१.१.१
सूत्राणि:॥ वृद्धिरादैच् ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - वृद्धिः १।१ आदैच् १।१
समासः - आत् च ऐच् च एतयोः समाहार आदैच् (समाहारद्वन्द्वः) । तः परो यस्मात् स तपरः, तादपि परस्तपरः (बहुव्रीहि समास:) ।
अर्थ: - तपराणाम् आकार-ऐकार - औकाराणां वृद्धि-संज्ञा भवति ।
उदाहरणम् - (आकार) आश्वलायनः । शालीयः । मालीय: । (ऐकार:) ऐतिकायनः । (औकार:) औपगवः ।
आर्यभाषार्थ - (आदैच्) आ + त् + ऐच् अर्थात् तपर आकार, ऐकार और औकार की (वृद्धि:) वृद्धि संज्ञा होती है ।
उदाहरणम् - (आकार) आश्वलायन: । अश्वलायन का पुत्र । शालीयः । शाला में रहनेवाला गृहस्थ । मालीयः । माला में रहनेवाला पुष्प । (एकार) ऐतिकायनः । इतिक का पुत्र । (औकार) - औपगवः । उपगु का पुत्र ।
सिद्धिः - (१) आश्वलायनः । अश्वल + फक् । आश्वल् + आयन । आश्वलायन + सु । आश्वलायनः । यहां अश्वल शब्द से अपत्य अर्थ में 'नडादिभ्यः फक्' (४.१.८८) से फक् प्रत्यय, 'आयनेय' (७.१.२) से फ के स्थान में आयन-आदेश और 'किति च' (७.१.११८) से आदि वृद्धि होती है ।
(२) शालीय: । शाला + छ । शाल् + ईय । शालीय + सु । शालीय: । यहां शाला शब्द के आदि में वृद्धिसंज्ञक आकार के होने से उसकी वृद्धिर्यस्याचामादिस्तद् वृद्धम्' (१.१.७३) से वृद्ध संज्ञा होकर 'वृद्धाच्छ: ' (४.१.११४) से छ प्रत्यय होता है । छ के स्थान में 'आयनेय०' (७.१.२) से ईय-आदेश होता है । ऐसे ही माला शब्द से मालीयः ।
(३) ऐतिकायनः । इतिक + फक् । ऐतिक् + आयन । ऐतिकायन + सु । ऐतिकायनः । यहां इतिक शब्द से अपत्य अर्थ में 'नडादिभ्यः फक्' (४.१.८८) से फक् प्रत्यय, 'आयनेय' (७.१.२) से फ के स्थान में आयन- आदेश और 'किति च' (७.२.११८) से आदि वृद्धि होती है ।
(४) औपगवः । उपगु + अण्। औपगो + अ । औपगव + सु । औपगवः । यहां उपगु शब्द से अपत्य अर्थ में 'तस्यापत्यम्' (४.१.९२) से अण् प्रत्यय और 'तद्वितेष्वचामादेः' (७.२.११७) से आदि वृद्धि होती है । यहां 'ओर्गुण:' (६.४.१४६) से उपगु के अन्त्य उकार को गुण होता है ।
विशेष - आदैच् पद के मध्य में 'त' किसलिये लगाया गया है ? आ + त् + ऐच् । अष्टाध्यायी में अनेक स्थानों पर 'त्' लगाकर वर्णों का निर्देश किया गया है । उन वर्णों को तपर कहते हैं । यहां आ और ऐच् के मध्य में त् लगाया गया है । इसलिये देहली-दीपक न्याय से आ और ऐच् दोनों तपर हैं । जैसे घर की देहली पर रखा हुआ दीपक दोनों ओर अपना प्रकाश फैलाता है, वैसे यहां दोनों के मध्य में विद्यमान त् आ और ऐच दोनों को तपर करता है । तः परो यस्मात् स तपरः, तादपि परस्तपरः । जिससे त् परे है उसे तपर कहते हैं और जो त् से परे है वह भी तपर कहाता है । अष्टाध्यायी में वर्णों को तपर करने का प्रयोजन यह है कि 'तपरस्तत्कालस्य' (१.१.७०) अर्थात् तपर वर्ण तत्काल के ग्राहक होते हैं । ह्रस्व, दीर्घ, प्लुत जिस भी काल के वर्ण के साथ त् लगाया जाता है, वह उसी काल के उदात्त, अनुदात्त, स्वरित तथा निरनुनासिक और सानुनासिक वर्णों का ग्राहक होता है ।
इस प्रकार तपर वर्ण अपने छः प्रकार के स्वरूप का ग्रहण करता है, शेष का नहीं । अतः यहां छ: प्रकार के आकार, ऐकार और औकार की वृद्धि संज्ञा का विधान किया है । इसे निम्नलिखित अकार के १८ अठारह भेदों की रीति से यथावत् समझ लेवें ।
॥ काशिका ॥
‘वृद्धि’ - शब्दः संज्ञात्वेन विधीयते प्रत्येकमादैचां वर्णानां सामान्येन तद्भावितानाम्, अतद्भावितानाञ्च । तपरकरणमैजर्थम् - ‘तादपि परस्तपरः’ इति, खट्वैडकादिषु त्रिमात्रचतुर्मात्रप्रसङ्गनिवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपमन्यवः । शालीयः, मालीयः । वृद्धिप्रदेशा: - “सिचि वृद्धिः परस्मैपदेषु” (७.२.१/२२९७) इत्येवमादयः ॥
॥ न्यासः ॥
वृद्धि:, आत् ऐच् - इति केचित् त्रिपदमिदं सूत्रं वर्णयन्ति । अन्ये तु, आच्च, ऐच्च् इति आदैजिति समाहारे द्वन्दोऽयमिति मत्वा वृद्धिः, आदैच् इति द्विपदम् । इतरेतरयोगे हि बहुत्वाद्द्बहुवचनं स्यात् । ननु च समाहारेऽपि ‘द्वन्द्वाच्चुदषहान्तात्’ (५.४.१०६) इति टच् समासान्तः स्यात्; समासान्तविधेरनित्यत्वान्न भविष्य - अनित्यत्वं षष्ठे ज्ञापयिष्यते । अथ ‘चोः कुः’ (८.२.३०) इति कुत्वं कस्मान्न भवति ? ‘अयस्मयादीनि च्छन्दसि’ (१.४.२०) इति भसञ्ज्ञकत्वात् । आदिशब्दस्य प्रकारवाचित्वादैच्छब्दोऽयमयस्मयादिषु द्रष्टव्यः । ननु तत्र च्छन्दसीत्युच्यते, न चेदं छन्दः, तत्कुतो भसञ्ज्ञा ? ‘छन्दोवत् सूत्राणि भवन्ति’ इत्यदोषः ।
इहेदं सूत्रमनर्थकं वा स्याद्यथाकथञ्चिदुदात्तादिवचनवत् ? साध्वनुशासनार्थवा, वृद्धिशब्दस्यादैचाञ्चानेन साधुत्वमाख्यायत इति ? प्रयोगनियमार्थं वा, आदैच पर एव वृद्धिशब्दः प्रयोक्तव्य इति ? आदेशार्थवा, आदैचां वृद्धिशब्द आदेशो भवति ते वा तस्येति ? आगमागमिसम्बन्धार्थं वा, आदैचां वृद्धिशब्द आगमो भवति, ते वा तस्येति ? विशेषणविशेष्यभावप्रसिद्ध्यर्थं वा, आदैचां वृद्धिशब्दो विशेषणम्, ते वा, तस्येति ? एकविभक्तिकत्वं ह्यत्र दृष्टम्, दृष्टश्चैकविभक्तिकयोर्विशेषणविशेष्यभावः, तद्यथा - नीलमुत्पलमिति; सञ्ज्ञासंज्ञिसम्बन्धार्थं वा ? दृश्यते हि सोऽप्येकविभक्तिकयोः, तद्यथा ‘अयं पनसः’ इति ? तत्र तावदाद्यः पक्षो नोपपद्यते । सगषिगतज्ञानातिशयो ह्याचार्यः परहितप्रतिपन्नः समाहितचेताः शिष्याणां कृतरक्षासंविधानो मङ्गलपूर्वकं महता प्रयत्नेन सूत्राणि प्रणीतवान् । तत्राशक्यमेकेन वर्णनाप्यनर्थकेन भवितुम, किं पुनरियता सूत्रप्रबन्धेन !नापि शक्यं वृद्धिशब्दस्यादैचां च साधुत्वमनेन विधीयत इति विज्ञातुम्, लक्षणान्तरेण विहितत्वात् तेषां साधुत्वस्य । तथा हि वृद्धिशब्दोऽयमविशेषेण चोपदिष्ट: । ‘वृधु वृद्धी’ (धा.पा.७५९) इत्यतः क्तिन्प्रत्ययः ‘स्त्रियां क्तिन्’ (३.३.९४) इति , ‘झषस्तथोर्धोऽधः’ (८.२.४०) इति धत्वम्, ‘झलां जश् झशि’ (८.४.५३) इति धकारस्य दकारः । आदैचोऽप्यक्षरसमाम्नाय उपदेशात् । ऐचोऽक्षरसमाम्नाय उपदेशः, नाकारस्येति चेत् ? अवर्णजातेरुपदेशात् सोऽपि गृह्यत इत्यदोषः । अथाप्यकारव्यक्तेरुपदेश: ? एवमप्यदोषः । ‘अणुदित्सवर्णस्य चाप्रत्ययः’ (१.१.६९) इत्यकारेण गृह्यमाणेनाकारस्यापि ग्रहणात् । प्रयोगनियमार्थमप्येतन्नार्हति भवितुम । प्रयोगनियमार्थे ह्येतस्मिन् ‘सिचि वृद्धिः’ (७.२.१) 'मृजेर्वृद्धिः’ (७.२.११४) इत्यादावनादैच्परस्य वृद्धिशब्दस्य प्रयोगो नोपपद्यते । कथं हि नाम स्वयमेव नियमं कृत्वा तमनादैच्रं प्रयुञ्जीत ! अन्यस्तु प्रयोगनियमार्थमेतन्न भवतीति प्रतिपादयितुमाह - न ह च प्रयोगनियमार्थमारभ्यत इति । ननु चायं प्रयोगनियमार्थमेवारभ्यते ‘ते प्राग धातोः’ (१.४.८०) इति ? ते गत्यपसर्गसञ्ज्ञका धातोः प्रागेव प्रयोक्तव्याः इति परेण चोदिते परिहारमाह - प्रत्याख्यायते स योगः, न वा, तथानिष्टदर्शनात्’ इति । न हि प्रपचतीति प्रयोक्तव्ये कश्चित् पचति प्र इति प्रयुङ्कते । अथापि न प्रत्याख्यायेत, एवमपि न दोषः, यतः सञ्ज्ञानियमोऽयं न प्रयोगनियमः, ते प्रादयो धातोः प्राक् प्रयुज्यमाना एवं गत्युपसर्गसञ्ज्ञका भवन्ती - अथापि प्रयोगनियमार्थं स्यात्, एवमपि न दोषः, लौकिकानां शब्दानामर्थे प्रयुक्तानां प्रयोगनियम आरभ्यते, आदैच्छब्दश्च लौकिकः, तस्य किं प्रयोगनियमार्थेन वचनेनेति ? तत्र यदुक्तं ‘प्रत्याखअयायते स योगः’ इति , तदयुक्तम् । न हि सार्थकस्य प्रत्याख्यानं युक्तम् । निरर्थकः स इति चेत् ? अत्राप्यनर्थकत्वाशङ्काप्रसङ्गः । यदि ह्यनर्थकान्यपि कानिचित् सूत्राणि प्रणीतवान् सूत्रकार इत्येषोऽध्यवसायः स्यात् । तस्मात तस्य प्रामाण्यमभ्युपगच्छता सर्वं तत्प्रणीतं येन केनचित् प्रकारेण सार्थकमभ्युपेयम् । योऽपि सञ्ज्ञानियमपक्षमाश्रित्य परिहार उक्तः, सोऽपि वृत्त्या विरुध्यते । ‘ते गत्युपसर्गसञ्ज्ञका धातोः प्राक् प्रयोक्तव्याः’ इत्यनेन हि वृत्तिग्रन्थेन प्रयोगनियम एवाश्रित इति स्पष्टमेवाख्यातम् । न च वृत्तिं व्याख्यातुमुद्यतस्य तद्विरुद्धं व्याख्यानं युज्यते कर्तुम् । यदप्युक्तं ‘लौकिकानां शब्दानाम्’ इत्यादि, तदपि न प्रयोगनियमार्थताशङ्कापनोदायालम् । तथा हि ‘विभाषा सुपो बहुच पुरस्तातु (५.३.६८), ‘अव्ययसर्वनाम्नामकच् प्राक् टेः’ (५.३.७१), ‘कृञ्चानुप्रयुज्यते लिटि’ (३.१.४०) इत्यलौकिकानामपि बहुजादीनं शास्त्रे प्रयोगनियमो दृश्यते, तत्र भवितव्यमेवाशङ्क्या, किमेतत् प्रयोगनियमार्थम्, अथान्यार्थमित्यलमतिप्रसङ्गेन । तस्मात् पूर्वोक्त एव परीहारो युक्तः । आदेशार्थमप्येतच्छक्यते न विज्ञातुम् । यदि ह्यादैचामनेन वृद्धिशब्द आदेशो विधीयेत, य एते निर्देशाः ‘याति वाति द्राति प्साति’ (८.४.१७) इति , यश्च ‘रायो हलि’ (७.२.८५) इति , यश्च ‘नावो द्विगो:’ (५.४.९९) इति , ते नोपपद्येरन् । अथ वृद्धिशब्दस्यादैच आदिश्येरन्, एवमपि ‘इद्वृद्धौ (६.३.२८), ‘वृद्धिनिमित्तस्य च तद्धितस्य’ (६.३.३९) इत्येवमादयो निर्देशा न सम्भवेयुः । अत एवागमार्थमप्येतन्नोपपद्यते । न ह्यादैचां वृद्धिशब्द आगमे विहिते तस्य वा तेषु पूर्वोक्ता निर्देशा उपपद्यन्ते ।
अन्यस्त्वाह - आदेशविधाने स्थान्यादेशसम्बन्धे षष्ठ्या भवितव्यम्, आगमविधानेप्यवयवावयविसम्बन्धे, न चेह षष्ठी विद्यते, तस्मात् षष्ठ्या अभावान्नेदमादेशार्थम्, नाप्यागमार्थम् इति । एतच्चासम्यक् । विनाऽपि षष्ठ्या ‘हल्ड्याग्भ्यो दीर्घात् सुतिस्यपृक्तं हल्’ (६.१.६८), ‘अनिते (८.४.१९), ‘अन्तः’ (८.४.२०), ‘उभौ साभ्यासस्य’ (८.४.२१) इत्यावेशविधानदर्शनात् । आगमविधानस्यापि ‘न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच्’ (७.३.३) इति षष्ठीमन्तरेणापि दर्शनात् विशेषणविशेष्यभावप्रसिद्ध्यर्थमप्येतन्न् सम्भाव्यते । तथा हि सम्भवव्यभिचारे च सति विशेषणविशेष्यभावो भवति, नीलोत्पलवत् । न चेहादैचां वृद्धिशब्दे तस्य वा तेषु सम्भवः । ननु च यथोत्पलशब्दःसर्वत्रोत्पलार्थे वर्तमानो नीलशब्देनार्थान्तराद्वयवच्छिद्यत इति व्यवच्छिद्यमानो विशेष्यो भवति, नीलशब्दस्तु व्यवच्छिन्दन् विशेषणम्, तथानयोरपनि यो वयवच्छेद्यः सविशेष्यो भवति, यस्तु व्यवच्छेदकः स विशेषणमिति ? नैतदस्ति । उभयोर्हि सार्थकत्वे सत्येतदुपपद्यते, नीलोत्पलशब्दवत् । न चादैचोऽर्थवन्तः । भवतु नामानयोर्विशेषणविशेष्यभावः, तथापि नैतत्सिद्ध्यर्थमिदं युक्तम्, निष्प्रयोजनत्वात्, तत्पुनः प्रकृतानुपयोगित्वात् । शब्दानुशासने हि शास्त्रे प्रकृते यग्नाम शब्दसंस्कारानुपयोगिवचनं तत्सर्वमप्रयोजनम् । शब्दसंस्कारानुपयोगित्वं त्वेतत्प्रतिपदितेन विशेषणविशेष्यभावेनवृद्धिशब्दस्यादैचां वा स्वरविशेषस्य वा रुपविशेषस्य वा संस्कारस्यासिद्धेः । विशेषणविशेष्यभाव एव तेषां संस्कार इति चेत् ? यद्येवम्, अत्यल्पमिदमुच्यते’ वृद्धिरादैच्’ (१.१.१) इति । नीलोत्पलमित्यपि हि वक्तव्यम्, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावप्रसिद्धये । न चोक्तम्, अतो नैष संस्कारोऽभिमत इति नास्य तादर्थ्यं सम्भाव्यते ।
ननु तुल्यविभक्तिकानां तद्गुणसमाध्यारोपोऽपि दृष्टः, तद्यथा ‘सिंहो माणवकः’ इति , तस्मात् तदर्थमेतद्भविष्यतीति यत्पक्षान्तरमेके परिकल्पयाम्बभूवुः, तदर्थमप्येतन्न भवति, तद्गुणसमाध्यारोपस्य सतोऽप्यत्र प्रकृतानुपयोगित्वेनानर्थकत्वात् । तस्मात् पारिशेष्यात् सञ्ज्ञासञ्ज्ञिसम्बन्धार्थमेवैतदित्यालोच्याह - ‘वृद्धिशब्दः सञ्ज्ञात्वेन’ इत्यादि । भवतु नाम परिशेष्यात्तदर्थम् । एतत् कुतो लभ्यते ? वृद्धिशब्दः सञ्ज्ञा, आदैचः सञ्ज्ञिनः इति । विपर्ययः कस्मान्न भवति, आदैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञी इति ? नार्हति विपर्ययो भवितुम् । तथा हि लघ्वर्थत्वात् सञ्ज्ञाकरणस्य, यस्मिन्नुच्चार्यमाणे प्रदेशेषु लाघवं भवति तस्य सञ्ज्ञार्थत्वेन भाव्यम् । वृद्धिशब्दे च विभक्तिकेऽप्युच्चार्यमाणे लाघवं भवति, नादैक्षुः यस्माद्वृद्धिशब्द उच्चार्यमाणे चतस्त्रो मात्रा भवन्ति, आदैक्षु तु पञ्च । न चादैचां प्रत्येकं सञ्ज्ञाभावाल्लाघवं भवतीति शक्यं परिकल्पयितुम्, प्रयोजनविशेषमन्तरेणैकस्थानेसञ्ज्ञाविधानस्य निष्फलत्वात् । किञ्चावर्तिभ्यः सञ्ज्ञा भवन्ति । वृद्धिशब्दश्चावर्तते, नादैच्छब्दः तस्मान्न भवति विपर्ययः ‘वृद्धिशब्दः’ इति । शब्दग्रहणमर्थव्यवच्छेदार्थम् । असति हि तस्मिन् शब्दादर्थावगतेरर्थस्यैव सञ्ज्ञात्वं विज्ञायेत । यद्यपि प्रागेव सञ्ज्ञा विहिता, तथापि शिष्यप्रशिष्यप्रबन्धाद्युपरमाद्विधीयत इति वर्तमान प्रयत्वेन् निर्देशः । यत्र समुदास्य कार्यमिच्छति तत्र उभेपदग्रहणं करोति, यथा ‘उभे अभ्यस्तम्’ (६.१.५) इति , अन्वर्थं वा महती सञ्ज्ञाम्, ‘हलोऽन्तराः संयोगः (१.१.७) इति । तत्र हि महती सञ्ज्ञैवमर्था क्रियते, समुदायस्यैषा सञ्ज्ञायथा स्यादि - एतच्चोत्तरत्र व्यक्तीकरिष्यामः । इह तु न किञ्चित्तथाविधं वचनमस्ति यतः समुदायस्यैषा सञ्ज्ञा स्यात् । तस्मादेकैकस्यैषा सज्ञेति मनसि कृत्वाह ‘प्रत्येककम्’ इति ।
ननु चेहापि लाघवार्थमेकाक्षरायां सञ्ज्ञायां कर्तव्यायां वृद्धिरिति महत्याः सञ्ज्ञायाःकरणं समुदायस्य सञ्ज्ञा यथा स्यादित्येवमर्थम् ? नैतदस्ति । मङ्गलार्थत्वा- दस्याः सञ्ज्ञायाः । अत एवास्याः प्रागुच्चारणम् । अन्यथा सञ्ज्ञायाः सतः कार्यिणः कार्येण भवितव्यमिति, यथा ‘अदेङ गुण: (१.१.२) इत्यादी पूर्वसञ्ज्ञीनिर्दिष्ट, तथेहापि निर्दिशेत् । आकारस्य गुणान्तरयुक्तयोश्चैचोः प्रत्याहारेऽसन्निवेशान्नामी वर्णा इति कस्यचिन्मन्दधियो भ्रान्तिः स्यात्, अतस्तन्निराकरणायाह - ‘वर्णानाम्’ इत्यादि । प्रत्यासत्तेस्तद्भावितानामेवैषां सञ्ज्ञा स्यादिति कस्यचिद्विपर्ययः स्यात्, अतस्तमपाकर्तुमाह - ‘सामान्येन’ इति । व्याप्तेर्न्यायादित्यभिप्रायः । सामान्येनेत्यस्यार्थं विस्पष्टीकर्तुमाह - ‘तद्भावितनाम्’ इत्यादि । ते तद्भाविताः ये वृद्धिशब्देनोत्पादिताः, ततोऽन्येऽतद्भाविताः । आदिति तपरकरणम् - ‘तपरस्तत्कालस्य’ (१.१.७०) इति गुणान्तरभिन्नानामपि तुल्यकालानां ग्रहणार्थं वा स्यात्, भिन्नकालानां ग्रहणनिवृत्त्यर्थ वा ? तत् पूर्वः पक्षस्तावन्नोपपद्यते; अभेदकत्वादिहोदात्तादीनां शास्त्रे गुणानाम । कुत एतत् ? ‘लुङलङलृङक्ष्वडुदात्तः (६.४.७१) इत्युदात्तग्रहणात्, अन्यथा ह्युदात्तगुणयुक्तमेवाटमुच्चारयेत् । द्वितीयोऽपि नोपपद्यते ।
यदि ह्याकारः सवर्णानां ग्राहकः स्यात्, ततस्तेन भिन्नकालस्याप्यवर्णस्य ग्रहणे सति तस्यापि सञ्ज्ञा मा भूदिति भिन्नकालानां ग्रहणनिवृत्त्यर्थं तपरकरणमुपपद्यते । न चासौ सवर्णानां ग्राहकः, अनण्त्वात्, तस्य पुनरक्षरसमाम्नायेऽसन्निवेशात् । तस्मादनर्थकं तपरकरणम् । ततो न कर्तव्यमेवेत्यत आह - ‘तपरकरणम्’ इत्यादि । एचोरर्थः प्रयोजनं यस्य तत् तथोक्तम् । ननु च जातौ पदार्थे प्लुतस्यापि ग्रहणं भवति, तत्राप्यवर्णजातेः समवयात्, तत्रासति तपरकरणे तस्यापि सञ्ज्ञा स्यत्, तस्मात् तन्निवृत्तय तपरकरणं भवदाकारार्थमप्युपपद्यत एव तत्किमुच्यते ‘एजर्थम्’ इति ? एवं मन्यते- जातिपक्षसमाश्रयणेऽपि हि दीर्घोच्चारणसामर्थ्याद्विमात्रा एवावर्णव्यक्तयः समाश्रिता इति गम्यते, इतरथा हि लाघवार्थम् ‘अद्’ इत्येवाभिदध्यात् । न च ह्रस्वनिवृत्त्यर्थं दीर्घोच्चारणमिति शक्यते परिकल्पयितुम्, दीर्घोच्चारणेऽपि ह्रस्वग्रहणं प्राप्नोत्येव, तत्राप्यवर्णजातेः सम्भवादि - न चासन्देहार्थम् ‘आत्’ इत्युक्तम्, वर्णान्तरासाधारणत्वात्, असंहितया वा सन्देहाभावादिति । ननु च ‘तपरस्तत्कालस्य’ (१.१.७०) इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः, न चात्रैच् तपरः, तत्कथं तपरकरणमैजर्थं भवतीत्यत आह - ‘तावपि परस्तपरः’ इति । न केवलं तः परो यस्मात् स तपर इति , अपि तु तादपि यः परः सोऽपि तपर इति अपिशब्देन दर्शयति. एतदुक्तं भवति, न केवलं बहुव्रीहिरेव तत्राश्रीयते, किं तर्हि ? पञ्चमीतत्पुरुषोऽपि । यता चैतदुभयमाश्रीयते तथा तत्रैवोपपादयिष्यामः । इति करणो हेतौ यत एवं तादपि परस्तपरः, तेन तपरकरणमैजर्थमित्यर्थः । ‘खट्वैडकादिषु’ इत्यादिना तदेवैजर्थत्वं तपरकरणस्य स्पष्टीकरोति - वृक्ष एलका ‘वृक्षैलका’ । अक्रियमाणे ह्यत्र तपरकरणे त्रिमात्रिकस्याकारैकारसमुदायस्यस्थाने वृद्धिरेचि’ (६.१.८८) इति वृद्धिरान्तरतम्यात् त्रिमात्रिक एवैकारः स्यात्यदि तस्यापि वृद्धिसञ्ज्ञा स्यात् । खट्वा ओदनं खट्वौदनम्, खट्वा एलका खट्वैलका इत्यत्रापि पूर्वोत्तरसमुदाययोश्चतुर्मात्रायोश्चतुर्मात्रावकारैकारौ स्याताम्, तन्मा भूदेष दोष इति त्रिमात्रचतुर्मात्राणामैचां वृद्धिसञ्ज्ञानिवृत्तये तपरकरणं क्रियते । आश्वलायनः, ऐतिकायनः’ इति । अश्वलेतिकशब्दाभ्यां ‘नडादिभ्यः फक्’ (४.१.९९), ‘यस्येति च’ (६.४.१४८) इति लोप:, ‘किति च’ (७.२.११८) इत्यादिवृद्धिः । ‘औपगवः’ इति । उपगुशब्दात् ‘प्राग्दीव्यतोऽण्’ (४.१.८३) । ‘औपमन्यवः’ इति । उपमन्युशब्दात ‘अनृष्यानन्तर्ये बिदादिभ्योऽञ्’ (४.१.१०४) इत्यञ्, उभयत्रापि ‘ओर्गुणः’ (६.४.१४६), अवादेश: (६.१.७८),’ तद्धितेष्वचामादेः’ (७.२.११७) इति वृद्धिः । एतानि चत्वार्यपि तद्भावितोदाहरणानि । ननु येऽत्र त्रयः सञ्ज्ञिनस्तेषामाद्यैस्त्रिभिर्विषयो दर्शितः, किमर्थश्चतुर्थोपन्यासः? केचिदाहुः - वद्धिनिमित्तभेदात्, आद्ययोरुदाहरणयोः कित्तद्धितो वृद्धेर्निमत्तम्, तृतीयेऽपि णित्, चतुर्थेऽपि ञित् इति । एतच्चायुक्तम् । तथा हि ‘इको गुणवृद्धी’ (१.१.३) इत्यत्र ‘अकार्षीत्’ इत्युदाहृत्य ‘अहार्षीन्’ इत्युदाहृतम्’, न च तत्र वृद्धिनिमित्तभेदोऽस्ति । तथा ‘न धातुलोप आर्धधातुके’ (१.१.४) इत्यत्र लोलुवः इत्युदाहृत्य ‘पोपुवः, मरीमृजः’ इत्यधिकोदाहरणोपन्यासः कृतः । न च तत्र लोपनिमित्तभेदः प्रतिषेधनिमित्तभेदो वा अधिकोदाहरणोपन्यासस्य हेतुर्विद्यते । प्रायेणान्यष्वेपि च सामान्यलक्षणेषु विनापि निमित्तभेदानाधिकोदाहरणोपन्यास उपलभ्यते । योऽप्याह ‘ओपगव इत्यनेनैच औकारस्य विषये दर्शितेऽपि स्वरभेदादौपमन्यव इत्येतदधिकमुदाहरणमुपन्यस्तम्’ इति , तस्यापि तदयुक्तम्, अत एवानन्तरोक्ताद्धेतोर्वेदितव्यम् । यदि निमित्तभेदः, स्वरभेदो वा सर्वत्राधिकोदाहरणोपन्यासो वेदितव्यः । ‘शालीयः, मालीयः’ इति । अतद्भावितस्योदाहरणे । अत्र हि वृद्धिसञ्ज्ञायां वृद्धिर्यस्याचामादिस्तद्वृद्धम्’ (१.१.७३) इति वृद्धसञ्ज्ञाफं छप्रत्ययोपन्यासस्तस्या एव फलभूताया अभिव्यक्त्यर्थः । वृद्धसञ्ज्ञायां हि सत्यां ‘वृद्धाच्छः’ (४.२.११४) इति जातादावर्थे छो विधीयते । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र दर्शितम्, एतदनुसरसारणैव गम्यमानत्वात् । आकारस्यातद्भावितस्य वृद्धिसञ्ज्ञायाः कार्ये दर्शिते, तयोरपि तदेव कार्यमिति तन्मुखेनैव गम्यत एव । के पुनसत्योरुदाहरणे ? ‘रैमयम्, नौमयम्’ इति । आत्रैकारौकारयोर्वृद्धिसञ्ज्ञायां सत्यां पूर्ववद्वृद्धसञ्ज्ञा । तस्यां च सत्यां रायो विकारः, नावो विकार इति ‘नित्यं वृद्धशरादिभ्यः’ (४.३.१४४) इति मयड्भवति ।
॥ पदपञ्जरी ॥
त्रिपदमिदं सूत्रम् - वृद्धिः, आद्, ऐज् इति । अत्र चाकारः प्रयोगस्थैराकारैरर्थवान् । जात्यभिप्रायं चैकवचनम् । ऐच्छब्दस्तु ऐकारौकाराभ्याम् । संज्ञिनोर्द्वित्वेऽपि द्विवचनं न भवति; द्वयोरप्येकशब्दरूपरूषितत्वेनैक्यमापन्नयोरिवाभिधानात् । एवं सर्वेष्वेव प्रत्याहारेष्वेकवचनं द्रष्टयम् । समाहारद्वन्द्वो वा - आदैजिति । "द्वन्द्वाच्चुदषहान्तात् समाहारे" इति समासान्तस्तु न भवति; समासान्तविधेरनित्यत्वात् । अनित्यत्वं च "द्वित्रिभ्यां पाद्दन्मूर्द्धसु" इति मूर्द्धन्शब्दस्य निर्द्देशादवसीयते । अन्यथा "द्वित्रिभ्यां ष मूर्ध्नः" इति षप्रत्ययान्तत्वान्मूर्धेष्विति निर्द्देश्यं स्यात् । आदैच्छब्दात्समासत्वादर्थवत्वाद्वा विभक्त्युत्पतौ "चोः कुः" पदस्येति कुत्वं प्राप्तम्, अयस्मयादित्वेन भत्वान्न हि भविष्यति; छन्दोवत्सूत्राणि भवन्ति । वृद्धिशब्दस्य त्रयीशब्दानां प्रवृत्तिरिति पक्षे "वृधु वृद्धौ" इत्यस्माद्भावे क्तिनि व्युत्पत्तिः, अभेदोपचाराच्च वृद्धियुक्तेष्वादैक्षु वृत्तिः ।
न चैवं लक्षणयैवादैक्षु वृद्धिशब्दस्य वृत्तिसिद्धेः सूत्रस्यानर्थक्यम्; नियमार्थत्वात् । अन्यथा वर्द्धनक्रियायोगिष्विकारादिषु प्लुतेषु च वर्तेत । मा तत्र वर्तिष्ट, आदैक्ष्वेव वर्ततामिति नियमः । चतुष्टयीपक्षे तु कथम्, यावतश्च संज्ञात्वेन विनियुक्ते सति "सिचि वृद्धिः" इत्यादौ प्रदेशान्तर एव वृद्धिशब्दस्यादैक्षु प्रवृत्तिर्युक्ता, न त्वत्रैव संज्ञाविनियुक्तिकाले ? उच्यते; "नित्यः शब्दार्थसम्बन्धः" इति दर्शनेन क्वचिदपि पुरुषव्यापारात्प्राग् वाचकः सन् पुरुषव्यापारेण वाचकः क्रियते । अतः सर्वे शब्दाः संज्ञारूपेण सर्वानर्थान् प्रतिपादयितुं समर्थाः । तत्रानियतार्थेन व्यवहारासिद्धेर्नियमार्थ एव पुरुषव्यापारः - मया प्रयुक्तस्य वृद्धिशब्दस्यादैजर्थ इति । एवं तावत्पदार्थो व्याख्यातः । वाक्यविषयाः पुनरष्टौ विकल्पाः - अनर्थकम्, साध्वनुशासनम्, प्रयोगनियमार्थम्, आदेशार्थम्, आगमार्थम्, विशेषणार्थम्, तद्गुणाध्यारोपार्थम्, संज्ञार्थमिति । तत्रानर्थकाभिधानं प्रमादाश्रयदोषादनवधानादशक्तेर्वा भवति । न चैतच्चतुष्टयं भगवतः सम्भवति; आचार्यो हि दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख आसीनो मङ्गलपूर्वकं महता प्रणिधानेन सूत्राणि प्रणीतवान् । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण ! साध्वनुशासनमपि न भवति, सिद्धत्वाद्वृद्धिशब्दस्य क्तिन्नन्तत्वात्, आदैच्छब्दस्य चार्थवत्वात् ।
ननु छन्दोवद्भावेन सूत्र एव प्रयोगः सिद्ध्यति, सूत्राद्वहिरपि कुत्वाभावार्थं निपातनमेतत् स्यात्, उच्यते; वृद्धिशब्दस्यैवमनन्वयप्रसङ्गः, संभूयकारित्वं च पदानां व्युत्पत्तिसिद्धम्, अतो नायं पक्षः । नापि प्रयोगनियमार्थम्, यत्र हि सहप्रयोगप्रसङ्गस्तत्र नियमः कर्तव्यः । न च वृद्ध्यादैच्छब्दयोः सहप्रयोगप्रसङ्गः, विनियोगात्प्रागसम्बन्धाद् उतरकालं वृद्धिशब्देनैव गतत्वात् । किं च नेह प्रयोगनियम आरभ्यते । नन्वारभ्यते,"परश्च" इति ? पदस्य नारभ्यते । पदस्याप्यारभ्यते "उपसर्जनं पूर्वम्" इति ? ययोरैकपद्यं नास्ति तयोर्नारभ्यते । तयोरप्यारभ्यते "ते प्राग्धातोः" "कृञ्चानुप्रयुज्यते लिटि" इति ? नैवंविधेनोच्चारणेनारभ्यते । एवमप्यारभ्यते "विदाङ्कुर्वन्त्वित्यन्यतरस्याम्" इति ? नात्र केवलः प्रयोग एव नियम्यते, किन्तु आमादिकमपि विधीयते, अतः केवलस्य प्रयोगनियमस्य साक्षादुच्चारणेन क्वचिदप्यभावान्नायं प्रयोगनियमः । आदेशार्थमपि न भवति; स्थान्यर्थाभिधानसमर्थस्यैव ह्यादेशत्वम् ।
न च वृद्धिशब्द आदैचाम्, ते वा तस्यार्थमभिधातुं समर्थाः । निर्देशाच्च; यदयं "सिचि वृद्धिः" "यातिवातिद्राति" "रायः" ङावः" इत्याह, ततो ज्ञायते - न वृद्धिशब्द आदैचां ते वा तस्यादेशाः इति । अथादैच्शब्दस्य वृद्धिशब्द आदेशः कस्मान्न भवति, न ह्यत्र किं चिल्लिङ्गमस्ति ? सत्यम्; अयं तु पक्षो न संभवत्येव, ऐच्छब्दो ह्यादिरन्त्येनेति संज्ञात्वेन विनियुक्तः कथमस्य स्वरूपस्य ग्रहणम्; अशब्दसंज्ञेति निषेधात् । एतैरेव लिङ्गैरागमार्थत्वं न भवति । षष्ठ्यभावाच्च, "पूर्वौ तु ताभ्याम्" इति पञ्चम्याः षष्ठ।ल्र्थोऽवगम्यते । टित्वादिलिङ्गाभावाच्च, न हि तद्रहितः कश्चिदागमो दृष्टः । विशेषणत्वमपि न भवति, असंभवादप्रयोजनत्वाच्च । न ह्यस्ति संभवो वृद्धशिब्दश्चासावादैच्छब्दश्चेति, नापि वर्द्धनक्रियाऽऽदैज् इति । एवं विशेषणे च प्रयोजनमपि नास्ति । एतेन तद्गुणाध्यारोपोऽपि निरस्तः । यथा हि सिंहो माणवक इति सिंहगुणा माणवके आरोप्यन्ते, नैवमत्र सम्भवः प्रयोजनं वाऽस्ति; अतः पारिशेष्यात्संज्ञासंज्ञिसम्बन्ध एवेत्यालोच्याह - वृद्धिशब्द इत्यादि । विपर्ययस्तु न भवति - वृद्धिशब्दः संज्ञी, आदैचः संज्ञेति । स हि त्रिधा स्यात् - आदैजित्ययं शब्दः, आ ऐ औ इत्ययं समुदायः, ते वा प्रत्येकमिति । तत्रादैच्छब्दस्तावन्न सम्भवति; ऐजित्यस्य संज्ञाशब्दत्वात्, स्वरूपग्रहणासम्भवात्, गौरवाद्, अनावृतेश्च । आवर्तिन्यो हि संज्ञा भवन्ति, वृद्धिः शब्दश्चावर्तते; नादैच्छब्दः । नापि समुदायः, गौरवादनावृतेश्च । अस्तु तर्हि प्रत्येकम्, लाघवादावृतेश्च - "अष्टन आ विभक्तौ", "पूतक्रतोरै च" "मनोरौ वा " इति ? न; प्रयोजनमन्तरेणैकस्यानेकसंज्ञाकरणस्यायुक्तत्वात्, न ह्ययं वृद्धिशब्दः सहस्रेण नामभिः स्तोतव्यः । शब्देनार्थस्य संज्ञात्वं मा विज्ञायीति शब्दग्रहणम्, एतच्चार्थे व्यवहारासम्भवाल्लभ्यते । तदिह वृद्धिशब्दः संज्ञात्वेन विधीयत इति समुदायेनानर्थकादिपक्षनिरासः । वृद्धिशब्द इत्यनेन विपर्ययनिरासः । वृद्धिशब्दः संज्ञा, न पुनरादैच्छब्द इति वचनव्यक्त्या शब्दग्रहणेनार्थनिरासः - वृद्धिशब्दः संज्ञा न पुनरर्थ इति । यत्र समुदायस्य कार्यमिच्छति करोति तत्र प्रयत्नम् - "उभे अभ्यस्तम्" इति । तत्र ह्युभे ग्रहणं समुदितप्रतिपत्यर्थम् । अन्वर्थां वा महतीं संज्ञां करोति-"हलोऽनन्तराः संयोगः" इति । इह तु महासंज्ञाकरणं मङ्गलार्थम् । अत एव प्रथममुच्चारणम्; अन्यथा हि सतः कार्यिणः कार्येण भवितव्यमिति "अदेङ् गुणः" इत्यादिवन्निर्दिश्येत । अतो यत्नाभावात्प्रत्येकमेव संज्ञा । किञ्च - लौकिकप्रयोगे व्यवस्थितानामादैचां संज्ञया भवितव्यम् ।
