Ad Code

१.३.२ सूत्राणि:॥ उपदेशेऽजनुनासिक इत् ॥ ॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

 



१.३.२

सूत्राणि:॥ उपदेशेऽजनुनासिक इत्

॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥

विभक्तिः - उपदेशे ७।१ अच् १।१ अनुनासिकः १।१ इत् १।१।  

अन्वयः - उपदेशेऽनुनासिकोऽच् इत् ।

अर्थ: - पाणिनीय-उपदेशेऽनुनासिकोऽच् इत्-संज्ञको भवति ।      

उदाहरणम् - (एवँ वृद्धौ) एधते । (स्पर्ध संघर्षे) स्पर्धते ।

आर्यभाषार्थ - (उपदेशे) पाणिनिमुनि के उपदेश में (अनुनासिकः) अनुनासिक गुणवाले (अच्) स्वर की (इत्) इत् संज्ञा होती है ।

उदाहरणम् - (एधँ वृद्धौ) एधते । वह बढ़ता है । (स्पर्ध संघर्षे) स्पर्धते । वह संघर्ष करता है ।

सिद्धिः - (१) एधते । एधँ + लट् । एध् + शप् + त । एध् + अ + ते । एधते । यहां 'एवँ वृद्धी' (भ्वा.आ.) धातु से 'वर्तमाने लट्' प्रत्यय, होने पर इस सूत्र से 'एध' धातु के अनुनासिक 'अँ' स्वर का लोप होता है । 'तिप्तस्झि' (३.४.७८) से 'ल्' के स्थान में 'तू' आदेश और 'कर्तरि शप' (३.१.६८) से विकरण शप्' प्रत्यय होता है । ऐसे ही स्पर्धते ।

विशेष - अष्टाध्यायी, धातुपाठ, उणादिकोष, गणपाठ और लिङ्गानुशासन के रूप में पाणिनिमुनि का उपदेश आज उपलब्ध होता है । उसमें इत् (लोप) किये जानेवाले स्वर का अनुनासिक गुण लगाकर उपदेश नहीं किया गया है, किन्तु प्रतिज्ञाऽनुनासिकक्या: पाणिनीया:' पाणिनि के शिष्य जिस स्वर की इत् संज्ञा करनी है उसे गुरु के प्रतिज्ञामात्र (कथनमात्र) से अनुनासिक मानते हैं कि अमुक स्वर अनुनासिक है और उसकी इत् संज्ञा कर लेते हैं । यहां 'ए' धातु में समझने के लिये अनुनासिक गुण दिखा दिया है ।

॥ काशिका ॥

उपदिश्यतेऽनेनेत्युपदेशः = शास्त्रवाक्यानि; सूत्रपाठः, खिलपाठश्च । तत्र योऽनुनासिकः स इत्संज्ञो भवति । एध । स्पर्द्ध । ‘प्रतिज्ञानुनासिक्याः पाणिनीयाः (व्या.प.१२१) । उपदेश इति किम् ? ‘अभ्र आँ अपः (ऋ.५.४८.१) । अजिति किम् ? “आतो मनिन्क्वनिब्वनिपश्च” (३.२.७४/३४१८) । अनुनासिक इति किम् ? सर्वस्याचो मा भूत् । इत्प्रदेशा: - ”आदितश्च” (७.२.१६/३०३६) इत्येवमादयः ॥

