एवं इको गुणनिषेधः स्यात्, न तु भिन्नमित्यादौ । दकारेण व्यवहितत्वात् । तस्मात् विक्ङत्तीति गुणवृद्धिविशेषणमेव । ततश्च नेयं परसप्तमी, विक्ङति परे गुणवृद्ध्योरविहितत्वात्, अन्यथा विकल्पापत्तेः, किन्तु निमित्ततामात्रे । तच्च इगन्तेऽव्यवधानेन लघूपधे व्यवधानेनेति यथाप्राप्तं गृह्यते । अनुवादस्य यथाप्राप्तपरत्वनियमात् । निमित्तत्वमपि सार्वधातुकत्वादिना तत्तद्विधौ श्रूयमाणेन धर्मेण । क्क्ङिदादौ निषेधसामर्थ्याद्विधिवाक्येषु तदनुल्लेखाच्च । यद्यपि निमित्तत्वं सप्तम्यों विशिष्य नोक्तः, तथापि विक्ङति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे अर्थात् तत्प्रत्ययस्य निमित्तत्वं पर्यवस्यतीत्याहुः । 

रलो व्युपधाद् इत्यादिना कित्त्वातिदेशश्चात्र मानम् । अन्यथा व्यवधानेन गुणनिषेधाप्रवृत्तौ तदर्थकित्त्वस्य वैयर्थ्यापत्तेः । वस्तुतः क्क्ङितीत्यत्र विशेष्याकाङ्क्षायां पूर्वसूत्रस्थार्द्धधातुकपदेन तिशिद्भिन्नत्वे सति धात्वधिकारोक्तप्रत्ययत्वेन रूपेण तत्समर्पणेऽपि विशिष्टस्यात्र विशेष्यत्वस्वीकारे सार्वधातुकमपित् इत्यादीनां व्यर्थत्वापत्त्या सत्यन्तम्परित्यज्य घात्वधिकारोक्तप्रत्ययत्वमेव विशेष्यतावच्छेदकम् विशिष्टवाचकपदानां सति बाघके विशेष्यमात्रपरत्वस्य लक्षणां विनैव स्वीकारात् । श्रोतव्यः श्रुतिवाक्येभ्यः इत्यत्र श्रुतिशब्दस्य प्रमाणशब्दमात्रपरत्वस्वीकारात् । ततश्च प्रत्ययेनाङ्गस्योपस्थित्या लघूपधस्याङ्गस्याव्यवधानादुभयत्रापि निषेधसिद्धिः । अङ्गापेक्षस्यैवाव्यवधानस्य स्वीकारात् । इदञ्चात्रैव कैयटे स्पष्टम् । 

इहान्ये वैयाकरणा मृजेरजादौ सङ्क्रमे विभाषा वृद्धिमारभन्ते विवडत्यचि वा इति पूर्वसूत्रे भाष्यम् । सङ्क्रमो गुणवृद्धिप्रतिषेधहेतुभूतः क्विडत्प्रत्ययः पूर्वाचार्यसङ्केतात् । अजादौ विक्ङति प्रत्यये परे मृजेर्विकल्पेन वृद्धिर्भवतीति तस्यार्थः । मृजन्ति मार्जन्ति । अत्र हरदत्तः यस्मिन्विधिस्तदादावल्ग्रहणे इति परिभाषयैव सिद्धौ अजादाविति वचनं मुख्याजादिग्रहार्थम् । तेन व्यपदेशिवद्भावेनाजादौ न भवति । यथा यूयं ममृज त्वया ममृजे इति । 

अत्र केचित् तथाऽपि ममृजेत्यत्र विकल्पो दुर्वारः । लिटि मध्यमपुरुषबहुवचनस्य थस्य स्थाने विधीयमानोऽकारादेशोऽन्त्यस्य प्राप्नोति । न चैवं विधिवैयर्थ्यम्, थकारोत्तराकारस्य तत्र स्वत एव सत्त्वादिति वाच्यम् । णलादीनां यथासङ्ख्यसम्पादनेन सार्थक्यादित्याशङ्क्य अकारद्वयात्मकोऽयमादेशोऽनेकाल्त्वात् सर्वस्य, यद्वा धातोरित्यधिकाराद्धातोः परस्य थस्याकारविधाने आदेः परस्य इति परिभाषया थकारस्यैवाकारः, उभयथाऽपि अतो गुणे इति पररूपमिति भाष्ये स्पष्टम् । तस्य स्थानिवद्भावेन मुख्याजादित्वमस्त्येवेति । 

अन्ये त्वाहः व्यपदेशिवद्भावनिबन्धनाजादित्वस्येव स्थानिवत्त्वनिबन्धनस्यापि तस्य गौणताया वक्तुं शक्यत्वान्नेदं साधीयः । किन्तु अजादाविति न विधिवाक्यशरीरम्, येनोक्तमर्थ ज्ञापयेत् । किन्तु क्विङत्यचि वा इति तदुत्तरभाष्यपठितमेव । पूर्वभाष्यस्थमजादिपदं तु अचीत्यस्य यस्मिन् इति परिभाषासिद्धार्थानुवादमात्रम् । अतो न हरदत्तोक्तं युक्तम् । अत एव ममृजेत्यत्र गणपाठादेव वृद्ध्यभाव इति आत्रेयः । धातुवृत्तिष्वपि यूयं ममृज ममार्ज इत्युदाहृतमिति । 