न च समुदायस्य क्वचित्प्रयोगः, अतोऽसंभवादपि प्रत्येकमेव संज्ञा । लिङ्गाच्च - किं लिङ्गम् ? "प्रस्थे वृद्धमकर्क्यादीनाम्" "मालादीनां च" इति । इदं हि "मालाप्रस्थः" इत्यादाववृद्धमिति पर्युदासे प्राप्ते वचनम्,अतः प्रत्येकमेव संज्ञा तदाह - प्रत्येकमिति ॥ तत्रापि त्रयः प्रकाराः - लुगादिसंज्ञावतद्भावितानामेव, टिसंज्ञावद्वाऽतद्भावितानामेव, अनुनासिकादिसंज्ञावदुभयेषां वेति । तत्र यदि तद्भावितानामेव - ये वृद्धिसंज्ञया भाव्यन्ते, तेषामेव स्यात्, शालीयो मालीय इति छाए न स्यात्; आम्रमयंरैकुलमयम् - वृद्धलक्षणो मयण् न स्यात्; आम्रगुप्तायनिः - "उदीचां वृद्धात्" इति फिञ् न स्यात् । अथातद्भावितानामेव - गार्गीयः, ऐतिकायनीयः, औपगवीयः - छो न स्यात् ; अतो दोषदर्शनादगृह्यमाणविशेषत्वाच्चोभयेषां संज्ञेत्याह - सामान्येनेति । आकारोऽनण्त्वादेव न भिन्नकालानां ग्राहक इति न तन्निवॄत्यर्थं तपरत्वम्, नापि गुणान्तरयुक्तानां ग्रहणार्थम् । अभेदकत्वाच्च गुणानाम्, लोके हि मुण्डेनापि चौर्ये कृते संजातकेशोऽपि प्रत्यभिज्ञाय निगृह्यते । तथा "अडुदातः" इत्युदात्तवचनं लिङ्गम्, अन्यथा ह्युदात्तगुणमेवाटमुच्चारयेत् । अतोऽनर्थकं तपरकरणमित्यत आह - तपरकरणमिति । तश्चासौ परश्च तपरः, तस्य करणमुच्चारणम्, आकारात्परस्य तकारस्योच्चारणमित्यर्थः । अथवा - तः परो यस्मादिति तद्गुणसंविज्ञानो बहुव्रीहिः, तकारसहितस्याकारस्योच्चारणमित्यर्थः । ऐजर्थमिति । ऐचोरर्थः प्रयोजनं यस्य ततथोक्तम् । "तपरस्तत्कालस्य" इत्यत्र तः परो यस्मादिति बहुव्रीहिराश्रितः । तत्कथं तपरकरणमैजर्थमित्याशङ्क्य पञ्चमीसमासोऽपि तत्राश्रित इति दर्शयति - तादपि पर इति । इतिकरणो हेतौ । यस्मात् तादपि परस्तस्मादैजर्थ इति । ऐजर्थत्वमेव प्रकटयति - खट्वैलकादिष्विति । असति तपरकरणे त्रिमात्रचतुर्मात्रयोरप्यैचोः सवर्णग्रहणेन ग्रहणाद् वृद्धिसंज्ञा स्यात्, ततश्च वृक्षैलकः, वृक्षौदनः, खट्वैलका, खट्वौदन इति त्रिमात्रचतुर्मात्रस्थानिनोस्त्रिमात्रचतुर्मात्रावेवैकारौकारौ स्यातामिति तन्निवृत्यर्थं तपरकरणम् । आश्वलायन इत्यादीनि तद्भावितानामाकारादीनां क्रमेण रूपोदाहरणानि । अश्वलेतिकशब्दौ नडादी । उपमन्युशब्दो बिदादिः । लक्षणस्य बहुविषयत्वसूचनार्थं चतुर्थस्योदाहरणस्योपन्यासः । आकारस्यातद्भावितस्य कार्योदाहरणमाह - शालीयः, मालीय इति । ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं रैकुलमयं नौकुलमयमिति, वृद्धलक्षणो मयड् भवति ॥
॥ शब्दकौस्तुभः ॥
आकार ऐकार औकारश्च वृद्धिसंज्ञः स्यात् । संज्ञाप्रदेशा वृद्धिरेचि (६.१.८८) इत्यादयः । तदुदाहरणमेवास्याप्युदाहरणं बोध्यम् । इहाच्च ऐच्चेतीतरेतरयोगद्वन्द्वः सुपां सुलुक् (७.१.३९) इति सुलुग्वा। अथवा समाहारे द्वन्द्वः । नचैवं द्वन्द्वाच्चुदषहान्तात् (५.४.१०६) इति टच् स्यादिति वाच्यं, समासान्तविधेरनित्यत्वात् । अत्र ज्ञापकं तु द्वित्रिभ्यां ष मूर्ध्नः (५.४.११५) इति षविधानम् । नद्धइ बहुव्रीहौ सक्थ्यक्षणोः (५.४.११३) इति षचि प्रकृतेऽपि क्रियते । षचश्चित्त्वसामर्थ्याज्जायमानमन्तोदात्तत्वं बहुव्रीहित्वप्रयुक्तं पूर्वपदप्रकृतिस्वरं यथा बाधते तथा द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ (६.२.१९७) इति विधीयमानमन्तोदात्तत्वविकल्पं मा बाधिष्टेत्येवमर्थम् । तच्टच द्वित्रिभ्याम् (६.२.४३) इत्यस्य क्वचिल्लब्धावकाशत्वे सत्येव सङ्गच्छते, न त्वन्यथा । अवकाशश्च समासान्तानामनित्यतायां सत्यामेव लभ्यते । ‘त्रिमूर्द्धानं सप्तरश्मिं गृणीषे’ इति यथा । तस्मात्षप्रत्ययविधानं ज्ञापकमिति स्थितम् । तथा द्वित्रिभ्याम् (६.२.१९७) इति सूत्रे बहुव्रीहिग्रहणमपीह ज्ञापकम् । अन्यथा ‘पाद्दन्मूर्द्धेषु’ इत्येव निर्द्दिशेत् । एवं हि सति कृतसमासान्तपाद्दत्प्रक्रमोऽपि न विरोत्स्यते । बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते ।
ननु षष्ठीतत्पुरुषादिवारणाय बहुव्रीहिग्रहणमस्तु । तथाहि, द्वयोर्दन्ता इति विगृह्य ‘द्विदतः पश्य’ इति प्रयोगे पद्दन् (६.१.६३) इति दतादेशः । स एवेह निरनुबन्धकत्वाद्वा गृह्येत । न च पद्दन् (६.१.६३) इति सूत्रे तदनतविधिदौर्लभ्यात्कथमेतदिति वाच्यम् (६.१.६३) इति सूत्रे तदन्तविधिदौर्लभ्यात्कथमेतदिति वाच्यम् ष्यङः सम्प्रसारण्म् (६.१.१३) इति सूत्रस्थपूर्वपक्षन्याये न सिद्धं त्ववयवानन्यत्वात् (भा.इ.) इत्याष्टमिकभाष्यवार्त्तिकन्यायेन चावयवस्य कार्यलाभात् । अन्यथा ‘हास्तिशीर्ष्या उपैषि’ इत्यादावगतेरिति वक्ष्यते । तस्मात्कथं बहुव्रीहिग्रहणं ज्ञापकमिति चेत् ? न, पूर्वोत्तरसाहचर्यबलेनापि बहुव्रीह्यप्रविष्टस्य वारणसम्भवात् दतृ इति सानुवन्धस्यापि सुपठत्वाच्च । स्फिगपूतवीणाञ्जेऽध्वकुक्षिसीरनामनाम् च (६.२.१८७) इति सूत्रे अपाच्च (६.२.१८६) इत्यनुवृत्त्या ‘अपस्फिगम्’ इत्यादावुत्तरपदान्तोदात्तविदायकेऽध्वशब्दग्रहणमपीह लिङ्गम् । उपसर्गादध्वनः (५.४.८५) इत्यच्प्रत्ययस्य नित्यत्वे हि चित्त्वादेव सिद्धं स्यात् । तथा प्रतेरंस्वादयस्तत्पुरुषे (६.२.११३) इति सूत्रंऽश्वादिगणे राजन्शब्दस्य पाठोऽपीह लिङ्गम् । अन्यथा राजाहः सखिभ्यष्टच् (५.४.९१) इति टचैव सिद्धे किन्तेन ? यत्तु ऋक्प्रब्धूः पथाम् (५.४.७४) इत्यत्र टिलोपस्येव प्रकृतिवदनुकरणम् (प.भा.३६) इत्यतिदेशेन प्रत्ययस्यापि प्राप्तौ तदकरणं ज्ञापकमिति । तन्न, अतिदेशोऽयमनित्य इति ऋलृक्सूत्रे प्रपञ्चितत्वादिति दिक् । कृतमनयोः साधुत्वम् इत्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेनुकूलाः । अनयोः पदयोरिति स्वरसात् । अथवा ‘आत्’ इत्यसमस्तमेव पस्पशायां शब्दाप्रतचिपत्तिः’ इति वार्त्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अस्मिंश्च पक्षे अनयोःक सूत्रखण्डयोरिति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्त्या वा योजनीयः । द्विर्वचनेऽचि (१.१.५९) इग्यणः सम्प्रसारणम् (१.१.४५) इत्यादाविवोभयथाऽप्यदोषात् । आदिति तपरकरणमैजर्थं, तेन त्रिमाक्षत्रचतुर्मात्राणामैचां संज्ञा न भवतीत्यादि एओङ् ऐऔच् सूत्रयोः प्रपञ्चितम् । नचैवं तकारस्योत्तरशेषतैव स्यादिति पदान्तताविरहाज्जश्त्वं न स्यादिति वाच्यम्, असन्देहार्थतयाऽऽकारशेषत्वस्यापि सम्भवात् । अस्तु वाऽऽदैजिति पदम्, ऋत इद्धातोः (७.१.१००) इत्यादौ दपरत्वमेवाश्रित्य तपरसूत्रे दकारोपि प्रश्लिष्यते इति तित्स्वरितम् (६.१.१८५) इति सूत्रे भाष्यकारैर्वक्ष्यमाणत्वाद् दात्परस्यापि तत्कालग्राहकत्वात् । वस्तुतस्तु दकारप्रश्लेषपक्षोऽभ्युच्चयमात्रम् । इह तु तपरकरणं स्पष्टार्थमेवेत्यादि प्रागेवोक्तं न विस्मर्त्तव्यम् ।
ननु चोः कुः (८.२.३०) इति कुत्वमैच्छब्दे प्राप्नोति चतुष्टयी शब्दानां प्रवृत्तिरिति पक्षेऽस्य संज्ञाशब्दतया लौकिकत्वेनानुशासनविषयत्वात् । त्रयीपक्षेऽपि जातिशब्दत्वलसम्भवात् । वैशेषिकपरिभाषया द्रव्यत्वगुणत्वादिजातिस्वीकारे वैयाकरणपरिभाषयापि तत्स्वीकारस्य दुर्वारत्वात् । वस्तुतस्तु सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारदिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ता अतद्भेदेनानुगतीकृतास्सत्तोपदायकाः । तदुक्तम्”तस्यां सर्वे शब्दा व्यवस्थिताः इति । आद्यन्तावयवद्वारा समुदायानुकरणं ऐच् वा शब्दः । अनुकरणशब्दाश्च जातिशब्दा एव तत्रानुकार्यनिष्ठजातेः प्रवृत्तिनिमित्तत्वात् । न चाद्यपक्षे सूत्रवैयर्थ्यम्, णदीयशास्त्रे वृद्धिशब्देनादैच एव ग्राह्या इति नियमार्थं सूत्रारम्भात् । तदुक्तं कैयटेन अनेकशक्तेः शब्दस्य शत्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वात् इति । अनेकस्मिन्ननेका वा शक्तिरस्येति विग्रहः । अवच्छेदकबेदेऽपि लाघवाच्छक्तिरेकैव । औपाधिको भेद इति प्रवादस्तु उपाधिभिन्न इत्यत्र पर्यवसन्न इति मतेनाऽऽद्यः पक्षः । उपाधिस्थित्यधीनस्थित्को जीवब्रह्मबेदवदुपदेयेऽपि भेदोऽस्तीति मतेन द्वितीयः कल्पः न कोपधायाः (६.३.३७) इति वक्ष्यमाणत्वात् । अवच्छेदः संकोचःक स च यद्यपि शक्तेर्निरवयवतया न सम्भवति तथापि तदितरस्मिस्तात्पर्यविरह एव शक्तिसङ्कोचोऽत्राभिमतः । सर्वे सर्वार्थवाचकाः इत्यभ्युपगमेऽपि तात्पर्यं क्वचिदेवेत्यस्य निर्विवादत्वात् । शक्तिः परं कारणतापरणर्याया सर्वत्र दुर्वारेत्युक्तम् । न चैवम् अन्यायश्चानेकार्थत्वम् इत्यस्य निर्विषयता, णैरुषयसङ्केतनिरपेक्षस्य प्रसिद्धतरसम्बन्धस्य विना प्रमाणं बहुषु न कल्पनमिति तदर्थात् । गौणमुख्यविभागोऽपि प्रसिद्ध्यप्रसिद्धिनिबन्धन एव । गाव्यादीनामसाधुतापि सङ्केतविरहे सत्येव । अतएव प्रसिद्धेऽपि पक्षे गोण्यादीनां गोण्यां साधुत्वमस्त्येवेत्यन्यत्र विस्तरः । उक्तं च व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥
वृद्ध्यादीनां च शास्त्रेऽस्मिन् शत्त्यवच्चेदलक्षणः । अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥ इति ॥
वस्ततस्तु साध्वसाधुबहिर्भावपक्षेऽप्येषामनुशासनविषयताऽस्त्येवेति पस्पशायां साधुत्वनिर्वचनप्रसङ्गेनोपपादितम् । तस्मात्सर्वथापिकुत्वं प्राप्नोत्येवेति चेत् ? सत्यम्, अयस्मयादीनि छन्दसि (१.४.२०) इति भत्वप्रवृत्त्याकुत्वोपयोगिनी पदसंज्ञा प्रतिबध्यते । जश्त्वाविध्येकवाक्यतापन्ना तु पदसंज्ञाऽस्त्येव । ‘ससुष्टुभा स ऋक्वता गणेन’ इत्यत्र तु विपरीतम् कुत्वे पदत्वमस्ति जश्त्वे तु नेति । विषयबेदेन संज्ञाद्वयमस्तीत्यंशे परं दृष्टान्तता बोद्ध्या। तेन उपदेशेजनुनासिक इत् (१.३.२) इत्यादौ कुत्वाबावो जश्त्वं च सिद्ध्यति । छन्दसि विहितस्य सूत्रे कथं प्रवृत्तिः इत्याशङ्क्य, ‘छन्दोवत्सूत्राणिभवन्ति इति भाष्यम् इष्टिरियं भाष्ययकृतः । यद्वा, छन्दःशब्दः स्वर्यते । स्वरितेनाधिकारः (१.३.११) अधिकं कार्यं गौणस्यापि ग्रहणमित्यर्थः । तेन छन्दोङ्गेष्वपि वक्तव्यम् इति वार्त्तिकवचनात् षष्ठीयुक्तः (१.४.९) इति सूत्रे ‘छन्दसि वा’ इति विभज्य एकासंज्ञेति नियमस्य छन्दासि विकल्पनाद्वा । यद्वा, अयस्मयादीनि (१.४.२०) इत्यनेनोभयसंज्ञाप्रयुक्तकार्यभाजः समुदाया निपात्यन्ते, न तु प्रकृता भसंज्ञैव विधीयते । अत एव कार्यविशेषपुरस्कारसम्भव इति बोध्यम् । तस्मात्कुत्वं नेति स्थितम् । कुशब्दस्य अणुदित् (१.१.६९) इत्यनेन संज्ञात्वेन विनियोगात्तत्र च प्रागुक्तरीत्यमतबेदसत्वाज्जातिविशेषः प्रवृत्तिनिमित्तम्, व्यक्तिविशेषोपहिता सत्तैव वा, शब्दस्वरूपं वा, तस्यापि ग्राह्यत्वं ग्राहकत्वं चेति पस्पशोक्तरीत्या व्यक्तिविशेषणतया भानाभ्युपगमात् । तथाचोक्तत्रितयान्यतममिह त्वप्रत्ययार्थः, प्रकृतिजन्यबोधे प्रकारीभूतत्वं,प्रयोगोपाधिमाश्रित्य तथाभूतधर्मस्य त्वतलर्थताया वक्ष्यमाणत्वात् । यद्वा, प्रकृतिः शब्दस्वरूपपरा, तत्प्रवृत्तिनिमित्तत्त्वे तु त्वतलादीनां शक्तिरेवेति मतान्तरमपि वक्ष्यते । उभयथाऽपीह त्वप्रत्ययेन स्वार्थाश्रयः ककारो लक्ष्यते । तेन कुत्वम् नेत्यस्य ककारादेशो नेति पर्यवसितोऽर्थः । आह च - सामान्यान्यभिधीयन्ते सत्ता वा तैर्विशेषिता । संज्ञाशब्दस्वरूपं वा प्रत्ययैस्त्वतलादिभिः ॥ इत्ययं पदविभागः पदसाधुत्वं चोक्तम् । वाक्यार्थस्तु संज्ञासंज्ञिभावः । तथाहि, समानविभक्तिकनामार्थयोरभेदान्वयस्य व्युत्पन्नतयाऽऽकारादयो वृद्दिं प्रत्यभेदेन संसर्गेण विशेष्याः। विरुपोपस्थितिस्तु विशेषणीभूतं शब्दस्वरूपमादाय बोध्या । एतेन इन्द्रो मरुत्वान्मधवा (अ.को.१.१.४४) इत्यादि व्याख्यातम् । न तु तत्रापि मरुत्वदादिशब्दानां तत्तद्वाच्ये लक्षणेति ग्राह्यम्, उक्तरीत्या लक्षणां विनैवोपपत्तेः अत एवोद्भिदधिकरणे विशिष्टविधिपक्षं मत्वर्थलक्षणाप्रसङ्गेन दूषयित्वा नामदेयत्वं सिद्धान्तितम् । अन्यथा नामधेयत्वेऽपि लक्षणायास्तुल्यतयाऽधिकरणस्यासम्भवदुक्तिकतापत्तेरिति दिक् ।
स्यादेतत् । किमादैज्मात्रस्य वृद्धिसंज्ञा आहोस्विद् वृद्धिशब्दमावर्त्त्य वृद्दिरिति ये आदैचस्ते वृद्धिसंज्ञा इति व्याख्यानाल्लुक्श्लुलुप्संज्ञावत्तद्भावितानामेवेति ? नाद्यः, ‘सर्वभासः ‘सर्वकाकः’ इत्यादौ उत्तरपदवृद्दौ सर्वं च (६.२.१०५) इति सूत्रेण पूर्वपदान्तोदात्तत्वप्रसह्गात् । इष्यते तु समासस्य (६.१.२२३) इत्यन्तोदात्तः न च सर्वस्य सुपि (६.१.१९१) इत्याद्युदात्तता शङ्क्या सतिशिष्टेन समासस्वरेण बाधात् । सर्वस्तोमः इत्यादौ तु बहुव्रीहौ प्रकृत्या पूर्वपदम् (६.२.१) इत्यनेन समासान्तोदात्तत्वे बाधिते सर्वस्य सुपि’ (६.१.१९१) इति भवत्येव । इह तु कर्मधारयत्वात्समासान्तोदात्तत्वमेवेति बोध्यम् । किञ्च तावती भार्या यस्येति बहुव्रीहौ तावद्भार्यः’ न सिद्ध्येत् । वृद्धिनिमित्तस्य च तद्धितस्य’ (६.३.३९) इति पुंवद्भावप्रतिषेधप्रसङ्गात् ।
न द्वितीयः, ‘शालीयः’ इत्यादौ वृद्धलक्षणस्य च्छप्रत्ययस्यासिद्धिप्रसङ्गात् । किञ्चैवम् ‘आम्रमयं’ ‘शालमयम्’ इत्यादौ नित्यं वृद्धिशरादिभ्यः (४.३.१४४) इति नित्यो मयट् न स्यात् । किञ्च ‘आम्रगुप्तायनिः’ ‘शालगुप्तायनिः’ उदीचां वृद्दादगोत्रात् (४.१.१५७) इति वृद्धलक्षणः फिञ्न स्यात् । ननु प्राचामवृद्धात्फिन् बहुलम् (४.१.१६०) इति फिनाऽप्येतत्सिद्धम् । नह्यत्र फिञ्फिनोः स्वरे रुपे वा विशेषोऽस्ति ञ्नित्यादिर्नित्यम् (६.१.१९७) इत्याद्युदात्तस्योभयत्राविशिष्टत्वात् । न च ‘आम्रगुप्तायनीभार्यः’ इत्यत्र वृद्धिनिमित्तस्य च तद्धितस्यरक्तविकारे (६.३.३९) इति पुंवद्भावप्रतिषेधसिद्ध्ये फिञेव कर्त्तव्य इति वाच्यम् जातेश्च (६.३.४१) इत्यनेनपि प्रतिषेधसिद्धेः । न चाम्रगुप्तायनेश्छात्रा इति वृद्धाच्छे विवक्षिते फक्फिञोरन्यतरस्याम् (४.१.९१) इति लुग्विकल्पेन ‘आम्रगुप्तीयाः’ ‘आम्रगुप्तायनीयाः’ इति द्वैरुप्यमिष्टं, तच्च फिञं विना न सिध्यतीति वाच्यम् फक्फिञोः (४.१.९१) इत्यत्र यूनीत्यनुवृत्या त्वदुदाहृतरूपद्वयस्य सिद्धान्तेऽप्यसम्मतत्वात् । अत एव तत्र यून्येवोदाहृतम् । यस्कस्यापत्यम् शिवादिभ्योऽम् (४.१.११२) यास्कः, तस्यापत्यं युवा अणो द्व्यचः (४.१.१५६) इतिक फिञ् यास्कायनिः, तस्य छात्राः ‘यास्कीयाः’ ‘यास्कायनीयाः, इति तस्मात्फिनाऽपि सिद्धौ किमर्थं फिञेवेष्यते इति चेत् ? उच्यते, उक्तरीत्या रूपसिद्धावपि प्राचामुदीचां वाचार्याणां स्वस्वमतपर्रच्युतिरेव तावद्दोषः । सिद्धान्ते ह्युदीचाम् । ‘आम्रगुप्तायनिः’ इष्टः, प्राचां त्वनिष्टः । उक्तरीत्या तूदीचां न सिद्ध्येत्, प्राचां तु सिध्येदिति स्पष्ट एवोभयोरपि स्वमतप्रच्यवः । तथा च ऋतो भारद्वाजस्य (७.२.६३) इति सूत्रे ‘जहर्थ’ इत्यादौ गुणे रपरत्वे च कृते ऽनजन्तत्वाद् अचस्तास्वत् (७.२.६१) इत्यस्याप्राप्तौ नियमानुपपत्तेः ‘ऋतो भारद्वाजस्य (७.२.६३) इतीदं विधायकं स्यात्ततश्च ‘पेचिथ’ इत्यादापिण्न स्यादिति दूषणे प्राप्ते अचस्तास्वत्थल्यनिटो नित्यं भारद्वाजस्य । उपदेशे त्वतः, भारद्वाजस्येत्येव । ततः ऋतः, भारद्वाजस्येति निवृत्तम् । एवञ्च सकललक्ष्यप्रसिद्धिः इति सूत्रभङ्गेन समाधाय भाष्यकारो वक्ष्यति सिध्यत्येवम् । अयं तु बारद्वाजः स्वस्मान्मतात्प्रच्यावितो भवति इति । अत एव अचस्तास्वत् (७.२.६१) इत्यत्र उपदेसेऽत्वतः (७.२.६२) इत्येतदुपदेशग्रहणमपकृत्य सिद्धान्तयिषयतीति दिक् । किञ्च फिनि सत्याम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे सौवरिगोत्रे फश्छच (४.१.१४९) इति छठकौ न स्याताम् । तत्र फिञेव गृह्यते न तु फिन् वृद्धादित्यदिखारादिति स्थितम् । ततश्च ‘आम्रगुप्तायनीयः’ ‘आम्रगुप्तायनिकः’ इति स्यात् । न च । यमुन्दश्च सुषामाच वाष्र्यायणिः फिञः स्मृताः ।
इति वृत्तौ त्रयाणामेव परिगणनादन्येभ्यश्छठकौ न भवत एवेति वाच्यम्, भाष्यकृता परिगणनस्यानाश्रयणात् । अन्यथाऽत्रैव सूत्रे ‘सौवीरेष्विति किम् ? तैकायनिः’ इतिपर्रत्युदाहरणं न सङ्गच्छेत । तैकायनिशब्दस्य तत्रापाठात् । अत एव यूनि लुक् (४.१.९०) इत्यत्रोदाहियते तिकस्यापत्यं तिकादिभ्यः फिञ् (४.१.१५४) तैकायनिः, तस्यापत्यं युवा फेश्छच (४.१.१४९) तैकायनीयः, तस्य छात्राः युवप्रय्यस्य लुकि कृते वृद्धाच्छः (४.२.११४) ‘तैकायनीयाः’ इति । न हि सति परिगणने तैकायनेश्छः सम्भवति न वा तल्लोपः । अत एव यूनिलुक्सूत्रे स्थित्वा परिगणनमर्वाचीनमिति हरदत्तादतयोऽप्याहुः । अपिच फिञि सत्याम्रगुप्तायनेरपत्यं युवा प्राग्दीव्यतोऽण् (४.१.८३) तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिञोः (१.४.५८) इति लुकि ‘आम्रगुप्तायनिः’ इत्येवं रूपं पितरि पुत्रे चेष्यते । पिनि तु सति तन्न स्यात् ञितः परत्वाभावात् । न च ‘अब्राह्मणगोत्रमात्राद्युवप्रत्ययस्योपसंख्यानम्’ इति तत्सिद्धिः, ब्राह्मणगोत्रे तदप्रवृत्तेः । किञ्च तद्भावितग्रहमपक्षे मालादीनां च(६.२.८८) इत्यनेनैव पूर्वपदाद्युदात्तत्वसिद्धेः । अपिच वृद्धिशब्दे तन्त्रावृत्त्याद्याश्रयणाद्गौरवम् । मृजेर्वृद्धिः (७.२.११४) इत्यादिविधिप्रदेशेष्वितरेतराश्रयणपरिहाराय सूत्रसाटकवद्भाविसंज्ञा विज्ञेया स्यादिति चापरं गौरवमिति ।
अत्रोच्यते, आदैज्मात्रस्य वृद्धिसंज्ञा । नचैवं सर्वबासादावुक्तदोषः स्यादिति वाच्यम् उत्तरपदवृद्धौ सर्वं च (६.२.१०५) इत्यत्र ह्युत्तरपदग्रहणं स्वर्यते । स्वरितेनाधिकारो विज्ञायते । तेनोत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता सैव गृह्यते । यथा ‘सर्वपाञ्चालः’ सुसर्वार्द्धाज्जनपदस्य (७.३.१२) इति वृद्धिः । इदं च तद्भावितग्रहणेऽप्यवश्यं वक्तव्यमेव । अन्यथा ‘सर्वः कारकः’ ‘सर्वकारकः’ इत्यादावतिप्रसक्तेः । एवं तावद्भार्येप्यदोषः, तन्त्रावृत्त्याद्याश्रयणेन वृद्धिशब्देन विहिताया वृद्धेर्यन्निमित्तं तत्रैव पुंवद्भावप्रतिषेधात् । वृद्धिशब्देन च विधौ कृत्स्ना वृद्धिः प्रतीयते हत्याशयेनैवोक्तं भाष्ये”यत् कृत्स्नाया वृद्धेर्निमित्तम् इति । न च वैयाकरणभार्ये तता सौवश्वभार्येऽतिप्रसङ्गः फलोपहितस्यैव निमित्तन्वेन विवक्षितत्वात् । ऐचौ प्रति फलोपधानमप्यस्तीति चेत् ? न, तयोर्वृद्धिशब्देनाविधानात् । केचित्तु यावद्वृद्धिजननयोग्यत्वे सति किञ्चित्फलोपहितस्तद्धितो निमित्तशब्देनोच्यते । वैयाकरणे तु ऐचं प्रति तद्धितो न निमित्तं निषेधसन्नियोगशिष्टतामात्रेणातिप्रसङ्गभङ्गात् । तेन वैयाकरणभार्ये नातिप्रसङ्गः । परिषदो ण्यः’ (४.४.४४) ‘पारिषद्या भार्या’ इत्यादौ त्वाकारमात्रोपहितत्वेऽपि स्वरूपयोग्यता सकलवृद्धिं प्रत्यस्तीत्याहुः । तस्मात्
आवृत्तौ गौरवापत्तेः शालीयादेरसिद्धितः । मालादीनां चेति लिह्गाद्व्याप्तिन्यायात्तथैव च ॥
भाविसंज्ञात्वविज्ञाने गौरवाच्चेह निश्चितम् । आदैज्मात्रस्याविशेषाद्वृद्धिसंज्ञा विधीयते ॥
अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेसार्थमागमार्थं विशेषणविशेष्यभावार्थं चेदं सूत्रामिति षट्पक्षी तु भाष्य एव निराकृतत्वादसम्भवदुक्तिकत्वाच्च नेह तन्यते । संज्ञासंज्ञिभावे सत्यपि का संज्ञा कः संज्ञीत्यत्र तात्पर्यग्राहकास्तु बहवो न्यायाः। तथाहि, यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तच्छब्द एवकारश्च स्यादुपादेयलक्षणम् ॥
इत्यभियुक्तोक्तेस्तथैवानुभवाच्च प्राथम्यं तावत्संज्ञित्वे लिङ्गम् । तच्च अदंङ् गुणः (१.१.२) इत्यादौ स्पष्टमेव । वृद्धिसंज्ञासूत्रे तु मङ्गलार्थं वृद्धिशब्दस्यादौ प्रयोगेऽपि वक्ष्यमाणैर्न्यायान्तरैरादैचां संज्ञित्वे निर्णीते सत्यादैज्वृद्धिरित्याकारकपदानुपूर्वीज्ञानानन्तरमेव वाक्यार्थबोधाब्युपगमात्तज्जनकीभूतानुपूर्वीज्ञाने आदेचामेव प्राथम्यान्न व्यभिचारः । पदानुपूर्वीज्ञानमेव चासत्तिज्ञानमित्युच्यते । इदं च शाब्दबोधे हेतुरिति यैर्नेष्यते तेषामासन्नानासन्नकथोच्छेदः स्यात्, पदसमूहालम्बने सकलपदानां पदार्थस्मरणे च सकलपदार्थानां विषयत्वाविशेषात् । आवृत्तिश्च संज्ञात्वे लिङ्गम्, व्यवहारार्थमेव संज्ञाकरणात् । बेदाभेदाभ्यामपि संज्ञित्वसंज्ञात्वे क्वचिन्निर्णीयेते । बहूनां ह्येकासंज्ञोचिता लाघवात्, न त्वेकस्य बह्व्यः। संज्ञा गौरवात् । न्यूनाधिकव्यक्तिकास्तु बह्व्यः संज्ञा इष्यन्त एव, तत्तत्प्रयुक्तकार्यवैलक्षण्यात्, कृत्कृत्यप्रत्ययसंज्ञावत्, तद्धिततद्राजप्रत्ययसंज्ञावच्च । लघ्वक्षरत्वमपि टिघुभादौ संज्ञालिङ्गं यथायथं बोध्यम् । इह त्वावृत्त्याऽभेदेन च वृद्धिशब्दः संज्ञेति स्थिते तद्बलेन श्रुतानुपूर्वीभङ्गादादैचां प्राथम्यमपि योजनीयम् । यद्वा, स्वेच्छया संज्ञाः क्रियन्ते इति पक्षं विहाय व्यवहारय नियम इति पक्षे योज्यम् । आद्येऽपि कार्यकालपक्षाश्नयणेन वा समाधेयमिति दिक् । एतेन आर्द्धधातुकं शेषः (३.४.११४) कृदतिङ् (३.१.९३) अपृक्त एकाल्प्रत्ययः (१.२.४१) स्वं रूपं शब्दस्य (१.१.६८) अणुदित्’’ (१.१.६९) तपरः (१.१.७०) आदिरन्त्येन (१.१.७१)”येनविधिस्तदन्तस्य (१.१.७२) इत्यादावपि व्यभिचार उद्धृतः, तत्रापि विपरीतानुपूर्वीकल्पानात् । कल्पकत्वस्य च प्रागेवोक्तत्वात् पक्षान्तरैरपि समाधानाच्च । अत एव स्थानिवत्सूत्रे ‘वत्करणङ्किमर्थम्’ इत्याशङ्क्य स्थान्यादेशस्य संज्ञा मा विशायि इति भाष्यमप्युपपन्नम् । यत्तु अपृक्त एकाल् (१.२.४१) इति परिभाषा, न तु संज्ञा इत्युक्तं, तद् वृद्ध्यादावपि सुवचम् । अपृक्तसंज्ञायां हल्ग्रहणं स्वादिलोपे हलो ग्रहणार्थम् इति वार्त्तिकस्य तद्भाष्यस्य च प्रतिकूलम् । तस्मादुक्तैवगतिः समीचीनेति दिक् ।
ननु मृजेर्वृद्धिः (७.२.११४) इत्यादावन्योन्याश्रयः, संज्ञयाहि विधिर्विहितानां च संज्ञेति । न च मालादौ संज्ञाप्रवृत्तिसम्भवे सतीह भाविसंज्ञाविज्ञानं सम्भवति । तस्माद् वृद्धिशब्द एवादेशः स्यात् । अन्यत्र वृद्धिसंज्ञाप्रवृत्तावपि मालादिशब्दान्तर्गतस्याकारस्य तत उत्कृष्येह विधातुमशक्यत्वादिति ।
अत्राहुः ’मार्ष्टि’ इत्यादौ सिद्धस्यैवाकारस्य मृज्युपदेशादसाधुत्वे प्रसक्ते साधुत्वं मृजेर्वृद्धिः इत्यादिना बोध्यते न त्वपूर्व आकारो भाव्यते, येनान्योन्याश्रयः स्यात् । उक्तं च वार्तिककृता सतो वृद्ध्यादिषु निमित्तभावात्तदोश्रय इतरेतराश्रयत्वादप्रसिद्धिः । सिद्धं तु नित्यशब्दत्वात् इति । अथ लक्षणैकचक्षुष्कः कश्चिद्व्याकरणबलेनैव ‘मार्ष्टि’ इत्यादिप्रयोगेषु व्युत्पित्सेत, तथापि न क्षतिः शालामालादावाकारे श्रुते आत्वसामान्यलक्षणप्रत्यासत्या ‘मार्ष्टि’ इत्यादिप्रयोगसमवायिनां सर्वेषामाकाराणां वृद्धिशब्दवाच्यताग्रहात् । सामान्यलक्षणानभ्युपगमपक्षे त्वात्वजातौ शक्तिग्रहात् शक्त्यनुभवपदार्थस्मरणवाक्यार्थबोधानां समानप्रकारकत्वेनैवातिप्रसङ्गभङ्गाभ्युपगमाद्वा । अन्यथा ‘गहे घटोऽस्ति’ इति वाक्यादप्यपूर्वंव्यक्तिर्न गृह्यतेति दिक् । अत एव नवेति विभाषा (१.१.४४) इति सूत्रे भाष्यकारो वक्ष्यति साधु त्वस्य विधेयत्वे विभाषा श्वेः (६.१.३०) इत्यादिना तस्यैव विकल्पापत्तिः । तस्मात्सम्प्रसारणाद्येव विकल्प्यत इति । एषैव लडा दिविधौ गतिः । न चैवं साध्यवनुशासनत्वभङ्गः, साधुत्वविशिष्टस्यैव सर्वत्र लक्षणया विधानगिति कृन्मेजन्तसूत्रे विवरणकाराधिभिरुक्तत्वात्, केवलवविधानेपि ‘यदिह परिनिष्ठितं, तत्साधु’ इति श्रुतार्थापर्त्ति प्रकल्प्य वाक्यात्साधुत्वसिद्धंश्च । इह च प्रहत्येकं वाक्यपरिसमाप्तिः मालादीनां च (६.२.७८) इत्यादिलिङ्गात् ‘ब्राह्मणा भोज्य न्ताम्’ इत्यादौ तथा दर्शनाच्च । यद्यपि ‘गर्गाः शतं दण्ड्यन्ताम्’ इत्यादौ समुदायेऽपि वाक्यपरिसमाप्तिर्दृश्यते गुणकर्मभूतानामपादानस्तानापन्नानां गर्गाणामनुरोधेनेप्सिततमकर्मतया प्रधानभूतस्य शतस्यावृत्त्ययोगात्, तथापीह शास्त्रे यत्नं विना समुदाये शास्त्रं न समाप्यते । अत एव उभे अभ्यस्तं सह इति सहग्रहणं वार्त्तिककृद्वक्ष्यति । भाष्यकारस्तूभेग्रहणमेवैतदर्थमिति वक्ष्यति । अन्यथा”एकाचो द्वे (६.१.१) इत्यनुवृत्त्या सिद्धेः किमुभेग्रहणेन ? संयोगसंज्ञायां समाससंज्ञायां च महासंज्ञाकरणमेवान्वर्थताविज्ञानार्थमिति यत्नः । अत एव सह सुपा (२.१.४) इति सहग्रहणं योगविभागेन तिङ्न्तादिसमासविदानार्थमिति स्थापयिष्यते । इह तपरकरणमैजर्थमीदूदेदितिववुच्चारणार्थमसन्देहार्थं चेति प्रपञ्चितम् एओङ् ऐऔच् (पा.सू. ३.४) इतिसूत्रयोः । यत्त्विहोक्तं वार्त्तिककृता आकारस्य तपरकरणं सवर्णार्थम्’ इति, तत्तु ‘भेदका गुणाः’ तपरसूत्रं चानाणि विध्यर्थम्’ इत्यभिप्रेत्य । भाष्ये त्वभेदका गुणा इति स्थित्म्। गुणा उदात्तानुदात्तस्वरितानुनासिका न्न्तरीयकतयोच्चार्यमाणा अपि यत्नं विना न विवक्ष्यन्ते हत्यर्थः । अनङ्दात्तः (ए.७.१.७५) अडुदात्तः (ए.६.४.७१) इत्यादावुदात्तग्रहणं चेह ज्ञापकम् । अन्यथा ह्युदात्तमेवोच्चारयेल्लाघवात् । ननु यद्यभेदका गुणास्तर्हि यद्वक्ष्यति भाष्यकारः हन्त्यादेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिट्प्रतिषेधे प्राप्ते तद्वारणाय वध्यादेशे उदात्तनिपातनं करिष्यते । तथाच एकाच उपदेशे (७.२.१०) इति सूत्रे एकाज्ग्रहणं न कर्त्तव्यम् इति, तदेतद्विरुध्येत, अविवक्षाप्रसङ्गात् । अथोच्येत तत्रापि स्थानेन्तरतमः (१.१.५०) इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नुच्चारयितव्ये उदात्तोच्चारणं यत्नेन विवक्षार्थं ज्ञायते इति । एवमपि यद्वक्ष्यति षष्ठे चतसर्याद्युदात्तनिपातनं करिष्यते स निपातनस्वरः चतुरः शसि (६.१.१६७) इत्यस्य बाधकोभविष्यति इति तद्विरुध्यते । चतुश्शब्दो ह्यव्युत्पत्तिपक्षे व्रः संख्यायाः (फि.सू.२८) इति फिट्सूत्रेणाद्युदात्तः । चतेरुरन् (उ.सू.७४७) इति व्युत्पादनेऽपि नित्स्वरणाद्युदात्त एव । तत्स्थानिकस्य चतसृशब्दस्यापि स्तानिस्वरेणाद्युदात्तस्योच्चारणोपपत्तौ चतुरः शसि (६.१.१६७) इत्येतद्वाधकत्वायोगात् । अपिच अस्थ्यादीनामप्याद्युदात्तत्वादन्तादेशस्यानङोऽपि स्थान्यनुरुपेऽनुदात्ते एवोच्चारणीये उदात्तोच्चारणं विवक्षार्थं भविष्यतीत्युदात्तग्रहणं निष्फलमेव, प्रत्युत क्रियमाणं तद्यत्नाधिक्येऽप्यविवक्षां ज्ञापयेत् । यदप्येकश्रुत्या सूत्रपाठात्क्वचिदुदात्तोच्चारणं विवक्षार्थमिति, तदपि चिन्त्यम्, एवं सत्यनङोऽप्युदात्तोच्चारणेनैव सिद्धावुदात्तग्रहमृणवैयथ्यार्पत्तेः उक्तज्ञापनासम्भवाच्च । तथाहि, किं ज्ञाप्यम् स्वशब्देनानुपात्तो गुणो न विवक्ष्यते इति आहोस्विदसति यत्नविशेषे न विवक्ष्यते इति ? आद्ये निपातनस्वरो न विवक्ष्येत । अन्त्ये तूदात्तोच्चारण एव विवक्षाहेतौ यत्नविशेषे स्थिते कथं ज्ञापबकोत्थानं, मूलशैथिल्यात् । तस्माद् गुणानामभेदकत्वप्रतिपादकमत्रत्यं भाष्यमुत्तरग्रन्थविरुद्धमेवेति चेत् ?
