१.३.९
सूत्राणि:॥ तस्य लोपः ॥
विभक्तिः - तस्य ६।१लोपः १।१।
अर्थ: - तस्य इत्संज्ञकस्य वर्णस्य लोपो भवति ।
उदाहरणम् - अइउण्, ऋलृक् । अत्र णकारस्य ककारस्येत्संज्ञायां लोपो विधीयते ।
आर्यभाषार्थ - (तस्य) उस इत् संज्ञावाले अक्षर का (लोपः) लोप होता है ।
उदाहरणम् - अ इ उ ण् । ऋलृक् । इत्यादि। यहां 'ण' आदि की इत् संज्ञा होने से उनका लोप हो जाता है । लोप हो जाने से 'अक्' आदि प्रत्याहारों में 'ण' आदि इत् संज्ञक वर्णों का ग्रहण नहीं किया जाता है ।
॥ काशिका ॥
तस्येत्संज्ञकस्य लोपो भवति । तथा चैवोदाहृतम् । तस्य ग्रहणं सर्वलोपार्थम् । अलोऽन्त्यस्य मा भूत् - ”आदिर्ञिटुडव: “(१.३.५/२२८९) इति ॥
॥ न्यासः ॥
अथ किमर्थम् ‘तस्य’ इत्युच्यते, यवातेत्संज्ञायाः प्रकृतत्वाद्यस्येत्संज्ञा विहिता सामर्थ्यात्तस्यैव लोपो भविष्यतीति आह - ‘तस्यग्रहणम्’ इत्यादि । कः पुनरित्संज्ञको योऽलोन्त्यस्य निवृत्त्यर्थं तस्यग्रहणं प्रयोजनतीत्याह - ‘आदिर्ञिटुडवः’ इति । असति तस्यग्रहणे, एषामपि ञिप्रभृतीनाम् ‘अलोऽन्त्यस्य’ (१.१.५२) इति वचनादन्त्यस्य लोपः स्यात् । तस्यग्रहणेन तु प्रकृत इत्संज्ञके सन्निधापिते सर्वस्य लोपो भवति, नान्त्यस्य; अन्यथा हि तस्यग्रहणमनर्थकं स्यात् । यदि तु ‘नानर्थकेऽलोऽन्त्यविधिः’ (व्या. प.६२) इत्येषा परिभाषाऽऽश्रीयते, तदा तस्यग्रहणमकर्तुं शक्यते । तत् क्रियते विस्पष्टार्थम् ।
॥ पदपञ्जरी ॥
तस्य ग्रहणं किमर्थम्, यावताऽभावो लोपः, स च कस्यचिदेव भवति, तत्र प्रकरणादित्संज्ञकस्यैव लोपो भविष्यतीत्यत आह - तस्य ग्रहणमित्यादि । आदिर्ञिटुडव इति । असति तस्य ग्रहणे येऽनेकाल इत्संज्ञका ञिप्रभृतयस्तेष्वलो ऽन्त्यस्य लोपः स्यात्, तस्य ग्रहणसामर्थ्यात्तु सर्वस्य भविष्यति । एतच्च ‘नानर्थकेऽलोन्त्यस्य विधी:’ इत्यनाश्रित्योक्तम् ॥
॥ शब्दकौस्तुभः ॥
तस्येतो लोपः स्यात् । तस्यग्रहणं सर्वलोपार्थम् । ञिटुडूनामलोन्त्यस्य मा भूत् । “नानर्थकेऽलोन्त्यविधि - ” (प.भा.) इति तु नास्ति। “अलोन्त्यात्पूर्व उपधा” (१.१.६५) इति सूत्रे तस्य प्रत्याख्यानात् ।
॥ व्याकरणसिद्धान्तसुधानिधिः ॥
तस्य इतो लोपः स्यात् । तस्य ग्रहणं सर्वलोपार्थम् । अन्यथा अभावरूपस्य लोपस्य भावापेक्षत्वात्प्रकरणादित्संज्ञस्य लाभोपपत्तेः । तेन ञिटुडूनामन्त्यलोपो न । न च नानर्थकेऽलोन्त्यविधिरित्येव तत्सिद्धिः । अलोन्त्यात्पूर्व इत्यत्र तत्प्रत्याख्यानात् ।
॥ सिद्धान्तकौमुदी ॥
तस्येतो लोपः स्यात् । इति यवयोर्लोपो न । उच्चारणसामर्थ्यात् । एवं च इत्संज्ञापीह न भवति । हरये । विष्णवे । नायकः । पावकः ॥
॥ बालमनोरमा ॥