॥ न्यासः ॥

‘उपदिश्यतेऽनेनेत्युपदेशः’ इति । ‘अकर्तरि च कारके संज्ञायाम्’ (३.३.१९) इति करणे घञ् ननु च संज्ञायामित्युच्यते, न चेयं संज्ञा ? नैतदस्ति; ‘कृत्यल्युटो बहुलम्’ (३.३.११३) इति बहुलवचनादसंज्ञायामपि भवतीत्यदोषः । ‘शास्त्रवक्यानि’ इति . अस्येदं विवरणम् - ‘सूत्रपाठः, खिलपाठश्च’ इति । खिलपाठः = धातुपाठः । चकारात् प्रातिपदिकपाठश्च । अथ रगेलगेप्रभृतीनां कथमानुनासिक्यम्; न हि तेषामानुनासिक्यं गणे पठ्यते ? अथापरिपठितानामपि भवति, तदा ‘भू’ इत्येवमादीनां कस्मान्न भवतीत्याह - ‘प्रतिज्ञाननासिक्याः पाणिनीयाः’ इत्यादि । प्रतिज्ञयाऽऽनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः । यत्रैवानुनासिक्यं पाणिनीयाः प्रतिजानते, तत्रैव तदपठ्यमानमपि भवति, नान्यत्र । एतदपि प्रतिज्ञानं नानियमेन भवति, किं तर्हि ? यत्रैवाचार्याः स्मरन्ति तत्रैव तेन भवितवयम्, यथा स्वरितत्वमनुदात्तत्वञ्च स्मरणेन विज्ञायते, तथाऽऽनुनासिक्यमपि । यदि तर्ह्यनुनासिक्यं प्रतिज्ञामात्रभावि तत् किमर्थं तत् क्वचित् पठ्यते - ‘डुपचष् पाके’ (धा.पा.९९६) इत्यादौ ? एवंविधोऽर्थोऽनुनासिकः प्रतिज्ञेय इत्यर्थस्य प्रदर्शनार्थम् । ‘अभ्र आँ अपः’ इति । अत्रोपपदेशात्तूत्तरकालम् ‘आडोऽनुनासकिश्छन्दसि’ (६.१.१२६) इत्यनेनानुनासिको विहितः, तेनेत्संज्ञा न भवति । ननु चानुनासिकविधानसामर्थ्यादेव न भविष्यति, तत् किमुपदेशग्रहणेन ? इत्संज्ञायां हि सत्यां तस्य लोपः’ (१.३.९) इति लोपः स्यात्, ततश्चानुनासिकविधानमनर्थकं स्यात्, सत्यमेतत्; एवं मन्यते - उत्तरार्थमवश्यमुपदेशग्रहणं कर्त्तव्यम् । उत्तरार्थ क्रियमाणमिहापि विस्पष्टार्थं भविष्यति अथवा - प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता । इदन्त्वत्र प्रत्युदाहरणम् - ‘अणोऽप्रगृह्यस्यानुनासिकः’ (८.४.५७), दधिं ब्राह्मणकुलम् । यद्यत्रेत्संज्ञा स्यात् ‘इदितो नुम् धातोः’ (७.१.५८) इति नुम् स्यात् । ननु च धातोरित्युच्यमाने धातोर्नुम् विधीयते नचायं धातुः, किं तर्हि ? प्रातिपदिकम्,तत्कथं नुम् स्यात् ? नैतदस्ति; ‘क्विबन्ता धातुत्वं न जहति’ (व्या. प. १३२) इति क्विबन्तत्वाद्धातुत्वं भवति आत्मनो दधीच्छति ‘सुप आत्मनः क्यच्’ (३.१.८) दधीयति, दधीयतेः क्विप्; दधिं ब्राह्मणकुलमि - ‘अतो लोप:’ (६.४.४८) इत्यकारलोपः । ‘लोपो व्योर्वलि’ (६.१.६६) इत्यत्रादौ लोपग्रहणात् पूर्वं यकारस्य लोपो भवति । ‘वेरपृक्तस्य’ (६.१.६७) इति वकारस्य । प्रत्ययलोपलक्षणेन ‘अकृतसार्वधातुकयोः’ (७.४.२५) इति दीर्घः । ह्रस्वो नपुंसके प्रातिपदिकस्य’ (१.२.४७) इति ह्रस्वत्वम् । ‘अणोऽप्रगृह्यस्यानुनासिकः’ (८.४.५७) इत्यनुनासिके कृते ‘क्वबन्ता धातुत्वं न जहति’ (व्या. प. १३२) इति नुम् स्यात् । अश्मा,भस्मेति ‘आतो मनिन्’ (३.२.७४) इत्यत्र मकारस्येत्संज्ञा न भवति यदि हि स्यात्, ‘अन्येभ्योऽपि दृश्यन्ते’ (३.२.७५) इति हलन्तेभ्यो विधीयमानो मनिन्नचोऽन्त्यात् परः स्यात् । ‘सर्वस्याचो मा भूत्’ इति । दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥ 