उच्यते, विभाषा छन्दसि (१.२.३६) इति वैकल्पिकमैकश्रुत्यमङ्गीकृत्य पक्षान्तरैरपि परिहारा भवन्ति इति न्यायेन तत्र तत्राद्युदात्तनिपातनं करिष्यते हत्युक्तम्, इह तु त्रैस्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वेनाविवक्षितत्वसम्भवादुदात्तग्रहणं ज्ञापकमित्युक्तम्, अतो न विरोधः यद्वा, अणुदित्सवर्णस्य (१.१.६७) इत्यत्राणग्रहणेनैव सिद्धे गुणभिन्नानां यवलानां संग्रहाय क्रियमाणमण्ग्रहणं गुणानां भेदकतामपि ज्ञापयति । भेदकाबेदकत्वपक्षयोश्च जातिव्यक्तिपक्षयणेन आद्युदात्तनिपातनं करिष्यते इत्यादि भाष्यं बोध्यम् । अत एव चेदमस्त्यदाद्यत्वे अष्टन आविभक्तौ (७.२.८४) इत्यादौ चानुनासिको न प्रवर्त्तते । नन्वण्ग्रहणं हलो यमाम् (८.४.६४) इति लोपेऽन्यतरस्यांग्रहणानुवृत्तिज्ञापनार्थमित्युक्तमिति चेत् ? न, उभयज्ञापकत्वेऽप्यविरोधात् । न ह्येकेनैकमेव ज्ञाप्यमिति नियमः, यावता विनानुपपत्तिस्तस्य सर्वस्य ज्ञाप्यत्वात् । अत एवाऽऽत्वाविकल्पः कृतात्वस्य षट्संज्ञा चेत्युभयमपि अष्टनो दीर्घात् (६.१.१७२) इति दीर्घग्रहणेन ज्ञापयिष्यते । अत एव च संहितायाम् (६.१.७२) इत्यधिकारेण संहिताया अनित्यत्वं कालव्यवायेप्यानङादिप्रवृत्तिश्चेत्युभयं ज्ञाप्यते इति दिक् । एवञ्चाकारस्य त्परकरणं सवर्णार्थमितीहत्यं वार्त्तिकमपि भेदकत्वपक्षेण साध्वेव । भाष्ये तु पक्षान्तराभिप्रायेण ऐजर्थत्वमुक्तम्, तदपि यथोद्देशपक्षे बोध्यम्, आदैचां संज्ञाविधातनुवाद्यत्वेन सवर्णग्राहकत्वप्रसक्तेः । कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसंज्ञा विशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । यथा च ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेवसामानाधिकरण्यान्नामधेयत्वावगतिर्न तु वाक्यान्तरेण, तथाऽस्मिन्पक्षे वृद्ध्यादीनामपि, वृद्धिरादैच (१.१.१) इति सूत्रं तु इको गुणवृद्धी (१.१.३) इतिवत्पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया परं संज्ञासूत्रव्यवहारः । आद्यपक्षे तु यन्न दुखेन इत्यादौ स्वर्गशब्दार्थावगमवदिहैव वृद्ध्यादिशब्दार्थावगम इति विशेषः । तदयं निर्गलितः सूत्रार्थः कृतानामकृतानां चादैचां प्रत्येकं वृद्धिसंज्ञा स्यात् । आश्वलायनः, ऐतिकायनः । अश्वलेतिकशब्दाभ्यां नडादित्वात्फक्यादिवृद्धिः । उपगोरपत्यमौपगवः ॥
१.१.१
सूत्राणि:॥ वृद्धिरादैच् ॥
॥ व्याख्या: ॥॥ व्याकरणसिद्धान्तसुधानिधिः ॥
आकार ऐकार औकारश्च आदेशानादेशसाधारण्येन वृद्धिसंज्ञः स्यात् । प्रदेशा विधौ वृद्धिरेचि इत्यादयः । अनुवादे तु वृद्धिर्यस्याचाम् इत्यादयः । अत्र छन्दोवत्सूत्राणि भवन्तीत्यतिदेशाद् अयस्मयादीनि च्छन्दसि इति भसंज्ञत्वात् पदान्तनिमित्तककुत्वाभावः । जश्त्वोपयोगिनी तु पदसंज्ञाऽस्त्येवेति वृद्धिरादैजदेङ्गुणः इति संहितया पाठे जश्त्वं भवत्येव । यथा स सुष्टुभा स ऋक्वता गणेनेत्यत्रेति भाष्यम् । दृष्टान्ते कुत्वोपयोगिनी पदसंज्ञास्ति, न तु जश्त्वोपयोगिनीति तु विशेषः । इह तपरत्वमैजर्थम् । तेन त्रिमात्रादीनां न संज्ञेति पूर्वमुक्तम् ।
न चैवं पदान्तत्वाभावाद्दत्वं न स्यादिति वाच्यम् । असन्देहार्थतया पूर्वशेषत्वस्यापि सम्भवात् । दकारस्य तत्कालग्राहकत्वमपि पूर्वं निर्णीतम् । स्यादेतत् कृतमनयोः साधुत्वमिति भाष्यस्वरसाद् आदैच इति समस्तमेव । अनयोः पदयोरिति तदर्थात् । यद्यपि वृद्धिः आत् ऐजिति पस्पशायां पृथक्पदत्वमप्युक्तम्, तथाऽपि तदभ्युच्चयमात्रम् । अनयोः सूत्रखण्डयोरिति व्याख्यानापत्तेः । तस्य च वृधिरस्मै अविशेषेणोपदिष्टः प्रकृतिपाठे तस्मात्स्त्रियां क्तिन्प्रत्ययः, आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः इति भाष्यविरुद्धत्वात् । चकाराध्याहारप्रसङ्गाच्च । (तथा च समाहारे द्वन्द्वाच्युदषहान्ताद् इति समासान्तस्य, इतरेतरयोगद्वन्द्वे तु द्विवचनस्यापत्तिरिति सत्यम्, समासान्तविधेरनित्यत्वात् समाहारद्वन्द्वस्यैव निर्दोषत्वात् । तत्र ज्ञापकं तु प्रतेरंश्वादयस्तत्पुरुषे इति सूत्रे अंश्वादिगणे राजन् शब्दपाठः । प्रते परे अंश्वादयोऽन्तोदात्ता इति तदर्थः । राजाहः सखिभ्यः इति टचो नित्यत्वे तु चित्त्वादेवान्तोदात्तत्वं स्यात् ।
एवमपाच्चेत्यनुवर्तमाने स्फिगपूतवीणाञ्जोध्वकुक्षिसीरनामनाम च इत्यन्तोदात्तविधौ अध्वशब्दोपादानमपि लिङ्गम् । उपसर्गादध्वनः इति समासान्तस्य नित्यत्वे अचैव सिद्धेः केचित्तु द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ इति सूत्रे समासान्तरहित मूर्द्ध ग्रहणमिह लिङ्गम् । द्विमूर्द्धा त्रिमूर्द्धा इत्य त्रान्तोदात्तत्व विकल्पार्थं हि तत् । द्वित्रिभ्यां ष मूर्ध्नः इति समासान्तस्य नित्यत्वे तु नान्त उक्तबहुव्रीहिरप्रसिद्ध एव स्यात् । द्विमूर्द्ध इत्यादेरकारान्तत्वात् । समासान्तानां समुदायावयवत्वात् । न च समासान्तानामुत्तरपदान्तावयवत्वद्वारा समासान्तत्वमित्यस्यापि भाष्यरूढत्वात् षप्रत्ययविशिष्टस्यापि मूर्द्धन् शब्देन ग्रहणं सम्भवत्येवेति द्विमूर्द्धस्त्रिमूर्द्ध इति अकारान्त एव बहुव्रीहौ विकल्पार्थं तदिति वाच्यम् । तत्पक्षस्याभ्युच्चयमात्रत्वात् । मूर्द्धष्वित्यपहाय बहुब्रीहिगर्भगुरुन्यासारम्भात्सूत्रकृत्सम्मतत्वाभावाच्च। न च द्वौ पादयति द्विपात द्वयोर्दन्तान् द्विदतः पश्येति तत्पुरुषवारणाय बहुब्रीहिग्रहणावश्यकत्वे मूर्द्धषु इति न्यास एव गौरवमिति कथं ज्ञापकत्वमिति वाच्यम् । समासान्तविशिष्टमूर्द्धशब्दसाहचर्येण पाद्दच्छब्दयोरपि बहुव्रीह्यवयवयोरेव ग्रहणसम्भवे बहुव्रीहिग्रहणस्यानावश्यकत्वात् । एतेन द्वित्रिभ्यां पाद्दन् इति सूत्रे बहुव्रीहिग्रहणमेवोक्तपरिभाषाज्ञापकम् । अन्यथा पाद्दन्मूर्द्धष्वित्येव निर्दिशेत् । कृतसमासान्तशब्दप्रक्रमाच्च । बहुव्रीहिभिन्नं च समासान्तविरहादेव वारयिष्यते, इति कौस्तुभोक्तिर्निरस्ता । यथान्यासेऽपि षप्रत्ययान्ते उक्तसूत्रस्याप्रवृत्तेरुक्ततया तस्य लक्ष्यत्वमङ्गीकृत्य बहुव्रीहिग्रहणस्य ज्ञापकत्वोक्तेरसङ्ग तत्वात् । लक्ष्यभेदाभ्युपगमेन ज्ञापकत्वोक्तरसाम्प्रदायिकत्वात् ।
यदपि द्विदतः पश्येत्यत्र कथं दद्भावः, पद्दन्नोमास् इति सूत्रे तदन्तविध्यभावादित्याशङ्ङ्ग्य ष्यङः सम्प्रसारणसूत्रस्थपूर्वपक्षन्यायेन सिद्धं त्ववयवानन्यत्वाद् इत्याष्टमिकभाष्यवार्त्तिकन्यायेन चावयवस्य कार्यलाभादिति तत्रोक्तम्, तदपि चिन्त्यम्, शसादिषु परतः पूर्वेषां पादादीनां 'पदाद्यादेश 'विधानाच्छङ्कोत्तरयोरसङ्गतत्वात् । एतेन द्वित्रिभ्यां ष मूर्नः इति षचं विहाय षप्रत्ययविधानमपि ज्ञापकम् । तद्धि षचश्चित्त्वसामर्थ्यलभ्यमन्तोदात्तत्वम् बहुव्रीहौ प्रकृत्या इति पूर्वपदप्रकृतिस्वरवत् द्वित्रिभ्यां पाद्दन्मूर्द्धसु इति अन्तोदात्तविकल्पमपि मा बाधिष्टेत्येतदर्थं विकल्पस्य क्वचित् सावकाशत्वे सत्येव सङ्गच्छते । अवकाशश्च समासान्तानामनित्यत्व एव लभ्यते । 'त्रिमूर्द्धनं सप्तरश्मिं गृणीषे' इति यथा इत्यपि परास्तम् ।
द्विमूर्द्ध इत्यादौ कृतसमासान्ते तत्सूत्रस्य न प्रवृत्तिरित्युक्तत्वात् । चित्त्वसामर्थ्यलभ्यान्तोदात्तत्वस्य तद्विकल्पबाधकत्वशङ्कानुपपत्तेः । अस्तु वा तत्र विकल्पप्रवृत्तिः, तथाऽपि नोक्त ज्ञापकत्वम् । चित्स्वरस्य बहुव्रीहौ सक्थ्यक्ष्णोः इति पूर्वसूत्रविषये फलकसक्थो विशालाक्ष इत्यादौ चरितार्थत्वाद्विकल्पबाधकत्वानुपपत्तेः । न च द्वित्रिभ्याम् इति षचो यच्चित्त्वं तदचरितार्थमेवेति वाच्यम् । पूर्वसूत्रीयस्यैवात्रानुवृत्तेः । अन्यथा प्रत्याहाराह्निके आत इति कप्रत्ययकित्त्वमाकारैकदेशस्यातो लोपो न भवतीत्यत्र न ज्ञापकम्, तुन्दशोकयोः परिमृजापनुदोः इत्युत्तरसूत्रे चरितार्थत्वाद् इति भाष्योक्त्यनुपपत्तेः । न चैवं षप्रत्ययविधानवैयर्थ्यमेव स्यादिति वाच्यम् । उक्तान्तोदात्तविकल्पस्य समासान्ताभावपक्ष एव प्रवृत्तेर्व्यवस्थापितत्वात् । द्वित्रिभ्याम् इत्यत्रापि षच्प्रत्ययविधाने चित्त्वबललभ्यान्तोदात्तत्वस्य निरपवादत्वात् द्विमूर्द्ध इत्यादौ तदेव स्यात् । षप्रत्यये तु पूर्वपदप्रकृतिस्वर एवेति वैषम्येन तत्सार्थक्यादित्याहुः ।
तत्रेदं चिन्त्यम् - समासान्ताभावपक्ष एवोक्तान्तोदात्तविकल्प इति तावदाकरविरुद्धम् । यद्यत्र षच् स्यात्तदा नित्यमन्तोदात्तत्वं स्यात् । द्वित्रिभ्याम् इति विभाषाऽन्तोदात्तत्वं तु यदा समासान्तविधेरनित्यत्वात् द्विमूर्द्धति समासान्ताभावः, तदा सावकाशम् । षे तु सति समासान्तपक्षेऽपि पक्षेऽन्तोदात्तत्वम् पक्षे पूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वमिति स्वरद्वयसिद्धिरिति तत्रत्यभाष्यकैयटयोरुक्तत्वात् । तथा चोक्तकल्पनं निर्मूलत्वादेव हेयम् । मूर्द्धस्विति निर्देशस्योक्तज्ञापकत्वं तु भाष्यादावेव स्पष्टम् । अत एव मूद्धेष्विति न्यासानारम्भादुत्तरपदावयवाः समासान्ता इति पक्षस्य सूत्रानभिमतत्वमिति निरस्तम् । समासान्ताभावपक्षेऽपि विकल्पप्रवृत्त्यर्थतया तादृशन्यासपरित्यागोपपत्तेः । अत एव षप्रत्ययविधानादपि तत्पक्षस्य सूत्रानभिमतत्वमित्यपास्तम् । समासान्तपक्षेऽप्यन्तोदात्तविकल्पार्थत्वात् ।
यदप्युक्तम् - समासान्ताः इति सूत्रे समासान्तानां साक्षादेव समासान्तत्वमिति पक्षस्य भाष्ये व्यवस्थापितत्वात् द्विधुरी त्रिधुरीत्यत्र अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते इति वार्त्तिकानुरोधेन समासार्थादुत्तरपदात्समासान्तः क्रियत इति पक्षस्य लिखितत्वेऽपि समासान्ताः इति सूत्रे अकारान्ताद् द्विगोरित्युत्तरपदशब्दरहितवार्त्तिकपाठेन द्विधुरीत्यादेः साक्षात्समासान्तत्वपक्षेऽपि साधितत्वात् । वार्त्तिकगतोत्तरपदशब्दमात्रमूलकस्य समासान्तानामुत्तरपदावयवत्वपक्षस्याश्रयेण द्विमूर्द्ध इत्यादावन्तोदात्तविकल्पप्रवृत्तिकल्पनमपेक्ष्य साक्षात्समासान्तत्वपक्षमाश्रित्य द्विमूर्द्ध इत्यादौ कृतसमासान्ते तद्विकल्पप्रवृत्तिर्नेत्येव कल्पयितुमुचितत्वादुक्तरीत्यैव गुरुसूत्रन्यासषविधानयोः सार्थक्यमिति तदप्यसत्, तत्पक्षावलम्बनेन कृतसमासान्तेऽपि विकल्पप्रवृत्त्यैव भाष्याद्युक्या गुरुन्याससार्थक्यात् । सरूपाणाम् इति सूत्रे उत्तरपदान्ताः समासान्ता इति पक्षस्यापि भाष्यसम्मतत्वेन कैयटोक्तत्वाच्च । गोस्त्रियोः इति सूत्रे कपि प्रतिषेधः इति वार्त्तिकप्रत्याख्यानाय भाष्यकृता उक्तपक्षस्य साक्षादेव लिखितत्वाच्च ।
यदप्युक्तम् - द्वित्रिभ्यां पाद्दन् इति सूत्रभाष्यपर्यालोचनया तत्पक्षस्य द्विमूर्द्ध इत्युदाहरणस्य च भाष्यानभिमतत्वं स्पष्टमेव । तथाहि अकारान्तस्य ग्रहणे नकारान्तस्योपसङ्ख्यानम्, नकारान्तग्रहणे त्वकारान्तस्य । उत्तरपदस्य कार्यित्वे समासान्ते कृते 'उत्तरपदे विधीयमानस्यान्तोदात्तत्वस्य प्रत्यये प्राप्त्यभावादित्युक्त्वा द्वितीयपक्षे उत्तरपदान्तोदात्तत्वे शेषनिघातेन प्रत्ययस्यानुदात्तत्वे टिलोपे उदात्तनिवृत्तिस्वरेण प्रत्ययोदात्तत्वम् । न चोत्तरपदान्तोदात्तत्वात्पूर्वमेव परत्वाट्टिलोप इति वाच्यम् । समासान्तात्पूर्वमेव परत्वादन्तोदात्तप्रवृत्तेः । तदा च टिलोपप्राप्त्यभावात् । न च कृताकृतप्रसङ्गितया नित्यत्वात्पूर्व समासान्तः । अन्तोदात्तस्यापि तथात्वात् । न च कृते समासान्ते उत्तरपदान्तोदात्तत्वं न प्राप्नोति, परत्वात् टिलोपेन बाधादिति वाच्यम् । लोपेन तन्निमित्तविघातेऽपि समासान्तेन तदविघातात् । यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यत्वमिति स्वीकारादिति तदपि चिन्त्यम्, किमत्र उत्तरपदान्ताः समासान्ता इति पक्षो नास्तीत्यभिमतम्, किं वा द्विमूर्द्ध इत्यादौ नोक्तविकल्प इति । नाद्यः, यदा कृते समासे समासान्त इति पक्षः, तदेयं सम्प्रधारणा, यदा तु समासार्थादुत्तरपदात् समासान्तः क्रियते इति पक्षः तदा सम्प्रधारणैव नास्तीति कैयटेनैवोक्तत्वात् । नान्त्यः, तदुत्तरमेव हि कैयटेन व्याख्यातम्
यदि नित्यः समासान्तः स्यात्तदा कार्यिविशेषसन्देहव्यावृत्तये प्रक्रमाभेदाय वा समासान्त एवोच्चार्येत । तदनुच्चारणात्तु समासान्तस्यानित्यत्वं ज्ञाप्यते । तत्र यदा समासान्तो नास्ति तदा समासस्योत्तरपदस्य वा कार्यित्वे विशेषाभावः । यदा तु समासान्तः क्रियते तदा समासस्य कार्यित्वे समासान्तस्योदात्तत्वम् । यदाऽप्युत्तरपदस्य कार्यित्वम्, तदा परत्वादन्तोदात्तत्वे कृते समासान्तः । तत्र टिलोपे उदात्तनिवृत्तिस्वरेणापि सिद्धम् ।
ननु प्रत्ययस्वरेण समासान्तस्य भाव्यम्, नैतदस्ति। बहुव्रीहिस्वरेण तस्य बाधात् । बहुव्रीहिस्वरस्याप्यनेनेति । अनेन च द्विमूर्द्ध इत्यादौ पाक्षिकोदाहरणत्वस्यापि लाभात् । अत एव षप्रत्यये पूर्वपदप्रकृतिस्वर एवेत्यपि कल्पने निरस्तम् ।
यदप्युक्तम् - मूर्द्धस बहुव्रीहौ इति गुरुनिर्देशस्योक्तपक्षावलम्बनेन कथञ्चित् सार्थक्येऽपि षप्रत्ययविधानस्य तदसम्भवः । षचश्चित्त्वसामर्थ्यलभ्यान्तोदात्तस्य पूर्वसूत्रविषये चरितार्थस्य द्विमूर्द्ध इत्यादौ परेणान्तोदात्तविकल्पेन बाधसम्भवात् । न च चित्त्वप्रयुक्तमन्तोदात्तत्वं पूर्वपदप्रकृतिस्वरमेव बाधते न तूक्तविकल्पमित्यत्र विनिगमकाभावः । कक्षया कक्षा निमातव्येतिभाष्योक्तन्यायेन तत्सिद्धेः । पूर्वकक्षाप्राप्तानामुत्तरकक्षाप्राप्ता बाधका इति तदर्थात् । अत एव प्रथमकक्षाप्राप्तयोर्यण्गुणयोः सवर्णदीर्घः, तस्य च अतो गुणे इति तृतीयकक्षाप्राप्तं पररूपं बाधकम् । प्रकृतेऽपि प्रथमकक्षायां समासस्य इत्यन्तोदात्तत्वम्, द्वितीयायां पूर्वपदप्रकृतिस्वरत्वम्, तस्य च षचश्चित्त्वसामर्थ्यलभ्यमन्तोदात्तत्वम् उक्तविकल्पश्चेति तृतीयकक्षागतं बाधकद्वयम् । तत्रापवादविप्रतिषेधे परत्वादन्तोदात्तविकल्प एव भविष्यतीति प्रकृतेन षचैव सिद्धेरिति । तदपि चिन्त्यम्, षचो विधाने तस्य च नित्यत्वे विकल्पस्य चित्वरनिर्मुक्तविषयाभावेन विप्रतिषेधायोगात् । समासान्ताभावपक्षे विकल्पस्य सावकाशत्वमित्युक्तौ तु तस्य समासान्तपक्षविषयकत्वे प्रमाणाभावात् समानविषयकत्वाभावेन तदयोगात् । नित्यविधेर्वैकल्पिकविधिविषये प्रवृत्त्यसम्भवात् । तथा च निरवकाशत्वादेव विकल्पसिद्धौ षप्रत्ययविधानं विकल्पस्य सावकाशत्वमाक्षिपत् तत्प्रयोजकतया समासान्तविधेरनित्यत्वं ज्ञापयतीति दिक् ।
नन्वत्र कुत्वप्राप्तिरेव नास्ति। लौकिकवैदिकशब्दानामेव व्युत्पाद्यत्वाद् इति चेदत्राहुः अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन संज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसंज्ञानां लौकिकत्वादादैच्छब्दस्यानुकरणशब्दत्वाज्जातिशब्दत्वाद्वा शास्त्रप्राप्तिरस्तीति । लौकिकत्वादादैच्छब्दस्य शास्त्रप्राप्तिरस्तीति सम्बन्धः । तत्र नित्यत्वादिति हेतुः। आदैच्छब्दस्य आकारादौ तद्भिन्ने च साङ्केतिकशक्तेः सत्त्वात् । नन्वेवं संज्ञाविधानवैयर्थ्यम् । अतः शक्त्यवच्छेदेनेति । स च शक्तिसङ्कोचः । इदं पदमेतदर्थं बोधयत्वितिव्यक्तिविशेषबोधकत्वप्रकारकेच्छाविशेष्यत्वमिति यावत् । संज्ञिनि उक्तेच्छायां विशेष्यतासम्बन्धेन विशेषणीभूते बोधे विशेष्यतासम्बन्धेन विशेषणीभूतायां व्यक्तौ विनियोगात् । उक्तसङ्केतज्ञानसहकारेण तद्विषयकशाब्दधीजनकत्वव्यवस्थापनात् । उक्तञ्च -
व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित् । नित्य एव तु सम्बन्धो डित्थादिषु गवादिवत् ॥
वृद्ध्यादीनां च शास्त्रेऽस्मिन् शक्त्यवच्छेदलक्षणः । अकृत्रिमोऽभिसम्बन्धो विशेषणविशेष्यवत् ॥
तथा चात्र शास्त्रे वृद्धिशब्देनादैच एव बोध्या इति नियमार्थं संज्ञाविधानमित्यर्थः । नित्यत्वादित्युपपादयति अनेकशक्तेरिति । अनेकस्मिन्ननेका वा शक्तिर्यस्य अर्थगतप्रवृत्तिनिमित्तविशेषानपेक्षतया वक्तृतात्पर्यविषययत्किञ्चिद्व्यक्तिबोधनसमर्थस्य । न च न कोपधायाः इति पुंवद्भावनिषेधः । तद्धितवुग्रहणस्य तत्र वक्ष्यमाणत्वात् । अनेकविषया शक्तिर्यस्येति विवरणवाक्यं तु सप्तम्यर्थो विषयत्वमित्यभिप्रायकम् । अवच्छेदकभेदेऽपि लाघवादेकैव शक्तिः । औपाधिकभेदस्योपाधिभेदमात्रे पर्यवसानादित्याद्यः पक्षः । शक्तिभेदपक्षे द्वितीयः । ननु न सन्ति यदृच्छा शब्दा इति ऋलृक् सूत्रे वार्त्तिके व्यवस्थितत्वात् कथमेतत्अतः अनुकरणेति । नन्वनुकार्यानुकरणयोरभेदविवक्षायां सुबनुत्पत्तौ पदत्वाभावात् कुत्वाप्राप्तिः । भेदविवक्षायां तु प्रदेशान्तरप्रयुक्तस्यैवादैच्छब्दस्यात्र प्रत्ययादाकारादीनामग्रहणात् संज्ञित्वानुपपत्तिः अतः जातिशब्दत्वादिति । ऐकारादिव्यक्तिद्वये ऐजित्यनुगतप्रत्ययादैच्त्वम् ऐकारादिनिष्ठप्रातिस्विकजातिद्वयव्यापकः सामान्यविशेषः । द्रव्यत्वादिवदेतत्स्वीकारेऽपि 'बाधकाभावादिति तन्न, देवदत्तीयत्वाद्यनुमापकजातिविशेषैः सह साङ्कुर्यात् । 'गुणगतजातौ तन्न दोष इत्यस्य निर्मूलत्वात् । अनुगतप्रत्ययस्य आदिरन्त्येन इत्येतत्सूत्रविहितसंज्ञौपाधिकत्वेनातिरिक्तविषयकत्वाभावाच्च ।
यदपि सिद्धान्ते व्यक्तिविशेषोपहितसत्ताया एव जातित्वस्वीकारादिहापि साऽस्तु । व्यक्तिविशेषाश्च स्वरूपसत्ताऽतद्वेदेनानुगतीकृताः । सत्तोपधायकास्तस्यां सर्वे शब्दा व्यवस्थिताः । इति हरिवचनादिति, तदपि तथैव । तन्मतेऽपि जातिबाधकानामनुसरणीयत्वात् कल्पकस्योपेक्षणीयत्वाच्च । न हि तार्किकाणामेव स कुलधर्मः। सौगतैरप्युपगमात् । तदुक्तं कुसुमाञ्जलौ जात्योरतद्व्यावृत्त्योर्वा समाविष्टयोः परापरभाव एवेति । न चानुमापकजातीनां नानात्वस्वीकारपक्षे सङ्करोऽनवकाश इति वाच्यम् । तथाऽप्यतिरिक्तजातिकल्पने मानाभावात् । तस्मादनुकार्यनिष्ठामैत्वादिजातिमेवादाय जातिशब्दत्वम् । ऐत्वादिसामान्यमस्तीति विवरणस्याप्यत्रैव तात्पर्यम् । कुत्वशब्देऽपि कुशब्दस्य तद्वर्गीयवर्णमात्रे संकेतितत्वेन तदुत्तरत्वप्रत्ययस्य कत्वादिजातिपञ्चकं वाच्यम् । प्रकृत्यर्थप्रकारस्य त्वशब्दार्थत्वात् । तथा च प्रकृते केतरासमवेतत्वे सति सकलककारसमवेतत्वरूपकत्वत्वेन कत्वोपस्थितौ बाधबलाच्चकारे कत्वजातेरापादयितुमशक्यत्वात् स्वाश्रयव्यक्तिद्वारैवाऽऽपत्तिपर्यवसानात् चकारस्य ककार आदेशः कुतो न भवतीति भाष्यार्थः । एवं सर्वत्रावसेयम् ।
स्यादेतत् शाब्दबोधे प्रथमनिर्दिष्टमुद्देश्यम् परनिर्दिष्टंट विधेयमिति सर्वसिद्धम् ।
यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तच्छब्दयोगः पश्चात्त्वं साध्यत्वं च विधेयता ॥
इत्यभियुक्तोक्तेः । तत्कथमत्र आदैजुद्देशेन वृद्धिसंज्ञा विधीयत इति चेदुच्यते, आदैच् शब्देन प्रदेशेषु व्यवहाराभावात् तस्य निर्ज्ञातार्थत्वात् वृद्धिशब्दस्य च वैपरीत्यात् उद्देश्यत्वासम्भवात् वृद्धेरेव संज्ञात्वे निर्णीत विपरीतानुपूर्वीकल्पनेन वृद्धिसंज्ञाविधानम् । न चैवं पौरुषेयत्वेन तस्याप्रामाण्यापत्तिः । शास्त्रतात्पर्यविषयत्वस्यैव तत्प्रयोजकत्वात् । अन्यथाऽश्वाभिधानीमादत्त इत्यादेर्गर्दभाभिधान्यादिव्यावृत्तौ प्रामाण्यानापत्तेः । ङः सि धुट् इत्यादावुभयनिर्देशे पञ्चमीनिर्देशो बलीयानिति पञ्चम्या कल्पितस्य सप्तम्यन्ते सीतिशब्दे षष्ठ्यन्तत्वस्य तथात्वापत्तेश्च । मङ्गलार्थं चात्र वृद्धिशब्दस्य प्राप्रयोगात् । न चाचार्यस्य मिथ्याज्ञानवासनाराहित्येन दुरितसामान्यशून्यत्वात्तद्विशेषविघ्नाभावस्य सुतरां तत्र सत्त्वादलौकिकज्ञानवत्त्वेनास्मदादिवद्विघ्नसन्देहस्याप्यभावाच्च किमर्थं तदिति वाच्यम् । तथाऽपि परमकारुणिकतया सर्वसिद्धशिष्टत्वकस्वाचारविषयत्वेन हेतुना शिष्याणामभिमतकर्मारम्भसमये मङ्गलस्यावश्यकर्त्तव्यत्वानुमितिसिद्ध्यर्थं तेषामेवाऽऽनुषङ्गिकमङ्गलसम्पत्तिनिबन्धनस्वग्रन्थाध्ययनसिद्धिमूलकवैदुष्यवशात् पूवर्वोक्तरीत्याऽनेककर्माधिकारे यजमानस्य ऋत्विक्प्रयुक्तदृष्टादृष्टानेकफलसम्पत्त्यर्थ निष्कामकृतैश्च तैरेव कर्मभिरन्तःकरणशुद्धिद्वारा परमपुरुषार्थापवर्गसिद्ध्यर्थं च तदुपपत्तेः ।
यत्तु व्यवहाराय नियमः इति पक्षे अत्र शास्त्रे वृद्धिशब्देनादैच एव बोध्या इति यथाश्रुतमेव सम्यगिति तन्न, विधिसमानानुपूर्वीकत्वस्य नियमेऽप्यपेक्षितत्वात् । प्राप्तार्थत्वेन तदितरव्यावृत्तौ तात्पर्यमित्येतावतैव तत्र भेदात् । अन्यथा अदेङ् गुणः इत्यादौ विपरीतानुपूर्वीकल्पनापत्तेः । ब्रीहीनवहन्तीत्यादावपि ब्रीह्युद्देशेनैवावघातस्य विधेयत्वात् । यदपि यास्त्वेताः स्वेच्छया संज्ञाः क्रियन्ते इति पक्षेऽपि कार्यकालपक्षमाश्रित्य मृजेर्वृद्धिः आदैचो भवन्तीत्यर्थाद् यथाश्रुतमेव साधु । तत्र च तपरत्वमनुपयुक्तमेव । भाव्यमानत्वेन सवर्णग्राहकत्वाप्रसक्तेः । यथा ज्योतिष्टोमराजसूयादिशब्दानां यागविधावेव सामानाधिकरण्यान्नामधेयत्वावगतिः न तु वाक्यान्तरेण, तथा अस्मिन् पक्षे वृद्ध्यादिशब्दानामपि । वृद्धिरादैच् इति तु इको गुणवृद्धी इतिवत् पदोपस्थापकम् । उपस्थाप्यस्य संज्ञितया तु संज्ञासूत्रत्वव्यवहारः । न च वृद्धिर्यस्याचाम् इत्यादावनुवादे आदैचां सवर्णग्राहकत्वं स्यादिति वाच्यम् । तादृशलक्ष्याभावात् अनेकशक्तिकल्पनापत्तेश्च । विधिवाक्यस्य प्राधान्यात्तत्र निर्णीतस्यैवार्थस्यान्यत्र ग्रहणाच्येत्यादि । तदपि चित्त्यम्, ऋकारस्थाने त्रयाणामादेशानां प्रसङ्गात् । अन्यथा विध्यर्थानिष्पत्तेः । अत एव भाव्यमानत्वादैचो ग्राहका न भविष्यन्ति, नैतदस्ति, नह्यत्र संज्ञाविधावैचो भाव्यन्ते इति कैयटः । कार्यकालपक्षाश्रयेण शङ्का, यथोद्देशपक्षेण परिहारः इति विवरणकृतः । तस्मादत्र यथोद्देशपक्ष एवं ग्राह्यः ।
अत्रेदमवधेयम् - वृद्धिशब्दो वृद्धिशब्दवाच्ये लाक्षणिकः । न च तस्य प्रथममनुपस्थितिः । वृद्धिपदं किञ्चिदर्थवाचकमितिज्ञाने कश्चिदर्थो वृद्धिशब्दवाच्योऽस्तीति सामान्यतस्तदुपस्थितिसत्त्वात् । तस्याभेदः संसर्गः । तथा च आदैचो वृद्धिशब्दवाच्याभिन्ना इति धीः । ततश्चास्यां बुद्धौ वाच्यत्वं यत्र विशेषणं स संज्ञी । वाच्यत्वे यद्विशेषणं सा संज्ञा । इन्द्रो मरुत्वान्मघवा इत्यादावप्ययमेव प्रकारः । एकपदशक्तिग्रहस्य प्रकारान्तरेणावश्यमपेक्षितत्वात् । तत्पर्यायमात्रशक्तिज्ञानशून्यस्य कोशादितोऽपि शक्तिग्रहाभावात् ।
यत्तु आकारादयो वृद्धिं प्रत्यभेदसंसर्गेण विशेष्या इति तन्न, वृद्धिं प्रतीत्यस्य हि कोऽर्थः ? वृद्धिशब्दं प्रति वृद्धिशब्दार्थ प्रति इति वा ? नाद्यः, लक्षणां विना तदलाभात् । लक्षणां विनैवोपपत्तेरित्युत्तरप्रन्थासङ्गतेश्च । न च वृद्धिशब्दवाच्यं किञ्चिदस्तीति ज्ञाने शब्दस्य विशेषणत्वेनोपस्थित्या तस्य लक्षणां विनाऽपि लाभ इति वाच्यम् । स्वतन्त्रोपस्थितये तदावश्यकत्वात् । अभ्युपेत्यापि ब्रूमः । वृद्धिशब्दस्य विशेषणतायामभेदस्य च संसर्गत्वे आदैचो वृद्धिशब्दाभिन्ना इति बोधः स्यात् । न चेष्टापत्तिः, अयोग्यत्वात् । न च वाच्यत्वं संसर्गः। समविभक्तिकपदोपस्थाप्ययोर्भेदान्वयासम्भवात् । अत एव न द्वितीयः । न च वृद्धिशब्दवाच्यत्वस्याप्युक्तरीत्योपस्थितिसत्त्वात्तस्यैवाभेदेन विशेषणमस्त्विति वाच्यम् । तस्याप्यर्थविशेषं प्रति विशेषणीभूतत्वात् ।
वस्तुतस्तु शाब्दिकमतेऽपि पदस्यैव प्रकारताऽभ्युपगमाद् वाच्यत्वस्य च संसर्गत्वात् वृद्धिपदजन्यः सामान्यशक्तिग्रहमूलको बोधो वाच्यत्वसंसर्गक एव । तथा च वृद्धिपदजन्यायामुपस्थितौ संसर्गतापन्ने वाच्यत्वे पदार्थानामाकारादीनां कथमन्वयः । वाच्यत्वस्य पदजन्योपस्थित्यविषयत्वात् । अन्यथा पर्वतो वह्निमान् गुण इत्यपि स्यात् । संसर्गतापन्ने संयोगे गुणस्याभेदान्वयसम्भवात् ।
ननु वृद्धिशब्दस्य आदैज्वाचकताया अनेकशक्तेरितिन्यायेन सत्त्वाद् घटो नील इत्यादिवत्तदर्थस्यैवाभेदसम्बन्धेनादैचोरन्वय इत्युक्तग्रन्थाभिप्राय इति चेन्नैवम्, तथा सत्युद्देश्यतावच्छेदकविधेययोरभेदापत्त्या निराकाङ्क्षत्वाद् घटो घट इति वाक्यवत् । अत एव शब्दाश्रय आकाशमित्यादिवाक्ये आकाशपदं तद्वाच्यपरम् । व्युत्पन्नं प्रति तद्वाक्यानुपयोगादित्युपायादावुक्तम् ।