एतेष्वादेशेषु यकारवकारयोर्हलन्त्यमितीत्संज्ञायां लोपमाशङ्कितुमाह - तस्य लोपः । इत्संज्ञाप्रकरणान्ते इदं सूत्रम् । तत्र तच्छब्दः सन्निहितमितं परामृशति । तदाह - तस्येति इति । इत्यनेन सूत्रेण यवयोर्लोपो न शङ्कनीय इत्यर्थः । कुत इत्यत आह - उच्चारणेति । यद्यत्र यवयोर्लोपः स्यात्तर्हि तयोः सूत्रेऽनुच्चारणमेव स्यात्, 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वर'मिति न्यायादिति भावः । तर्हि किमनयोरित्संज्ञयेत्यत आह - एवंचेति । उक्तप्रकारेण लोपाऽभावे सतीत्संज्ञापीह यकारे वकारे च न भवति, फलाऽभावादित्यर्थः । क्रमेणोदाहस्ति - हरय इत्यादिना । हरे + ए विष्णो + ए नै + अकः पौ + अक इति स्थितेषु एकारादीनां क्रमादयादयः ॥
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
तस्य लोप: (१.३.९) । 'उपदेशेऽज्' (१.३.२) इत्यत इवित्यनुवृत्त्या विभक्तिविपरिणामेन च सिद्धौ 'तस्य' ग्रहणं सर्वलोपार्थम् । तेन बिनामन्त्यस्य लोपो न । 'नानर्थके' (प०) इति परिभाषा तु भाष्ये प्रत्याख्यातैवेति दिक् । न भवति इति । फलाभावादिति भावः ॥
तस्य लोप इति ॥ अत्र 'उपदेशेऽजनुनासिक इत्' इति सूत्रात् इत्-पदमनु- व षष्ठया विपरिणम्य च 'इतो लोपः' इतीष्टस्यार्थस्य लाभाद् इत्पदार्थस्य संग्राहकतया सूत्रे उपात्तं स्येति पदं व्यर्थमिति नाशङ्कनीयम्; इत्संज्ञकानां सर्वेषां वर्णानां लोपार्थं तस्येति पदस्य सूत्रे सार्थक्यात् । अन्यथा अलोऽन्त्येति सूत्रेण त्रिटुडूनामन्त्यस्यैव लोपः स्यात् । एतदुपादानसामर्थ्यात् सर्वेषामित्संज्ञकानां लोपो भवति । न च 'नानर्थके- लोन्त्यविधिरनभ्यासविकारे' इति वचनेन अनर्थकत्वाद् इत्संज्ञकवर्णानां तल्लोपविधौ अलोऽन्त्यपरिभाषाया अप्रवृत्तिरिति न वाच्यम्, 'अलोऽन्त्यात् पूर्व उपधा' इति सूत्रे एव भाष्ये 'तस्मान्नार्थोऽनया परिभाषया' इत्येवं परिभाषायाः प्रत्याख्यानात् । इत्याशयेन- 'उपदेशेऽच्' इत्यादिग्रन्थावतारः ।फलाभावादिति । लोपद्वारकस्थान्यफलस्याभावात् । तेन इत्त्वस्य लोपरूपफलस्य सत्त्वेऽपि न ग्रन्थस्यासङ्गतिः ॥
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
तस्य लो । 'उपदेशेऽजि'त्यत इदित्यनुवृत्त्या विभक्तिविपरिणामेन च सिद्धौ 'तस्य ग्रहणं सर्वलोपार्थम् । तेन ञिटुडूनामन्त्यस्य लोपो न 'नाऽनर्थके' इति परिभाषा तु भाष्ये प्रत्याख्यातैवेति दिक् । न भवतीति । फलाभावादिति भावः ।
“तस्य लोपः” यह सूत्र इत्संज्ञाप्रकरण के अन्त में पढा गया है, इसलिए सूत्रस्थ तत् शब्द से सन्निहित इत् का परामर्श होता है, जिसका यह लोप करता है । यहाँ यह प्रश्न होता है कि इससे पूर्वसूत्र “उपदेशेऽजनुनासिक इत्” (१.३.