॥ पदपञ्जरी ॥

उपदिश्यतेऽनेनेत्युपदेश इति । अकर्त्तरि च कारके इति करणे घञ् । ननु च नेयं संज्ञा, परत्वाच्च करणाधिकरणयोः इति ल्युट् प्राप्नोति, हलश्च इत्यत्रापि संज्ञायामित्येव । ल्युट् तावन्न भवति, कृत्यल्युटो बहुलम् इति । अकर्तरि च इत्यत्र चकारो भिन्नक्रमः - संज्ञायां चेति, तेन क्कचिदसंज्ञायामपि भवति । अथोपदिश्यतेऽनेनेत्यत्रोपदेशः कोऽर्थः ? विधानम् । यद्येवम् लण् एध वृद्धौ इत्यादौ न स्यात्, न ह्यत्र किञ्चिद्विधीयते । अथानिर्ज्ञातस्वरूपस्य स्वरूपज्ञापनं तत्, आचारेऽवगल्भक्लीबहोडेभ्यः क्किप् इत्यत्र गल्भाद्यकारस न स्यात् न हि गल्भादीनां स्वरूपज्ञापनार्थमुच्चारणम्;पञ्चमीनिर्देशेन क्किपो विधानात् । यद्येवम्, क्किबनेनानिर्ज्ञातरूपो ज्ञाप्ते, तत्र चायं भवत्यकार इति भविष्यति । शास्त्रवाक्यानीति । लण्-एध-स्पर्द्धत्यादीनामपि विशिष्टप्रयोजनपरत्वेनोच्चारणाद् वाक्यत्वम् । अस्यैव विवरणम् - सूत्रपाठ इति । खिलपाठः = धातुपाठः प्रातिपदिकपाठः, वाक्यपाठश्च । तत्र सूत्रे मतुबादेरुकारः, धातुषु एधाद्यकारः प्रातिपदिकेषु भवच्छब्दस्योकारः, वाक्ये गल्भाद्यकारः । ननु च सर्वत्रात्र शुद्धोऽच् पठ्यते, नानुनासिक इत्यत आह - प्रतिज्ञानुनासिक्या इति । प्रतिज्ञामात्रेण समधिगम्यमानुनासिक्यं येषां ते तथोक्ताः । प्रतिज्ञानुनासिका इति तु प्रसिद्धः पाठः । तत्र प्रतिज्ञासमधिगम्यत्वाद् अनुनासिके प्रतिज्ञाशब्दो द्रष्टव्यः । ततः समानाधिकरणपदो बहुव्रीहिः । तच्च प्रतिज्ञानं नानियमेन भवति, कि तर्हि ? यत्राचार्याः स्मरन्ति तत्रैव । सूत्रकारेण तावद्विवक्षिताः सर्वेऽनुनासिकाः पठिताः, डुलभष् प्राप्तौ इतिवत्, लेखकैस्तु संकीर्णा लिखिताः तत्र स्मृतिपरम्परया निर्णेयमित्यर्थः । अभ्र आँ अप इति । नायं सूत्रादिषु स्वरूपेणोच्चरितो । नुनासिकः किं तर्हि ? ‘आडोऽनुनासिकश्छन्दसि’ इत्यनुनासिकशब्देन विहितः । अथ क्रियमाणेऽप्युपदेशग्रहणे उञः ॐ इत्यत्र कस्मान्न भवति ? विधानसामर्थ्याद् । इत्संज्ञायां हि तस्य लोपः इति लोपः स्यात् । यद्येवम्, अत्रापि विधानसामर्थ्यादेव न भविष्यति । एवं तर्हि उदाहरणदिगियं दर्शता । इदं तत्रोदाहरणम् - अणोऽप्रगृह्यस्यानुनासिकः कधीच्छति ब्राह्मणकुलमिति क्यजन्तात्क्विपि अल्लोपे, वलि लोपे, नपुंसकहस्वत्वं दधि इति । यद्यत्रेत्संज्ञा स्यात्’इदितो नुम् धातोः इति नुम् स्यात् । अत्राप्यनुनासिकविधानसामर्थ्यादेवेत्संज्ञा न भविष्यति । ननु च यत्रेत्संज्ञायां सत्यां प्रयोजनं न सम्भवति, यथा - दधि, मध्विति प्रातिपदिकेषु तत्रेत्संज्ञाया अभावः । अत्रानुनासिकविधानमर्थवत्, नैतदेवम्, लोपस्येत्कार्यस्य सर्वत्र सम्भवात् । तस्मादणोऽप्रगृह्यस्य इत्संज्ञायामेव विधेयायामनुनासिकविधानसामर्थ्यादेवात्र लोपो न भविष्यति । एवं तह्युत्तरार्थमवश्यम्’उपदेश’ इति वक्तव्यम्, तदिहापि विस्पष्टर्थं भविष्यतीति मन्यते । आतो मनिन्निति । अत्र मकारस्येत्संज्ञा न भवति । यदि स्याद्, अन्येभ्योऽपि दृश्यन्ते इति हलन्तेऽन्त्यादचः परः स्यात् । सर्वस्येति । दरिद्राप्रभृतिसम्बन्धिनोऽपि ॥ 