यदप्युक्तम् - लक्षणाऽङ्गीकारे विशिष्टविधिपक्षे मत्वर्थलक्षणादोषम् उक्त्वा नामधेयत्वमुद्भिदादिपदानां व्यवस्थापितम् तन्त्र स्यात् । नामधेयत्वेऽपि लक्षणायास्तुल्यत्वादिति तदपि मन्दम् । गुणविधिपक्षे मत्वर्थलक्षणायां गुणांशस्य तद्गतलिङ्गसंख्याकारकादेश्च प्रमाणान्तरानवगतत्वात् तत्सिद्ध्यर्थं विशेषणविधिकल्पनप्रसङ्गात् । नामधेयस्य तु श्रोत्रोपस्थितस्यैव नामार्थत्वाभावाद्वाच्यत्वसम्बन्धेन धात्वर्थयागान्वय इति न तदंशे विधिकल्पनमिति पक्षे शङ्काया एवानवकाशात् । नामलक्षणापक्षेऽपि उद्भिच्छब्दस्य तृतीयार्थे वाच्यत्वे तस्य धात्वर्थे यागेऽन्वयकल्पनेऽपि विशेषणविधिकल्पकत्वाभावेन लाघवात् । अन्यथा त्वत्पक्षे सोमेन यजेतेत्यादावपि मत्वर्थलक्षणाऽपेक्षया लक्षणां विनैव नामत्वसिद्धिरिति सोमादिपदमपि नामधेयमेव स्यादिति गुणविधिमात्रोच्छेद इत्यलम् पल्लवितेन ।
वृद्धिपदशक्तिज्ञानस्य चैतत्त्रितयवृत्तितत्तद्धर्मान्यतरप्रकारकज्ञानत्वं कार्यतावच्छेदकम् । न तु तदन्यतरप्रकारकत्वाभाववदवृत्तितदन्यतमप्रकारकत्ववज्ज्ञानत्वम् पुष्पवन्तपदस्येव सूर्यत्वप्रकारकत्वाभाववदवृत्तिचन्द्रत्वप्रकारकत्ववज्ज्ञानत्वम् । तत्र एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ । इति प्रमाणसत्त्वादत्र च तदभावात् । प्रत्युत वृद्धिरेचि इत्यादौ एकः पूर्वपरयोः इत्येकस्यैव विधेयत्वावगमात् । वृद्धिर्यस्याचामादिः इत्यादेश्च । नद्युक्तवर्णत्रयमव्यवधानेन कस्यचित् पदस्यादौ वर्तते । मालादीनां च इति विरोधाच्च । अन्यथाऽवृद्धत्वात् पूर्वसूत्रेणैव पूर्वपदप्रकृतिस्वरसिद्धेः । एवमुत्तरत्रापि । इदमेव प्रत्येकं वाक्यपरिसमाप्तिः इत्युच्यते । यत्र तु समुदायपर्याप्तशक्तिप्रमाणम्, यथा उभे अभ्यस्तम् इति, तत्र नावयवमात्रस्य वाच्यत्वम् । किन्त्वेकवर्णविषयकत्वाभाववदवृत्त्यन्यवर्णविषयकत्ववज्ज्ञानत्वमेव कार्यतावच्छेदकम् । अत एव तत्र उभे ग्रहणम् । अन्यथौत्सर्गिकत्वेन मिथोऽनपेक्षयोर्द्वयोरेव तत्संज्ञाप्रसङ्गात् । अतस्तात्पर्यग्राहकप्रमाणान्तरसत्त्व एव समुदाये वाक्यपरिसमाप्तिरिति सिद्धम् ।
प्रकृतमनुसरामः - ननु आदैचां स्वरूपेण वृद्धिसंज्ञा, उत तन्त्रावृत्त्येकशेषाणामन्यतमेन वृद्धिशब्देन ये विहितास्तेषामेव । नाद्यः, सर्वभास इत्यादौ उत्तरपदवृद्धौ सर्वं च इति पूर्वपदान्तोदात्तत्वापत्त्या समासान्तोदात्तत्वस्यासिद्धेः । तावती भार्याऽस्य तावद्भार्य इत्यादौ वृद्धिनिमित्तस्य च तद्धितस्य इति पुंवद्भावनिषेधापत्तेश्च । आ सर्वनाम्नः इत्यात्वं प्रति वतुपो निमित्तत्वात् । नान्त्यः, शालीयो मालीय इत्यादौ वृद्धाद् इति च्छप्रत्ययासिद्धेः । आम्रमयं शालमयमित्यादौ नित्यं वृद्धशरादिभ्य इति मयट्प्रत्ययानुपपत्तेश्च ।
किञ्च आम्रगुप्ता पनिः शालगुप्तायनिः इत्यत्र उदीचां वृद्धादगोत्राद् इति वृद्धलक्षणः फिञ् न स्यात् । यद्यपि प्राचामवृद्धात् फिन् बहुलम् इति फिनाऽपीष्टसिद्धिः । नित्यादिर्नित्यम् इति स्वरेऽपि भेदाभावात् । आम्रगुप्तायनीभार्य इत्यत्र प्रागुक्तसूत्रेण पुंवद्भावनिषेधस्तु नावश्यकः । जातेश्च इत्यतोऽपि सिद्धेः । गोत्रं च चरणै सह इति पारिभाषितजातेस्तत्र सत्त्वात् । आम्रगुप्तायनेश्छात्रा इति वृद्धाच्छप्रत्ययविवक्षायां फक्फिओरन्यतरस्याम् इति लुग्विकल्पेन आम्रगुप्तीयाः आम्रगुप्तायनीयाः इति द्वैरूप्यं तु सिद्धान्तेऽपि नेष्टम् । फक्फिओः इत्यत्र यूनीत्यनुवृत्तेः । शिवादिभ्यः इत्यण्णन्ताद्यास्कशब्दाद् अणो द्वयचः इति फिञ्, यास्कस्यापत्यं युवा यास्कायनिः, तस्यच्छात्रा यास्कीया यास्कायनीयाः इत्येव तत्रोदाहृतत्वादिति फित्रो न कश्चिद्विशेषः । तथाऽपि प्राचामुदीचामिति आचार्यविशेषमतगर्भसूत्रस्वारस्यभङ्गात् । ऋतो भारद्वाजस्य इति सूत्रे प्रकारान्तरेण समाधाने अयं तु भारद्वाजः स्वस्मान्मतात् प्रच्यावितो भवतीतिभाष्योक्तेर्मतप्रच्यवस्यापि दूषणत्वात् ।
किञ्च फिन्पक्षे आम्रगुप्तायनेरपत्यं कुत्सितमित्यर्थे फिञन्तात् सौवीरगोत्रादपत्येऽर्थे छठकौ कुत्सने गम्ये इत्यर्थकेन फेश्छ च इति सूत्रेण छठकोरप्रवृत्तौ आम्रगुप्तायनीयः आम्रगुप्तायनिकः इति रूपद्वयं न स्यात् । वृद्धादित्यधिकारेण फिञ एव तत्रोपादानात् । यमुन्दश्च सुषामा च वार्ष्यायणि फिञः स्मृताः । इति 'परिगणनस्य पौरुषेयत्वात् । अन्यथा सौवीरगोत्रपदप्रत्युदाहरणत्वेन तैकायनिः इति ग्रन्थलेखनविरोधात् । उक्तत्रयमध्ये तैकायनिशब्दस्य तत्रापरिगणितत्वात् ।
अपि च आम्रगुप्तायनेरपत्यं युवा प्राग्दीव्यतोऽण् तस्य ण्यक्षत्रियार्षञितो यूनि लुगणिओः इति लुकि आम्रगुप्तायनिः पिता आम्रगुप्तायनिः पुत्र इति रूपद्वयं फिना न स्यात् । ञित्त्वाभावेनोक्तलुगप्रवृत्तेः । अब्राह्मणगोत्रमात्राद्युवप्रत्ययोपसंख्यानस्य च ब्राह्मणगोत्रे प्रवृत्त्यभावात् । एवमेतत्पक्षे मालादीनां च इति व्यर्थं स्यात् । अवृद्धमित्येव सिद्धेः । एवं वृद्धिशब्दे तन्त्राद्याश्रयणेऽपि गौरवम् । 'संज्ञायां विधानं विहितानां च संज्ञेति परस्पराश्रयवारणाय सूत्रशाटकवद्भाविसंज्ञाविज्ञानेऽपि गौरवमिति प्राप्ते उच्यते
आदैचामविशेषेण वृद्धिसंज्ञा । उक्तदोषाप्रवृत्तेः । उत्तरपदवृद्धौ सर्व च इत्यत्रोत्तरपदाधिकारविहिताया एव वृद्धेर्याह्यत्वात् सर्वभासादौ दोषाभावात् । अन्यथा सर्वः कारकः सर्वकारक इत्यादौ वृद्धिशब्देन विहिता या वृद्धिस्तद्वत् उत्तरपदस्य सत्त्वादुक्तस्वरापत्तेः । उत्तरपदग्रहणमेव च तदधिकारविहितवृद्धिग्रहे लिङ्गम् । अन्यथा आदैज्मात्रस्योत्तरपदत्वाभावात् सामथ्यदिव वृद्धिमदुत्तरपदलाभे तद्वैयर्थ्यापत्तेः । तस्मात् सर्वपाञ्चाल इत्यादावेव तत्प्रवृत्तिः । सुसर्वाद्धज्जिनपदस्य इति वृद्धेः । तावद्भायेंऽपि नातिप्रसङ्गः । वृद्ध्यात्मकतद्धितस्याभावेनाभेदान्वयानाफ्त्त्या वृद्धितद्धितस्येत्येतावन्मात्रेणापि वृद्धेस्तद्धित इति षष्ठीसमासेन वृद्धिनिमित्तत्वलाभेऽपि निमित्तशब्दोपादानसामर्थ्याद् वृद्धेर्निमित्तं यस्मिन्निति व्यधिकरणबहुव्रीहिमाश्रित्य ञकारणकारककाररूपेत्संज्ञाप्रतियोगित्वसम्बन्धेन वृद्धेर्निमित्तं यत्रास्ति अण अञ् फक् इत्यादौ तस्यैव तद्धितस्य तत्र पुंवद्भावनिषेध इति व्याख्यानात् । आकारस्य च स्वरूपतो विधानेऽपि वतुप्रत्ययस्योक्तवृद्धिनिमित्तत्वाभावात्
न च अर्शसा भार्याऽस्येत्यत्र मत्वर्थाच्प्रत्यययोत्तरटाबन्ते अर्शसाशब्दे तद्धितस्त्रीप्रत्ययोरेकादेशस्य परं प्रत्यादिवद्भावात्तद्धितग्रहणेनापि ग्रहणात् तत्र वृद्ध्यात्मकस्तद्धितः सम्भवत्येवेति कथं निमित्तशब्दोपादानसामर्थ्यमिति वाच्यम् । तथाप्यरक्तेतिपर्युदाससामर्थ्यात् कर्मधारयशङ्काऽनुपपत्तेः । रक्तविकारार्थकप्रत्ययस्य वृद्ध्यात्मकत्वाभावेन तत्र प्रसक्त्यभावात् । अन्ये तु वृद्धिशब्देन विहिताया वृद्धेर्यन्निमित्तमिति तस्यार्थः । वृद्धिशब्दे तन्नाद्याश्रयणात् । तादृशी च जिण्णित्कित्रिमित्ता सर्वेव वृद्धिः ।
न च वैयाकरणभार्यः सौवश्वभार्य इत्यादावतिप्रसङ्गः, अणो यथोक्तवृद्धिनिमित्तत्वादिति वाच्यम् । फलोपहितत्वस्य निमित्तशब्दार्थत्वात् । तत्र च न य्वाभ्याम् इति वृद्धिनिषेधात् । न च ऐचौ आदायात्रापि फलोपधानम् । स्वरूपेणैव तयोर्विहितत्वादित्याहुः ।
अपरे तु यावद् वृद्धिजननयोग्यत्वे सति किञ्चित् फलोपहितस्तद्धितो निमित्तशब्देन विवक्षणीयः । वैयाकरणभार्य इत्यादौ तु ऐज्भ्यामणो न फलोपधानम् । वृद्धिनिषेधसन्नियोगशिष्टयोस्तयोरग्निमित्तकत्वे मानाभावात् । निषेधप्रतियोगिवृद्धिनिमित्तकत्वेऽपि ऐजागमं प्रत्यणो निमित्तत्वायोगादित्याहुः । तदुभयमपि चिन्त्यम्, योग्यत्वं हि योग्यतावच्छेदकरूपवत्त्वमेव । तच्चात्र शास्त्रमात्रगम्यतया जित्त्वणित्त्वकितत्त्वरूपमेव । फलोपधानमपि तद्रूपेणैव वाच्यम् । फलोपहितनिष्ठान्यथासिद्ध्यनिरूपकधर्मावच्छेदेन योग्यताग्रहनियमात् । तथा च वैयाकरणभार्य इत्यत्र कथं नातिप्रसङ्गः । अणो णित्त्वेन प्रकृत्यन्तरे वृद्धिरूपफलोपहितत्वात् । न च यत्प्रकृत्युत्तरं या अणादिव्यक्तिः प्रयुज्यते, तत्र फलोपधानं विवक्षितमिति वाच्यम् । यावद्धृद्धिजननयोग्यत्वस्य दुर्ग्रहत्वापत्तेः । न हि दाक्षिरित्यादौ इञादिव्यक्तेः स्वप्रकृतिपुरस्कारेण तद्व्यक्तित्वेन फलोपधानविवक्षायामौपगवादिशब्दगतवृद्धौ तत्स्वरूपयोग्यत्वं ग्रहीतुं शक्यम् । अदन्तभिन्नानां तत्प्रकृतित्वाभावात् । धर्मान्तरेण योग्यत्वं धर्मान्तरेण च फलोपधानमित्यस्य वक्तुमशक्यत्वात् । अत एव विशेष्यभागवैयर्थ्यम् । क्वचित् फलानुपधाने योग्यताया एवाभावात् । एवं च क्वापि पुंवद्भावनिषेधो न स्यात् । ञिदादिप्रत्ययत्रयमध्ये सर्वेषामन्यतमप्रकृतिकत्वनियमाभावात् । अत एव वृद्धिशब्दविहिताया वृद्धेर्निमित्तमित्यपि प्रागुक्तमतं परास्तम् । फलोपधानस्य योग्यतावच्छेदकधर्मावच्छेद्यत्वनियमेन तत्राप्युक्तदोषावतारादिति । तस्मादिदमत्र तत्त्वम् अनिषिद्धवृद्धिप्रकृतिकत्वे सति वृद्धियोग्यत्वं वृद्धिनिमित्तत्वम् । तेन विशेष्यभागेन तावद्भायें विशेषणभागेन च वैयाकरणभार्येऽतिप्रसङ्गाभावः । इदं च विशेषणांशानुरोधेन प्रकृतिविशेषोत्तरतादृशतद्धितमात्रसाधारणमिति दिक् ।
इदमप्यत्रावधेयम् - व्यक्तिः पदार्थों भेदकाश्च गुणाः इति दर्शने यद्गुणविशिष्टस्योच्चारणं तदन्यगुणभाजां संज्ञा । नन्वयं प्रसङ्गाद्गुणान्तरयुतानामपि संज्ञार्थ तपरत्वमिति वार्तिकमतम् । तपरसूत्रस्यात्र पक्षेऽनणामपि ग्राहकत्वमिति विध्यर्थत्वात् । वेदे ह्युदात्ते कर्त्तव्येऽनुदात्तोच्चारणे दृष्टादृष्टदोषदर्शनात् नियमतो गुणानां भेदकत्वात् । भाष्ये तु एकोऽयमात्मा उदकं नाम तस्य गुणभेदादन्यत्वं भवति, अन्यदिदं शीतमन्यदिदमुष्णम् इत्युक्तम् । तत्र जलत्वजात्यभिप्रायेणैक्यं न विवक्षितम् । व्यक्तिभेदादेवान्यत्वसम्भवे गुणभेदप्रयुक्तभेदोदाहरणत्वानुपपत्तेः । अन्यो घट इत्युक्ते घटान्तरप्रतियोगिकस्यैव भेदस्य बोधात् ।
किन्त्वेकभाजनस्थत्वेन तत्तदुपाध्यवच्छिन्न एव तत्र गुणान्तरयोगाद्भेदव्यवहार इत्यर्थ इति कैयटः । क्वचिदभेदकत्वमपि । मुण्डेन चौर्ये कृते कुन्तलित्वावस्थायामपि चौरोऽयमिति व्यवहारात् । एतच्छास्त्रे तु कि न्याय्यमित्याकाङ्क्षायां सिद्धान्तमाह भाष्यकारः - अभेदका एव गुणा इति । अत एवानडुदात्त इत्यादि सङ्गच्छते । गुणरहितस्योच्चारयितुमशक्यत्वान्नान्तरीयकतयोच्चार्यमाणोऽपि गुणः प्रयत्नविशेषं विना न विवक्ष्यते । अन्यथा ह्युदात्तमेवोच्चारयेत् इति वाक्ये च न तूदात्तग्रहणं कुर्यादिति शेष एवकारस्यार्थ इति केचित् । अन्ये तु एकश्रुत्या सूत्रपाठः । अवच्छेदकत्वेनानुपात्तश्च स्वरूपमात्रेण सन्नपि गुणो न भेदकः । अरुणया क्रीणातीत्यादावेव तस्य अवच्छेदकत्वम्, न तु गां दद्यादित्येतावन्मात्रोक्ताविति निर्विवादत्वात् ।
भाष्ये च एवकारस्य न त्वेकश्श्रुतिमुच्चार्योदात्तग्रहणं कुर्यात् इति शेषे तात्पर्यम् । अन्यथा स्पष्टार्थमुदात्तग्रहणं न कुर्यादित्येव ब्रूयात् । हन्त्यादेशस्य वधेः स्थानिवद्भावादनुदात्तत्वादिट्प्रतिषेधे प्राप्ते वध्यादेशे उदात्तनिपातनं करिष्यते । एकाच उपदेशे इति सूत्रे एकाज्ग्रहणं च न कर्तव्यमिति भाष्यासङ्गतेश्च । चतसर्याद्युदात्तनिपातनं करिष्यत इति भाष्यविरोधाच्च । एतेन स्थानेऽन्तरतमः इति वचनादादेशस्य यः स्वरः प्राप्तस्तस्मिन्नेवोच्चारणीये उदात्तोच्चारणं यत्त्राधिक्याद्विवक्षार्थमिति कैयटकल्पनमपास्तम् । चतुर्शब्दस्य अव्युत्पत्तिपक्षे त्रः संख्यायाः इति व्युत्पत्तिपक्षे तु उरन्प्रत्ययान्ततया नित्यादिर्नित्यम् इत्युभयथाऽप्याद्युदात्तत्वात् । अस्थ्यादीनामप्याद्युदात्तत्वाच्छेषनिघातेन इकारस्यानुदात्ततया तदादेशस्यानडोऽप्यनुदात्तत्वस्यैव प्राप्त्या उदात्तोच्चारणं विवक्षार्थं स्यादित्युदात्तग्रहणवैयर्थ्यञ्च प्रत्युत यत्नाधिक्येऽप्यविवक्षाज्ञापकत्वापत्तिः । एकश्रुत्या सूत्रपाठे तु स्वरविशेषोपादानं विवक्षार्थमेवेत्यदोषः ।
यत्तु कौस्तुभे उदात्तग्रहणस्य स्वशब्दानुपात्तो गुणो न भेदक इति ज्ञाप्यम् उत यत्नविशेषविरहेण तथेति । नाद्यः, निपातनस्वरस्य विवक्षापत्तेः । नान्यः, उदात्तोच्चारणस्यैव विवक्षाहेतौ यत्नविशेषे स्थिते मूलशैथिल्येन ज्ञापकानुत्थानात् । स्वोपादानवैयर्थ्यप्रयोजकस्यार्थस्य ज्ञाप्यत्वानुपपत्तेरिति तदसत्, एकश्रुत्या पाठ इत्यस्यैव ज्ञाप्यत्वात् । उपात्तगुणानां भेदकत्वस्य लोकसिद्धत्वात् । भाष्ये तथैवोक्तत्वाच्च। उपादानं चात्र द्वेधा स्वरूपेण शब्दविशेषावच्छेदकतया उदात्त इत्यादिशब्दैश्च । एतेन वैकल्पिक मैकश्रुत्यमङ्गीकृत्य पक्षान्तरैरपि परिहारा भवन्ति इति न्यायेन तत्राद्युदात्तनिपातनं करिष्यते इत्युक्तम् । इह तु त्रैश्वर्येण सूत्राणां पाठमाश्रित्य स्वरूपेणोपात्तस्य गुणस्य नान्तरीयकत्वादविवक्षाप्रसङ्गादुदात्तग्रहणं ज्ञापकमित्युक्तम् । अतो न पूर्वोत्तरभाष्ययोर्विरोध इत्यपास्तम् । गुणानां भेदकत्वस्याप्यवश्याश्रयणीयत्वात् । एकश्रुत्या सूत्रपाठेनैव प्रकृतभाष्यस्य योज्यत्वात् । अत एव गुणभिन्नानां यवलानां सङ्ग्रहाय ग्रहणकशास्त्रेऽण्ग्रहणं सङ्गच्छते । अत एवाष्टन आत्वे इदमस्त्यदाद्यत्वे च नानुनासिकः । इदं च सर्वमेकश्रुत्या पाठपक्षं पश्चादुपन्यस्यता कैयटेनैव ध्वनितमित्यास्तां विस्तरः ॥
॥ सिद्धान्तकौमुदी ॥
आदैच्च वृद्धिसंज्ञः स्यात् ॥
॥ बालमनोरमा ॥
इदानीं संज्ञान्तराणि विधास्यन् वृद्धिसंज्ञां तावदाह - वृद्धिरादैच् । यद्यपि पाणिनीयाष्टाध्याय्यामिदमादिमं सूत्रं, तथापि नेदमादावुपन्यस्तम्, अस्य सूत्रस्य तपरकरणेन प्रत्याहारगर्भितत्वेन ग्रहणकशास्त्रनियमार्थतपरसूत्रप्रत्याहारसूत्रप्रवृत्त्युत्तरप्रवृत्तिकतया प्रत्याहरशास्त्रप्रपञ्चनिरूपणात्प्रागुपन्यासनर्हत्वात् । न च सूत्रकृता अयमेव पाठकमः कुतो नाद्रियत इति वाच्यम् । स्वतन्त्रेच्छस्य महर्षेर्नियन्तुमशक्यत्वात् । आच्च ऐच्चेति समाहारद्वन्द्वः । 'द्वन्द्वाच्चुदषहान्तात्' इति समासान्तस्तु न, अत एव निर्देशेन समासान्तविधेरनित्यत्वात् । 'चोः कुः' इति पदान्ते विहितं कुत्वमपि न 'अयस्मयादीनि छन्दसि' इति भत्वात् । 'वृद्धिरादैजदेङ' इति संहितापाठपक्षे चकारस्य 'झलां जशोऽन्ते' इति पदान्ते विहितजश्त्वं तु भवत्येव, 'उभयसंज्ञान्यपि छन्दसि दृश्यन्ते' इति वचनात्, 'छन्दोवत्सूत्राणि भवन्ति' इति छान्दसविधीनां सूत्रेष्वपि प्रवृत्तेः । नचैवमपि पदत्वात्कुत्वं भत्वाज्जश्त्वाऽभावश्च कुतो न स्यादिति वाच्यम्, 'छन्दसि दृष्टानुविधिः' इति वचनादित्यलम् । आच्च ऐच्चेतीतरेतरयोगद्वन्द्वो वा । तथा सति सौत्रमेकवचनम् । आचार्यपारंपर्योपदेशसिद्धसंज्ञाधिकारात् संज्ञेति लभ्यते । तदेतदाह - आदैच्चेत्यादिना ॥
॥ तत्त्वबोधिनी ॥
वृद्धिरादैच् । आच्च ऐच्चेति इतरेतरयोगद्वन्द्वः, 'सुपां सुलु' गिति औङः सुर्लुग्वा । यद्वा समाहारद्वन्द्वः । नचैवं 'द्वन्द्वाच्चुदषहान्तात्समाहारे' इति टच्स्यादिति वाच्यम्, समासान्तविधेरनित्यत्वात् । तत्र च प्रमाणं समासेषु वक्ष्यामः । अथवा 'आ' दित्यसमस्तमेवास्तु, वृद्धिशब्दस्तन्त्रेणावृत्त्यां वा योजनीयः ? यस्मयादित्वेन भत्वाच्चोः कुर्न । 'ऐ' जिह द्विमात्र एव, तात्परत्वात्, तेन 'कृष्णैकत्व' मित्यत्र त्रिमात्रो न । वृद्धिप्रदेशाः - 'वृद्धिरेचि' त्यादयः ।
॥ बृहच्छब्देन्दुशेखरः ॥
कौमुदीमूलम् — आदैच्च वृद्धिसंज्ञः स्यात् ॥
वृद्धिरादैच् । वृद्धिः, आत्, ऐजिति पदत्रयमिति- न समासान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम्, प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । कृष्णौत्कण्ठ्यं, गङ्गौघ इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि वृद्धिशब्दोऽत्र पदपरोऽर्थपरत्वासम्भवात् । आदैचो वृद्धिपदाऽभिन्ना इति वाक्यार्थः, पदपदार्थयोस्तादात्म्यस्याङ्गीकारात् रामेति द्व्यक्षरं नाम मानभङ्ग पिनाकिनः इत्यादौ तयोरभेदप्रतीतेरनुभव सिद्धत्वादित्यन्यत्र विस्तरः ।
वृद्धिशब्दस्य सञ्ज्ञात्वन्तु व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । अपृक्त एकाल् १.२.४१ इत्यादौ तथा करणं विधेयस्य प्रथमं प्रयोगेऽसाधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सञ्ज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम्। किञ्च सर्वे सर्वार्थाः इत्यभ्युपगमो योगिदृष्ट्या नास्मदृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्य ज्ञानाभावात् सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि शास्त्रन्त्वस्मदाद्देशेनैव प्रवृत्तमिति योद्ध्यम् तत्रैव सङ्केत ग्राहकशास्त्रकरणं स्वेच्छयैवेत्येषां 'यदृच्छा' शब्दत्वेन व्यवहारः, 'स्वेच्छया सञ्ज्ञाः क्रियन्त' इति च । एतदुपदेशरूपसङ्केतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः ।
अत एव तत्तत्सञ्ज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमा कृत्रिम न्यायमूलतयोक्तः सङ्ख्यासूत्रे भाष्ये। आर्थिकमेवामुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारो- व्यवहाराय नियमः क्वचिदित्यादिना कृतः । सञ्ज्ञाया: सञ्ज्ञिनि वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान्न शब्दार्थ सम्बन्धनित्यताहानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः ।
कार्यकालपक्षे मृजेर्वृद्धि ७.२.११४ इत्यादौ वृद्धिपदार्थजिज्ञासायां वृद्धिरादैच् १.१.१ इत्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः । अत एव ष्यङ: सम्प्रसारणम् ६.१.१३ इति सूत्रे भाष्ये- कार्यकालं सञ्ज्ञापरिभाषम्, भस्येत्युपस्थितमिदं भवति - यचि भम् १.४.१८ इति इत्युक्तम् । ईदूदेद् १.१.११ इति सूत्रे भाष्येऽपि- कार्यकालं सञ्ज्ञापरिभाषम्, प्रगृह्य: प्रकृत्येत्युपस्थितमिदं भवति ईदूदेद् द्विवचनं प्रगृह्यम् १.१.११ इति। निष्ठा ३.२.१०२ इति सूत्रे कैयटोऽपि- निष्ठेत्युक्ते सञ्ज्ञावाक्यं - क्तक्तवतू निष्ठा १.१.२६ इति स्मर्यते इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः। यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः। एतेन- कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव, आदैच्पदार्थस्य विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सञ्ज्ञासूत्राणामर्थात् इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामपि आदैचां ग्रहणं, तेन शालीयादिसिद्धिः ।
॥ डॉ. योगेश्वरस्वामी - सरधारधाम ॥
सञ्ज्ञासूत्रमिदम् ।।
अर्थः - आ ऐ औ इत्येतेषां वर्णानां वृद्धिसञ्ज्ञा भवति । “वृद्धिरादैच्“ इत्यस्मिन् सञ्ज्ञासूत्रे बहव आक्षेपाः समागताः । यथा - अत्र सूत्रे द्विपदं वा त्रिपदं ? । अत्र कुत्वं कथं न भवति ? । आदैचां तद्भाविताऽतद्भाविता भवितुमर्हति न वा ? । विधेयशब्दस्य पूर्वप्रयोगः कथं भवितुमर्हति ? । सञ्ज्ञायां प्राप्तान्यान्याश्रयदोषस्य परिहारः कथं भवति ? । आदैच् इत्यत्र तपरकरणस्य किं प्रयोजनम् ? ।
भाष्यकारस्य चेयं शैली लोकोत्तरा वर्त्तते यत्सम्भावितेषु पक्षेषु महतो बहून् दोषान् प्रदर्श्यायं पश्चात् सिद्धान्तपक्षं वर्णयति । अत्र के पक्षाः सम्भावितास्तत्र च के दोषा इति प्रदर्श्यते ।
द्विपदं त्रिपदंवा सूत्रम् - सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः
“वृद्धिरादैच्“ इति सूत्रे ‘कृतमनयोः साधुत्वम्‘ इति महाभाष्यवाक्येऽनयोरिति पदादत्र द्वे एव पदे इति विज्ञायते । ‘वृद्धिः‘‘आत्‘‘ऐच्‘ इति पस्पशायां पृथक्पदत्वमप्युक्तत्वात् ‘वृद्धिः‘‘आत्‘‘ऐच्‘ इति पदत्रयं न तु ‘आदैच्‘ इति समाहारद्वन्द्वेन पदद्वयं भवति । यदा पदद्वयं स्यात् तदा “द्वन्द्वाच्चुदषहान्तात् समाहारे“ इति सूत्रेण टजापत्तेः । न चेतरेतरद्वन्द्वः स्यात्, द्विवचनापत्तेः । यदि तु “प्रतेरंश्वादयस्तत्पुरुषे“ इति सूत्रे अंश्वादिगणे राजन् शब्दपाठः । प्रतेः परे अंश्वादयोऽन्तोदात्ता इति तदर्थः । “राजाहस्सखिभ्यष्टच्“ इति सूत्रेण टचो नित्यत्वे तु चित्वादेवान्तोदात्तत्वं स्यात् । अंश्वादिगणे राजन् शब्दपाठात् समासान्तविधिरनित्य इति ज्ञाप्यत इत्यनित्यत्वान्न टजित्युच्यते तदा पदद्वयमेव । परन्तु अनित्यत्वस्यागतिकगतित्वान्नेदं युक्तम् । न चात्र पदत्रयत्वेऽत्रैव ‘कृतमनयोः साधुत्वम्‘ इति महाभाष्यवाक्येऽनयोरिति द्विवचनासङ्गतिः, ‘अनयोः‘ इत्यस्य उद्देश्यदल-विधेयदलयोरित्यर्थेनादोषात् । यद्यपि वृद्धिः आत् ऐजिति पस्पशायां पृथक्पदत्वमप्युक्तम्, तथाऽपि तदभ्युच्चयमात्रम् । अनयोः सुत्रखण्डयोरिति व्याख्यानापत्तेः । तस्य च ‘वृद्धिरस्मै अविशेषेणोपदिष्टः प्रकृतिपाठे तस्मात्स्त्रियां क्तिन्प्रत्ययः, आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः‘ इति भाष्यविरुद्धत्वात् । चकाराध्याहारप्रसङ्गाच्च इति व्याकरणसिद्धान्तसुधानिधिकाराणामाशयः । अत एव “सुपां सुलुक्पूर्वसवर्णाऽच्छेयाडाड्यायाजालः“ इति सूत्रेण औङो लोपं मत्वा आच्च ऐच्च इति इतरेतरयोगद्वन्द्वपक्षमपि तत्त्वबोधिनीकारः प्राह । अनेन नात्र भाष्यकाराणां नैर्भयं यत् द्विपदमुत त्रिपदमिदं सूत्रमिति ।
नन्वत्र पस्पशायाम् ‘कृतमनयोः साधुत्वम्‘ इति प्रोक्तं भगवता भाष्यकारेणतेन द्विपदमेव सूत्रमिति निश्चीयते । पक्षेऽस्मिन् ‘कृतमनयोः साधुत्वम्‘इति भाष्यग्रन्थोऽनुकूलः । एवञ्च ‘न केवलानि चर्चापदानि वृद्धिः, आत्, ऐच्‘ इति पस्पशायां पृथक्पदत्वमप्युक्तम्, तथाऽपि तदभ्युच्चयमात्रम् । एवं पस्पशायां ‘शब्दाप्रतिपत्तिः‘ इति वार्तिके ‘न केवलानि चर्चापदानि वृद्धिः, आत् ऐच्‘ इतिपदविभागपूर्वकं भाष्यकारेणैवोक्तं तेन त्रिपदमिदं सूत्रमिति निश्चीयते । अस्मिंश्च पक्षे ‘कृतमनयोः साधुत्वम्‘इति भाष्यम् ‘अनयोः सूत्रखण्डयोः ( उद्देश्यविधेयरूपभागयोः )‘इत्यर्थकं ज्ञेयम् । अन्यथा ‘वृद्धिः, आत् ऐच्‘ इतिपदविभागपूर्वकं भाष्यकारेणैवोक्तं तेन सह भाष्यकाराणां सिद्धान्तेऽसङ्गत्यापत्तिः स्यात् । अत एवोक्तं शब्दकौस्तुभे उद्द्योते च प्रकृतसूत्रव्याख्याने ‘अनयोः सूत्रखण्डयोः‘ इति । अस्मिन् पक्षे उद्देश्यानेकत्वाद् वृद्धिपदमावर्त्यं स्यात् । आवृत्तिपक्षस्तु दीक्षितेन कौस्तुभे एव दर्शितः । स एव नागेशेनापि स्वीकृतः । तथा चोक्तं नागेशेन लघुशब्देन्दुशेखरे -‘वृद्धिः आत् ऐजिति पदत्रयमिति न समासान्तादिप्रवृत्तिशङ्का‘ ।
तत्रायं निष्कर्षः - भट्टोजिदीक्षितमते वृद्धिसञ्ज्ञासूत्रं द्विपदं त्रिपदं वा भवतु उभयस्मिन्नपि पक्षेप्रमाणानां सत्त्वाद् न काचित् क्षतिः । नागेशभट्टैस्तु वृद्धिः आत् ऐजिति पदत्रयात्मकं सूत्रमित्येव पक्षः प्रधानरूपेण प्रस्तूयते । ‘न केवलानि चर्चापदानि वृद्धिः, आत्, ऐच्‘ इति पस्पशास्थभाष्ये साक्षादुक्तत्वेन त्रिपदं सूत्रमिति । ‘आदैच्‘ इत्यस्य समस्तपदत्वे, समाहारद्वन्द्वे “द्वन्द्वाच्चुदषहान्तात् समाहारे“ इति सूत्रेण टच् प्रसज्येत । इतरेतरयोगद्वन्द्वे द्विवचनप्रसङ्गः । अद्यपि ‘कृतमनयोः साधुत्वम्‘ इति प्रकृतसूत्रभाष्याद् द्विपदं सूत्रमिति लभ्यते ।“प्रतेरंश्वादयस्तत्पुरुषे“ इति सूत्रे अश्वादिगणे राजन्शब्दपाठाल्लिङ्गात् । अन्यथा “राजाहस्सखिभ्यष्टच्“ इति टचा सिद्धे किं तेन । तेन समासान्तविधेरनित्यत्वज्ञापनेन समाहारद्वन्द्वे टचः प्रसक्तिर्नास्ति । एवमितरेतरद्वन्द्वेऽपि “सुपां सुलुक्“ इति लुका द्विवचनश्रवणं नास्तीति ‘आदैच्‘ इत्यस्य समस्तपदत्वेऽपि न दोषः, तथापि शङ्कासमाधानयोः करणस्य भाष्यकारशैलीसिद्धतया प्रकृते तदकरणात् पदत्रये एव तेषां तात्पर्यमिति सम्भाव्यते । अन्यथा कुत्वं कस्मान्न भवति इति कुत्वादिशङ्कापरिहाराविव समासान्तादिशङ्कापरिहारौ कर्तव्यौ स्याताम् । कृतमनयोस्साधुत्वमिति भाष्यं तु उद्देश्यविधेयभावेन खण्डयोरित्यर्थपरतया योजनीयम् । एवं वृद्धिशब्दस्तु तन्त्रेणावृत्या वा योजनीयः । “द्विर्वचनेऽचि“, “इग्यणः सम्प्रसारणम्“ इत्यादाविव अत एव चकाराध्याहारप्रसङ्गोऽपि न स्यादिति नागेशभट्टानामभिप्रायः ।
आदैच् इत्यत्र चकारस्य कुत्वाभावः -