इदं चान्यदवधेयम् । विक्ङत्येव विकल्पारम्भात् धात्वंशलोपनिमित्तत्वेन वृद्धिनिषेधहेतावच्छ्रत्यये नायं विकल्प इत्यत्रोक्तम् । तत्सूत्रप्रत्याख्यानप्रस्तावे तु अतोलोपस्य स्थानिवद्भावमाश्रित्य यथोत्तरं मुनीनां प्रामाण्येन वृद्धिविकल्पो भवत्येवेत्युक्तम् तच्चिन्त्यम्, सूत्रारम्भपक्षे यथारूपं तथैव तत्प्रत्याख्यानेऽपीति तत्र भाष्याभिप्रायस्यावश्यकत्वात् । तस्य चात्र हरदत्तोक्ताभिप्रायेणैव सिद्धेरिति दिक् । नन्वचिनोत् अमार्ट इत्यादौ स्थानिवद्भावेन तिबादेर्डिङत्त्वाद् गुणवृ‌द्धिनिषेधापत्तिः । न चानल्विधाविति तन्निषेधः शङ्क्यः । अनुबन्धकार्येषु तदप्रवृत्तेः । युक्तं चैतत् । अनुबन्धानामित्संज्ञकत्वेन आदेशात् पूर्वमेव लोपेन स्थानिन्यसन्निधानात् । आदेशप्रयोज्यनिवृत्तिप्रतियोगिन एव स्थानित्वात् । लकारानुबन्धनिवृत्योश्च भावाभावरूपादेशप्रयोज्यत्वात् । अनेकान्ता अनुबन्ध इति पक्षे तु तेषां स्थानिकोटिप्रवेशस्य दूरापास्तत्वात् । ज्ञापर्क चात्र न ल्यपि इति ईत्वनिषेधः । क्वानिष्ठकित्त्वस्य स्थानिवद्भावेन ल्यप्यप्रवृत्तौ कित्त्वाभावादेव ईत्वाप्रसक्त्या तद्वैयर्थ्यापत्तेरिति चेदत्र वार्त्तिकं तावत् । लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेत्, यासुटो ङिद्वचनात्सिद्धमिति । 

अन्यथा लिङ्वद्भावप्रयुक्तङित्त्वेन तदादेशानां ङित्त्वे तदवयवस्य यासुटोऽपि तत्त्वात् यासुट् परस्मैपदेषूदात्तो ङिच्च इति ङिद्वचनं व्यर्थ स्यात् । न च स्तुयादित्यादौ उतो वृद्धिलुकि हलि इत्यस्या उत इति निर्दिष्टस्थानिकत्वेनानिग्लक्षणाया वृद्धेः, चिनुयुरित्यादौ विक्ङति च इति निषेधापवादस्य जुसि च इति गुणस्य च प्रतिषेधार्थ ङिद्वचनमस्तु, पुनर्जित्त्वसामर्थ्य विना स्थानिवत्त्वप्रयुक्तडित्त्वमात्रेण तन्निषेधस्यानुपपत्तेरिति कथं तस्य ज्ञापकत्वमिति वाच्यम् । उत औदित्येव सिद्धे वृद्धिग्रहणेन संज्ञापूर्वको विधिरनित्यः इति वृद्धिनिषेधसिद्धेः । क्सस्याचि इत्यस्मादचीत्यनुवर्त्य अजादौ जुसि गुणविधानात् यासुटि कृते च जुसो हलादित्वसम्पत्तेः । यद्वा मिदेर्गुणो जुसि च इति संहितापाठे अजुसीति छित्वा अजादावुसि गुणविधानात् ।

यत्त्वेवं चक्रुः जहुः इत्यादावतिप्रसङ्ग इति तन्न, तस्य अजादित्वव्यभिचाराभावेन विशेषणवैयर्थ्यापत्त्या तत्सामध्ये॑न जुस्येव पर्यवसानात् । वस्तुतस्तु अच्चासावुस् चात्र न कर्मधारयः । उकारसकारात्मकसमुदाये अजभेदस्य बाधितत्वात् । न च अच्पदमजादौ लाक्षणिकम् । गौरवात् । न चात्र यस्मिन्विधिस्तदादावल्ग्रहणे इति निर्वाहः । यस्मिन्निति सप्तम्यन्तानुकरणेन अलः सप्तम्यन्तत्व एव तत्प्रवृत्तेः । अत्र च विशेष्येणान्वये तद्विभक्त्याऽस्य सप्तम्यन्तत्वे परिभाषाप्रवृत्तिः । तस्यां चाजादिपरत्वेन योग्यतासम्पत्त्या विशेष्यान्वय इत्यन्योन्याश्रयात् । एतेन उजुसीति च्छेदोऽपि निरस्तः । अत एवाचीति सप्तम्यन्तानुवृत्तिपक्ष एव सप्तमे भाष्यकृता सिद्धान्तित इति दिक् । 

न चैवं जुसि गुणे यासुट्प्रतिषेध इति तत्रत्यवार्त्तिकवैयर्थ्यम् । उक्तरीतावेव तस्य तात्पर्यस्य तत्रोक्तत्वादिति । न चैवमपि ब्रूतादित्यत्र ब्रुव ईट् इतीडागमापत्तिः, तातङः स्थानिवत्त्वेन पित्त्वादिति वाच्यम् । अनित्यमागमशासनम् इति परिहारात् । भाष्यमते तु सार्वधातुकमपित् इत्यत्र अपिदिति योगो विभज्यते, ङिदिति चानुवर्त्तते । पर्युदासवृत्तिं नवं च पृथक्कृत्य ‘ङित पिन्न भवतीति’ आवृत्त्या वाक्यद्वयं कल्प्यते । तथा च ङित्त्वपित्त्वयोः परस्परात्यन्ताभावव्याप्यत्वलाभे अर्थादौपदेशिकेनातिदेशिकस्य बाधः फलति । तेन बूतादित्यत्र इण् न । तातङ औपदेशिकेन डित्त्वेनातिदेशिकस्य पित्त्वस्य बाधात् । अचिनोदित्यादौ तु पित्त्वस्यौपदेशिकत्वाद्वैपरीत्यमिति गुणादिसिद्धिः । अत्र यासुटो ङिद्वचनं लिङाश्रयातिदेशिकडित्त्वस्य तिबाद्याश्रयपित्त्वेन बाधिततया पुनर्डित्त्वस्य विधायकमेव । ततश्चोभयोरप्यौपदेशिकत्वे सावकाशनिरवकाशन्यायेन चिनोतीत्यादौ सावकाशस्य पित्त्वस्यानवकाशेन ङित्त्वेन बाधः । प्रायणीयादिभिन्नाग्नीषोमीयप्राचीनपदार्थविषये सावकाशस्य यत्किञ्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीत्यस्येव निरवकाशैर्यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूयान्मन्द्रम् प्रायणीयायां मन्द्रतरमातिथ्यायामुपांशूपसत्सूच्चैरनीषोमीये इत्येतैः । अतः स्तुयादित्यत्र पिति हलि विहिता वृद्धिर्न । चिनुयुरित्यत्र तूक्त एव समाधिः । 