२) से “इत्”की अनुवृत्ति कर के तथा षष्ठ्यन्तत्वेन उसका विपरिणाम कर देने से यह अर्थ हो जायेगा कि इत्संज्ञक का लोप होता है, तो ऐसी स्थिति में सूत्र में “तस्य” ग्रहण की क्या आवश्यकता है ? शेखरकार इस प्रश्न के उत्तर में कह रहे हैं कि सम्पूर्ण इत्संज्ञक के लोप के लिए सूत्र में “तस्य” इस पद का ग्रहण किया गया है । इसलिए जि, टु और डु का सम्पूर्ण लोप होता है । अन्यथा “अलोऽन्त्यस्य “सूत्र के द्वारा इनके अन्त्य का लोप होने लगता । यदि कहा जाय कि “नानर्धकेऽलोऽन्त्यविधिः “इस परिभाषा से निषेध हो जाने के कारण “अलोऽन्त्यस्य “सूत्र की प्रवृत्ति यहाँ नहीं होगी तो यह कहना ठीक नहीं है, क्योंकि “अलोऽन्त्यात् पूर्व उपधा” सूत्र के भाष्य में इस परिभाषा का प्रत्याख्यान इसलिए कर दिया गया है कि इसका कोई फल नहीं है । इसलिए “अलोऽन्त्यस्य” सूत्र से अन्त्य लोप की व्यावृत्ति के लिए सूत्र में “तस्य” ग्रहण सार्थक है । “एचोऽयवायाव” सूत्र से जो अयादि आदेश होते हैं वहाँ यकारादि का लोप उच्चारणसामर्थ्यात् नहीं होता है । जब उनका लोप ही नहीं होता तो उनकी इत् संज्ञा करना भी अनावश्यक ही है, इसलिए फलाभावात् उनकी इत्संज्ञा भी नहीं होती है ।
॥ महाभाष्यम् ॥
(१२७. लोपविधिसूत्रम् १.३.१ आ. ६)
१५६. तस्य लोपः १.३.९
॥ तस्यपदोपादानप्रयोजनाधिकरणम् ॥
आक्षेपभाष्यम् - तस्यग्रहणं किमर्थम्?
आक्षेपबाधकभाष्यम् - इत्सञ्ज्ञकः प्रतिनिर्दिश्यते ।
आक्षेपसाधकभाष्यम् - नैतदस्ति प्रयोजनम् । प्रकृतमिदिति वर्तते । क्व प्रकृतम् ? 'उपदेशेऽजनुनासिक इद्' इति ।
आक्षेपबाधकभाष्यम् - तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः ।
आक्षेपसाधकभाष्यम् - अर्थाद्विभक्तिविपरिणामो भविष्यति । तद्यथा - 'उच्चानि देवदत्तस्य गृहाणि, आमन्त्रयस्व' (एनम्) देवदत्तमिति गम्यते । 'देवदत्तस्य गावोऽश्वा हिरण्यं च, आढ्यो वैधेयः' देवदत्त इति गम्यते । पुरस्तात्षष्ठीनिर्दिष्टं सदर्थात् द्वितीयानिर्दिष्टं प्रथमानिर्दिष्टं च भवति । एवमिहापि पुरस्तात्प्रथमानिर्दिष्टं सदर्थात्षष्ठीनिर्दिष्टं भविष्यति ।
समाधानभाष्यम् - इदं तर्हि प्रयोजनम् - ये अनेकाल इत्सञ्ज्ञास्तेर्षा लोपः सवदिशो यथा स्यात् ।
आक्षेपभाष्यम् - अर्थ क्रियमाणेऽपि वै तस्यग्रहणे कथमिव लोपः संदिशो लभ्यः ।
॥ समाधानभाष्यम् - लभ्य इत्याह । कुतः ? वचनप्रामाण्यात् । तस्यग्रहणसामर्थ्यात् । णलादीनां लोपसाधनाधिकरणम् ॥
(८४१. आक्षेपवार्त्तिकम् - १) * इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानमित्प्रतिषेधात् *
भाष्यम् - इतो लोपे णल्क्त्वानिष्ठासूपसंख्यानं कर्तव्यम् । णल् - अहं पपच । क्त्वा - देवित्वा सेवित्वा । निष्ठा - शयितः शयितवान् । किं पुनः कारणं न सिद्धयति ? इत्प्रतिषेधात् । प्रतिषिध्यते तत्रेत्सञ्ज्ञा । णलुत्तमो णिद्वा भवति । क्त्वासेण न किद्भवति । निष्ठा सेणू न किद्भवतीति ।