‘आदैच्‘ इत्यत्र समासत्वेनार्थवत्त्वाद् विभक्त्युत्पत्तौ पदत्वाद् अथवा चात्र अनेकशक्तेः शब्दस्य शक्त्यवच्छेदेन सञ्ज्ञिनि विनियोगान्नित्यत्वाच्च सर्वसञ्ज्ञानां लौकिकत्वादादैच् शब्दस्याऽनुकरणशब्दत्वाज्जातिशब्दत्वाद्वा “सुप्तिङन्तं पदम्“ इत्यनेन पदसञ्ज्ञायां “चोः कुः“ इति सूत्रेण चकारस्य कुत्वे प्राप्ते भाष्यकार आह - भसञ्ज्ञत्वात् पदान्तनिमित्तककुत्वं न भवति । भत्वञ्च “अयस्मयादीनि च्छन्दसि“इति सूत्रेण बोद्धव्यम् ।
न च नेदञछन्दः, इति वाच्यम् ? ‘छन्दोवत्सूत्राणि भवन्ति‘इति वचनात् । इष्टश्चैवं व्याकरणसूत्राणां प्राचीनाचार्यस्मृतेश्च । न चैवम्, यदि भसञ्ज्ञा चेत् ‘वृद्धिरादैजदेङ्गुणः‘ इति संहितापाठे जश्त्वन्न भविष्यतीति वाच्यम् ? छन्दसामुभयसञ्ज्ञत्वात् जश्त्वोपयोगिनी तु पदसञ्ज्ञास्त्येव । तथाहि -‘स सुष्ठुभा स ऋक्वता गणेन‘ इत्यत्र पदत्वात् कुत्वं भत्वाज्जश्त्वं न भवति । दृष्टान्ते कुत्वोपयोगिनी पदसञ्ज्ञास्ति, न तु जश्त्वोपयोगिनीति एवमिहापि पदत्वाज्जश्त्वेन भत्वात्कुत्वेनाऽदोषात् ।
न चैवं पदान्तत्वाभावाद्द्त्वं न स्यादिति वाच्यम् । असन्देहार्थतया पूर्वशेषत्वस्यापि सम्भवात् । दकारस्य तत्कालग्राहकत्वेऽपि पूर्वं निर्णितम् । वस्तुतस्तु ‘आदैच्‘ इतिनिर्देशात् सुप्सकारपरत्वाभावे प्रत्याहारघटकस्य चस्य कुत्वं नेति ज्ञाप्यते । अत एव “उपदेशेऽजनुनासिक इत्“, “अजादेर्द्वितीयस्य“, “इजादेः सनुमः“, इत्यादिसौत्रनिर्देशाः । सकारपरत्वाभावे इत्युक्त्या अचोऽक्षु इति भाष्ये कुत्वस्य नासङ्गतिः सुप्सकारेत्युक्त्या ‘अच्सन्धिः‘ इत्यत्र कुत्वं न ।
तद्भावितातद्भावितासञ्ज्ञा -
अत्र पूर्वं तद्भाविताऽतद्भावितशब्दयोरर्थो विज्ञातव्यः ।
तद्भाविताः - वृद्धिशब्दोच्चारणेन यत्र आकारैकारौकाराः भाविताः - विहिताः ते वृद्धिसञ्ज्ञका भवन्ति ।
अतद्भाविताः - वृद्धिशब्दोच्चारणं विनैव स्वयं सिद्धाः - प्रकृतिरूपा ये आकारैकारौकाराः ते वृद्धिसञ्ज्ञकास्सन्ति ।
विहितीनामविहितानां चादैचां प्रत्येकं सामान्येन वृद्धिसञ्ज्ञा भवति । तेन आश्वलायनः, ऐतिकायनः इत्यत्र “किति च“ इति सूत्रेण वृद्धिशब्दोच्चारणेन ‘आ ऐ‘इति द्वौविहितौ भवतः । शालीयः, मालीयः इत्यत्रवृद्धिशब्दोच्चारणं विनैव आकारौ स्वयं सिद्धौ स्तः ।
विधेयवाचकवृद्धिशब्दस्य पूर्वप्रयोगः -
वाक्यप्रयोगे नियमोऽयं वर्त्तते यदुद्देश्यविधेयवाचकयोः पदयोः कस्य पूर्वमुपादानं कर्तव्यं कस्य च पश्चादिति विचारे उद्देश्यवचनं पूर्वं प्रयोक्तव्यं विधेयवाचकश्च पश्चादिति । तथा चोक्तमभियुक्तैः -
यच्छब्दयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तच्छब्दयोगः पश्चात्त्वं साध्यत्वं च विधेयता ।। इति ।
शाब्दबोधे प्रथमनिर्दिष्टमुद्देश्यं परनिर्दिष्टं विधेयमिति नियमात् उद्देश्यभूतस्य आदैच्छब्दस्य पूर्वप्रयोगस्यापेक्षा स्यात्, तत्कथमत्र आदैजुद्देशेन वृद्धिसञ्ज्ञा विधीयत इति चेदाह भगवान् पतञ्जलिः -‘एतदेकमाचार्यस्य मङ्गलार्थं मृष्यताम् । माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, वीरपुरुषाणि च भवन्त्यायुष्मत्पुरुषाणि चाध्येतारश्च वृद्धियुक्ता यथा स्युरिति । सर्वत्रैव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी, परोच्चारिता सञ्ज्ञा । “अदेङ् गुणः“ इति यथा ‘।
इदानीमिदं विचारणीयं विद्यते यद् मङ्गलार्थतया वृद्धिशब्दस्य पूर्वं प्रयोगेऽपि “अपृक्त एकाल् प्रत्ययः“ इति सूत्रे पूर्वोक्तनियममुल्लङ्घ्य विधेयस्य ‘अपृक्त‘ इत्यस्य पूर्वं प्रयोगः कथम् ? । यद्यप्यत्रेत्थं समाधातुं प्रभवेत् यद् विधेयस्य पूर्वं प्रयोगेऽसाधुत्वं भवति एतादृशो भ्रमो मा भूदिति बोधयितुं नियमवैपरीत्येन सूत्रकारस्तथा प्रायुङ्क्त । तथा च उद्देश्यस्य प्रथमप्रयोगे औचित्यमात्रं बोधितं न त्वसाधुत्वमिति ।
एवञ्चास्याभाणकस्य प्रामाण्यात् तथा दर्शनाच्च क्वचिद्विधेयवाचकस्य पदस्य पूर्वप्रयोगे लोकानां स्यात् किलासाधुत्वभ्रमः । किन्तु तत्र न साधुत्वव्यतिरेक इति शब्दसाधुत्वप्रमात्मकार्षज्ञानवता भगवता पाणिनिना विधेयवाचकपदानां पूर्वप्रयोगेण तादृशो भ्रमोऽपाकारि । तथाहि -“वृद्धिरादैच्“ इति “अपृक्त एकाल् प्रत्ययः“ इत्यादि । एवञ्चाचार्यव्यवहारेणेदमपि ज्ञाप्यते यद्विधेयबोधकपदानां पूर्वप्रयोगेऽपि साधुत्वं न निवर्त्तते इति । अत एव ‘वाक्यं वक्तर्यधीनं हि‘ इति प्रोक्तम् । अत एव च “स्थानिवदादेशोऽनल्विधौ“ इति सूत्रेऽपि विधेयबोधकस्य स्थानिवद् इति पदस्य न पश्चात् प्रयोगः । यद्यपि वृद्धिशब्दस्य महाभाष्ये मङ्गलार्थत्वं प्रतिपादितम्, तथापि प्रकृतार्थज्ञापनसम्भवेन तदविरोधात् । अन्यत्रापि तथाप्रयोगोपदर्शनेन प्रकृतार्थलाभात् ।
सञ्ज्ञासञ्ज्ञिनोरितरेतराश्रयदोषोद्धारः -
सतः सञ्ज्ञिनः सञ्ज्ञाभावात् तदाश्रये सञ्ज्ञिनि वृद्ध्यादिष्वितरेतराश्रयत्वादप्रसिद्धिः । का इतरेतराश्रयता? सतामादैचां वृद्धिसञ्ज्ञया भवितव्यम्, वृद्धिसञ्ज्ञया चादैचो भाव्यन्ते । तदेतदितरेतराश्रयं भवति । ‘इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते‘ इति शङ्कायां भाष्यकार आह-‘सिद्धं तु नित्यशब्दत्वात् । नित्याः शब्दाः, नित्येषु शब्देषु सतामादैचां सञ्ज्ञा क्रियते, न च सञ्ज्ञया आदैचो भाव्यन्ते‘ ।
तपरकरणस्य प्रयोजनम् -
भिन्नकालसवर्णग्रहणनिवृत्तिः समकालसवर्णग्रहणञ्च तपरकरणस्य प्रयोजनमस्ति । ‘आदैच्‘ इत्यत्र ‘तः परो यस्मात् स तपरः‘ इति बहुव्रीहिविग्रहे आकारस्तपरः, ‘तात् परः‘ इति पञ्चमीतत्पुरुषविग्रहे ऐजपि तपरः । ‘आद्‘ इत्यत्र तपरकरणन्तु अनुनासिकत्वादीनां गुणानां भेदकत्वाभावात् आकारेण षड्विधानां तेषां ग्रहणेन आकारस्य अण्त्वाभावादेव “अणुदित् सवर्णस्य चाप्रत्ययः“ इति सूत्रस्य प्रवृत्तित्वेन प्लुतग्रहणाभावात् सिद्धत्वात् समकालग्रहणार्थत्वेन भिन्नकालव्यावृत्त्यर्थत्वेन च तपरस्योपयोगाभावाद् असन्देहार्थस्तकारो वर्त्तते । तकाराभावे आकारस्य ऐचा सह वृद्धौ आकारस्य विलयेन तत्सत्त्वे सन्देहः स्यात् किमिमावैचावेव, आहोस्विदाकारोऽप्यत्र निर्दिश्यते ? ।
उत्तरत्र ऐचि तु वर्णसमाम्नाये ऐऔ इति स्वरूपेण पाठात् अण्प्रत्याहारे श्रूयमाणत्वेन “अणुदित् सवर्णस्य चाप्रत्ययः“ इति सूत्रे अण्पदेन ग्रहणात् प्लुतस्यापि ऐच्पदेन ग्रहणं प्राप्तम् । तस्य वारणाय तपरकरणमवश्यं कर्तव्यम् । तेन त्रिमात्राणां चतुर्मात्राणां च स्थानिनां स्थाने द्विमात्रा एव वृद्धिसञ्ज्ञका आदेशाः स्युः । तथा च द्विमात्रिक आकार ऐकार औकारश्च वृद्धिपदवाच्या भवन्तीति सूत्रस्य निर्गलितोऽर्थः ।
ननु गुणानां भेदकत्वाद् अनुनासिकत्वोदात्तत्वानुदात्तत्वादीनां समकालानां सङ्ग्रहाय तपरकरणस्य ‘आद्‘ इत्यत्र बहुव्रीहिविग्रहत्वेनापि सम्भवेन असन्देहार्थत्वं कुतः ? । तत्र भाष्यकार आह -“वृद्धिरादैच्“ इति सूत्रव्याख्यायाम् -‘उभयमिदं गुणेषूक्तम् - भेदकाः, अभेदका इति । किं पुनरत्र न्याय्यम् ? अभेदका गुणा इत्येव न्याय्यम्‘ इति । गुणा अभेदकाः - इतरव्यावर्तका न भवन्ति । अत एव “अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः “ इति सूत्रे उदात्तग्रहणं कृतम् । अन्यथा उदात्तगुणकमेवानङमुच्चारयेत् । अत एव “अस्थिदधिसक्थ्यक्ष्णामनङुदातः“ इति सूत्रे उदात्तपदोच्चारणरूपयत्नविशेषस्य सत्त्वात् अत्र गुणस्य भेदकत्वं स्वीक्रियते । “वृद्धिरादैच्“ इत्यत्र सूत्रे यत्नविशेषस्याभावाद् गुणानामभेदकत्वं मन्यते ।
सञ्ज्ञासञ्ज्ञिभावः -
अत्र “वृद्धिरादैच्“ इति सूत्रे अनर्थकं साध्वनुशासनं प्रयोगनियमार्थमादेशार्थमागमार्थं चेमान् सम्भाव्यमानान् पक्षान् निराकृत्य भगवान् महाभाष्यकारः पतञ्जलिः इदं खल्वपि भूयः सामानाधिकरण्यमेकविभक्तित्वञ्च द्वयोश्चैतद् भवति । कयोः, विशेषणविशेष्ययोर्वा, सञ्ज्ञासञ्ज्ञिनोर्वा ? तत्रैतत्स्याद्विशेषणविशेष्ये इति । तच्च न द्वयोर्हि प्रतीतपदार्थकयोर्लोके विशेषणविशेष्यभावो भवति । न चादैच्छब्दः प्रतीतपदार्थकः, तस्मात्सञ्ज्ञासञ्ज्ञिनावेव इति परमोजस्विसहेतुकवाक्यकदम्बेन सञ्ज्ञासूत्रत्वमेवोररीचकार । कृतानामकृतानां चादैचां प्रत्येकं साधारण्येन वृद्धिसञ्ज्ञा स्यादित्ययं निर्गलितः सूत्रार्थः ।
भट्टोजिदीक्षितनागेशभट्टयोः मतभेदः -
सिद्धान्तकौमुद्यां भट्टोजिदीक्षितैः अस्य सूत्रस्य आच् च ऐच् च वृद्धिसञ्ज्ञः स्यात् इत्यर्थः क्रियते तथा च तद्रीत्या इदं द्विपदं सूत्रम् । वृद्धिः आदैच् इति । तत्र आदैच् पदे आच्च ऐच्च इतीतरेतरयोगद्वन्द्वः[1] । तेन उक्तसूत्रार्थलाभः । अथवा तन्मतेन समाहारद्वन्द्वस्वीकारेऽपि न दोषः । समासान्तविधेरनित्यत्वेन तत्र पक्षेऽपि टजभावस्य सिद्धेः[2] ।‘कृतमनयोः साधुत्वम्‘ इत्यादिभाष्यग्रन्थाश्चास्मिन्पक्षेऽनुकूलाः । अनयोः पदयोरिति स्वरसात् । अथवा ‘आत्‘ इत्यसमस्तमेव पस्पशायाम् ‘शब्दाप्रतिपत्तः‘ इति वार्तिके भाष्यकारेणैव ‘वृद्धिः आदैच्‘ इति पदविभागदर्शनात् । अस्मिंश्च पक्षे ‘अनयोः सूत्रखण्डयोः‘ इति नेयम् । पक्षान्तराभिप्रायकमेव वा तत् । वृद्धिशब्दस्तु तन्त्रेणावृत्या वा योजनीयः । “द्विर्वचनेऽचि“, “इग्यणः सम्प्रसारणम्“ इत्यादाविवोभयथाऽप्यदोषात्‘ इति शब्दकौस्तुभः - प्रकृतसूत्रे। अनया रीत्या इदं त्रिपदं सूत्रमिति ।
अत्र सूत्रे तपरकरणं परार्थनाम ऐजर्थमेव, इति भट्टोजिदीक्षितानां सिद्धान्तः । तेन त्रिमात्रचतुर्मात्राणां न वृद्धिसञ्ज्ञा इति फलं बोध्यम्[3] । आकारस्य कृते तु तत्स्पष्टार्थमिति तेषामभिप्रायः[4] ।
किं च ऐजर्थं यत्तपरकरणं तदपि यथोद्देशपक्षे एव आवश्यकं न तु कार्यकालपक्षे इत्यपि भट्टोजिदीक्षितानां मतं बोध्यम्[5] । तद्रीत्या कार्यकालपक्षे यत्र वृद्धिपदं तत्र आदैजित्युपतिष्ठते इति सूत्रार्थात् आदैच् पदस्य वृद्धिविशेषणतया विधेयत्वम् । एवं च ‘अप्रत्ययः‘ इति निषेधादेव सवर्णग्रहणस्य अप्रसक्त्या तत्पक्षे तद्ग्रहणवारणाय कार्यकालपक्षे तपरकरणस्य प्रयोजनाभावात्[6] । तस्माद् यथोद्देशपक्षे एव तदावश्यकं न तु कार्यकालपक्षे इति भट्टोजिदीक्षितानां मतं बोध्यम् । ‘वृद्धिः आत् ऐच्‘ इति पदत्रयात्मकं सूत्रमित्यपि भाष्योक्तः पक्षः भट्टोजिदीक्षितैः प्रदर्श्यते । किन्तु तत्पक्षे तेषां सहमति न दृश्यते[7] । यतोहि ‘कृतमनयोः साधुत्वम्‘ इति भाष्यस्य तत्र पक्षे ‘अनयोः, सूत्रखण्डयोः‘ इत्यर्थकतया नेयत्वेन तैः वर्णनात् । अथवा भट्टोजिदीक्षितरीत्या ‘कृतमनयोः साधुत्वम्‘ इति भाष्यं द्विपदात्मकं सूत्रमिति पक्षाभिप्रायकमेव । तथा च तद्रीत्या द्विपदं सूत्रमित्येव पक्षः प्रधानः इति बोध्यम् ।
नागेशभट्टस्य मतम् -
नागेशभट्टैस्तु वृद्धिः आत् ऐजिति पदत्रयात्मकं सूत्रमित्येव पक्षः प्रधानरूपेण प्रस्तूयते[8] । अतः तद्रीत्या समासान्तादिप्रवृत्तिशङ्कैव न[9] ।
नागेशभट्टरीत्या तपरकरणस्य असन्देहार्थं पूर्वार्थत्वमपि प्रयोजनम्[10] । भाष्यरीत्या गुणानामभेदकत्वेन प्राप्तस्य सवर्णग्रहणस्य अभावार्थं तत्रापि तस्य प्रयोजनसम्भवात् । कृष्णैकत्वमित्यादौ त्रिमात्रव्यावृत्तये परार्थमपि तपरकरणं सप्रयोजनमिति नागेशभट्टानां सिद्धान्तः[11] । किञ्च तपरकरणस्य परार्थत्वं तद्रीत्या कार्यकालपक्षे यथोद्देशपक्षे चावश्यकम् । तद्रीत्या कार्यकालपक्षे मृजेर्वृद्धिरित्यादौ वृद्धिपदार्थजिज्ञासायां “वृद्धिरादैच्“ इत्युपस्थित्या तदर्थबोधरूपशक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः[12] । एवञ्च सञ्ज्ञासूत्रस्य पक्षद्वयेऽपि पृथग् वाक्यार्थबोधात् तपरकरणं द्वयोरपि पक्षयोः आवश्यकमिति नागेशभट्टानामभिप्रायः ।
कार्यकालपक्षे तपरत्वं स्पष्टार्थम् ‘आदैच्‘ पदार्थस्य वृद्धिविशेषणतया विधेयत्वेन सवर्णग्रहणप्रसक्तेः इत्यादि भट्टोजिदीक्षितमतं तु नागेशभट्टैः नाङ्गीक्रियते[13] । उक्तरीत्या तन्मते पृथक् वाक्यार्थबोधस्य आवश्यकत्वाद् इति बोध्यम् । ‘सर्वे सर्वार्थवाचकाः‘ इति पक्षे सञ्ज्ञासूत्राणां नियमार्थत्वमित्यपि भट्टोजिदीक्षितमतं नागेशभट्टैः नाङ्गीक्रियते । तैः एतद्विषये लघुशब्देन्दुशेखरे विशेषरूपेण स्वमतं प्रकटितं दृश्यते । तत्र ‘सर्वे सर्वार्थवाचकाः‘ इति सिद्धान्तस्य द्विधा खण्डनं विधीयते ।
प्रथमतः अस्य सिद्धान्तस्य स्वीकारेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकत्वेन सञ्ज्ञासूत्राणां सञ्ज्ञिविषये अज्ञातशक्तिज्ञापकतायाः सत्त्वाद् विधित्वमेव उचितमिति तेषां सिद्धान्तः ।
अपरतश्च ‘सर्वे सर्वार्थवाचकाः‘ इति सिद्धान्तः अस्मद्दृष्ट्या नैवोपयुक्तः योगिदृष्ट्या तस्य स्वीकारयोग्यत्वेऽपि अस्मादृशां सर्वे सर्वशब्दानां सर्वेषु अर्थेषु विशिष्यज्ञानाभावाद् अयं सिद्धान्तः नोपपद्यते । यद्यपि सामान्यतया तादृशं ज्ञानं अस्मासु वर्तते किन्तु न तद्बोधोपयोगी अतः अस्य सिद्धान्तस्य स्वीकारयोग्यत्वादेव तदाधारेण सञ्ज्ञासूत्राणां नियमार्थत्वं न स्वीकारयोग्यमिति नागेशभट्टानां सिद्धान्तः ।
एवञ्च वृद्धिसञ्ज्ञासूत्रं द्विपदं त्रिपदमिति उभयपक्षो भट्टोजिदीक्षितैः समर्थ्यते । त्रिपदसूत्रमिति पक्षश्च नागेशभट्टैः समर्थ्यते । तपरकरणमाकारविषये स्पष्टार्थम्,‘ऐच्‘ विषये यथोद्देशपक्षे आवश्यकम्, कार्यकालपक्षे स्पष्टार्थमिति भट्टोजिदीक्षितानामभिप्रायः । किन्तु आकारविषये असन्देहार्थम्,‘ऐच्‘ विषये यथोद्देशपक्षे कार्यकालपक्षे च तपरकरणमावश्यकमिति नागेशभट्टानामभिप्रायः । ‘विधिनियमसम्भवे विधिरेव ज्यायान्‘ इति परिभाषाप्रामाण्यात् सञ्ज्ञासूत्राणां विधित्वमेव उचितं न तु नियमत्वमिति नागेशभट्टानां सिद्धान्तः ।
एवञ्च भट्टोजिदीक्षितैः सञ्ज्ञासूत्राणाम् एकस्मिन् पक्षे नियमत्वम्, अपरस्मिन् पक्षे विधित्वं स्वीक्रियते । किन्तु नागेशभट्टैः सञ्ज्ञासूत्राणां विधित्वमेव स्वीक्रियते, न तु नियमार्थत्वमिति । सञ्ज्ञासूत्राणां नियमार्थत्वमिति भट्टोजिदीक्षितानां सिद्धान्तः, विध्यर्थत्वमिति नागेशभट्टानां सिद्धान्तः । अतः उपर्युक्तेषु विषयेषु भट्टोजिदीक्षितनागेशभट्टयोः मतभेदः स्पष्टः इति बोध्यम् ।
भाष्ये दत्तानि चोदाहरणानि
तद्भावितोदाहरणम् - खट्वा एलका खट्वैलका, खट्वा ओदनः खट्वौदनः, खट्वा ऐतिकायनः खट्वैतिकायनः, खट्वा औपगवः खट्वौपगवः ।
अतद्भावितोदाहरणम् - शालीयः, मालीयः, आम्रमयम्, शालमयम्, आम्रगुप्तायनिः, शालगुप्तायनि ।
अत्रापि भाष्ये ऐकारौकारयोस्त्वतद्भावितयोरुदाहरणं नात्र प्रदर्शितम् ।
तद्भावितवृद्धिसञ्ज्ञाप्रदेशाः - प्रदिश्यन्ते कथ्यन्ते प्रयोजनानि यत्र स प्रदेशः । यथा -
१.वृद्धिरेचि - ( ६.१.८७ ) आदेचि परे वृद्धिरेकादेशः स्यात् । उदाहरणम् - कृष्णैकत्वम्, गङ्गौघः, देवैश्वर्यम्, कृष्णौत्कण्ठ्यम् ।
२.एत्येधत्यूठ्सु - ( ६.१.८८ ) अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उदाहरणम् - उपैति, उपैधते, प्रष्ठौहः ।
३.आटश्च - ( ६.१.८९ ) आटोऽचि परे वृद्धिरेकादेशः स्यात् । उदाहरणम् - ऐधत, ऐक्षत, बहुश्रेयस्यै ।
४.उपसर्गादृति धातौ - ( ६.१.९० ) अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् । उदाहरणम् - उपार्च्छति, प्रार्च्छति ।
५.वा सुप्यापिशलेः - ( ६.१.९१ ) अवर्णान्तादुपसर्गादृकारादौ सुबन्तप्रकृतिकधातौ परे वृद्धिरेकादेशो वा स्यात् । उदाहरणम् - प्रार्षभीयते, प्रर्षभीयति ।
६.अचो ञ्णिति - ( ७.२.११५ ) अजन्ताङ्गस्य वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । उदाहरणम् - सखायौ, , कारकः, कार्यम् ।
७.अत उपधायाः - ( ७.२.११६ ) उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । उदाहरणम् - जगाद, पाचकः ।
८.तद्धितेष्वचामादेः - (७.२.११७ ) ञिति णिति च तद्धिते परेऽचामादेरचो वृद्धिः स्यात् । उदाहरणम् - गार्ग्यः, दाक्षिः, औपगवः ।
९.किति च - ( ७.२.११८ ) किति तद्धिते परेऽचामादेरचो वृद्धिः स्यात् । उदाहरणम् - नाडायनः, आक्षिकः ।
१०.देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात् - ( ७.३.१ ) एषां पञ्चानां वृद्धिप्राप्तावादेरच आत् स्यात्, ञिति णिति किति च । दाविकम्, शांशपः, दात्यौहम्, दार्घसत्रम्, श्रायसम् ।
११.केकयमित्रयुप्रलयानां यादेरियः - ( ७.३.२ ) एषां यकारादेरियादेशः स्यात् ञिति णिति किति च परे । कैकेयः, मैत्रेयिका ।
१२.न कर्मव्यतिहारे - ( ७.३.६ ) न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् इति सूत्रेण प्राप्तस्य निषेधेनादिवृद्धिः स्यात् । उदाहरणम् - व्याक्रोशी, व्यावहासी ।
१३.स्वागतादीनां च - ( ७.३.७ ) न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् इति सूत्रेण प्राप्तस्य निषेधेनादिवृद्धिः स्यात् । उदाहरणम् - स्वागतिकः, स्वाध्वरिकः, स्वाङ्गिः ।
१४.श्वादेरिञि - ( ७.३.८ ) श्वन्शब्दपूर्वपदस्याङ्गस्य इञि परे न य्वाभ्यां पदान्ताभ्यां पूर्वौ तु ताभ्यामैच् इति सूत्रेण प्राप्तस्य निषेधेनादिवृद्धिः स्यात् । उदाहरणम् - श्वादंष्ट्रिः ।
१५.पदान्तस्यान्यतरस्याम् - ( ७.३.९ ) श्वादेररङ्गस्य पदशब्दान्तस्यैज्वा स्यात् । उदाहरणम् - श्वापदस्येदं श्वापदम्, शौवापदम् ।
१६.अवयवादृतोः - ( ७.३.११ ) अवयववाचिनः पूर्वपदादृतुवाचिनोऽचामादेरचो वृद्धिः स्यात् ञिति णिति किति च तद्धिते परे । उदाहरणम् -पूर्ववार्षिकः, अपरहैमनः ।
१७.सुसर्वार्धाज्जनपदस्य - ( ७.३.१२ ) सुसर्वार्धपूर्वस्य जनपदवाचिन उत्तरपदस्य वृद्धिः स्यात् । उदाहरणम् - सुपाञ्चालकः, सर्वपाञ्चालकः, अर्धपाञ्चालकः ।
१८.दिशोऽमद्राणाम् - ( ७.३.१३ ) दिग्वाचकाज्जनपदवाचिनो मद्रवाचिभिन्नस्य वृद्धिः स्यात् । उदाहरणम् - पूर्वपाञ्चालकः, ।
१९.प्राचां ग्रामनगराणाम् - ( ७.३.१४ ) दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेः वृद्धिः स्यात् । उदाहरणम् - पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।
२०.सङ्ख्यायाः संवत्सरसंख्यस्य च - ( ७.३.१५ ) संख्याया उत्तरपदस्य संवत्सरसंख्यस्य वृद्धिः स्यात् ञिदादौ परे । उदाहरणम् - द्विसांवत्सरिकः ।
२१.वर्षस्याभविष्यति - ( ७.३.१६ ) अभविष्यति यो ञिदादिः, तस्मिन् परे संख्याया उत्तरपदस्य वर्षस्य वृद्धिः स्यात् उदाहरणम् - द्विवार्षिकः ।
२२. परिमाणान्तस्यासञ्ज्ञाशाणयोः - ( ७..३.१७ ) परिमाणान्तस्याङ्गस्य संख्याया उत्तरपदवृद्धि स्यात् ञिदादौ, सञ्ज्ञायां विषये शाणे चोत्तरपदे तु न । उदाहरणम् - परमनैष्किकः ।
२३. जे प्रोष्ठपदानाम् - ( ७.३.१८ ) प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति किति च परे । उदाहरणम् - प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः ।
२४. हृद्भगसिन्ध्वन्ते पूर्वपदस्यच - ( ७.३.१९ ) हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिः ञिति णिति किति च परे । उदाहरणम् - सौहार्दः, सौहार्द्यम्, सौभागिनेयः, साक्तुसैन्धवः ।
२५. अनुशतिकादीनां च - ( ७.३.२० ) एषामुभयपदवृद्धिर्ञिति णिति किति च परे । उदाहरणम् - अधिदेवस्येदमिति आधिदैविकम्, आधिभौतिकम्, ऐहलौकिकम्, पारलौकिकम् ।
२६. देवताद्वन्द्वे च - ( ७.३.२१ ) अत्र पूर्वोत्तरपदयोराद्यचो वृद्धिर्ञिति णिति किति च परे । उदाहरणम् - अग्नामरुतौ देवता अस्य आग्निमारुतम् ।
२७. दीर्घाच्च वरुणस्य - ( ७.३.२३ ) दीर्धात् परस्य वरुणस्य वृद्धिर्न स्यात् । उदाहरणम् - ऐन्द्रावरुणम् ।
२८. प्राचां नगरान्ते - ( ७.३.२४ ) प्राचां देशे नगरान्तेऽङ्गे पूर्वपदस्योत्तरपदस्य चाचामादेरचो वृद्धिर्ञिति णिति किति च परे । उदाहरणम् - सुह्मनगरे भवः सौह्मनागरः, पौण्ड्रनागरः ।
२९. जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम् - ( ७.३.२५ ) जङगलाद्यन्तस्याङ्गस्य पूर्वपदस्याचामादेरचो वृद्धिरुत्तरपदस्य तु वा ञिति णति किति च परे । उदाहरणम् - कुरुजङ्गले भवम् कौरुजङ्गलम्, कौरुजाङ्गलम्, वैश्वधेनवम्, वैश्वधैनवम्, सौवर्णवलजम्, सौवर्णवालजम् ।
३०. अर्धात् परिमाणस्यपूर्वस्य तु वा - ( ७.३.२६ ) अर्धात् परिमाणवाचकस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा ञिति णित किति च उदाहरणम् - अर्धद्रोणेन क्रीतम् अर्धद्रौणिकम्, आर्धद्रौणिकम् ।
३१. प्रवाहणस्य ढे - ( ७.३.२८ ) प्रवाहणशब्दस्योत्तरपदस्याचामादेरचो वृद्धिः पूर्वपदस्य तु वा ढे परे । उदाहरणम् - प्रवाहणस्य अपत्यम् प्रावाहणेयः, प्रवाहणेयः ।
३२. तत्प्रत्ययस्य च - ( ७.३.२९ ) ढप्रत्ययान्तस्य प्रवाहणस्योत्तरपदस्यादेरचो वृद्धिः पूर्वपदस्य तु वा । उदाहरणम् - प्रवाहणेयस्य अपत्यम् प्रावाहणेयिः, प्रवाहणेयिः ।
३३. नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् - ( ७.३.३० ) नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः पूर्वपदस्य तु वा ञिदादौ परे । उदाहरणम् - आशौचम्, अशौचम् । आनैश्वर्यम्, अनैश्वर्यम् । आक्षैत्रज्ञम्, अक्षैत्रज्ञम् ।
३४. यथातथयथापुरयोः पर्यायेण - ( ७.३.३१ ) नञः परयोरेतयोः पूर्वोत्तरपदयोः पर्यायेणादेरचो वृद्धिर्ञिदादौ परे । उदाहरणम् -अयथातथाभाव आयथातथ्यम् , अयाथातथ्यम् । आयथापुर्यम्, अयाथापुर्यम् ।
३५. उतो वृद्धिर्लुकि हलि - ( ७.३.८९ ) लुग्विषये उकारस्य वृद्धिः स्यात् पिति हलादौ सार्वधातुके, न त्वभ्यस्तस्य । उदाहरणम् -यौति, स्तौति, नौमि ।
३६. ऊर्णोतेर्विभाषा - ( ७.३.९० ) ऊर्णोतेर्वा वृद्धिः स्यात् हलादौ पिति सार्वधातुके । उदाहरणम् - ऊर्णौति, ऊर्णोति ।
अतद्भावितवृद्धिसञ्ज्ञाप्रदेशाः -
१. वृद्धाट् ठक् सौवीरेषु बहुलम् - ( ४.१.१४८ ) वृद्धात्सौविरगोत्राद्यूनि बहुलं ठक् स्यात् कुत्सायाम् । उदाहरणम् - भागवित्तिकः, भागवित्तायनः ।
२. उदीचां वृद्धादगोत्रात् - ( ४.१.१५७ ) वृद्धसञ्ज्ञकादगोत्रप्रत्ययान्तात्फिञ् वा स्यात् । उदाहरणम् - आम्रगुप्तायनिः, आम्रगुप्तिः ।
३. वृद्धेत्कोसलाजादाञ् ञ्यङ्। - ( ४.१.१६९ ) जनपदक्षत्रियोभयवाचकाद् वृद्धसञ्ज्ञकाद्, इदन्तात्, कोसलादिभ्यां चापत्ये ञ्यङ् स्यात् । उदाहरणम् - आम्बष्ठ्यः, सौवीर्यः ।
४. वृद्धाच्छः - ( ४.२.११४ ) वृद्धसञ्ज्ञकाच्छप्रत्ययः स्यात् शेषे । उदाहरणम् - शालीयः, मालीयः ।
५. वाहीकग्रामेभ्यश्च - ( ४.२.११७ ) वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ स्तः । उदाहरणम् - कास्तीरिकी, कास्तीरिका ।
६. विभाषोशीनरेषु - ( ४.२.११८ ) उशीनरेषु ये ग्रामास्तद्वाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ वा स्तः । उदाहरणम् - सौदर्शनिकी, सौदर्शनिका, सौदर्शनीया ।
७. वृद्धात् प्राचाम् - ( ४.२.१२० ) प्राग्देशवाचिनो वृद्धादेवेति नियमार्थं सूत्रम् । उदाहरणम् - आढकजम्बुकः, शाकजम्बुकः ।
८. धन्वयोपधाद् वुञ् - ( ४.२.१२१ ) धन्वविशेषवाचिनो यकारोपधाच्च देशवाचिनो वृद्धाद्वुञ् शेषे । उदाहरणम् - ऐरावतकः, साङ्काश्यकः ।
९. प्रस्थपुरवहान्ताच्च - ( ४.२.१२२ ) एतदन्ताद् वृद्धाद्देशवाचिनो वुञ् । उदाहरणम् - मालाप्रस्थकः, नान्दीपुरकः ।
१०. रोपधेतोः प्राचाम् - ( ४.२.१२३ ) रोपधादीकारान्ताच्च प्राग्देशवाचिनो वृद्धाद्वुञ् । उदाहरणम् - पाटलिपुत्रकः, काकन्दकः ।
११. जनपदतदवध्योश्च - ( ४.२.१२४ ) जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् । उदाहरणम् - आदर्शकः, त्रैगर्तकः ।
१२. अवृद्धादपि बहुवचनविषयात् - ( ४.२.१२५ ) अवृद्धाद् वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात् प्रातिपदिकाद्वुञ् । उदाहरणम् - आङ्गकः, आजमीढकः, दारवकः कालञ्जरकः ।
१३. कच्छाग्निवक्त्रवर्तोत्तरपदात् - ( ४.२.१२६ ) कच्छाद्युत्तरपदाद्देशवाचिनो वृद्धादवृद्धाच्च वुञ् । उदाहरणम् - दारुकच्छकः, काण्डाग्नकः,सैन्धुवक्त्रकः, वाहुवर्तकः ।
१४. वृद्धादकेकान्तखोपधात् - ( ४.२.१४१ ) ‘अक‘,‘इक‘ एतदन्तात् खोपधाच्च वृद्धाद्देशवाचिनः छप्रत्ययः स्यात् । उदाहरणम् - ब्राह्मणकीयः, शाल्मलिकीयः, आयोमुखीयः ।
१५. कन्थापलदनगरग्रामह्रदोत्तरपदात् - ( ४.२.१४२ ) कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छप्रत्ययः स्यात् । उदाहरणम् - दाक्षिकन्थीयम्, दाक्षिपलदीयम्, दाक्षिनगरीयम् ।