नन्वेवं भविषीष्टत्यत्र ङित्त्वं स्यात् । आतिदेशिकडिङत्त्वबाधकाभावात् । एवं करिष्यमाणेत्यत्र लुडादेशस्य शानचोऽतिदेशेन उगित्त्वाट्टित्त्वाच्च डीबापत्तिः, इति चेदत्राहुः हलः श्रः इत्यत्र ‘शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तिर्ज्ञाप्यते । अतो नोक्तदोषः । एवं च ब्रूतादित्यत्र वार्तिकमतेऽपि न ईडागमापत्तिरिति ॥

॥ सिद्धान्तकौमुदी ॥

गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥

॥ बालमनोरमा ॥

क्ङिति च । ग्‌ क् ङ् एषां समाहारद्वन्द्वः, कात्पूर्वगकारस्य चर्त्वेन निर्देशात् । ग् क् ङ् च इत् यस्येति विग्रहः । द्वन्द्वान्ते श्रूयमाण इत्यर्थ । इक इत्युचार्य विहिते इति लभ्यते । 'न धातुलोप आर्द्धधातुके' इत्यतो नेत्यनुवर्तते । तदाह - गित्किन्ङिन्नमित्ते इत्यादिना । गितीत्यनुक्तौ तु 'ग्लाजिस्थश्च ग्स्नु'रिति ग्स्नुप्रत्यये 'जिष्णु'रित्यत्र गुणनिषेधो न स्यात् । न च ग्स्नुप्रत्ययः किदेव क्रियतामिति वाच्यं, तथा सति 'घुमास्थे'ति किति विहितस्य ईत्वस्य प्रसङ्गात् । यदि तु गिति ङिति परतो गुणवृद्धी न स्त इति व्याख्यायेत, तदा च्छिन्नं भिन्नमित्यत्र क्तप्रत्यये परे लघुपधगुणनिषेधो न स्यात् । स्थानिभूतस्येको हला व्यवधानात् । न च येन नाव्यवधानन्यायः शङ्क्यः । चितं स्तुतमित्यादावव्यवहिते चरितार्थत्वात् । यदि च 'इको गुणवृद्धी' इत्येव व्याख्यायेत, न त्विग्लक्षणे इति, तदा लिगोरपत्यं लैगवायनः, नडादित्वात् फक्, इह आदिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वान्निषेधः स्यादित्यलम् । भूयादिति । इहार्द्धधातुकत्वाल्लिङ सलोप इत्यस्याऽप्रवृत्तेः स्कोरिति सलोप इत्युक्तं न विस्मर्तव्यम् । न चैवमपि संयोगादिलोपस्याऽसिद्धत्वाद्धल्ङ्यादिलोपः स्यादिति वाच्यं, सुटि यासुटि च सति ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावादित्यलम् । भूयास्तामिति । आशिषि लिङस्तस्तामादेशे आर्द्धधातुकत्वाच्छभावे यासुडागमेऽतः परत्वाऽभावादियादेशाऽभावे सुटि झल्परसंयोगदित्वेन यासुटः सकारस्य लोपो, गुणनिषेधश्च । भूयासुरिति । झेर्जुसि यासुडागमे गुणनिषेधे रूपम् । भूया इति । आशीर्लिङः सिपि इतश्चेतीकारलोपः । यासुटः 'स्को'रिति सलोपः, गुणनिषेधः, रुत्वविसर्गौ । भूयास्तमिति । थसस्तमादेशे यासुटि गुणनिषेधः । एवं थस्य तादेशेऽपि भूयास्तेति रूपम् । भूयासमिति । मिपोऽमादेशे यासुटि गुणनिषेधः । भूयास्वेति । लिङो वस् । 'नित्यं ङित' इति सकारलोपः । यासुट् । गुणनिषेधः । एवं मसि भूयास्मेति रूपम् । इत्याशीर्लिङ्‌प्रक्रिया ॥

॥ तत्त्वबोधिनी ॥

ङिन्निमित्ते इति । 'कितिगितिङिति परे इको गुणवृद्धी न स्त' इति न व्याख्यातम्, छिन्नं भिन्नमित्यत्र लघूपधगुणस्याऽनिषेधप्रसङ्गात् । नचाऽ‌ऽरम्भसामथ्र्यं शङ्क्यं, चितं स्तुतमित्यादाव्वयवहिते किति चरितार्थत्वादिति भावः । अन्ये तु - क्ङितीति प्रत्ययग्रहणात्प्रत्ययेन संनिधापितस्याऽह्गस्य क्ङिति पर इति व्याख्यानेन तु छिन्नं भिन्नमित्यादि सिध्यत्येव । नचैवं भवावः भवाम प्रश्लिष्यत इत्याशयेन 'गित्किन्ङिन्निमित्ते' इत्युक्तम् । गिति किम् ? । 'ग्लाजिस्थश्च ग्स्नु' जिष्णुः । किति त्वस्मिन्स्थास्नुरित्यत्र 'घुमास्थे' तीत्त्वं प्रसज्येत । न ग्स्नोर्गित्त्वे भूष्णुरित्यत्रेण्निषेधो न स्यात्, 'ग्लाजिस्थश्चे' ति चकाराद्भुवश्च ग्स्नुर्भवतीति स्वीकारादिति वाच्यम्, 'श्र्युकः किती' त्यत्रापि चर्त्वेन गकारं प्रश्लिष्य गित्कितोरिण्न स्यादिति व्याख्यानात् । न चैवं चत्र्वस्याऽसिद्धतया 'श्र्युकः' इत्यत्र विसर्जनीयो न लभ्यत इति 'हशि चे' त्युत्वमेव स्यादिति वाच्यं, सौत्रत्वात् । 'न मु ने' त्यत्यत्र नेति योगविभागेनाऽसिद्धत्वाऽभावाद्वेष्टसिद्धेः । वामनस्तु - 'ग्लाजिस्थश्चे' ति सूत्रे स्था - आ इति प्रश्लेषात्स्थास्नुरित्यत्र 'घुमास्थे' तीत्वं न भविष्यतीति गकारप्रश्लेषाऽभावान्न 'श्र्युकः किती' त्यत्र चत्र्वस्याऽसद्धत्वाऽभावसमर्थनक्लेश इत्याह । इग्लक्षण इति । 'इक' इत्येवं विहिते इत्यर्थः । इग्लक्षणे किम् ? । लैगवायनः । लिगोर्नडादित्वात्फक् । इहादिवृद्धेरोर्गुणस्य च वस्तुगत्या इक्स्थानिकत्वेऽपि न निषेधः । न चेक इत्युक्तेऽपि 'किति चे' त्यारम्भसामथ्र्यादत्र निषेधो न भवेदिति शङ्क्यम्, नाडायनादौ तस्य चरितार्थत्वात् । भूयादिति । इह 'स्को' रिति लोपस्याऽसिद्धत्वात्तकारस्य संयोगान्तलोपः प्राप्तः पदान्तसंयोगादिलोपेनाऽनवकाशेन बाध्यते । नन्वेवमपि संयोगादिलोपस्य 'पूर्वत्रासिद्ध' मित्यसिद्धत्वाद्धल्ङ्यादिलोपः स्यात्, पदान्ते संयोगादिलोपस्य भृट् भृडित्यादौ सावकाशत्वादितिचेत्, अत्राहुः - सुडआसुटोः सतोस्ताभ्यां विशिष्टस्यैव प्रत्ययत्वेनाऽपृक्तत्वाऽभावात्, हलन्तायाः प्रकृतेः परत्वाऽभावाच्चोक्तदोषशङ्कैव नास्तीति ॥

॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥

सूत्रगतशब्दानां सिद्धिः

ग् च क् च ङ् च एषां समाहारः इति ग्-क्-ङ् । गकारस्य ककारपरे चर्त्वेन ककारः क्-क्-ङ् इत् यस्य स क्क्ङित् इति द्वन्द्वगर्भबहुव्रीहिसमासः । तस्मिन् इति क्क्ङिति । ‘ द्वन्द्वादौ द्वन्द्वमध्ये द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते ’ इति न्यायेन इच्छब्दः प्रत्येकमन्वेति । तथा च गिति किति ङिति चेत्यर्थो लभ्यते ।

च ‘ चन्दति ’ इति विग्रहे ‘ चदि आह्लादे ’ इति धातोः “ अन्येष्वपि दृश्यते ” इति सूत्रेण डप्रत्यये टिलोपे विभक्तिकार्ये च कृते निष्पद्यते ‘ च ’ इति शब्दः । ‘ च ’ इति अव्ययपदम् । 

सूत्रेऽस्मिन् ‘ च ’ इति शब्देन समुच्चयार्थको ग्राह्यः । 

सूत्रस्य निष्पन्नोऽर्थः  

द्विपदमिदं परिभाषासूत्रं निषेधसूत्रञ्च । क्क्ङिति इति सप्तम्यन्तपदम् । निमित्तसप्तम्येषा । च इति अव्ययपदम् ।  “ इको गुणवृद्धी ” इति संपूर्णं सूत्रमनुवर्तते । “ न धातुलोपे आर्धधातुके ” इत्यतः न इति चानुवर्तते ।  अस्य सूत्रस्यार्थो भवति गित् - कित् - ङिन्निमित्तके इकः स्थाने ये गुणवृद्धी प्राप्नुतस्ते न भवतः । 

अत्र काशिकाकारेणाप्येवमेव वृत्तिरुक्ता - निमित्तसप्तम्येषा । क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः । अत्र भट्टोजिदीक्षितः सिद्धान्तकौमुद्यामपि प्रोक्तवान् - गित्किन्ङिनिमित्ते इग्लक्षणे गुणवृद्धी न स्तः । सर्वैरपि व्याख्यातृभिः वृत्तिः महाभाष्याक्षरार्थानुगुणा कृता ।

शब्दकौस्तुभे गितं कितं ङितञ्च निमित्तयाऽऽश्रित्य ये प्राप्नुतस्ते न स्तः इति भट्टोजिदीक्षितेनोक्तम्, तच्चिन्त्यम्, निमित्तादिपदान्वयिपदजन्यबोधे प्रकारतया भासमानस्य धर्मस्य निमित्तताद्यवच्छेदकत्वेन प्रतीतिनियमात् । दण्डः कारणमित्यादौ दण्डत्वादेः कारणतावच्छेदकत्वस्य, घटः कार्यमित्यादौ घटत्वादेः कार्यतावच्छेदकत्वस्य च प्रत्ययात् । अन्यथा तादृशशब्दात् कारणत्वाद्यग्रहापत्तेः । ततश्च कित्त्वाद्यवच्छिन्नकारणतानिरूप्यकार्यत्वस्य गुणवृद्ध्योश्शाब्दविषयत्वे वृत्तेरप्रमाणत्वापत्तेः । तत्र शास्त्रस्यापि तात्पर्ये तु षोडशिग्रहणाग्रहणवद्विकल्पापत्तेरित्यास्तान्तावत् ।

परिभाषासाधनत्वम् 

कार्यकालं परिभाषमिति न्यायेन “ पुगन्तलघूपपधस्य च ” इति सूत्रस्य पार्श्वे “ क्किङति च ” इति सूत्रस्य उपस्थिति भवति । अत एवोद्यते कैयट आह  ‘ यत्र गुणवृद्धी विधीयेते तत्र क्ङिति न इत्युपतिष्ठते इत्येवमियं परिभाषा भवति ’ । अर्थात् गुणवृद्धिलिङ्गकत्वात् परिभाषात्वं भवति । भगवांञ्छ्रीपतञ्जलिरपि ब्रवीति स्म महाभाष्ये ‘ अथवा कार्यकालं संज्ञापरिभाषम् । यत्र कार्यं तत्र द्रष्टव्यम् । पुगन्तलघूपपधस्य गुणो भवतीत्युपस्थितमिदं भवति क्किङति नेति ’ । ‘ निषेधेऽपि परिभाषासादृश्यात्परिभाषात्वमुक्तम् । सादृश्यं च निषेध्याकाङ्क्षया तदेकवाक्यतामात्रेणेति बोध्यम् ’ इति उद्द्योतकारः । पूर्वोत्तरसूत्रसाहचर्यात् “ क्किङति च ” इति सूत्रस्यास्य निषेधसूत्रत्वस्यैवौचित्येन परिभाषात्वस्यायुक्तत्वात् समाधानान्तरमाह भाष्यकारः - ‘ अथवा यदेतस्मिन् योगे क्क्ङिद् ग्रहणं क्रियते तदनवकाशम् । तस्यानवकाशत्वाद् गुणवृद्धी न भविष्यतः ’ इति । ‘ अथवा यथोद्देशपक्षाश्रयेण भाष्यम् ’ इति कैयटः ।