(८४२. समाधानवार्त्तिकम् - २) * सिद्धं तु णलादीनां ग्रहणप्रतिषेधात् *
भाष्यम् - सिद्धमेतत् । कथम् ? णलादीनां ग्रहणानि प्रतिषिध्यन्ते । णलुत्तमो वा णिद् - ग्रहणेन गृह्यते । क्त्वा सेण्न किग्रहणेन गृह्यते । निष्ठा सेण्न किग्रहणेन गृह्यत इति ।
(८४३. समाधानान्तरवार्त्तिकम् - ३) * निर्दिष्टलोपाद्वा *
भाष्यम् - निर्दिष्टलोपाद्वा सिद्धमेतत् । अथवा निर्दिष्टस्यातं लोपः क्रियते तस्मात्सिद्धमेतत् ।
(८४४. आक्षेपवार्त्तिकम् - ४) * तत्र तुस्मानां प्रतिषेधः *
भाष्यम् - तत्र तुस्मानां प्रतिषेधो वक्तव्यः । तस्मात् । तस्मिन् । यस्मात् । यस्मिन् । वृक्षाः । प्लक्षाः । अचिनवम् । असुनवम् । अकरवम् ।
(८४५. समाधानवार्त्तिकम् - ५) * न वोच्चारणसामर्थ्यात् *
भाष्यम् - न वा वक्तव्यः । किं कारणम् । उच्चारणसामर्थ्यादत्र लोपो न भविष्यति ।
॥ विप्रतिषेधनिराकरणाधिकरणम् ॥
(८४६. आक्षेपवार्त्तिकम् - ६) * अनुबन्धलोपे भावाभावयोर्विप्रतिषेधादप्रसिद्धिः *
भाष्यम् - अनुबन्धलोपे भावाभावयोर्विरोधादप्रसिद्धिः । न ज्ञायते केनाभिप्रायेण प्रसजति केन निवृत्तिं करोतीति ।
(८४७. समाधानवार्त्तिकम् - ७) * सिद्धं त्वपवादन्यायेन *
भाष्यम् - सिद्धमेतत् । कथम् ? अपवादन्यायेन । किं पुनरिह तथा यथोत्सर्गापवादौ ?
(८४८. समाधानसाधकवार्त्तिकम् - ८) * भावो हि कार्यार्थोऽनन्यार्थो लोपः *
भाष्यम् - कायें करिष्यामीत्यनुबन्ध आसज्यते कार्यादन्यन्मा भूदिति लोपः ।
॥ अनुबन्धानामेकान्तत्वाधिकरणम् ॥
आक्षेपभाष्यम् - अथ यस्यानुबन्ध आसज्यते किं स तस्यैकान्तो भवत्याहोस्वि - दनेकान्तः ?
(८४९. एकान्तपक्षाभ्युपगमवार्त्तिकम् - ८) * एकान्तस्तत्रोपलब्धेः *
भाष्यम् - एकान्त इत्याह । कुतः ? तत्रोपलब्धेः । तत्रस्थो ह्यसावुपलभ्यते । तद्यथा - वृक्षस्था शाखा वृक्षैकान्तोपलभ्यते ।
(८५०. एकान्तपक्षदूषणवार्त्तिकम् - ९) * तत्रासरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोनाकारान्तत्वात् *
भाष्यम् - तत्रासरूपविधौ दोषो भवति - 'कर्मण्यण्' 'आतोऽनुपसर्गे क' इति कविषयेऽणपि प्राप्नोति । सर्वादेशे च दोषो भवति । 'दिव औत्' औत्सर्वादेशः प्राप्नोति । दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः - 'अदाब्दैपौ' इति वक्तव्यम् । किं पुनः कारणं न सिद्धयति ? अनाकारान्तत्वात् । ननु चात्त्वे कृते भविष्यति । तद्भयात्त्वं न प्राप्नोति । किं कारणम् ? अनेजन्तत्वात् ।
अनेकान्तपक्षाभ्युपगमभाष्यम् - अस्तु तर्हानेकान्तः ।
(८५१. अनेकान्तपक्षदूषणवार्त्तिकम् - १०) * अनेकान्ते वृत्तिविशेषः *
भाष्यम् - यदि अनेकान्तो, वृत्तिविशेषो न सिद्धयति । किति णितीति कार्याणि न सिद्धयन्ति । किं हि स तस्येद्भवति, येनेत्कृतं स्यात् ?