१६. नित्यं वृद्धशरादिभ्यः - ( ४.३.१४४ ) एतेभ्यो मयट् स्यात् नित्यम् । उदाहरणम् - आम्रमयम्, शरमयम्, मृन्मयम् ।
१७. मालादीनां च - ( ६.२.८८ ) प्रस्थशब्दे उत्तरपदे मालादीनामादिरुदात्तः । उदाहरणम् -मालाप्रस्थः, शोणाप्रस्थः ।
[1]इहाच्च ऐच्चेतीतरेतरयोगद्वन्द्वः सुपां सुलुक्....... इति सुलुग्वा । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे - पृ. ६६ )
[2]अथवा समाहारद्वन्द्वो न चैवं द्वन्द्वच्चुदषहान्तात् इति टच् स्यादिति वाच्यं समासान्तविधेरनित्यत्वात् । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे - पृ. ६६ )
[3]आदिति तपरकरणमैजर्थम्, तेन त्रिमात्रचतुर्मात्रणामैचां सञ्ज्ञा न भवतीति । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे - पृ. ६८ )
[4]इह तु तपरकरणं स्पष्टार्थमेवेति । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे - पृ. ६८ )
[5]भाष्ये तु पक्षान्तराभिप्रायेण ऐजर्थत्वमुक्तम् । तदपि यथोद्देशपक्षे बोध्यम् । ( शब्दकौस्तुभः भागः -१- प्रकृतसूत्रे - पृ. ७६ )
[6]कार्यकालपक्षे तु विधिवाक्येनैव वृद्धिसञ्ज्ञाविशिष्टानामादैचां भाव्यमानतया सवर्णग्रहणं न प्राप्नोत्येव । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे- पृ. ७६-७७ )
[7]‘कृतमनयोः साधुत्वम्‘ इत्यादिभाष्यग्रन्थाश्चास्मिन् पक्षे अनुकूलाः । अनयोः पदयोरिति स्वरसात् । अथवा ‘आत्‘ इत्यसमस्तमेव ‘पस्पशायां शब्दाप्रतिपत्तिः‘ इति वार्तिके भाष्यकारैरेव वृद्धिः आदैजिति पदविभागप्रदर्शनात् । अस्मिंश्च पक्षे अनयोः सूत्रखण्डयोरिति नेयम् । ( शब्दकौस्तुभः भागः - १- प्रकृतसूत्रे - पृ. ६७-६८ )
[8]यद्वा पदत्रयं पस्पशायां भाष्ये वृद्धिः आत् ऐच् इति पदविभागदर्शनात् । ( महाभाष्यम् - उद्द्योतः)
[9]वृद्धिः आत् ऐजिति पदत्रयमिति न समासान्तादिप्रवृत्तिशङ्का । ( लघुशब्देन्दुशेखरः - प्रकृतसूत्रे )
[10]तपरकरणमसन्देहार्थतया पूर्वार्थम्, प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । ( लघुशब्देन्दुशेखरः - प्रकृतसूत्रे )
[11]‘कृष्णौत्कण्ठम्, गङ्गौघः‘ इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि । ( लघुशब्देन्दुशेखरः - प्रकृतसूत्रे )
[12]अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोधः । ( लघुशब्देन्दुशेखरः - प्रकृतसूत्रे )
[13]एतेन कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव आदैच् पदार्थस्य वृद्धिविशेषणतया विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते इति क्रमेण सञ्ज्ञासूत्राणामर्थादित्यापास्ताम् । ( लघुशब्देन्दुशेखरः - प्रकृतसूत्रे )
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
ऐजिह द्विमात्र एव, तात्परत्वात् । तेन कृष्णैकत्वमित्यत्र त्रिमात्रो न । एवमुत्तरसूत्रेऽपि । तेन गङ्गोदकमित्यादौ त्रिमात्रो न ॥
१.१.१
सूत्राणि:॥ वृद्धिरादैच् ॥
॥ व्याख्या: ॥॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - वृद्धिरादैच् १.१.१ आत् ऐच्च वृद्धिसंज्ञः स्यात् ।
मनोरमा - वृद्धिरादैच् । (पा.सू.१.१.१) ऐजिह द्विमात्र एव तात्परत्वात् । तेन कृष्णैकत्वमित्यत्र त्रिमात्रो न । एवमुत्तरसूत्रेऽपि । तेन गनोदकमित्यादौ त्रिमात्रो न ।
इस सूत्र में अर्थात् वृद्धिसंज्ञक रूपमें 'ऐच्' द्विमात्रिक ही लिया जाएगा क्योंकि सूत्र में ‘आत्' में जो तकार है उससे पर में 'ऐच' का ग्रहण है तो 'तपरस्तत्कालस्य' सूत्र के अर्थ में जो 'तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा' कहा जाता है । तदनुसार यहाँ ऐच् भी 'तकार से परे' है । अतः यह ऐच भी अपने समकाल द्विमात्रिक का ही बोध कराएगा तो, वृद्धि पद से आ तथा द्विमात्रिक ऐ, औ ही लिये जायेंगे । इसीलिए 'कृष्णैकत्वम्' यहाँ पर पूर्व 'अकार' तथा पर 'ए'कार के स्थान पर 'वृद्धिरेचि' से होने वाला वृद्धि एकादेश 'द्विमात्रिक ऐ' ही होता है । अन्यथा स्थानियों में 'अकार एकमात्रिक तथा एकार द्विमात्रिक होने से, उनके स्थान पर होने वाला वृद्धि एकादेशरूप 'ऐ'कार को त्रिमात्रिक होना चाहिए था । ' परन्तु वद्धिसंज्ञक 'द्विमात्रिक ही ऐकार है । ' अतः द्विमात्रिक ही होता है ।
इसी प्रकार 'अदेङ् गुणः' यहाँ भी 'ए' तकार से परे है तो 'तपरस्तत्कालस्य' के नियमानुसार द्विमात्रिक 'ए'कार ही गुण कहलाता है । अतः 'गोदकम्' इत्यादि में द्विमात्रिक 'ओ' कार ही गुण होता है । स्थानी रूप आकार तथा उकार के अनुसार त्रिमात्रिक नहीं ।
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
वृद्धिरादैच् (१.१.१) । वृद्धि:, आद, ऐच इति पवत्रयमिति न समा- सान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम् प्रकृतसूत्रे भाव्येऽत्र शास्त्रे गुणानामभेवकत्वं ज्ञापकावाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । 'कृष्णौत्कव्यम्', 'गङ्गौघः' इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि ।
वृद्धिरादैच् (१.१.१) । यत्र वृद्धि:, आत् ऐच्-इत्येवमसमस्तं पदम् । आदेपदे समाहारदन्द्रे 'द्वन्द्वाच्चुद' इत्यनेन चान्तत्वात् टच् प्रसज्येत । इतरेतरयोगे तु टचोऽप्रवृत्ता- पि द्विवचनान्त निर्देशस्य प्रसङ्गः । अदिति पदेन अकारस्य संग्रहः । अदित्यत्र तपरकरणन्तु अनुनासिकत्वादीनां गुणानां भेदकत्वाभावात् आकारेण षड्विधानां तेषां ग्रहणेन आका- रस्य अण्त्वाभावादेव अणुदित्सूत्राप्रवृत्त्या प्लुतग्रहणाभावस्य सिद्धत्वात् समकालग्रहणार्थ- त्वेन भिन्न कालव्यावृत्त्यर्थत्वेन च तपरस्योपयोगाभावात् सन्देहनिवर्तकतया सफलम्, अत एव पूर्वार्थम् । तकाराभावे आकारस्य ऐचा सह वृद्धो आकारस्य विलयेन तत्सत्त्वे एव सन्देहः स्यात् । उत्तरत्र ऐचि तु वर्णसमाम्नाये ऐओ इति स्वरूपेण पाठात् अण्प्रत्याहारे श्रूयमाणत्वेन अणुदित्सूत्रे अण्पदेन ग्रहणात् प्लुतस्यापि ऐच्चदेन ग्रहणं प्राप्तम् । तस्य वारणाय तपरोच्चारणं चरितार्थमिति उत्तरार्थमपि ।
गुणानां भेदकत्वात् अनुनासिकत्वोदात्तत्वानुदात्तत्वादीनां समकालानां सङ्ग्रहाय तपरकरणस्य पूवार्थतयापि सम्भवेन असन्देहार्थत्वं कुतः ? इत्यत उक्तम् - प्रकृतसूत्र इति । 'अस्थिदधि' इति सूत्रे अनङ आद्याकारस्य स्वरूपेणैव पठनीये साक्षात् उदात्तशब्देन तद्विधानस्य फलाभावात्, असति प्रयत्नविशेषे गुणानामभेदकत्वात्सामर्थ्यात् तेन कल्प्यते । 'अस्थिदधि' इति सूत्रे उदात्तपदोच्चारणरूपयत्न विशेषस्य सत्त्वाद् अत्र गुणस्य भेदकत्वं स्वीक्रियते । 'वृद्धिरादैच्' अत्र सूत्रे यत्नविशेषस्याभावाद् गुणानामभेदकत्वं मन्यते । तथाच अभेदकत्वात् समकालसवर्णानां ग्रहणस्य सिद्धौ तपरकरणं न पूर्वार्थतया सफलम् । असन्देहार्थतया च पूर्वार्थम् इति भावः । ऐकारस्य औकारस्य स्वरूपेण वर्ण- समाम्नाये पाठात् तत्र अणुदित्सूत्रप्रवृत्त्या प्लुतस्य ग्रहणं प्राप्तम्, तद्वारणाय तपरोच्चारणमिति । परार्थमपि तंत् । प्रकृतसूत्रे - 'वृद्धिरादैच्' इति सूत्रे । अत्र = व्याकरणे । ज्ञापकात् उदात्तपदात् । सवर्णेति । समकालसवर्णत्यर्थः । अत्र = अस्मिन् सूत्रे । अन्यत्र तु वृद्धिशब्दस्य शक्तिग्राहकत्वाभावेन न तथा पदपरः स्वस्वरूपपरः । असम्भवात् शक्तिग्रहाभावाद अर्थपरत्वस्य वकुमावत्वात्।
वृद्धिशब्दोऽत्र पदर: अर्थपरत्वासम्भवात् । आदेवी वृद्धिपदाभिन्ना इति वाक्यार्थः पदपदार्थयोः तादात्म्याङ्गीकारात् । 'रामेति इधर नाम मानभङ्गः पिताकिनः' इत्यादौ तयोरभेदप्रतीतेरनुभवसिद्धत्वादित्यन्यत्र विस्तरः ।
न च समानविभक्तिकयोरभेदान्वयस्य युक्तत्वेन वृद्धिरूपपदस्य स्वीयार्थेन आकारेण ऐकारेण औकारेण च सहामेदान्वयो दुर्घटा, पदपदार्थयोः स्वरूपेण भेदात् बत आह- पदेति । पदपदार्थयोग्तादात्म्यस्य भेदसहिष्णोरभेदस्याङ्गीकारेण अभेदान्वयानुपपत्तेरभावात् । न च मधुशब्दोच्चारणे मुखे माधुर्यं स्यात्, शब्दार्थयोरमेदादिति नाशनीयम्; भेदेन सह अभेदस्य स्वीकारेण सर्वथा अभेदानभ्युपगमात् । विस्तरेण मञ्जूषायां द्रष्टव्यम् । शब्दार्थयोस्तादात्म्यादेव किमिदमिति पृष्टे गौरिति, कीदृग् ज्ञानम् ? गोरिति कः शब्दः ? गौरित्युत्तरयति ।
ननु अनयोस्तादात्म्याङ्गीकारे घटस्य चक्षुषा यथा ग्रहण तथा घटशब्दस्यापि चक्षुषा ग्रहणं स्यादिति न वक्तव्यम् । यथा घटे गन्धवस्वस्य सत्वेऽपि घटत्वेनैव घटस्य चाक्षुपप्रत्यक्षता, न गन्धवत्त्वेन तथाऽत्रापि घटशब्दत्वेन न घटस्य चाक्षुपप्रत्यक्षता, किन्तु घटत्वेनेति न दोषः । न चैवमपि शब्दानां नित्यत्वे वा तादात्म्यनुपपत्तिः तदवस्थेव । नित्य- स्वपक्षे अनित्यैरथैः सह नित्यशब्दस्य कथं तादात्म्यम्, अनित्यत्वपक्षे शब्दानामुत्पन्न प्रध्वंसित्वेन क्षणिकत्वात् चिरस्थापिभिः अर्थः सह तादात्म्यं कथमुपपद्येत इति वाच्यम्; घटस्य नाशे ध्वंसप्रतियोगिता घटनिष्ठतद्वतित्वेन मृत्तिकायाः, न तु मृत्तिकात्वेन मृत्ति- कायाः । एवमत्रापि नित्यत्वपक्षे घटादिनिष्ठतद्व्यक्तित्वेन घटादीनां ध्वंसप्रतियोगिता, ना तु घटादिशब्दत्वेन, अनित्यत्वपक्षे च शब्दस्य शब्दत्वरूपेण क्षणिकत्वम्, नतु घटत्वादिन इत्यादिकल्पनया दोषः परिहरणीयः ।
वृद्धिशब्दस्य संज्ञात्वं तु व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । 'अपूक्त एकाल' (१.२.४२) इत्यादी तथा करणं विधेयस्य प्रथमं प्रयोगे साधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया संज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम् । किञ्च 'सर्वे सर्वार्थाः' इत्यभ्युपगमो योगिदृष्टघा, नास्मदृष्टया; सर्वशब्दानामर्थानाञ्च विशिष्यज्ञानाभावात् । सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि ॥
ननु आदेचोरेव संज्ञात्वं कुतो नेत्यत आह- वृद्धि इति । एकस्य अनेकसंज्ञाकरणे फलाभावात् वृद्धिपदमेव संज्ञापरम् । 'उद्देश्य प्रथमं वाच्यम्' इति रीत्या वृद्धेः पूर्वं प्रयोगो नोचितः, अत आह-विधेयस्येति । विधेयस्य विधानार्हस्य (वृद्धिशब्दस्य) । न चात्र मङ्गलार्थतया वृद्धिशब्दस्य पूर्वं प्रयोगेऽपि 'अपृक्त एकाल्' इति सूत्रे पूर्वोक्तनियममुल्लङ्घय विधेयस्य 'अपूक्त' इत्यस्य पूर्व प्रयोगः कथम् ? इत्याशयेन शङ्कते - अपृक्त इति । विधेयस्य पूर्वं प्रयोगे असाधुत्वं भवति - एतादृशो भ्रमो मा भूदिति बोधयितुं नियमवैपरीत्येन सूत्रकृत् तथा प्रायुङ्क्त । तथा च उद्देश्यस्य प्रथमप्रयोगे औचित्यमात्रं बोधितं न त्वसाघुत्वमिति ।
"सर्व शब्दाः सर्वषामर्थानां वाचकाः' इत्यर्थकेन 'सर्वे सर्वार्थवाचकाः' इति न्यायेन घटाब्दी यथा सर्वस्यार्थस्य वाचकः, एवं वृद्धिशब्दोऽपि सर्वेषु अर्थेषु आकारैकारौकारा- णामपि अन्तर्गतत्वात् तेषामपि वाचकः प्राप्तः - इत्यपूर्वार्थबाधकत्वाभावेन 'वृद्धिरादैच्' सूत्रस्य विधित्वं न सम्भवति, किन्तु अन्येषामर्थानां वृद्धिशब्देन व्याकरणे ग्रहणं मा भूत् इत्येतदर्थं नियमार्थमिदं सूत्रमिति निराकरोति - सर्वशब्दानामिति । सर्वशब्दानां सर्वार्थ- वाचकत्वेऽपि सङ्केतज्ञानस्य शाब्दबोधे हेतुत्वाभ्युपगमात् सङ्केतज्ञानमावश्यकम् । अन्यथा 'कोशाप्तव्यवहारादिना सङ्केतितमिदं पदममुं अर्थ बोधयतु' इत्यादिरूपमजानतः पुरुषस्यापि बाबो दुर्वारः स्यात् । तथा च सर्वस्य शब्दस्य सर्वस्मिन्नर्थे सङ्केतयितुमशक्यत्वात् सङ्केत- ज्ञानाभावेन सर्वबोधासम्भवात् अज्ञातार्थस्यैव ज्ञापकत्वेन 'वृद्धिरादैच्' इत्यादिसंज्ञासूत्राणां विधित्वमेव । न च 'वृद्धिपदमर्थबोधकम् पदत्वात्, गोपदवत्' – इत्यनुमानेन वाचकत्वं गृहीतम् स्यात् इत्यरुचेराह - किञ्चेति ।
यत्तु 'वृद्धिपदम् आदेच्त्वावच्छिन्नबोधकम्; आदैजितराबोधकत्वे सति अर्थबोधकत्वात्' इत्यनुमानेन आदैच्त्वेन ज्ञातुं शक्यम् ? तन्न, अजितराबोधकत्वस्य अनिर्णयात् हेतोर- सिद्धेः । प्रमेयत्वेन रूपेण प्रमेयस्य अर्थस्य ज्ञानेऽपि यावत् तत्तद्घटत्वादिविशेषधर्मेण घटादीनां ग्रहणं न भवति तावद घटत्वादिविशेषधर्मं प्रकारको बोधो न भवति । विशेषधर्म- पुरस्कारेण सर्वार्थवाचकत्वग्रहस्य योगिनां सम्भवेऽपि अस्मादृशां तत्तद्विशेषरूपेण सर्वे- षामर्थानां ज्ञातुमशक्यत्वात् । प्रमेयत्वसामान्यधर्मेण घटादिज्ञानं न घटत्वादिविशेष- धर्मं प्रकारकबोधोपयोगीति विशेषधर्मेण आकारादीनां वृद्धिपदेन बांधाय सूत्रमिदम् । शास्त्रप्रणयनश्च अस्माकं स्थूलदृशां कृते इति विधित्वमेवोचितम् | अर्थानाम् सर्वेषाम- र्थानाम्, विशिष्य घटत्वादिविशेषरूपेण । सामान्यतस्तथाज्ञानम् शब्दत्वेन शब्दस्य, अर्थत्वेन अर्थस्य च ज्ञानम् । सर्वार्थवाचकत्वादि प्रकारकमित्यर्थः । न बोधोपयोगिनः प्रक्रियानिर्वाहकविशेषधर्मप्रकारक बोधजनकम् ।
शास्त्रं त्वस्मदाद्युद्देशेनैव प्रवृत्तमिति बोद्धयम् । तत्रैव सङ्केतग्राहकशा करणं स्वेच्छयैवेत्येषां यदृच्छा शब्दत्वेन व्यवहारः, स्वेच्छया संज्ञाः क्रियन्त इति च । एतदुपदेशरूपसङ्केतात् प्राक् तत्र संज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः । अत एव तत्तत्संज्ञाकरणज्ञानरूपप्रकरणादन्यार्याग्रहणरूपनियमः कृत्रिमाकृत्रिम- न्यायमूलतयोक्तः संख्यासंज्ञासूत्रे भाष्ये । आर्थिकमेवानुं नियममादाय संज्ञासूत्रेषु नियभत्वव्यवहारः - 'व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित्' इत्यादिना कृतः । वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान शब्दार्थसम्बन्ध- नित्यताहानिः । आसाश्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः ।
शास्त्रं तु इति । व्याकरणप्रणयनं प्रधानतया न योगिनां कृते, तेषां व्याकरणमन्तराऽपि साध्वसाधुविवेकस्य सन्नवादिति भावः । तत्रैव = आदेजाद्यर्थे एवं सङ्केतग्राहकाणाम् = शक्तिग्राहकाणाम्, शास्त्राणाम् 'वृद्धिरादैच्' इत्यादिसंज्ञासूत्राणाम् करणे भगवतः पाणिनेरिच्छेव नियामिका। एषाम् संज्ञाशब्दानाम्, यदृच्छाशब्दत्वेन व्यवहार इति । ' इति च' इत्यनन्तरं 'व्यवहारः' इति पदमनुवत्यं योजनीयम् ।
ननु बोधजनकताशक्तेः वैयाकरणमते नित्यत्वात् कथं संज्ञासु आधुनिकत्वव्यवहारः ? इत्यत आह - एतदिति । वृद्ध्यादिपदसङ्केतज्ञानात् पूर्वमंत्र वृद्धयादिपदे आदेच् बोधजनकत्वाज्ञानात् संज्ञासु अनित्यत्वव्यवहारः । अत एव = संज्ञानामनित्यत्वव्यवहारादेव । यथा स्थानं तस्याः तस्याः संज्ञायाः करणेन तज्ज्ञानरूपप्रकरणवलेन प्राकरणिकस्यैव अर्थस्य प्रतीतेः अन्यस्य अप्राकरणिकस्य न इत्येतन्मूलिका 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः' इत्येषा परिभाषा संख्यासूत्रे भाष्ये उक्ता । अन्यथा संज्ञायाः नित्यत्वाद् अकृत्रिमत्वेन, कृत्रिमत्वेन तस्याः ग्रहणे प्रभाणाभावात् तदसङ्गतेर्दुर्वार- स्वात् । सङ्केतग्राहके संज्ञासूत्रे कृते तु तत्सङ्केतज्ञानरूपप्रकरणबलात् प्राकरणिकस्यैव ग्रहणं नान्यस्य इति अप्राकरणिकस्य व्यावृत्त्या फलितं नियममादाय संज्ञासूत्रे नियमत्वव्यवहारः । प्रकरणस्याभिधानियामकत्वं 'संयोगो विप्रयोगश्च' इत्यादिना अन्यत्र स्पष्टम् । 'व्यवहाराय नियमः' इति हरे: कारिकायाः अयमर्थः - क्वचित्, न तु सर्वत्र; गुणादिपदानाम् शास्त्रान्तरे अर्थान्तरदर्शनात् । संज्ञिनि = संज्ञापदवाच्ये । संज्ञायाः संज्ञिबोधिकायाः। व्यवहाराय व्यवहारार्थम् । नियमः = वृद्धयादिप्रयोगाणां नेयत्यमिति । वृद्धयादिपदेषु आदेजादिबोधजनकतायाः ज्ञानस्य उत्पादेऽपि बोधजनकतारूपायाः शक्तेरनुत्पादात् न शर्तोनित्यताहानिः । ननु टिघुघेत्यादीनां कथं साधुत्वम् तेषां शब्दानां व्याकरणेन अव्युत्पादनात् ? अत आह- आसाचेति । संज्ञायां साधुत्वं शिष्टानां प्रयोगादित्यवधेयम् ।
कार्यकालपक्षे 'मृजेर्वृद्धिः' (७.२.११४) इत्यादौ वृद्धिपदार्थजिज्ञासायां 'वृद्धि- रावैच्' (१.१.१) इत्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोधः । अत एव ष्यङः सम्प्रसारणम्' (६.१.१३) इति सूत्रे भाष्ये- 'कार्यकाल संज्ञापरिभाषं भस्येत्युपस्थितमिदं भवति - यचि भमिति' इत्युक्तम् । ईदूदेद्' (१.१.११) इति सूत्रे भाष्येऽपि 'कार्यकालं संज्ञापरिभाषम्, प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति - ईदूदेद् दिवचनं प्रगृह्यम्' इति । 'निष्ठा' (३.२.१०२) इति सूत्रे कैयटोऽपि “निष्ठेत्युक्ते संज्ञावाक्यं 'क्तक्तवतू 'निष्ठा' इति स्मर्यते" इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि तत्प्रवेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रवेशान्तरस्थे बोधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थ बोधः । यथोद्देशे तु एकवैव शक्तिग्रहात् सर्वत्र बोध इति विशेषः । एतेन "कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव; आवैच्पदार्थस्य वृद्धिविशेषणतया विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । यत्र वृद्धिपदं तत्रावैजित्युपतिष्ठते इति क्रमेण संज्ञा- सूत्राणामर्थात्" इत्यपास्तमित्यन्यत्र विस्तरः ।
यथोद्देशपक्षे संज्ञाशास्त्रस्य स्वदेशे एव वाक्यार्थबोधात् तत्र आदेचोरविधीयमान- त्वेन सवर्णग्रहणात् कृष्णकत्वम् गङ्गोषः इत्यादी आन्तरतम्यात् त्रिमात्रचतुर्मात्रा आदेशाः स्युरिति तद्वारणाय वृद्धिसंज्ञासूत्रे तपरकरणस्य परार्थता। पर कार्यकालपक्षे तु- यत्र वृद्धिपदं श्रूयते, तत्रादैच् इत्युपतिष्ठते – इत्यर्थस्य सत्त्वात् आदैच्पदाऽभिन्ना वृद्धि - भवतीति पदेकवाक्यतया बोधात् एचो विधीयमानेन अणुदित्सूत्राप्रवृत्त्या सवर्णग्रहणस्य अप्राप्तत्वात् त्रिमात्रचतुर्मात्रादेशानां प्रसङ्गाभावात् तद्वयावृत्तये क्रियमाणं तपराच्चारणं न परार्थतया सप्रयोजनम् इति कस्यचिन्मतं निराचिकीर्षुः प्रसङ्गात् प्रक्रमते - कार्यकाल इति ।
कार्यकालपक्षे ‘मृजेर्वद्धिः' इत्यादिषु वद्धिविधायकसूत्रेषु वृद्धिपदार्थः कः ? इति जिज्ञासा संज्ञाशास्त्राणां स्वदेशे वाक्याथबोधे जातेऽपि उपेक्षया अनुत्पन्नतद्विषयक- संस्कारस्य पुरुषस्य जायते; संस्कारं विना तस्य स्मरणानुपपतेः । ततो वृद्धिसंज्ञासूत्रस्य विधिसूत्रदेशे समाकर्षणेन वाक्यैकवाक्यतया (न तु पदैकवाक्यतया) वृद्धिः आत् ऐचश्च भिन्ना इत्येवंरूपया विधिसूत्रेण सहान्वयः । एवञ्च अस्मिन्नपि पक्षे एचोऽविधेयत्वेन सवर्ण- ग्रहणेन भिन्नकालस्य प्लुतस्य व्यावृत्तये परार्थमपि तपरकरणम् ,। उभयस्मिन्नपि पक्षे भिन्ना एकवाक्यता समानेति एकपक्षे तस्थाविधेयत्वे अपरस्मिन्नपि पक्षे तथैव युक्तम्; पदैकवाक्यताया अस्वीकारात् ।
अमुमेवार्थं द्रढयितुं भाष्यमुपन्यस्यति - अत एवेति । वाक्यैकवाक्यतायाः स्वीकारादेवेत्यर्थः । इत्युक्तमिति । पदैकवाक्यतयान्वयस्वीकारे तत्र 'आदेच्' इत्यस्यो- पस्थितेर्वक्तव्यतया भस्यति संज्ञासूत्रस्योपस्थितेः प्रतिपादनमसङ्गतं स्यात् । एवं प्रगृह्यसंज्ञासूत्रस्य 'प्लुतप्रगृह्या' इति सूत्रे उपस्थितिर्भाष्योक्ता असङ्गता स्यात् । कैयटोऽपि निष्ठासूत्रे उक्के 'तक्तवतू निष्ठा' इति सूत्रं सस्मार । अतस्तेनापि स एवार्थः प्रमाणीकृतः ।
किश्च, पदेकवाक्यता वृद्धिपदश्रवणेन 'आदेच्' इत्यस्योपस्थित्या तेन सह वृद्धिपदस्यान्वयेऽपि ऐपदार्थस्यानुपस्थितत्त्वात् पदार्थेन सह विधिवाक्यार्थस्य नान्वयप्रसङ्गः ॥
अत्र कार्यकाले । एकत्र एकस्मिन् विधिसूत्रे संज्ञाशब्दानां शक्तिग्रहे वृत्तेऽपि= जातेऽपि तत्प्रदेशस्यैव संज्ञापदस्य अयमर्थो नान्यप्रदेशस्यस्य तस्येति सन्देहे प्रदेशान्तर स्थेन तत्पदेन तादृशार्थबोधो न स्यात्, अतः सर्वेषु विधिप्रदेशेषु संज्ञासूत्राणामुपस्थित्या संज्ञापदबोध्यनिर्णये न विधिवाक्यार्थबोध: । एतेन पक्षद्वयेऽपि पदार्थतया तपरस्यावश्य- कत्वेन । वृद्धिविशेषणेति । वृद्धिविशेषणं यस्येति बहुव्रीहिः । कमेण = रीत्या । इत्यन्यत्रेति । उद्दघोतादौ । स्वदेशे वृद्धिपदार्थे ज्ञातेऽपि उपेक्षया तत्संस्काराभावेन स्मरणानुत्पत्त्या विधिप्रदेशे वृद्धिपदार्थे जिज्ञासिते तत्र संज्ञाविधायकं सूत्रमुपतिष्ठते कार्य- कालपक्षे इति नव्यमताशयः ।
केचित्तु कीदृशोऽसौ जडमतिः बहुशो बोधितोऽपि प्रतिविधिसूत्रं पुनः पुनः तद् जिज्ञासते । का वृद्धिः ? को गुणः ? इत्यादिजिज्ञासायाः त्रिचतुरस्यलेषु सम्भवेऽपि सर्वत्र तथा स्वीकार आग्रहमूलक एव इति वदन्ति ।
अत्रातद्भावितानामपि आदैचां ग्रहणम्, तेन शालीयादिसिद्धिः ॥
वृद्धिशब्देन यत्र आकारेकारौकाराः विधीयन्ते तेषामेव न वृद्धिसंज्ञा; किन्तु स्वयं सिद्धानामपि तेषां सा संज्ञा इत्याह-अतद्भावितानामिति । एतस्य स्वीकारादेव शाला शब्दघटकाद्याकारस्य स्वयंसिद्धस्यापि वृद्धिपदेन ग्रहणात् 'वृद्धियंस्याचाम्' इति वृद्धि संज्ञा सिद्धा ततश्छप्रत्ययश्च सिध्यति । तद्भावितस्य वृद्धिसंज्ञायान्तु अत्र वृद्धिसंज्ञा न स्यात् । तथा च वृद्धसंज्ञाया विरहेण छप्रत्ययस्यानुपपत्तेः । अत्र = वृद्धिसंज्ञासूत्रे । अतद्भावितानाम् = तेन वृद्धिशब्देन भाविताः विहिताः ये; तद्भिन्नानाम् । अपि-शब्देन तद्भावितानां संग्रहः । तेन उभयविधग्रहणेन । शालीयादीति । आदिपदेन 'तावद्भार्यः' इत्यादिरपि संग्राह्यः । अत्र 'आ सर्वनाम्नः' इत्यनेन आकारशब्देन आकारस्य विधानात् तद्भाविता वृद्धिरिति वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारें' इत्यनेन पुंवद्भावः सिद्धः । तद्भावितस्याग्रहणे तु अत्र वृद्धिसंज्ञाया अप्रवृत्ती पुंवद्भावासिद्धिप्रसङ्गात्॥
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
वृद्धिरा । वृद्धि, आत् ऐजिति पदत्रयमिति न समासान्तादिप्रवृत्तिशङ्का । तपरकरणमसन्देहार्थतया पूर्वार्थम् प्रकृतसूत्रे भाष्येऽत्र शास्त्रे गुणानामभेदकत्वं ज्ञापकादाश्रित्य सवर्णग्रहणार्थत्वाभावस्योक्तत्वात् । 'कृष्णौत्कण्ठ्यं', 'गङ्गौघ' इत्यादौ त्रिमात्रव्यावृत्तये परार्थमपि वृद्धिशब्दोऽत्र पदपरोऽर्थपरत्वासम्भवात् । 'आदैचो वृद्धिपदाऽभिन्ना' इति वाक्यार्थः पदपदार्थयोस्तादात्म्यस्याङ्गीकारात् । 'रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः' इत्यादौ तयोरभेदप्रतीतेरनुभवसिद्धत्वादित्यन्यत्र विस्तरः ।
“वृद्धिरादैच्” इस सूत्र की व्याख्या करते हुए कह रहे हैं कि इस सूत्र में वृद्धि, आत् और ऐच् तीन पद हैं । यहाँ तीन पदों को बताने का कारण यह है कि यहाँ आत् और ऐच का समाहार द्वन्द्व करके “आदैच्” यह एक पद है, ऐसी भ्रान्ति न हो जायः क्योंकि समाहारद्वन्द्व करने पर “द्वन्द्वाच्चुदषहान्तात् “सूत्र से टच् की आपत्ति होती, जिससे सूत्र का उक्त रूप नहीं बनता । यदि कहा जाय कि समाहारद्वन्द्व न करके यहाँ इतरेतरयोग द्वन्द्व कर दिया जाय तो क्या आपत्ति है ? किन्तु यह कहना ठीक नहीं है, क्योंकि इतरेतरयोग द्वन्द्व करने पर द्विवचन की आपत्ति यहाँ होने लगती । वस्तुतस्तु “द्वित्रिभ्यां पाददन्मूर्धसु” इस सूत्र में “द्वित्रिभ्यां षो मूर्ध्नः” इस सूत्र से समासान्त ष प्रत्यय होकर “मूर्धेषु' ऐसा पाठ करना चाहिए था, किन्तु वैसा न करके “मूर्धसु” इस प्रकार के पाठ करने से यह समझा जाता है कि समासान्तविधि अनित्य होती है । ऐसी स्थिति में “आदैच्” पद में यदि समाहारद्वन्द्व भी माना जाय तो कोई आपत्ति नहीं है । किन्तु अनित्यत्व के अगतिकगति होने के कारण नागेश भट्ट ने यहाँ द्वन्द्व समास नहीं माना। इसीलिए वे कहते हैं कि इस सूत्र में वृद्धिः, आत् और ऐच् ये तीन पद हैं । इस सूत्र में “आत्” इस पद में किया गया तपरकरण बहुव्रीहि और पञ्चमीतत्पुरुष दोनों समासों का उदाहरण होने के कारण पूर्वार्थ (आकार) तथा परार्थ (ऐच) दोनों के लिए है । तात्पर्य यह है कि बहुब्रीहि समास के द्वारा आकार तपर होता है, इसलिए वह अपने समकाल सवर्णी छै दीर्घ आकारों का ही बोधक है । इसी प्रकार पञ्चमी समास से ऐच तपर होता है, इसलिए वृद्धि संज्ञा द्विमात्रिक 'ऐ औ' की ही होती है ।