॥ शब्दकौस्तुभः ॥

उपदेशेऽनुनासिकोजित्त्संज्ञः स्यात् । उपदिश्ष्यतेनेनेत्युपदेशः । “कृत्यल्युटो बहुलम्” (३.३.११३) इति बाहुलकात्करणे घञ् । अन्यथा ल्युट स्यात् । स च धातुपाठप्रातिपदिकपाठौ सूत्रवार्त्तिके च । एतैर्हि शब्दा उपदिश्यन्ते । तत्र शास्त्रकृता पठितस्याप्यनुनासिकस्य पाठ इदानीमपभ्रष्टः । अत एवाहुर्वत्तिकाराः - ”प्रतिज्ञानुनासिक्याः पाणिनीयाः” इति । तत्र एध, स्पर्ध, इत्यादावनुदात्तेत्वादात्मनेपदम् । एधते, स्पर्धते । ‘भवति’ इत्यत्रोगित्त्वान्नुम् । भवान् । “लण्” (मा.सू.६) सूत्रे अकारस्येत्त्वादद्गप्रत्याहारसिद्धिः । “आचारेऽवगल्भक्लीबहोढेभ्यः” (का.वा.) इतिवार्त्तिकेऽवगल्भादेरनुनासिकत्त्वेनानुदात्तेत्त्वात्तङ्ग। अवगल्भते इत्यादि । उपदेशे इति किम् ? अभ्र आँ अपः । “आङोनुनासिकश्छन्दसि” (६.१.१२६) इत्यनुनासिकः । नाऽसौ शास्त्रे पठितः । नन्वेवं “उञः” (१.१.१७)  “ऊँ” (१.१.१८) इत्यत्रातिप्रसङ्गः । विधानसामर्थ्यान्नेति तु प्रकृतेपि तुल्यम् । अथ “अनुबन्धा अनेकान्ताः” इति पक्षे ‘अभ्र आँ अटितः’ इत्यादौ “आदितश्च” (७.२.१६) इतीणिनषेधार्थमित्संज्ञाकिन्न स्यादिति चेन्न । एवमपि “आङ इत्” इति वक्तव्ये अनुनासिकविधानस्य वैयर्थ्यापत्तेः । एतेन दधि इच्छतीति दधि ब्राह्मणकुलं दधीयतेः क्विप्यल्लोपयलोपयोर्ह्रस्वत्वे च “अणोऽप्रगृह्यस्य” (८.४.५७) इति नुम् स्यात् । ‘दधि’ ‘मधु’ इत्यादिषु प्रातिपदिकेषु ‘भवति’ ‘पचति’इत्यादिषु च इत्कार्यं लोप एव स्यात् । तस्मादुपदेशग्रहणं कर्त्तव्यमिति परास्तम् । “अणोऽप्रगृह्य इत्” इति वक्तव्येऽनुनासिकविधानसामर्थ्यादित्संज्ञाविरहोपपत्तेः । सत्यम् । उत्तरार्थमुपदेशग्रहणम् । अजिति किम् ? मनिन्‌प्रत्यये मकारस्य मा भूत् । सत्यां हि तस्यां “अन्येभ्योपि दृश्यन्ते’(३.२.७५) इति हलन्तेष्वन्त्यादचः परः स्यात् । अनुनासिकः किम् ? चिरिणोति, जिरिणोति ।