अनन्तरपक्षाभ्युपगमभाष्यम् - एवं तर्हानन्तरः ।
(८५२. अनन्तरपक्षदूषणवार्त्तिकम् - ११) * अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतप्रसङ्गः *
भाष्यम् - अनन्तर इति चेत्पूर्वोत्तरयोरित्कृतं प्राप्नोति ॥ वुञ्छण् ॥
(८५३. समाधानवार्त्तिकम् - १२) * सिद्धं तु व्यवसितपाठात् *
भाष्यम् - सिद्धमेतत् । कथम् ? व्यवसितपाठः कर्तव्यः । दुञ् छण् । स चावश्यं पाठः कर्तव्यः ।
(८५४. समाधानसाधकवार्त्तिकखण्डम् - १२) * इतरथा होकान्तेऽपि सन्देहः *
भाष्यम् - अक्रियमाणे व्यवसितपाठे एकान्तेऽपि सन्देहः स्यात् । तत्र न ज्ञायते किमयं पूर्वस्य भवत्याहोस्वित्परस्येति ।
सन्देहापाकरणभाष्यम् - सन्देहमात्रमेतद्भवति । सर्वसन्देहेषु चेदमुपतिष्ठते 'व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्' इति । पूर्वस्येति व्याख्यास्यामः ।
(८५५. समाधानान्तरवार्त्तिकम् - १३) * वृत्ताद्वा *
भाष्यम् - वृत्ताद्वा सिद्धमेतत् । वृद्धिमन्तमाद्युदात्तं दृष्ट्वा ञिदिति व्यवसेयम् । अन्तोदात्तं दृष्ट्वा किदिति ।
आक्षेपभाष्यम् - युक्तं पुनर्यद् वृत्तनिमित्तको नामानुबन्धः स्यात्, नानुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् ।
समाधानभाष्यम् - वृत्तनिमित्तक एवानुबन्धः । वृत्तज्ञो ह्याचार्योऽनुबन्धानासजति ।
आक्षेपभाष्यम् - उभयमिदमनुबन्धेषूक्तमेकान्ता अनेकान्ता इति । किमत्र न्याय्यम् ?
समाधानभाष्यम् - एकान्ता इत्येव न्याय्यम् । कुत एतत् ? अत्र हि हेतुर्व्यपदिष्टः । यच्च नाम सहेतुकं तत्र्याय्यम् ।
आक्षेपभाष्यम् - ननु चोक्तम् 'तत्रासरूपसवर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशोनाकारान्तत्वाद्' इति ।
समाधानभाष्यम् - असरूपविधौ तावन्न दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - 'नानुबन्धकृतमसारूप्यं भवति' इति, यदयं ददातिदधात्योर्विभाषां शास्ति । यदप्युक्तम् - 'सर्वादेश' इति । तत्राप्याचार्यप्रवृत्तिर्ज्ञापयति - 'नानुबन्धकृतमनेकाल्त्वं इति, यदयं 'शित्सर्वस्य' इत्याह । यदप्युक्तम् - 'दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः' इति । न कर्तव्यः । आचार्यप्रवृत्तिर्ज्ञापयति - 'नानुबन्धकृतमनेजन्तत्वं भवति' इति, यदयम् 'उदीचां माडो व्यतीहारे' इति मेङः सानुबन्धकस्यात्त्वभूतस्य ग्रहणं करोति । तस्य लोपः ॥ ९ ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know