यदि कहा जाय कि इस सूत्र का “आकार” अण् नहीं है, क्योंकि अण् कहलाने के लिए णकारादि चिह्नों से युक्त होना आवश्यक होता है । ऐसी स्थिति में जब 'अणुदित्' सूत्र से आकार के सवर्णी का ग्रहण प्राप्त ही नहीं था तो उसकी निवृत्ति के लिए “आत्” का तपरकरण निरर्थक है । इस शंका के उत्तर में कह रहे हैं कि यद्यपि इस प्रकार तपरकरण अनावश्यक है, तथापि उसके अभाव में “आ + ऐच्” इस स्थिति में वृद्धि हो जाती । फलस्वरूप यहाँ स्पष्ट प्रतिपत्ति नहीं होती कि यहाँ अकार है या आकार ? इसलिए इस प्रकार के सन्देह की निवृत्ति कराकर असन्देह के लिए तपरकरण आवश्यक है । इस प्रकार असन्देहार्थक होता हुआ यह पूर्वार्थ भी है । अर्थात् आकार के समकाल सवर्णी के ग्रहणार्थ भी है ।
यदि कहा जाय कि “गुणा भेदका:” इस पक्ष में गुण के भेदक होने के कारण आकार के समकाल सवर्णों का ग्रहण सिद्ध नहीं था, इसलिए तपरकरण समकाल सवर्णों का ग्रहण कराने के लिए आवश्यक है । ऐसी स्थिति में इसे असन्देहार्थं कहना उचित नहीं है ? इस शंका के उत्तर में कह रहे हैं कि अत्र शास्त्रे = व्याकरणाशास्त्र में “अस्थिदधि” सूत्र के उदात्तप्रहण से “गुणा अभेदका:” ऐसा ज्ञापन किया गया है । ऐसी स्थिति में प्रकृत सूत्र = “वृद्धिरादैच्” में आकार के सवर्णी का ग्रहण इसी शापित परिभाषा से ही सम्भव है । इसलिए “आत्” का तपरकरण सवर्णग्रहण के लिए आवश्यक नहीं है किन्तु असन्देहार्थ ही है । इस प्रकार असन्देहार्थ तपरकरण प्रसंगवश पूर्ववर्ती आकार के कालावधारण के लिए भी हो जाता है ।
जैसा कि ऊपर कहा जा चुका है कि तपर शब्द में “तात्परः तपरः “इस प्रकार पंचमी समास भी है । इसलिए आत् का तपरकरण परार्थ = ऐच के कालावधारण के लिए भी है । इसका फल यह होता है कि “कृष्णौत्कण्ठ्यम्” और “गङ्गीघः” जैसे स्थलों में जहाँ स्थानी त्रिमात्रिक और चतुर्मात्रिक है, वहाँ त्रिमात्रिक वृद्धि नहीं होती, क्योंकि तपर के प्रभाव से द्विमात्रिक ऐ और औ की ही वृद्धि संज्ञा होती है ।
इस सूत्र में वृद्धि शब्द पदपरक है अर्थपरक नहीं है, क्योंकि यहाँ इसका अर्थपरकत्व सम्भव नहीं है । तात्पर्य यह है कि इस सूत्र के द्वारा आदैच् को उद्देश्य करके वृद्धि संज्ञा का विधान किया जाता है । वृद्धि संज्ञा है और आदैच् संज्ञी हैं । यह संज्ञा - संज्ञीभाव इसी सूत्र के द्वारा बताया जाता है । इस सूत्र के अतिरिक्त किसी अन्य सूत्र से यदि वृद्धि का संकेत आदैच् अर्थ में कर दिया गया होता तब सम्भव था कि वृद्धि शब्द यहाँ अर्थपरक हो जाता, किन्तु आदैच् अर्थ - निरूपित शक्ति 'वृद्धि' इस पद में है, ऐसा संकेतग्रह यही सूत्र कराता है । इसलिए सम्भव नहीं है कि इसे यहाँ अर्थपरक माना जाय । संज्ञासूत्र में संज्ञा शब्द तो स्वरूप परक ही होते हैं । अन्यत्र जाकर वे अर्थपरक हो जाते हैं । इस प्रकार वृद्धि शब्द यहाँ पदपरक स्वरूपपरक है । वैयाकरण सम्प्रदाय में पद और पदार्थ का तादात्म्य सम्बन्ध होता है । तादात्म्य का अर्थ है - भेदसहिष्णु अभेद । इसलिए “आदैच वृद्धि पद से अभिन्न हैं” ऐसा यहाँ वाक्यार्थबोध होता है ।
“रामेति दूधक्षरं नाम मानभङ्गः पिनाकिनः” अर्थात् दो अचों वाला 'राम' यह नाम पिनाकी का मानभङ्ग है । यहाँ राम के द्वारा हुए पिनाकी के मानभङ्ग को “राम” इस दो अक्षरवाले पद से हुआ बता कर इसी बात की ओर संकेत किया गया है कि पद और पदार्थ में तादात्म्य है । इसीलिए अर्थ से किये गये कार्य को 'पद से किया गया' कहा गया है । इस प्रकार पद और पदार्थ की अभेद प्रतीति अनुभवसिद्ध है । यह बात अन्यत्र मञ्जूषा नामक ग्रन्थ में विस्तार से कही गई है । पद - पदार्थ का यह तादात्म्य भेद सहिष्णु अभेद है । इसीलिए मधु शब्द के उच्चारण से माधुर्य की आपत्ति तथा अग्नि शब्दोच्चारण से मुखदाह की आपत्ति नहीं होती है ।
वृद्धिशब्दस्य सञ्ज्ञात्वन्तु - व्याख्यानात् । विधेयत्वेऽपि तस्य पूर्वपाठो मङ्गलार्थः । 'अपृक्त एकालि' त्यादौ तथा करणं - विधेयस्य प्रथम प्रयोगेऽसाधुत्वभ्रमनिवारणायेति भाष्ये स्पष्टम् । सर्वशब्दानां सर्वार्थवाचकत्वेऽपि वाचकत्वस्य गृहीतस्यैव बोधजनकतया सञ्ज्ञासूत्राणामज्ञातशक्तिज्ञापकतया विधित्वम् । किञ्च 'सर्वे सर्वार्थाः' इत्यभ्युपगमो योगिदृष्ठ्या नास्मदृदृष्ट्या, सर्वशब्दानामर्थानाञ्च विशिष्य ज्ञानाभावात् । सामान्यतस्तथा ज्ञानञ्च न बोधोपयोगि, शास्त्रन्त्वस्मदाद्युद्देशेनैव प्रवृत्तमिति बोद्ध्यम् । तत्रैव सङ्केतग्राहकशास्त्रकरणं स्वेच्छयैवेत्येषां 'यदृच्छा'शब्दत्वेन व्यवहारः, 'स्वेच्छया सञ्ज्ञाः क्रियन्त' इति च । एतदुपदेशरूपसङ्केतात्प्राक् तत्र सञ्ज्ञात्वाग्रहेण तासामनित्यत्वव्यवहारः । अत एव तत्तत्सञ्ज्ञाकरणज्ञानरूपप्रकरणादन्यार्थाग्रहणरूपनियमः कृत्रिमाकृत्रिम'न्यायमूलतयोक्तः सङ्ख्यासञ्ज्ञासूत्रे भाष्ये । आर्थिकमेवानुं नियममादाय सञ्ज्ञासूत्रेषु नियमत्वव्यवहारः - 'व्यवहाराय नियमः सञ्ज्ञायाः सञ्ज्ञिनि क्वचिदित्यादिना कृतः । वाचकताबोधकत्वेऽपि तदनुत्पादकत्वान्न शब्दार्थसम्बन्धनित्यताहानिः । आसाञ्च शिष्टप्रयुक्तत्वात्साधुत्वमित्यन्यत्र विस्तरः ।
इस सूत्र में वृद्धि शब्द संज्ञा है और आदैच् संज्ञी हैं । प्रश्न होता है कि यहाँ इसके विपरीत क्यों न माना जाय ? अर्थात् आदैच् ही संज्ञा है और वृद्धि संज्ञी है, ऐसा क्यों न माना जाय ? इसका उत्तर देते हुए कह रहे हैं कि वृद्धि शब्द का जो संज्ञात्व है वह व्याख्यान के आधार पर है । वह व्याख्यान इस प्रकार है - यदि आदैच् को संज्ञा मानेंगे तो वृद्धिरूप संज्ञी की तीन संज्ञाएँ (आ, ऐ, औ) हो जाती हैं । एक की अनेक संज्ञा करने का कोई प्रयोजन नहीं है । इसके विपरीत आदैच् को संज्ञी और वृद्धि को संज्ञा मानने में लाघव है कि तीन की एक ही संज्ञा हो जाती है । इस प्रकार के व्याख्यान से वृद्धि शब्द संज्ञा है । अब यह प्रश्न होता है कि यदि वृद्धि संज्ञा है और इसलिए यह विधेय है तो उद्देश्य के बाद (आदैच्) के बाद इसका पाठ होना चाहिए, क्योंकि उद्देश्य को कहे बिना विधेय का कहना उचित नहीं है ? इस प्रश्न के उत्तर में कह रहे हैं कि विधेय होने पर भी इसका पहले पाठ पाणिनि ने मङ्गल के लिए किया है । प्रन्थ के आदि में मङ्गल करना शिष्टाचार है । पाणिनि का ग्रन्थ “अष्टाध्यायी” का प्रथम सूत्र होने के नाते वृद्धि शब्द का यहाँ पूर्वपाठ मङ्गलार्थक किया गया है ।
अब यह विचार हो रहा है कि यहाँ विधेय होने पर भी प्रन्यादि में मङ्गलार्थ वृद्धि शब्द का पाठ पूर्व में कर देना उचित हो सकता है, किन्तु “अपृक्त एकाल् प्रत्यय:” इस सूत्र में जहाँ एका प्रत्यय को उद्देश्य बना कर अपृक्त संज्ञा विधेय है वहाँ विधेय “अपृक्त” इस पद का पूर्वप्रयोग क्यों किया गया है ? इस प्रश्न का उत्तर देते हुए कह रहे हैं कि विधेय का पूर्व - प्रयोग करने पर वह असाधु प्रयोग हो जाता है इस प्रकार भ्रम के निवारण के लिए ही “अपृक्त एकाल्” आदि स्थलों में विधेय का पूर्वप्रयोग किया गया है । यहाँ आदि शब्द से “स्वं रूपम्”, “तपरः”, “येन विधिः” इत्यादि स्थलों को समझना चाहिए । इन सभी जगहों पर विधेय का पूर्वप्रयोग हुआ है । “स्वं रूपम्” इस सूत्र में शब्द को उद्देश्य करके स्वरूपबोधकता विधेय है । “तपरस्तत्कालस्य “सूत्र में तत्काल तो संज्ञी है और तपर यह संज्ञा है । इस प्रकार यहाँ भी संज्ञावाचक शब्द का पूर्वप्रयोग है । इसी प्रकार “येन विधि:” इस सूत्र में भी येन विधिः = अर्थात् विशेषण यह संज्ञा है और तदन्त संज्ञी है । इस प्रकार इन जगहों पर विधेय का अथवा संज्ञा शब्द का पूर्वप्रयोग किया गया है । इन प्रयोगों से यही निष्कर्ष निकलता है कि यदि कहीं इस प्रकार का प्रयोग हो तो उसे असाधु नहीं समझना चाहिए ।
अब यह विचार प्रस्तुत है कि संज्ञासूत्र नियमार्थक है या विध्यर्थक ? नियमार्थक मानने वालों का कहना है कि “सर्वे सर्वार्थवाचकाः” अर्थात् सभी शब्द सभी अर्थों के वाचक होते हैं । ऐसी स्थिति में “आदैच्” रूपी अर्थ वृद्धि शब्द का पहले से ही है । इस पहले से सिद्ध अर्थ के सम्बन्ध में “वृद्धिरादैच” यह सूत्र नियम करता है कि इस व्याकरणशास्त्र में वृद्धि शब्द आदैच् का ही बोधक है । इस प्रकार यह सूत्र नियमार्थक है । नागेश भट्ट इस बात से असहमत हैं । इनका कहना है कि यद्यपि “सर्वे सर्वार्थवाचका:” इस नियम से सभी शब्द सभी अर्थों के वाचक होते हैं तथापि जब तक वाचकता गृहीत नहीं होती वह बोधजनिका नहीं हो सकती है । गृहीतवाचकत्व शब्द में ही बोधजनकत्व रहता है । इस शब्द में इस अर्थनिरूपित शक्ति है, इस प्रकार शक्तिज्ञान होने के पश्चात् ही उस शब्द से उस अर्थ का बोध होता है । संज्ञासूत्र यही कार्य करते हैं । ये अज्ञातशक्ति के ज्ञापक होते हैं । “वृद्धिरादैच्” सूत्र के पहले यह बात ज्ञात नहीं थी कि वृद्धि पद में आदैच् रूप अर्थ को कहने की शक्ति है । यह बात तो “वृद्धिरादैच् “सूत्र के द्वारा ही विदित होती है । इसलिए संज्ञासूत्र अज्ञातशक्तिज्ञापक होने के कारण विधिसूत्र न कि नियमसूत्र ।
दूसरी बात यह है कि “सर्वे सर्वार्थवाचकाः” यह नियम भी योगियों की दृष्टि से है, न है, कि हम लोगों की दृष्टि से योगियों को ही योगज दृष्टि से शब्दार्थोभयात्मकपरा का प्रत्यक्ष होता है । हम लोगों को तो न तो सभी शब्दों का ज्ञान है और न सभी अर्थों का ज्ञान। हम लोगों के लिए तो शास्त्रकार का संकेत ही शब्दार्थावबोध का साधन है । यदि कहा जाय कि हमें विशेष ज्ञान यद्यपि नहीं है किन्तु सामान्य ज्ञान तो है ही कि सभी शब्द सभी अर्थों के वाचक होते हैं । इसी ज्ञान से शास्त्र में भी कार्य चलाया जा सकता है । इस सम्बन्ध में नागेश भट्ट कह रहे हैं कि सामान्य रूप से वैसा ज्ञान शास्त्रीय बोध के लिए उपयोगी नहीं है । क्योंकि सामान्य ज्ञान से शास्त्रीय प्रक्रिया का निर्वाह नहीं हो सकता । यदि कहा जाय कि योगियों के विशेष ज्ञान से निर्वाह कर लिया जाय, शास्त्र की क्या आवश्यकता है ? तो इसका उत्तर देते हुए कह रहे हैं कि शास्त्र की प्रवृत्ति तो हम लोगों के उद्देश्य से होती है, क्योंकि योगियों के विशेष ज्ञान से शास्त्रीय प्रक्रिया का निर्वाह नहीं हो सकता और जिन्हें शास्त्रीय प्रक्रिया की आवश्यकता हैं उन्हें विशेष ज्ञान है नहीं, इसलिए शास्त्र की प्रवृत्ति होती है । पाणिनि ने वृद्धि पद का संकेत “आदैच्” अर्थ में किया है । गुण पद का संकेत “अदेङ्” अर्थ में किया है । इस प्रकार तत्रैव = आदैच् आदि अर्थों में ही संकेतग्राहक शास्त्र “वृद्धिरादैच्” आदि का प्रणयन करने से विदित होता है कि पाणिनि ने यह सब कार्य स्वेच्छया किया है । इसलिए एतेषाम् = वृद्धि - गुण आदि संज्ञा शब्दों को यदृच्छा शब्द कहा जाता है । इसीलिए यह भी व्यवहार होता है कि संज्ञाएँ स्वेच्छा से की जाती हैं । “वृद्धिरादैच” आदि संज्ञासूत्रों के उपदेशरूप संकेतग्रह से पहले तत्र वृद्धि आदि पदों में संज्ञात्व का ज्ञान नहीं होता है । वृद्धि संज्ञा है । और आदैच् संज्ञी हैं, यह बात तो “वृद्धिरादैच्” सूत्र के उपदेश के बाद ही ज्ञात होती है, इसलिए संज्ञाओं में अनित्यत्व का व्यवहार किया जाता है । तात्पर्य यह है कि पाणिनि के पहले ये संज्ञाएँ नहीं थीं। पाणिनि ने जब इन्हें बनाया तब ये अस्तित्व में आई । इसलिए संज्ञाएँ अनित्य हैं, ऐसा लोकव्यवहार होता है ।
अत एव = संज्ञा के विषय में अनित्यत्व का व्यवहार होने से ही यह बात भी कही जाती है कि संज्ञासूत्र नियमार्थक हैं । तात्पर्य यह है कि “सर्वे सर्वार्थवाचका:” इस नियम के आधार पर वृद्धि शब्द अन्य अर्थों के साथ आदैच् अर्थ का भी वाचक है, किन्तु इस व्याकरणशास्त्र में जब वृद्धि संज्ञा कर दी गई, तब संज्ञाकरणज्ञानरूप प्रकरण से यह निष्कर्ष निकलता है कि यहाँ वृद्धि शब्द से वर्धन आदि अन्य अर्थ का ग्रहण नहीं होता है, किन्तु केवल “आदैच” का ही ग्रहण होता है । संज्ञासूत्रों की यह आर्थिक नियमार्थता (न कि वास्तविक नियमार्थता) ही “कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः” इस न्याय का मूल है । आदैच् अर्थ में तिरोहित शक्ति को संज्ञा बनाकर व्यक्त करने के कारण वृद्धि शब्द से कृत्रिमत्वात् आदैच् अर्थ का ही ग्रहण होता है, न कि अकृत्रिम वर्धन रूपी अर्थ का ग्रहण। जैसा कि ऊपर कहा जा चुका है । कि संज्ञासूत्रों में आर्थिक नियम की प्रतीति होती है । इस आर्थिक नियम को लेकर ही भर्तृहरि ने संज्ञासूत्रों में नियमत्व का व्यवहार करते हुए कहा है कि “व्यवहाराय नियमः संज्ञायाः संज्ञिनि क्वचित्” अर्थात् कहीं किसी संज्ञी में संज्ञा का नियम व्यवहार के लिए होता है ।
“वृद्धिरादैच्” सूत्र से आदैनिष्ठ वाच्यतानिरूपित वाचकता का वृद्धि पद में विधान करने से ऐसा प्रतीत होता है कि इसके पहले वृद्धि पद में आदैच् की वाचकता नहीं थी । ऐसी स्थिति में भाष्यकार का यह कथन कि “सिद्धे शब्दार्थसम्बन्धे” अर्थात् शब्द और अर्थ का वाच्यवाचकभाव सम्बन्ध नित्य है, कैसे संगत होगा ? इस प्रश्न के उत्तर में कह रहे हैं कि “वृद्धिरादैच्” सूत्र वृद्धि पद में रहने वाली वाचकता का केवल बोधक ही है, उत्पादक नहीं है । वृद्धि पद का आदैच् अर्थ के साथ वाच्यवाचकभाव सम्बन्ध जो नित्य है उसी का बोधन “वृद्धिरादैच्” के द्वारा किया जाता है । इस प्रकार शब्दार्थसम्बन्ध के नित्यत्व की हानि नहीं होती है ।
अब विचार यह होता है कि ये जो टि, घि, घु, भ आदि संज्ञाएँ हैं ये व्याकरणलक्षणनिष्पन्न तो हैं नहीं, ऐसी स्थिति में इन्हें साधु कैसे माना जाय ? इस प्रकार की आशंका के उत्तर में कह रहे हैं कि शिष्टजन से (पाणिनि आदि के द्वारा) प्रयुक्त होने के कारण आसाम् टि - घु - भ आदि संज्ञाओं का साधुत्व है । यह बात मञ्जूषादि ग्रन्थों में विस्तार से कही गई है ।
कार्यकालपक्षे 'मृजेर्वृद्धिरित्यादौ वृद्धिपदार्थजिज्ञासायां 'वृद्धिरादैजि'त्युपस्थित्या तदर्थबोधरूपे शक्तिग्रहे वृत्ते विधिवाक्यार्थबोध: । अत एव 'ष्यड: सम्प्रसारणमिति सूत्रे भाष्ये “कार्यकालं सञ्ज्ञापरिभाषं”, “भस्ये"त्युपस्थितमिदं भवति - 'यचि भमिती'त्युक्तम् । 'ईदूदेदि'ति सूत्रे भाष्येऽपि - 'कार्यकालं सञ्ज्ञापरिभाषं, 'प्रगृह्यः प्रकृत्ये'त्युपस्थितमिदं भवति - 'ईदूदेद् द्विवचनं प्रगृह्यमि'ति । “निष्ठे"ति सूत्रे कैयटोऽपि - 'निष्ठे' त्युक्ते सञ्ज्ञावाक्यं - 'क्तक्तवतू निष्ठेति स्मर्यते इत्याह । अत्र पक्षे एकत्र शक्तिग्रहे वृत्तेऽपि 'तत्प्रदेशस्थस्यैव तत्रार्थे शक्तिरिति सम्भावनया प्रदेशान्तरस्थे योधो न स्यादिति सर्वप्रदेशेषु तत्तत्पदशक्तिग्रहपूर्वकं विधिवाक्यार्थबोध: । यथोद्देशे तु एकदैव शक्तिग्रहात्सर्वत्र बोध इति विशेषः । एतेन - “कार्यकालपक्षे तपरत्वं स्पष्टार्थमेव, आदैच्पदार्थस्य वृद्धिविशेषणतया विधेयत्वेन सवर्णग्रहणाप्रसक्तेः । 'यत्र वृद्धिपदं तत्रादैजित्युपतिष्ठते' इति क्रमेण सञ्ज्ञासूत्राणामर्थात् इत्यपास्तमित्यन्यत्र विस्तरः । अत्रातद्भावितानामपि आदैचां ग्रहणं, तेन शालीयादिसिद्धिः ।
“वृद्धिरादैच्” सूत्र में आत् का तपरकरण पंचमी समास के द्वारा परार्थ (ऐच) के लिए है । इसलिए वृद्धि संज्ञा त्रिमात्रिक को नहीं होती है । यह बात पहले कही जा चुकी है । कुछ लोगों का कहना है कि यह जो परार्थ की बात कही गई है वह यथोद्देशपक्ष में ही सम्भव है, कार्यकाल पक्ष में सम्भव नहीं है । इसका कारण यह है कि यथोद्देश पक्ष में संज्ञासूत्र का वाक्यार्थबोध स्वदेश में होता है । उसी वाक्यार्थबोध से सभी शास्त्र में निर्वाह किया जाता है । इस यथोद्देशपक्ष में आदैच् जब उद्देश्य है, तब उसमें विधेयता का अभाव होने के कारण अण्त्वेन उसके सवर्णी का ग्रहण प्राप्त रहता है । यदि आदैच् विधेय होते तो भाव्यमान परिभाषा से उनके सवर्णी के ग्रहण का निषेध हो जाता, किन्तु यथोद्देश पक्ष में यह बात होती नहीं, इसलिए ऐच के सवर्णी का ग्रहण न होने लगे इसलिए तपरकरण परार्थ है ।
कार्यकाल पक्ष में तो संज्ञासूत्र की विधिसूत्र के साथ एकवाक्यता (पदैकवाक्यता होती है, अर्थात् संज्ञासूत्र का अपेक्षित पद विधिसूत्र में जाता है, तब उसे मिला कर विधिसूत्र का वाक्यार्थबोध होता है । उदाहरण के लिए “वृद्धिरेचि” सूत्र में वृद्धि पदार्थ की जिज्ञासा होने पर “वृद्धिरादैच्” का “आदैच्” पद यहाँ आता है । उस समय “वृद्धिरेचि” का वाक्यार्थबोध इस प्रकार होता है कि अवर्ण से एच के पर में रहने पर पूर्व पर के स्थान पर “आदैच्” से अभिन्न वृद्धि आदेश होता है । इस प्रकार इस पक्ष में “आदैच्” की विधेयता स्पष्ट है । जब आदैच विधेय हो गया तब भाव्यमान परिभाषा से ही उसके सवर्णी का ग्रहण निषिद्ध हो जायेगा । ऐसी स्थिति में इस कार्य के लिए तपरकरण अनावश्यक है ।
नागेश भट्ट इस बात से अपनी असहमति बताते हुए कह रहे हैं - कार्यकाल पक्ष में “मृजेर्वृद्धिः” इत्यादि सूत्रों में जब वृद्धिपदार्थ की जिज्ञासा होती है, तब वृद्धिरादैच्” सूत्र की वहाँ उपस्थिति होती है । इसके बाद पहले “वृद्धिरादैच्” सूत्र का वाक्यार्थबोध होता है । इस प्रकार पदार्थोंपस्थिति होने से जब वृद्धि पद का शक्तिग्रह हो जाता है कि वृद्धि पद में आदैच् - निरूपित शक्ति है तब विधिसूत्र अर्थात् “मृजेर्वृद्धिः” आदि सूत्रों का वाक्यार्थबोध होता है । इस प्रकार इस पक्ष में संज्ञासूत्र और विधिसूत्र का पृथक् - पृथक् वाक्यार्थबोध होकर उनकी परस्पर में “उपजीव्योंपजीवक भावापन्नविषयताप्रयोजक” वाक्यैकवाक्यता होती है । संज्ञासूत्र का वाक्यार्थबोध उपजीव्य (उपकारक) है और विधिशास्त्र का वाक्यार्थबोध उपजीवक (उपकार्य) है । इस प्रकार कार्यकाल पक्ष में भी संज्ञासूत्र का ( वृद्धिरादैच्' का) वाक्यार्थबोध पृथक् होने के कारण “आदैच्” पद इस पक्ष में भी उद्देश्य कोटि में ही रह जाता है । परिणाम यह होता है कि “आदैच” के उद्देश्य होने के कारण भाव्यमान परिभाषा की यहाँ प्रवृत्ति नहीं हो सकती है, इसलिए ऐच के सवर्णी का ग्रहण न होने लगे इस कार्य के लिए तपरकरण की परार्थता इस पक्ष में भी सम्भव है । “तात्परः तपरः “इस विग्रह के आधार पर 'आत' का तपरकरण “ऐच्” के समकाल का नियामक होता है ।
अत एव = कार्यकाल पक्ष में सम्पूर्ण संज्ञासूत्र की विधिदेश में उपस्थितिपूर्वक पृथक वाक्यार्थबोध स्वीकार करने से ही “ष्यडः सम्प्रसारणम्” सूत्र का भाष्य संगत होता है । भाष्यकार ने वहाँ कहा है कि जहाँ 'भस्य' का अधिकार जाता है वहाँ भपदार्थ की जिज्ञासा होने पर कार्य - काल पक्ष में “यचि भम्” की उपस्थिति होती है । “ईदूदेद्विवचनं प्रगृह्यम्” सूत्र के भाष्य में भी कहा गया है कि संज्ञा और परिभाषा के विषय में कार्यकाल पक्ष होता है । जहाँ पर “प्रगृह्यः प्रकृत्या” अर्थात् प्रगृह्य को प्रकृतिभाव किया जाता है वहाँ कार्यकालपक्ष में जब प्रगृह्य पदार्थ की जिज्ञासा होती है तब वहाँ “ईदूदेद् द्विवचनं प्रगृह्यम्” सूत्र की उपस्थिति होती है । “निष्ठा” सूत्र के कैयट में भी कहा गया है कि जहाँ “निष्ठा” पद का कथन होता है वहाँ निष्ठा पदार्थ की जिज्ञासा होने पर कार्यकालपक्ष में “क्तक्तवतू निष्ठा” इस संज्ञासूत्र की स्मरणात्मक उपस्थिति होती है । उपस्थित सूत्रों के वाक्यार्थबोध होने के पश्चात् संज्ञा शब्द का शक्तिग्रह होता है और इसके बाद विधिसूत्र का वाक्यार्थबोध होता है; जैसा कि ऊपर कहा जा चुका है । इस प्रकार कार्यकाल पक्ष में भी तपरकरण परार्थ है, यही यहाँ का निष्कर्ष है ।
अब यथोद्देश और कार्यकाल पक्ष का भेद बताते हुए कह रहे हैं कि अत्र पक्षे कार्यकालपक्ष में भी संज्ञासूत्र का एक जगह (किसी एक विधिसूत्र स्थल में) शक्तिग्रह हो जाने पर भी उन वृद्धि आदि संज्ञा शब्दों को उस विधिप्रदेश में ही तत्तद् अर्थों में शक्ति है, इस संम्भावना से दूसरे प्रदेश में गये हुए वृद्धि शब्द की शक्ति का ज्ञान नहीं होगा । जैसे “वृद्धिरेचि” सूत्र में आने पर “वृद्धिरादैच्” का शाब्दबोधपुरः सर जब वृद्धि पद का शक्तिग्रह हो गया तब “मृजेर्वृद्धिः” सूत्र में गये हुए “वृद्धिरादैच्” सूत्र का वाक्यार्थबोध नहीं होगा, क्योंकि सम्भावना इस प्रकार की बनी हुई है कि आदैज् अर्थ वृद्धिपदवाच्य है, यह अर्थ “वृद्धिरेचि” सूत्रस्थल के लिए ही है । इसलिए सभी विधिप्रदेश में जहां संज्ञासूत्र की उपस्थिति होती है वहाँ उपस्थित संज्ञासूत्र के शाब्दबोध के साथ वृद्धि आदि संज्ञा शब्दों की शक्ति गृहीत होती है । इसके बाद विधिसूत्र का वाक्यार्थबोध होता है । यथोद्देश पक्ष में तो संज्ञासूत्र का स्वदेश में एक ही जगह और एक ही बार शब्दबोध होता है । इसी शक्तिग्रह से सभी विधिसूत्रों का बोध होता है ।
उपर्युक्त विवेचन का निष्कर्ष यह निकला कि यथोद्देश पक्ष हो या कार्यकाल पक्ष - “दोनों पक्षों में संज्ञासूत्र का वाक्यार्थबोध पृथक् होता है । कार्यकाल पक्ष में यह वाक्यार्थबोध विधिदेश में होता है, जब कि यथोद्देश पक्ष में संज्ञासूत्र के स्वदेश में ही होता है । इस प्रकार संज्ञासूत्र के वाक्यार्थबोध के बाद विधिसूत्र के साथ उसकी वाक्यैकवाक्यता होती है । इस प्रकार दोनों पक्षों में “वृद्धिरादैच्” का ऐच पद उद्देश कोटि में ही आता है । इस प्रकार उसके विधेय न होने के कारण भाव्यमान परिभाषा से यहाँ सवर्णग्रहणाभाव सिद्ध नहीं है, इसलिए त्रिमात्रिक ऐच की वृद्धिसंज्ञा ये वारण के लिए “आत्” पद का तपरकरण दोनों पक्षों (यथोद्देश और कार्यकाल) के लिए आवश्यक है । एतेन = पक्ष में उपर्युक्त रीति से तपरकरण के आवश्यक होने के कारण उन लोगों का कथन अपास्त हो गया जो लोग कहते थे कि कार्यकाल पक्ष में “वृद्धिरादैच्” सूत्र विधिदेश में जाकर अपने “आदैच्” पद को वृद्धि पद के विशेषण के रूप में समर्पित कर देता है । इसका परिणाम यह होता है कि वहाँ पदैकवाक्यता होती है, जिससे “मृजेर्वृद्धिः” सूत्र का अर्थ इस प्रकार होता है कि मृज् के इक् के स्थान पर आदैच् से अभिन्न वृद्धि होती है । इस प्रकार आदैच पद इस कार्यकाल पक्ष में विधेय कोटि में आ जाता है । विधेय कोटि में आने का परिणाम यह होता है कि भाव्यमानतया ऐच के सवर्णी का ग्रहण ही प्राप्त नहीं होता है, इसलिए इस पक्ष में तपरकरण स्पष्टार्थ है । किन्तु जैसा कि ऊपर बताया जा चुका है कि कार्यकाल और यथोद्देश दोनों पक्षों में तपरकरण ऐच के सवर्णग्रहणाभाव के लिए आवश्यक है, इसलिए इसे स्पष्टार्थ मानने वाले का कथन परास्त हो ही जाता है । उनका कहना है कि जहाँ वृद्धि पद होता है वहाँ आदैच् की उपस्थिति होती है । इसी प्रकार अन्य संज्ञासूत्रों का भी अर्थ होता है । किन्तु ये सारी बातें उपर्युक्त विवेचन के अनुसार परास्त हैं । यह अन्यत्र उद्योत ग्रन्थ में विस्तार से कही गई है ।
अब यह विचार कर रहे हैं कि वृद्धि शब्द से जिन आकार, ऐकार और औकार का बोध होता है वे तद्भावित अर्थात् वृद्धि शब्द के द्वारा विहित होने चाहिए या अतद्भावित अर्थात् स्वतः पूर्वतः सिद्ध भी हों तो उन्हें वृद्धि कहा जाय ? इस प्रकार की शंका में कह रहे हैं कि अत्र = “वृद्धिरादैच्” इस सूत्र में अतद्भावित स्वतः सिद्ध आदैच् का भी ग्रहण होता है और अपि शब्द से तद्भावित का भी ग्रहण होता है । इसलिए शाला शब्द के आदि आकार को, जो स्वतः सिद्ध है, उसे वृद्धि माना गया और उसके आधार पर शाला शब्द की वृद्ध संज्ञा की गई । इसका परिणाम यह हुआ कि शाला शब्द से “वृद्धाच्छः “सूत्र से छ प्रत्यय करके “शालीयः” प्रयोग की सिद्धि होती है ।
॥ महाभाष्यम् ॥
पाणिनीयं विधिशेषप्रकरणम्
(१. विधिसञ्ज्ञासूत्रम् - १.१.३. आ., 1)
वृद्धिरादैच् १.१.१
॥ सूत्रस्वरूपसाधनाधिकरणम् ॥
आक्षेपभाष्यम् - कुत्वं कस्मान्न भवति 'चो कुः' पदस्य - इति ।
समाधानभाष्यम् - भत्वात् ।
आक्षेपभाष्यम् - कथं भसञ्ज्ञा ?