॥ व्याकरणसिद्धान्तसुधानिधिः ॥

उपदिश्यतेऽनेनेत्युपदेशः । कृत्यल्युटो बहुलम् इति बाहुलकात्करणे घञ् । न च तदाश्रयणे मानाभावः । भाष्योक्तेरेव तथात्वात् । स च धातुप्रातिपदिकपाठे, सूत्रवात्र्तिक च । एतैर्हि शब्दा उपदिश्यन्ते । तत्रानुनासिकोऽच् इत् संज्ञा स्यात् । न च पुंसि संज्ञायां घः प्रायेण इति घप्रत्यय एवास्त्विति वाच्यम् । संज्ञात्वाभावात् । शास्त्रकारसङ्केतविरहात् । न च प्रायेण संज्ञायामिति व्याख्यानाद् असंज्ञायामपि तदुपपत्तिः । प्रायसंज्ञाग्रहणयोर्विधेयविशेषणत्वमपहाय परस्परं विशेषणविशेष्यभावानौचित्यात् । तदुक्तं भाष्ये नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् इति । उपाधिविशेषणयोश्च वाच्यत्वावाच्यत्वाभ्यां विशेषः । यथा दृतिहरिशब्देन पशुरभिधीयते इति पशुरुपाधिः । गार्गिकया श्लाघते इत्यत्र श्लाघाया वुञाऽनभिधानात्सा विशेषणम् । तदुक्तम् -

अर्थविशेष उपाधिस्तदन्तवाच्यः समानशब्दो यः । अनुपाधिरतोऽन्यः स्यात् श्लाघादिविशेषणं यद्वत् ॥

अनयोश्च क्रियाभावशब्दयोरिव क्वचित्पर्यायत्वं क्वचिद्भेदेनव्यवहार इति द्रष्टव्यम् । तस्माद्बाहुलकमेव स्थितमिति मूलानुयायिनः । एतेनोपदेशपदार्थविचारभाष्योपक्रमस्थस्य न्यायप्राप्तानुवादकस्य प्राबल्यानुमानेनोक्तार्थे भाष्यकृतस्तात्पर्य नास्तीति परास्तम् । उत्तरपक्षत्वेन साक्षादुपन्यस्ते तात्पर्याभावानुमानस्य बाधितत्वात् । यदप्युक्तम् - भाष्यकारस्य करणे घजुक्तिः किं पाणिनीयव्याकरणसापेक्षा उत तन्निरपेक्षा । नाद्यः, उक्तन्यायेन घञसिद्धेः । नान्त्यः, पाणिनीयसूत्रोपन्यासस्यासङ्गततापत्तेः । तस्मान्यायविरुद्धे भाष्यस्य न तात्पर्यमिति । तदप्यसत्, बहुलग्रहणानुसारेण सूत्रतात्पर्यस्यैव भाष्यकृता स्फुटीकृतत्वात् । अन्यथा बहुलग्रहणवैयर्थ्यापत्तेः । प्रत्याहारशब्देऽधिकरणे घञिति स्वयमेवोक्तत्वाच्च । अत एवासत्र्यायोपन्यासपूर्वकस्मृतिसाम्यमप्यपास्तम् । भावघञन्तत्वपक्षे उच्चारणक्रियायामन्त्यत्वासम्भवेन शब्दद्वारकस्यान्त्यत्वस्य ग्रहणे गौरवाच्च । अन्यथा प्रतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणेति वदतां कर्मण्यङा दूषणानुपपत्तेश्च । अन्ये त्वाहुः वासरूपन्यायेन करणेऽपि घञ् सुवचः । न च क्तल्युतुमुन्खलर्थेषु वासरूपविधिर्नास्तीति वाच्यम् । भावानवबोधात् । तत्र हि क्तल्युटौ नपुंसके भावे विहितावेव गृह्येते, परस्परसाहचर्यात् । न तु भूतवर्त्तमानक्तौ करणाधिकरणल्युटौ च । तेन निष्ठा इति भूतक्तविषये अशयिष्ट अभविष्ट इत्यादौ लुङ् सिद्धः । विधिसामर्थ्यात्समाधाने गौरवात् । तथा जीतः क्तः, मतिबुद्धिपूजार्थेभ्यश्च इति वर्त्तमान क्तविषये क्ष्वेदते, क्ष्विद्यति, मेदते, मेद्यति, स्वेदते, स्विद्यति, इच्छति, जानाति पूजयतीत्यादौ लट्, तद्भिन्नधातुषु लड्विधेश्चरितार्थत्वात् । एवं करणल्युटो विषये उपदेशेत्यादौ, अधिकरणल्युटो विषये प्रासाद इत्यादौ घञ् । न चैवं धातुमात्रात्करणाधिकरणयोर्घञापत्तिः । अभिधानलक्षणाः कृत्तद्धितसमासाः इति न्यायात् । 