निमित्तसप्तमी वा परसप्तमी 

अत्र “ इको गुणवृद्धी ” इति सम्पूर्णं सूत्रमनुवर्तते । तत्र क्क्ङितीत्यनेन ‘ इकः ’ इत्यस्य विशेषणं स्यात्, तदा “ तस्मिन्निति निर्दिष्टे पूर्वस्य ” परिभाषोपस्थितौ निर्दिष्टशब्दस्याव्यवहितोच्चारितार्थकतया ‘ चितः ’, ‘ स्तुतः ’ इत्यादौ । किदाद्यव्यवहितपूर्ववर्त्तिन एव इको ये गुणवृद्धी प्राप्नुतस्ते न स्याताम्, न तु भिन्नमित्यादौ । दकारेण इको व्यवहितत्वात् । तस्मात् क्क्ङितीति गुणवृद्धिविशेषणमेव । ततश्च नेयं परसप्तमी, किन्तु निमित्ततामात्रे । तच्च इगन्तेऽव्यवधानेन लघूपधे व्यवधानेनेति यथाप्राप्तं गृह्यते ।  क्क्ङिति ये गुणवृद्धी ते न भवत इत्येवंप्रकारेणगुणवृद्ध्योरनूद्यमानतया ‘ विधौ परिभाषोपतिष्ठते नानुवादे ’ इति वचनेन इक्परिभाषा यथा “ वृद्धिर्यस्याचामादिस्तद्वृद्धम् ” इत्यादौ अनूद्यमानवृद्धिपदे न प्रवर्त्तते, अन्यथा ‘ शालीयः ’ इत्यादि न सिध्येत् । यद्यपि निमित्तत्वं सप्तम्यर्थो विशिष्य नोक्तः, तथापि क्क्ङिति सति प्राप्ते ये गुणवृद्धी इति सम्बन्धे अर्थात् तत्प्रत्ययस्य निमित्तत्वं पर्यवस्यति । तथा च ‘ क्क्ङिन्निमित्ते ये गुणवृद्धी प्राप्नुतस्ते न स्तः ’ इत्यर्थो निष्पद्यते । “ रलो व्युपधाद्धलादेः संश्च ” इत्यादिना कित्त्वातिदेशश्चात्र मानम् । अन्यथा व्यवधानेन गुणनिषेधाप्रवृत्तौ तदर्थकित्त्वस्य वैयर्थ्यापत्तेः । 

वस्तुतः “ क्क्ङिति च ” इत्यत्र विशेष्याकाङ्क्षायां धातुपदमनुवर्त्य विहितविशेषणतया धात्वधिकारोक्तप्रत्ययत्वमेव विशेष्यतावच्छेदकं विशिष्टवाचकपदानां सति बाधके विशिष्यमात्रपरत्वस्य लक्षणां विना स्वीकारात् । ततश्च प्रत्ययेनाङ्गस्योपस्थित्या लघूपधस्याङ्गस्याव्यवधानादुभयत्रापि निषेधसिद्धिः । अङ्गापेक्षस्यैवाव्यवधानस्य स्वीकारात् ।  ‘ धातोर्विहिते क्क्ङिति अनन्तरो यो धातुर्विकरणो वा तस्य गुणवृद्धी न स्तः ’ इत्यर्थस्वीकारात् ‘ भिन्नः, भिन्नवान्, चितः, चितवान्, स्तुतः, स्तुतवान्, कृतः, कृतवान् ’ इत्यादौ सर्वत्र धात्ववयवस्य विकरणावयवस्य च इको गुणनिषेधः सम्भवति । किं वा “ त्रसिगृधिधृषिक्षिपेः क्नुः ” इति क्नोः कित्त्वं “ इको झल् ”,“ हलन्ताच्च ” इति हलन्ताद्धातोः परस्य सनः कित्त्वं च आचार्यप्रवृत्तिरूपं ज्ञापकं भवेत् । उपधाभूतस्यापि इको गुणवृद्धिनिषेधे । एवं ‘ रोरवीति ’ इत्यत्र लुप्तयक्प्रत्ययपरकत्वमाश्रित्य गुणनिषेधप्रसङ्गो नापादनीयः । “ न लुमताऽङ्गस्य ” इति सूत्रेण प्रत्ययलक्षणप्रतिषेधेन ङित्परत्वाऽभावात्, यङ्लुकश्छान्दसत्वात्, अन्तरङ्गप्रतिषेधदृष्ट्या बहिरङ्गगुणस्यासिद्धत्वाच्च निषेधाप्रवृत्तिः । 

न च “ न ल्यपि ” इति सूत्रेणाऽनुबन्धवृत्तिधर्मकत्वनिष्ठकित्त्वानयने “ स्थानिवदादेशोऽनल्विधौ ” इति निषेधो न प्रवर्तते इति ज्ञापनात् स्थानिवद्भावेन मिपि लकारवृत्तिधर्मङित्त्वमादाय ‘ अचिनवम् ’, ‘ असुनवम् ’ इत्यादौ गुणनिषेधो दुर्वार इति वाच्यम् ? ।

लिङ्वद्भावप्रयुक्तङित्त्वेन तदादेशानां ङित्त्वे तदवयवस्य यासुटोऽपि तत्त्वात् “ यासुट् परस्मैपदेषूदात्तो ङिच्च ” इति सूत्रे यासुटो ङिद्वचनं ज्ञापकं लादेशानां स्थानिवद्भावेन ङित्त्वन्न भवतीति । ‘ ङिति यत्कार्यं तन्न भवति, ङितो यत्कार्यं तत्तु भवत्येव ’ इति ज्ञापनात् तदुक्तं भाष्यकृता ‘ लकारस्य ङित्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद् यासुटो ङिद्वचनासिद्धम् ’ इति । तथापि वृत्तिकारैर्निमित्तार्थकत्वपक्ष एव समाश्रितः । यतो हि परसप्तमीपक्ष उपसर्जनस्यापि पदैकदेशधातुशब्दस्य अनुवृत्त्यर्थं स्वरितत्वप्रतिज्ञाने, क्नुसनोः कित्त्वस्य उपधाभूतस्यापि इको गुणनिषेधाय ज्ञापकत्वाश्रयणे च गौरवप्रसङ्गात् । भाष्ये तु निमित्तग्रहणाभावेऽपि सम्प्राप्तदूषणान्येव दूरीकृतानि, न तु परसप्तमीपक्षः सिद्धान्ततया समर्थितः । अतश्चात्रोक्तम् - ‘ गित् - कित् - ङिन्निमित्तके इकः स्थाने ये गुणवृद्धी प्राप्नुतस्ते न भवतः ’ इति ।