समाधानभाष्यम् - 'अयस्मयादीनि च्छन्दसि' इति ।
समाधानबाधकभाष्यम् - छन्दसीत्युच्यते, न चेदं छन्दः ।
समाधानसाधिका भाष्येष्टिः - छन्दोवत्सूत्राणि भवन्ति ।
आक्षेपभाष्यम् - यदि भसञ्ज्ञा, 'वृद्धिरादैजदेङ् गुणः' इति जश्त्वमपि न प्राप्नोति ।
समाधानभाष्यम् - उभयसञ्ज्ञान्यपि छन्दांसि दृश्यन्ते । तद्यथा - 'स सुष्ठुभा स ऋक्वता गणेन' । पदत्वात्कुत्वम्, भत्वाज्जश्त्वं न भवति । एवमिहापि पदत्वाज्जश्त्वम्, भत्वात्कुत्वं न भविष्यति ।
॥ तद्भावितपक्षनिराकरणाधिकरणम् ॥
उभयपक्षस्वरूप - तद्भावितपक्षदूषणभाष्यम् - किं पुनरिदं तद्भावितग्रहणम् - वृद्धिरित्येवं ये आकारैकारौकारा भाव्यन्ते, तेषां ग्रहणम्, आहोस्विदादैज्मात्रस्य ? किं चातः ? यदि तद्भावितग्रहणम्, 'शालीयः मालीयः' इति वृद्धलक्षणश्छो न प्राप्नोति । आम्रमयम् - शालमयम्, वृद्धिलक्षणो मयण्न प्राप्नोति । आम्रगुप्तायनिः - शालगुप्तायानिः, वृद्धिलक्षणः फिञ् न प्राप्नोति ।
द्वितीयपक्षे दूषणभाष्यम् - अथादैज्मात्रस्य ग्रहणम्, सर्वो भासः सर्वभास इति 'उत्तरपदवृद्धौ सर्व च' इत्येष विधिः प्राप्नोति । इह तावती भार्या यस्य तावद्भार्यः - यावद्भार्यः 'वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधः प्राप्नोति ।
सिद्धान्तभाष्यम् - अस्तु तर्हि - आदैज्मात्रस्य ग्रहणम् ।
आक्षेपानुवादभाष्यम् - ननु चोक्तम् - सर्वो भासः सर्वभास इति 'उत्तरपदवृद्धौ सर्वं च' इत्येष विधिः प्राप्नोतीति ।
समाधानभाष्यम् - नैष दोषः । नैवं विज्ञायते - उत्तरपदस्य वृद्धिः उत्तरपदवृद्धिः, उत्तरपदवृद्धाविति । कथं तर्हि ? 'उत्तरपदस्य' इत्येवं प्रकृत्य या वृद्धिस्तद्वत्युत्तरपदे - इत्येवमेतद्विज्ञायते । अवश्यं चैतदेवं विज्ञेयम् । तद्भावितग्रहणे सत्यपीह प्रसज्येत - सर्वः कारकः सर्वकारक इति ।
द्वितीयदूषणनिराकरणभाष्यम् - यदप्युच्यते - इह तावती भार्या यस्य तावद्भार्यः, यावद्भार्य इति 'वृद्धिनिमित्तस्य' इति पुंवद्भावप्रतिषेधः प्राप्नोतीति । नैष दोषः । नैवं विज्ञायते - वृद्धेर्निमित्तं वृद्धिनिमित्तं वृद्धिनिमित्तस्येति । कथं तर्हि ? वृद्धेर्निमित्तं यस्मिन् सोऽयं वृद्धिनिमित्तः वृद्धिनिमित्तस्येति । किं च वृद्धेर्निमित्तम् ? योऽसौ ककारो णकारो ञकारो वा । अथवा यः कृत्स्नाया वृद्धेर्निमित्तं तदृद्धिनिमित्तम् ? कश्च कृत्स्नाया वृद्धेर्निमित्तम् ? यस्त्रयाणामाकारैकारौकाराणाम् ।
॥ सञ्ज्ञासूत्रत्वसाधनाधिकरणम् ॥
(६०. आक्षेपवार्तिकम् - १) * सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थः *
भाष्यम् - 'अथ सञ्ज्ञा' इत्येवं प्रकृत्य वृद्ध्यादयः शब्दाः पठितव्याः । किं प्रयोजनम् ? सञ्ज्ञासम्प्रत्ययार्थः । वृद्ध्यादीनां शब्दानां 'सञ्ज्ञा' इत्येष सम्प्रत्ययो यथा स्यात् ।
(६१. आक्षेपसाधकवार्तिकम् - २) * इतरथा ह्यसम्प्रत्ययो यथा लोके *
भाष्यम् - अक्रियमाणे हि सञ्ज्ञाधिकारे वृद्ध्यादीनां संज्ञेत्येष सम्प्रत्ययो न स्यात् । इदमिदानीं बहुसूत्रमनर्थकं स्यात् । अनर्थकमित्याह । कथम् ? 'यथा लोके' । लोके ह्यर्थवन्ति चानर्थकानि च वाक्यानि दृश्यन्ते । अर्थवन्ति तावत् - 'देवदत्त गामभ्याज शुक्लां दण्डेन' 'देवदत्त गामभ्याज कृष्णाम्' इति । अनर्थकानि - 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अर्धोरुकमेतत्कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः' इति ।
(६२. आक्षेपान्तरवार्त्तिकम् - ३) * सञ्ज्ञासञ्ज्यसन्देहश्च *
भाष्यम् - क्रियमाणेऽपि सञ्ज्ञाधिकारे सञ्ज्ञासञ्जिनोरसन्देहो वक्तव्यः । कुतो ह्येतत् - वृद्धिशब्दः सञ्ज्ञा, आदैचः संज्ञिन इति । न पुनरादैचः सञ्ज्ञा, वृद्धिशब्दः सञ्ज्ञीति ?
प्रथमाक्षेपानुवादभाष्यम् - यत्तावदुच्चयते - सञ्ज्ञाधिकारः कर्तव्यः सञ्ज्ञासम्प्रत्ययार्थः इति । न कर्तव्यः ।
(६३. सिद्धान्तवार्तिकम् - ४) * आचार्याचारात्सञ्ज्ञासिद्धिः *
भाष्यम् - आचार्याचारात्सञ्ज्ञासिद्धिर्भविष्यति । किमिदम् - आचार्याचारादिति ? आचार्याणामुपचारात् ।
(६४. सिद्धान्तिवार्तिकम् - ५) * यथा लौकिकवैदिकेषु *
भाष्यम् - तद्यथा लौकिकेषु वैदिकेषु च कृतान्तेषु । लोके तावन्मातापितरौ पुत्रस्य जातस्य संवृतेऽवकाशे नाम कुर्वाते - देवदत्तो यज्ञदत्त इति । तयोरुपचारादन्येऽपि जानन्ति इयमस्य संज्ञेति । वेदे याज्ञिकाः सञ्ज्ञां कुर्वन्ति - स्फ्यो यूपश्चषाल इति । तत्रभवतामुपचारादन्येऽपि जानन्ति - इयमस्य सञ्ज्ञेति ।
दाष्टन्तिकभाष्यम् - एवमिहापि । इहैव तावत्केचिद्व्याचक्षणा आहुः - वृद्धिशब्दः सञ्ज्ञा, आदैचः सञ्जिन इति । अपरे पुनः 'सिचि वृद्धिः' इत्युक्त्वाऽऽकारैकारौकारानुदाहरन्ति । तेन मन्यामहे - यया प्रत्याय्यन्ते सा सञ्ज्ञा, ये प्रतीयन्ते ते सञ्ज्ञिन इति ।
आक्षेपान्तरानुवादभाष्यम् - यदप्युच्यते - 'क्रियमाणेऽपि सञ्ज्ञाधिकारे सञ्ज्ञाससंज्ञिनोरसन्देहो वक्तव्यः' इति ।
(६५. सिद्धान्तवार्त्तिकम् - ६) * सञ्ज्ञासञ्ज्यसन्देहश्च *
भाष्यम् - सञ्ज्ञासंज्ञिनोश्चासन्देहः सिद्धः । कुतः ? आचार्याचारादेव । उक्त आचार्याचारः ।
(६६. सिद्धान्तहेतुवार्तिकम् - ७) * अनाकृतिः *
भाष्यम् - अथवा - अनाकृतिः सञ्ज्ञा, आकृतिमन्तः सञ्ज्ञिनः । लोकेऽपि ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति सञ्ज्ञा क्रियते ।
(६७ . सिद्धान्तहेतुवार्तिकम् - ८) * लिङ्गेन वा *
भाष्यम् - अथवा - किञ्चिल्लिङ्गमासज्य वक्ष्यामि - इत्थंलिङ्गा सञ्ज्ञेति । वृद्धिशब्दे च तल्लिङ्ग करिष्यते नादैच्छब्दे ।
आक्षेपभाष्यम् - इदं तावदयुक्तम् । यत्तावदुच्यते - आचार्याचारादिति । किमत्रायुक्तम् ? तमेवोपालभ्य - 'अगमकं ते सूत्रम्' इति, तस्यैव पुनः प्रमाणीकरणमित्येतदयुक्तम् । अपरितुष्यन् खल्वपि भवाननेन परिहारेण 'अनाकृतिर्लिङ्गेन वा' इत्याह ।
तृतीयहेतौ गौरवाक्षेपभाष्यम् - तच्चापि वक्तव्यम् ।
तृतीयहेतुस्वीकारे लाघवप्रदर्शकभाष्यम् - यद्यप्येतदुच्यते । अथवैतर्हि इत्सञ्ज्ञा न वक्तव्या, लोपश्च न वक्तव्यः । सञ्ज्ञालिङ्गमनुबन्धेषु करिष्यते । न च सञ्ज्ञाया निवृत्तिरुच्यते, स्वभावतः सञ्ज्ञा सञ्ज्ञिनं प्रत्याय्य स्वयं निवर्तन्ते । तेनानुबन्धानामपि निवृत्तिर्भविष्यति ।
आक्षेपभाष्यम् - सिद्धयत्येवम् । अपाणिनीयं तु भवति ।
सिद्धान्तिभाष्यम् - यथान्यासमेवास्तु ।
आक्षेपानुवादभाष्यम् - ननु चोक्तम् - 'सञ्ज्ञाधिकारः सञ्ज्ञासम्प्रत्ययार्थ इतरथा ह्यसम्प्रत्ययो यथा लोके' इति ।
अनर्थकत्वनिराकरणेन समाधानभाष्यम् - न यथा लोके, तथा व्याकरणे । प्रमाणभूत आचार्यों दर्भपवित्रपाणिः शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म । तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण । किमतो यदशक्यम् ? अतः सञ्ज्ञासञ्ज्ञिनावेव ।
सञ्ज्ञेतरार्थाक्षेपभाष्यम् - कुतो नु खल्वेतत् - सञ्ज्ञासञ्ज्ञिनावेवेति । न पुनः साध्वनुशासनेऽस्मिन् शास्त्रे साधुत्वमनेन क्रियते ?
आक्षेपनिराकरणभाष्यम् - कृतमनयोः साधुत्वम् । कथम् ? वृधिरस्मायविशेषेणोपदिष्टः प्रकृतिपाठे, तस्मात् क्तिन्प्रत्ययः । आदैचोऽप्यक्षरसमाम्नाये उपदिष्टाः ।
आक्षेपभाष्यम् - प्रयोगनियमार्थ तहींदं स्यात् - वृद्धिशब्दात्परे आदैचः प्रयोक्तव्या इति ।
आक्षेपनिराकरणभाष्यम् - नेह प्रयोगनियम आरभ्यते । किं तर्हि ? संस्कृत्य संस्कृत्य पदान्युत्सृज्यन्ते, तेषां यथेष्टमभिसम्बन्धो भवति । तद्यथा - आहर पात्रम्, पात्रमाहरेति ।
आक्षेपभाष्यम् - आदेशास्तर्हीमे स्युर्वृद्धिशब्दस्यादैचः ।
आक्षेपनिराकरणभाष्यम् - षष्ठीनिर्दिष्टस्यादेशा उच्यन्ते । न चात्र षष्ठीं पश्यामः ।
आक्षेपभाष्यम् - आगमास्तर्हीमे स्युः । वृद्धिशब्दस्यादैच आगमाः ।
आक्षेपनिरासभाष्यम् - आगमा अपि षष्ठीनिर्दिष्टस्यैवोच्यन्ते, लिङ्गेन च । न चात्र षष्ठीं, न खल्वप्यागमलिङ्गं पश्यामः ।
सिद्धान्तिसमाधानभाष्यम् - इदं खल्वपि भूयः सामानाधिकरण्यमेकविभक्तित्वञ्च । द्वयोश्चैतद्भवति । कयोः ? विशेषणविशेष्ययोर्वा सञ्ज्ञासंज्ञिनोर्वा । तत्रैतत्स्यात् - विशेषणविशेष्ये इति । तच्च न, द्वयोर्हि प्रतीतपदार्थकयोलोंके विशेषणविशेष्यभावो भवति । न चादैच्छब्दः प्रतीतपदार्थकः । तस्मासञ्ज्ञासंज्ञिनावेव ।
सिद्धान्तभाष्यम् - तत्र त्वेतावान्सन्देहः कः सञ्ज्ञी का संज्ञेति । स चापि क्व सन्देहः ? यत्रोभे समानाक्षरे । यत्र त्वन्यतरल्लघु सा सञ्ज्ञा, यद्गुरु स सञ्ज्ञी । कुत एतत् ? लध्वर्थ हि सञ्ज्ञाकरणम् । तत्राप्ययं नावश्यं गुरुलघुतामेवोपलक्षयितुमर्हति । किं तर्हि ? अनाकृतितामपि । अनाकृतिः सञ्ज्ञा, आकृतिमन्तः संज्ञिनः । लोके ह्याकृतिमतो मांसपिण्डस्य देवदत्त इति सञ्ज्ञा क्रियते ।
समाधानान्तरभाष्यम् - अथवा आवर्तिन्यः सञ्ज्ञा भवन्ति । वृद्धिशब्दश्चावर्तते, नादैच्छब्दः । तद्यथा - इतरत्रापि देवदत्तशब्द आवर्तते, न मांसपिण्डः ।
अथवा - पूर्वोच्चारितः सञ्ज्ञी, परोच्चारिता सञ्ज्ञा । कुत एतत् ? सतो हि कार्यिणः कार्येण भवितव्यम् ? तद्यथा - इतरत्रापि सतो मांसपिण्डस्य देवदत्त इति सञ्ज्ञा क्रियते ।
आक्षेपभाष्यम् - कथं 'वृद्धिरादैच्' इति ?
समाधानभाष्यम् - एतदेकमाचार्यस्य मङ्गलार्थ मृष्यताम् । माङ्गलिक आचार्यो महतः शास्त्रौधस्य मङ्गलार्थं वृद्धिशब्दमादितः प्रयुङ्के । मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति, आयुष्मत्पुरुषाणि च । अध्येतारश्च वृद्धियुक्ता यथा स्युरिति । सर्वत्रैव हि व्याकरणे पूर्वोच्चारितः सञ्ज्ञी, परोच्चारिता सञ्ज्ञा । 'अदेङ् गुणः' इति यथा ।
सिद्धान्तिभाष्यम् - दोषवान्खल्वपि सञ्ज्ञाधिकारः । अष्टमेऽपि हि सञ्ज्ञा क्रियते - 'तस्य परमाभ्रेडितम्' इति । तत्रापीदमनुवर्त्य स्यात् ।
समाधानान्तरभाष्यम् - अथवा अस्थानेऽयं यत्नः क्रियते । न हीदं लोकाद्भिद्यते । यदीदं लोकाद्भिद्येत ततो यत्नार्ह स्यात् । तद्यथा - अगोज्ञाय कश्चिद् गां सक्थनि कर्णे वा गृहीत्वोपदिशति - अयं गौरिति । न चास्मायाचष्टे 'इयमस्य सञ्ज्ञा' इति । भवति चास्य सम्प्रत्ययः ।
आक्षेपभाष्यम् - तत्रैतत्स्यात् - 'कृतस्तत्र पूर्वैरभिसम्बन्धः' इति ।
समाधानभाष्यम् - इहापि कृतः पूर्वैरभिसम्बन्धः । कैः ? आचार्यैः ।
आक्षेपभाष्यम् - तत्रैतत्स्यात् - यस्मै तर्हि सम्प्रत्युपदिशति तस्याकृत इति ।
समाधानभाष्यम् - लोकेऽपि हि यस्मै सम्प्रत्युपदिशति तस्याकृतः । अथ तत्र कृतः, इहापि कृतो द्रष्टव्यः ।
॥ अन्योन्याश्रयपरिहाराधिकरणम् ॥
(६८. सञ्ज्ञासञ्जिभावाक्षेपवार्त्तिकम् - १) * सतो वृद्ध्यादिषु सञ्ज्ञाभावात्तदाश्रय इतरेतराश्रयत्वादप्रसिद्धिः *
भाष्यम् - सतः संज्ञिनः सञ्ज्ञाभावात् तदाश्रये संज्ञिनि वृद्ध्यादिष्वितरेतराश्रयत्वादप्रसिद्धिः । का इतरेतराश्रयता ? सतामादैचां संज्ञया भवितव्यम्, संज्ञया चादैचो भाव्यन्ते । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । तद्यथा - नौर्नावि बद्धा नेतरेतरत्राणाय भवति ।
इतरेतराश्रयिदृष्टान्तभाष्यम् - ननु च भोः - इतरेतराश्रयाण्यपि कार्याणि दृश्यन्ते । तद्यथा - नौः शकटं वहति, शकटं च नावं वहति ।
दृष्टान्तनिरासभाष्यम् - अन्यदपि तत्र किञ्चिद्भवति - जलं स्थलं वा । स्थले शकटं नावं वहति । जले नौः शकटं वहति ।
इतरेतराश्रयिदृष्टान्तान्तरभाष्यम् - यथा तर्हि त्रिविष्टब्धकम् ।
दृष्टान्तान्तरनिराकरणभाष्यम् - तत्राप्यन्ततः सूत्रकं भवति ।
आक्षेपोपसंहारभाष्यम् - इदं पुनरितरेतराश्रयमेव ।
(६९. अन्योन्याश्रयवारकसिद्धान्तिवार्त्तिकम् - २) * सिद्धं तु नित्यशब्दत्वात् *
भाष्यम् - सिद्धमेतत् । कथम् ? नित्यशब्दत्वात् । नित्याः शब्दाः, नित्येषु शब्देषु सतामादैचां सञ्ज्ञा क्रियते, न च सञ्ज्ञया आदैचो भाव्यन्ते ।
आक्षेपभाष्यम् - यदि तर्हि नित्याः शब्दाः, किमर्थं शास्त्रम् ?
(आक्षेपवारकं भाष्यवार्त्तिकम्) * किमर्थं शास्त्रमिति चेन्निवर्तकत्वात्सिद्धम् *
भाष्यम् - निवर्तकं शास्त्रम् । कथम् ? मृजिरस्मायविशेषेणोपदिष्टः । तस्य सर्वत्र मृजिबुद्धिः प्रसक्ता । तत्रानेन निवृत्तिः क्रियते - मृजेरक्ङित्सु प्रत्ययेषु मृजेः प्रसङ्गे मार्जिः साधुर्भवतीति ।
॥ समुदितसञ्ज्ञानिराकरणाधिकरणम् ॥
वार्तिकावतरण आक्षेपभाष्यम् - प्रत्येकं वृद्धिगुणसंज्ञे भवत इति वक्तव्यम् । किं प्रयोजनम् ? समुदाये मा भूतामिति ।
(७०. आक्षेपवारकसिद्धान्तिवार्त्तिकम् - ३) * अन्यत्र सहवचनात्समुदाये सञ्ज्ञाप्रसङ्गः *
भाष्यम् - अन्यत्र सहवचनात्समुदाये वृद्धिगुणसञ्जयोरप्रसङ्गः । यत्रेच्छति सहभूतानां कार्यम्, करोति तत्र सहग्रहणम् । तद्यथा - 'सह सुपा' 'उभे अभ्यस्तं, सह' इति ।
(७१. आक्षेपवारकसिद्धान्तिवार्त्तिकम् - ४) * प्रत्यवयवं च वाक्यपरिसमाप्तेः *
भाष्यम् - प्रत्यवयवं च वाक्यपरिसमाप्तिर्दृश्यते । तद्यथा - देवदत्तयज्ञदत्तविष्णुमित्रा भोज्यन्तामिति । न चोच्यते प्रत्येकमिति । प्रत्येकं च भुजिः परिसमाप्यते ।
आक्षेपभाष्यम् - ननु चायमप्यस्ति दृष्टान्तः 'समुदाये वाक्यपरिसमाप्तिः' इति । तद्यथा - 'गर्गाः शतं दण्ड्यन्ताम्' इति । अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति ।
समाधानभाष्यम् - सत्येतस्मिन्दृष्टान्ते यदि तत्र सहग्रहणं क्रियते, इहापि प्रत्येकमिति वक्तव्यम् । अथ तत्रान्तरेण सहग्रहणं सहभूतानां कार्य भवति, इहापि नार्थः प्रत्येकमिति वचनेन ।
॥ तपरग्राह्यनिराकरणीयाधिकरणम् ॥
आक्षेपभाष्यम् - अथ किमर्थमाकारस्तपरः क्रियते ?
(७३. सिद्धान्तसमाधानवार्त्तिकम् - १) * आकारस्य तपरकरणं सवर्णार्थम् *
भाष्यम् - आकारस्य तपरकरणं क्रियते । किं प्रयोजनम् ? सवर्णार्थम् । 'तपरस्तत्कालस्य' इति तत्कालानां सवर्णानां ग्रहणं यथा स्यात् । केषाम् ? उदात्तानुदात्तस्वरितानाम् ।
कारणजिज्ञासाभाष्यम् - किं च कारणं न स्यात् ?
(कारणप्रदर्शकैकदेशिवार्त्तिकम्) * भेदकत्वात्स्वरस्य *
भाष्यम् - भेदका उदात्तादयः । कथं पुनर्जायते - भेदका उदात्तादय इति ? एवं हि दृश्यते लोके - य उदात्ते कर्तव्येऽनुदात्तं करोति खण्डिकोपाध्यायस्तस्मै चपेटां ददाति अन्यत्त्वं करोषीति । अस्ति प्रयोजनमेतत् । किं तर्हि ? इति -
कारणप्रदर्शकन्यासान्तरभाष्यम् - 'भेदकत्वाद्गुणस्येति वक्तव्यम्' । किं प्रयोजनम् ? आनुनासिक्यं नाम गुणः, तद्भिन्नस्यापि ग्रहणं यथा स्यात् । किं च कारणं न स्यात् ? भेदकत्वाद्गुणस्य । भेदका गुणाः । कथं पुनर्जायते - भेदका गुणा इति ? एवं हि दृश्यते लोके - एकोऽयमात्मा उदकं नाम, तस्य गुणभेदादन्यत्वं भवति - अन्यदिदं शीतम्, अन्यदिदमुष्णमिति ।
अभेदकत्वाक्षेपसिद्धान्तिभाष्यम् - ननु च भोः - अभेदका अपि गुणा दृश्यन्ते । तद्यथा - देवदत्तो मुण्ड्यपि जट्यपि शिख्यपि स्वामाख्यां न जहाति । तथा - बालो युवा वृद्धः, वत्सो दम्यो बलीवर्द इति ।
आक्षेपभाष्यम् - उभयमिदं गुणेषूक्तम् - भेदकाः, अभेदका इति । किं पुनरत्र न्याय्यम् ?
सिद्धान्तसमाधानभाष्यम् - अभेदका गुणा इत्येव न्याय्यम् । कुत एतत् ? यदयम् - 'अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः' इत्युदात्तग्रहणं करोति । यदि भेदका गुणाः स्युः, उदात्तमेवोच्चारयेत् ।
आक्षेपभाष्यम् - यदि तदभेदका गुणाः, अनुदात्तादेरन्तोदात्ताच्च यदुच्यते तत्स्वरितादेः स्वरितान्ताच्च प्राप्नोति ।
समाधानभाष्यम् - नैष दोषः । आश्रीयमाणो गुणो भेदको भवति । तद्यथा - 'शुक्लमालभेत' 'कृष्णमालभेत' । तत्र यः शुक्ल आलब्धव्ये कृष्णमालभते, न हि तेन यथोक्तं कृतं भवति ।
एकदेशिसमाधानभाष्यम् - असन्देहार्थस्तर्हि तकारः । ऐजित्युच्यमाने सन्देहः स्यात् - किमिमावैचावेव, आहोस्विदाकारोऽप्यत्र निर्दिश्यते ?
समाधानबाधकभाष्यम् - सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते - 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इति । त्रयाणां ग्रहणमिति व्याख्यास्यामः । अन्यत्रापि ह्ययमेवंजातीयकेषु सन्देहेषु न कञ्चिद्यत्नं करोति । तद्यथा - 'औतोम्शसोः' इति ।
सिद्धान्तिसमाधानभाष्यम् - इदं तर्हि प्रयोजनम् - आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति । खट्वा + इन्द्रः = खट्वेन्द्रः, खट्वा + उदकं = खट्वोदकम्, खट्वा + ईषा = खट्वेषा, खट्वा + ऊढा = खट्वोढा, खट्वा + एलका = खवैलका, खट्वा + ओदनः = खट्वौदनः, खट्वा + ऐतिकायनः = खवैतिकायनः, खट्वा + औपगवः = खट्वौपगव इति ।
आक्षेपभाष्यम् - अथ क्रियमाणेऽपि तकारे कस्मादेव त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति ?
समाधानभाष्यम् - 'तपरस्तत्कालस्य' इति नियमात् ।
समाधानबाधकभाष्यम् - ननु तः परो यस्मात्सोऽयं तपरः ।
समाधानसाधकभाष्यम् - नेत्याह । तादपि परस्तपरः ।
इष्टानुपपत्तिसाधकभाष्यम् - यदि तादपि परस्तपरः 'ॠदोरप्' इतीहैव स्यात् - यवः स्तवः, लवः पव इत्यत्र न स्यात् । अनुपपत्तिबाधकभाष्यम् - नैष तकारः । कस्तर्हि ? दकारः ।
आक्षेपभाष्यम् - किं दकारे प्रयोजनम् ?
प्रतिबन्द्या समाधानभाष्यम् - अथ किं तकारे ? यद्यसन्देहार्थस्तकारः, दकारोऽपि । अथ मुखसुखार्थस्तकारः, दकारोऽपि । इति ॥ वृद्धिरादैच् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know