अयमेव बाहुलकात्करणे घर्ज वदतो भगवतोऽप्यभिप्रायः । कृत्यल्युटो बहुलम् इत्यत्र ल्युट्पदं करणाधिकरणल्युट्परम्, क्वचित्कारकान्तरेऽपि भवति क्वचित्करणाधिकरणयोरपीत्यर्थकबहुलशब्दस्य तेनैव सम्बन्धसम्भवात् । भावातिरिक्त साधने करणाधिकरणयोरित्यनेनैव ल्युटो विधानेन तत्र भावल्युटो ग्रहणासम्भवात् । अत एव तत्र कृत्यग्रहणमपि कर्मार्थकतत्परम् । कारकान्तरेऽपि भवतीत्यर्थेन बहुलग्रहणेन बहुभ्यो धातुभ्यः सदा भवति कस्माच्चिद्धातोः कदाचिद्भवतीत्यर्थः । तथा च प्रकृतपरिभाषायां करणाधिकरणल्युटो ग्रहणं न भवति वैयर्थ्यादिति पर्यवसन्त्रम् । अत एव प्रत्ययसूत्रे प्रतियन्त्यर्थमनेनेति प्रत्ययः । यद्वा पुंसि संज्ञायाम् इति घ इति अनुन्यासग्रन्थः सङ्गच्छते । बाहुलकात्परस्यापि करणल्युटोऽप्रवृत्तिपक्षे अचः सम्भवात् । एतेन करणल्युटा बाधितत्वादेरच् तत्र न भवत्येव उक्तपरिभाषानुरोधादिति मैत्रेयग्रन्थो निरस्तः । 

यत्तु सीरदेवेनोक्तम् तत्परिभाषायां क्तस्तावन्नपुंसके भावे विहित एव गृह्यते ल्युटा साहचर्यात् । ल्युडपि यदि भावे विहित एव गृह्येत तर्हि तेनैव हासमित्यादेर्वारणसम्भवात् क्तग्रहणं व्यर्थमेव स्यात् । क्तग्रहणाश्रये तु ल्युट् त्यक्तुं न शक्यते सकर्मकेभ्यो भावे क्तस्याभावात् । तथा च क्तग्रहणसामर्थ्यात्सामान्यविहितो ल्युट् गृह्यते इति मैत्रेयोक्तं युक्तमिति । तन्त्र, ल्युट्सामान्यग्रहणे तत्साहचर्याद्भावे क्त एव गृह्यते इत्यस्य व्याहतत्वात् । नापि ल्युट्ग्रहणेन हासमित्यादिवारणसम्भवः, परस्पराप्रवृत्तिपक्षे एव परस्परेण प्रवर्त्तितव्यमित्यस्य सर्वसम्मततया ल्युटोऽप्रवृत्तिपक्षे तस्य नित्यं बाधकत्वाभावेन घञो दुर्वारत्वात् । यदपि तेनोक्तं वुञ्छणादिसूत्रे सप्तदशप्रत्यया इति वृत्तिग्रन्थोऽनुन्यासमतेऽनुपपन्नः स्यात् । परिमाणाख्यायां सर्वेभ्यः इति घञोऽजपवादत्वात् । तदप्ययुक्तम्, प्रत्ययशब्दस्य परिमाणाख्यत्वाभावात् । न च सङ्ख्यावाचिन्युपपदे घञिति तदर्थः । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ इत्यादिभाष्योदाहरणविरोधात् । उपपदमतिङ् इति नित्यसमासप्रसङ्गादित्याहुरित्यास्तां तावत् । उदाहरणम् एधेत्यत्र अनुदात्ताकारस्य इत्संज्ञत्वाद् अनुदात्तडित्तः इत्यात्मनेपदम् । न च तस्यानुभवसिद्धत्वाभावः । सूत्रकृता तादृशस्यैव पाठेऽपीदानीमनुनासिकपाठस्यापभ्रष्टत्वात् । तदुक्तम् प्रतिज्ञानुनासिक्याः पाणिनीया इति । एवं तत्र तत्राभियुक्तव्यवहारवशादुन्नेयम् । उपदेशे किम् ? अभ्र आँ अपः । आङोऽनुनासिकश्छन्दसि इत्यनुनासिकः । अस्य शास्त्रे पाठाभावान्न संज्ञा । 