गकारप्रश्लेषस्य प्रयोजनम् 

ग् क् ङ् एषां समाहारद्वन्द्वः कात्पूर्वं गकारस्य “ खरि च ” इति सूत्रेण चर्त्वेन निर्देशात् क्क्ङ् च इद् यस्येति बहुव्रीहौ “ क्क्ङिति च ” इति सूत्रे चर्त्वभूतगकारस्यापि निर्देशाद् गित्कित्ङिन्निमित्ते इति भट्टोजिदीक्षित आह । काशिकाकारेणापि ‘ गकारोऽप्यत्र चर्त्वभूतो निर्दिश्यते ’ इत्युक्तम् । गकारप्रश्लेषस्यैतत्प्रयोजनम् - यत् “ ग्लाजिस्थश्च क्स्नुः ”,“ भुवश्च ” इत्यत्र क्स्नुप्रत्ययो  गिद् भवति । अत्रगकारचर्त्वभूतनिर्दिश्यते । तस्मिन् परेऽपि गुणनिषेधे ‘ जिष्णुः ’, ‘ भूष्णुः ’ इति प्रयोगस्य सिद्धिः यथा स्यात् । गकारप्रश्लेषाभावे गित्प्रत्ययनिमित्तकगुणस्य वारणं केन स्यात् ? क्स्नुप्रत्ययः किदेव अङ्गीकृत्य गुणस्य वारणं सम्भवेत्, एवं सति ‘ स्थास्नुः ’ इत्यत्र “ घुमास्थागापाजहातिसां हलि इति सूत्रेण ईत्वप्रसङ्गात् क्स्नुप्रत्ययः किन्न परन्तु गिदेवायम् । तथा च ‘ जिष्णुः ’ इत्यादौ गुणनिषेधाय गकारप्रश्लेषः कर्तव्य एव । 

न च क्स्नुप्रत्ययस्य गित्त्वे “ भुवश्च ” इति सूत्रेऽपि तस्यैवानुवृत्तेः ‘ भूष्णुः ’ इत्यत्र “ श्र्युकः क्किति ” इति सूत्रेण किन्निमित्तकेडागमस्य निषेधः कथं स्यात्, तत्रापि चर्त्वभूतगकारनिर्देशेन भवति । 

न चैवं चर्त्वस्यासिद्धतया विसर्जनीयो न स्यात्, “ हशि च ” इति सूत्रेण रोरुत्वञ्च प्रवर्तेत । तत्र सौत्रत्वाच्च निर्देशस्य चर्त्वस्यासिद्धत्वात्प्राप्तमपि “ हशि च ” इति सूत्रेण रोरुत्वं न भवति किन्तु “ कुप्वोः..... ” इति सूत्रेणविसर्जनीयश्च भवति ।

इग्लक्षणगुणवृद्धिनिषेधः 

अत्र हि चकारः क्रियते ‘ इकः ’ इति पदानुकर्षणार्थः । तत्र चकारेणानुकर्षणसामर्थ्यात् ‘ इकः ’ इत्यनुवृत्तं पदं स्वरूपपरम् । तथा च यत्र “ इको गुणवृद्धी ” इति परिभाषा गुणवृद्धिविधावुपतिष्ठते ‘ इकः ’ इति षष्ठ्यन्तं पदञ्चोपस्थापयति, तत्रैवायं निषेधोऽपि प्रवर्तते । यत्र इक्परिभाषा नोपतिष्ठते, तत्र इकः स्थाने एव गुणवृद्धिविधावपि निषेधोऽयं न प्रवर्तते । अतश्च ‘ कामयते ’, ‘ लैगवायनः ’ इत्यादीनां सिद्धिर्भवति । यथा च “ कमेर्णिङ् ” णिङ्निमित्ता कमेर्वृद्धिः “ अत उपधायाः ” इति प्रवर्तमाना, तत्र वृद्धिपदेन वृद्धिविधानेऽपि स्थानिनोऽकारस्य निर्देशात् इक्परिभाषा नोपतिष्ठतेऽतो नायं निषेधः प्रवर्तते । ‘ लैगवायनः ’ इत्यत्रापि “ नडादिभ्यो फक् ” इति फक्प्रत्ययनिमित्तके “ किति च ” इत्यादिवृद्धौ “ ओर्गुणः ” इति गुणे च सत्यपि साक्षादिकारोकारयोः स्थानिनिर्देशात् । यत्र साक्षात् स्थानी न निर्दिश्यते तत्रासावुपतिष्ठते । अत्र स्थानिनिर्देशाद् इक्परिभाषाऽनुपस्थितौ इग्लक्षणत्वाभावान्निषेधोऽयं न प्रवर्तते । ततश्च आदिवृद्धौ गुणे च सति ‘ लैगवायनः ’ इति प्रयोगस्य सिद्धिर्भवति ।

उदाहरणम्

गित्प्रत्ययस्य उदाहरणम् 

‘ जिष्णुः ’ इत्यत्र ‘ जि जये ’ इति धातोः “ ग्लाजिस्थश्च क्स्नुः ” इत्यनेन क्स्नुप्रत्यये अनुबन्धलोपे च कृते ‘ जि + स्नु ’ इति स्थिते “ आर्धधातुकस्येड् वलादेः ” इति सूत्रेण इडागमे प्राप्ते, “ एकाच उपदेशेऽनुदात्तात् ” इत्यनेन निषेधे कृते “ सार्वधातकार्धधातुकयोः ” इत्यनेन गुणे प्राप्ते, गित्प्रत्ययत्वात् “ क्क्ङिति च ” इति सूत्रेण निषेधे कृते, “ आदेशप्रत्यययोः ” इत्यनेन षत्वे संयोगे च कृते ‘ जिष्णु ’  इत्यस्य प्रातिपदिकसंज्ञायाम्, सुबुत्पत्तौ, रुत्वे,विसर्गे च कृते ‘ जिष्णुः ’ इति रूपं सिद्धम् ।

कित्प्रत्ययस्य उदाहरणम् 

‘ चितः ’  इत्यत्र ‘ चिञ् चयने ’ इति धातोः “ निष्ठा ” इति सूत्रेण क्तप्रत्यये अनुबन्धलोपे च कृते ‘ चि + त ’ इति जाते “ आर्धधातुकस्येड् वलादेः ” इत्यनेन इडागमे प्राप्ते, “ एकाच उपदेशेऽनुदात्तात् ” इत्यनेन निषेधे कृते “ सार्वधातकार्धधातुकयोः ” इत्यनेन गुणे प्राप्ते, कित्प्रत्ययत्वात् “ क्क्ङिति च ” इति सूत्रेण निषेधे कृते, संयोगे कृते ‘ चित ’ इत्यस्य प्रातिपदिकसंज्ञायाम्, सुबुत्पत्तौ, रुत्वे, विसर्गे च कृते ‘ चितः ’ इति रूपं सिद्धम् । 

ङित्प्रत्ययस्य उदाहरणम्

‘ सुनुतः ’ इत्यत्र ‘ षुञ् अभिषवे ’ इति धातोः “ धात्वादेः षः सः ” इत्यनेन सत्वे प्रथमपुरुषद्विवचनविवक्षायां तस्प्रत्यये ‘ सु + तस् ’ इति जाते, “ कर्तरि शप् ”  इत्यनेन शपि प्राप्ते, तं बाधित्वा “ स्वादिभ्यः श्नुः ” इति सूत्रेण श्नुप्रत्ययेऽनुबन्धलोपे ‘ सु + नु + तस् ’ इति स्थिते श्नुप्रत्ययं मत्वा “ सार्वधातकार्धधातुकयोः ” इत्यनेन गुणे प्राप्ते, “ सार्वधातुकमपित् ” इत्यनेन श्नुप्रत्ययं ङित्वन्मत्वा “ क्क्ङिति च ” इति सूत्रेण गुणनिषेधे कृते, तस्प्रत्ययं मत्वाऽऽपि गुणे प्राप्ते तत्रापि “ सार्वधातुकमपित् ” इत्यनेन श्नुप्रत्ययं ङित्वन्मत्वा “ क्क्ङिति च ” इति सूत्रेण गुणनिषेधे संयोगे रुत्वे विसर्गे च कृते ‘ सुनुतः ’ इति रूपं सिद्धम् । 

“ कर्तरि शप् ”, “ तुदादिभ्यः शः ” इत्यत्राकारात्मकस्य विकरणद्वयस्य कल्पनमनुबन्धभेदेन प्रक्रियाभेदसम्पादनार्थमेव । पित्त्वेन ङित्त्वाभावादेकत्र गुणः, पित्त्वाभावेन ङित्त्वादन्यत्र न गुणः । येषु गुण इष्टः ते भ्वादिरिति । येषु नापेक्षितो गुणस्ते तुदादिरिति च अकारविकरणकान् धातून् द्विधा विभज्य ‘ शप् ’, ‘ श ’ इति सावर्धातुकं विकरणप्रत्ययं पितमपितं च  कृतवानाचार्य इति सारम् । 

॥ महाभाष्यम् ॥

(५. निषेधसूत्रम् १.१.४ आ. २) 

क्ङिति च १.१.५ 

॥ सप्तम्या निमित्तार्थत्वाधिकरणम् ॥

(९५. उपसङ्ख्यानवार्त्तिकम् - १) * क्ङिति प्रतिषेधे तन्निमित्तग्रहणम् * 

व्याख्याभाष्यम् - क्ङिति प्रतिषेधे तन्निमित्तग्रहणं कर्तव्यम् । क्ङिन्त्रिमित्ते ये गुष्पवृद्धी प्राप्नुतस्ते न भवत इति वक्तव्यम् । किं प्रयोजनम् ? 

(९६. प्रयोजनवार्तिकम् - २) * उपधारोरवीत्यर्थम् * 

भाष्यम् - उपधार्थ रोरवीत्यर्थं च । उपधार्थ तावत् - भिन्नः, भिन्नवान् । किं पुनः कारणं न सिध्यति ? क्ङितीत्युच्यते । तेन यत्र क्ङित्यनन्तरो गुणभाव्यस्ति तत्रैव स्यात् - चितम्, स्तुतम् । इह तु न स्यात् - भिन्नः, भिन्नवानिति । 

प्रथमप्रयोजनबाधकभाष्यम् - ननु च यस्य गुण उच्यते, तं क्ङित्परत्वेन विशेष - यिष्यामः । पुगन्तलघूपधस्य च गुण उच्यते । तच्चात्र क्ङित्परम् । 

प्रथमप्रयोजनसाधकभाष्यम् - पुगन्तलघूपधस्येति नैवं विज्ञायते - पुगन्तस्याङ्गस्य लघूपधस्य चेति । कथं तर्हि ? पुकि अन्तः पुगन्तः । लध्वी उपधा लघूपधा । पुगन्तञ्च लघूपधा च पुगन्तलघूपधं, पुगन्तलघूपधस्येति । अवश्यं चैतदेवं विज्ञेयम् । अङ्गविशेषणे हि सतीह प्रसज्येत भिनत्ति, छिनत्तीति । 

द्वितीयप्रयोजनसमन्वयभाष्यम् - रोरवीत्यर्थ च । ' त्रिर्धा बुद्धो वृषभो रौरवीति ' । 

आक्षेपभाष्यम् - यदि तन्निमित्तग्रहणं क्रियते, शचङन्ते दोषः - रियति, पियति, धियति, प्रादुद्रुवत्, प्रासुस्रुवत् । अन्न न प्राप्नोति । 

(सिद्धान्तसमाधाने भाष्यवार्त्तिकम्) * शचङन्तस्यान्तरङ्गलक्षणत्वात् * 

भाष्यम् - अन्तरङ्गलक्षणत्वादत्रेयडुवडोः कृतयोरनुपधात्वाद् गुणो न भविष्यति ।  

तन्निमित्तग्रहणस्य निर्दोषतोपसंहारभाष्यम् -  एवं क्रियते चेदं तन्निमित्तग्रहणम्, न च कश्चिद्दोषो भवति । 

सूत्रार्थप्रदर्शनाय फलान्तरप्रदर्शकभाष्यम् - इमानि च भूयस्तत्रिमित्तग्रहणस्य प्रयोजनानि - हतः, हथः, उपोयते, औयत, लौयमानिः, पौयमानिः, नेनिक्ते इति । 

फलान्तरप्रत्याख्यानभाष्यम् - नैतानि सन्ति प्रयोजनानि । इह तावत् - हतो हथ इति । प्रसक्तस्याभिनिर्वृतस्य प्रतिषेधेन निवृत्तिः शक्या कर्तुम् । अत्र धातूपदेशावस्थायामेवाकारः । 

भाष्यम् - इह च - उपोयते - औयत - लौमयानिः - पौयमानिरिति । बहिरङ्गे गुणवृद्धी, अन्तरङ्गः प्रतिषेधः । असिद्धं बहिरङ्गमन्तरङ्गे । नेनिक्त इति । परेण रूपेण व्यवहितत्वान्न भविष्यति । 

तन्निमित्तग्रहणप्रत्याख्यानभाष्यम् - उपधार्थेन तावन्नार्थः । धातोरिति वर्तते । धातुं क्ङित्परत्वेन विशेषयिष्यामः ।

आक्षेपभाष्यम् - यदि धातुर्विशेष्यते, विकरणस्य न प्राप्नोति - चिनुतः, सुनुतः, लुनीतः, पुनीत इति । 

समाधानभाष्यम् - नैष दोषः । विहितविशेषणं धातुग्रहणम् - धातोयों विहित इति । 

आक्षेपभाष्यम् - धातोरेव तर्हि प्राप्नोति । 

समाधानभाष्यम् - नैवं विज्ञायते - धातोर्विहितस्य क्ङितीति । कथं तर्हि ? धातो - र्विहिते क्ङितीति । 

समाधानान्तरभाष्यम् - अथवा कार्यकालं हि सञ्ज्ञापरिभाषं, यत्र कार्य तत्र द्रष्टव्यम् । ' पुगन्तलघूपधस्य गुणो भवति ' इत्युपस्थितमिदं भवति ' क्ङिति न ' इति । अथवा यदेतस्मिन्योगे क्ङिग्रहणं तदनवकाशम् । तस्यानवकाशत्वात् गुणवृद्धी न भविष्यतः । 

अथवाऽऽचार्यप्रवृत्तिर्ज्ञापयति - ' भवत्युपधालक्षणस्य गुणस्य प्रतिषेधः ' इति । यदयं ' त्रसिगृधिधृषिक्षिपेः क्नुः ' ' इको झल्, हलन्ताच्च ' इति क्नुसनौ कितौ करोति । कर्थ कृत्वा ज्ञापकम् ? कित्करण एतत्प्रयोजनम् - गुणः कथं न स्यात् इति । यदि चात्र गुणप्रतिषेधो न स्यात्, कित्करणमनर्थकं स्यात् । पश्यति त्वाचार्यः - भवत्युपधालक्षणस्य प्रतिषेध - इति । ततः क्नुसनौ कितौ करोति । 

द्वितीयप्रयोजनप्रत्याख्यानभाष्यम् - रोरवीत्यर्थेनापि नार्थः । क्ङितीत्युच्यते, न चात्र क्ङितं पश्यामः । 

आक्षेपभाष्यम् - प्रत्ययलक्षणेन प्राप्नोति । 

समाधानभाष्यम् - ' न लुमता तस्मिन् ' इति प्रत्ययलक्षणप्रतिषेधः । अथापि ' न लुमताङ्गस्य ' इत्युच्यते, एवमपि न दोषः । कथम् ? न लुमता लुप्तेऽङ्गाधिकारः प्रतिनिर्दिश्यते । किं तर्हि ? योऽसौ लुमता लुप्यते तस्मिन्यदङ्गं तस्य यत्कार्यं तन्न भवतीति । अथाप्यङ्गाधिकारः प्रतिनिर्दिश्यते । एवमपि न दोषः । कथम् ? ' कार्यकालं सञ्ज्ञापरिभाषम् ' यत्र कार्य तत्र द्रष्टव्यम् । ' सार्वधातुकार्धधातुकयोर्गुणो भवति ' इत्युपस्थितमिदं भवति ' क्ङिति न ' इति । 

समाधानान्तरभाष्यम् - अथवा छान्दसमेतत् । दृष्टानुविधिश्छन्दसि भवति । अथवा बहिरङ्गो गुणोऽन्तरङ्गः प्रतिषेधः । ' असिद्धं बहिरङ्गमन्तरङ्गे ' । अथवा पूर्वस्मिन्योगे यदार्धधातुकग्रहणं, तदनवकाशम् । तस्यानवकाशत्वाद् गुणो भविष्यति । 

आक्षेपभाष्यम् - इह कस्मान्न भवति - ' लैगवायनः ' ' कामयते ' ? 

(सिद्धान्तसमाधाने भाष्यवार्त्तिकम्) * तद्धितकाम्योरिक्प्रकरणात् * 

भाष्यम् - इग्लक्षणयोर्गुणवृद्धयोः प्रतिषेधः । न चैते इग्लक्षणे । 

॥ स्थानिवत्त्वप्राप्तदोषवारणम् ॥

(१२८. आक्षेपवार्त्तिकम् - ४) * लकारस्य ङित्त्वादादेशेषु स्थानिवत्प्रसङ्गः * 

भाष्यम् - लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावः प्राप्नोति - अचिनवम्, असुनवम्, अकरवम् । 

(एकदेशिसमाधानभाष्यवार्तिकम्) * लकारस्य ङित्त्वादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेद्यासुटो ङिद्वचनात्सिद्धम् * 

व्यख्याभाष्यम् - यदयं यासुटो ङिद्वचनं शास्ति तज्ज्ञापयत्याचार्यः - न ङिदादेशा ङितो भवन्तीति । 

आक्षेपभाष्यम् - यद्येतज्ज्ञाप्यते, कथं ' नित्यं ङितः ' ' इतश्च ' इति ? 

समाधानभाष्यम् - ङितो यत्कार्यं तद्भावति, ङिति यत्कार्य तन्न भवतीति । 

आक्षेपभाष्यम् - किं वक्तव्यमेतत् ? 

समाधानभाष्यम् - न हि । 

आक्षेपभाष्यम् - कथमनुच्यमानं गंस्यते ? 

समाधानभाष्यम् - यासुट एव ङिद्वचनात् । अपर्याप्तश्चैव हि यासुट् समुदायस्य ङित्त्वे । ङितं चैनं करोति, तस्यैतत्प्रयोजनम् - ङितो यत्कार्यं तद्यथा स्याद्, ङिति यत्कार्य तन्मा भूदिति । क्ङिति च ॥ ५ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code