ननु उन ऊँ इत्यत्रातिप्रसङ्गः, स्वरूपेणैव पठितत्वात्, विधानसामर्थ्यस्य चोभयत्रापि अविशेषात् । न च अनेकान्ता अनुबन्धाः इति पक्षे अन आं अटित इत्यादावादित्त्वादिडभावार्थम् इत्संज्ञापत्तिः । आडिदित्येतावताऽपि तत्सिद्धेः । अत एव दधीच्छति दधि ब्राह्मणकुलम् । दधीयतेः क्विप्यल्लोपयलोपह्रस्वेषु अणोऽप्रगृह्यस्य

 इत्यनुनासिकस्य अनुनासिक इति इत्संज्ञायां नुमापत्तिः । दधिमध्वादिषु पचति भवतीत्यादिषु इत्कार्यं लोप एव स्यादत् उपदेशग्रहणमित्यपास्तम् । अणप्रगृह्य इद् इत्येतावतैव तदुपपत्तेरनुनासिकविधानवैयर्थ्यात् । इतश्च इति लोपविधानवैफल्याच्च । तस्मादुपदेशपदं व्यर्थमिति चेदत्राहुः उत्तरार्थ तदिति । अजिति किम् ?  मनिनो मकारस्य मा भूत् । तथा च अन्येभ्योऽपि दृश्यते इति हलन्तेषु मित्त्वादन्त्यादचः परः स्यात् । अनुनासिकः किम् ?  चिरिणोति जिरिणोति । अत्र मा भूत् । 

॥ सिद्धान्तकौमुदी ॥

उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते ॥

॥ बालमनोरमा ॥

लण्सूत्रे अकारश्चेति प्रतिज्ञातम् । तस्य अकारस्य अनन्त्यत्वादहल्त्वाच्च हलन्त्यमिति इत्संज्ञायामप्राप्तायां तत्प्रापकं सूत्रमाह - उपदेशे । संज्ञाप्रस्तावात्संज्ञेति । लभ्यते । तदाह - उपदेशे अनुनासिक इत्यादिना । सूत्रे अजिति कुत्वाऽभाव आर्षः । `अजित्संज्ञः स्या'दिति विवरणे कुत्वाभावोऽसन्देहार्थः । ननु मुखेन नासिकया चोच्चार्यमाणो वर्णोऽनुनासिक इत्यनुपदमेव वक्ष्यते । शास्त्रकृता च एते कतिपयवर्णास्तथोच्चारिताः, इतरे तु केवलं मुखेन उच्चारिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह - प्रतिज्ञानुनासिक्याः पाणिनीया इति । प्रतिज्ञायते अभ्युपगम्यत इति प्रतिज्ञा । नित्यस्त्रीलिङ्गोऽयम् । स्त्रियामित्याधिकारे `आतश्चोपसर्गे' इकति कर्मण्यङ्‌ । अनुनासिकस्या भावः आनुनासिक्यम् । प्रतिज्ञा आनुनासिक्यं येषां ते प्रतिज्ञानुनासिक्याः पाणिनिशिष्या इत्यर्थः । शिष्यपरंपरया शास्त्रकृतां तथाविधमुच्चारणमिदनींन्तनानां सुगममिति यावत् । तदेवं लण्सूत्रे अकारस्य अनुनासिकत्वादित्संज्ञा सिद्धा । ततः किमित्यत आह - लण्सूत्रस्थेति । लण्सूत्रे तिष्ठतीति लण्सूत्रस्थः, स चासाववर्णश्च लण्सूत्रस्थावर्णः, तेन सहोच्चार्यमाणो रेफो र इत्येवंरूपो रेफलकारयोः संज्ञेत्यर्थः । वस्तुतस्तु रप्रत्याहार एव नास्तीति शब्देन्दुशेखरे व्यक्तम् । ननु आदिरन्त्येनेति सूत्रे मध्यगानामादेश्च संज्ञेति स्थितम् । एवंच अजादिप्रत्याहारेषु संज्ञाकोटिप्रविष्टानामन्त्यानामितां ग्रहणाऽभावेऽपि णकारादीनामपि मध्यगत्वाऽविशेषाद्ग्रहणं स्यात् । ततश्च रलयोः संज्ञेति पूर्वग्रन्थे रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वेन ग्राह्यत्वादित्यत आह - प्रत्याहारेष्वितां न ग्रहणमिति । प्रत्याहारेषु=अजादिसंज्ञासु मध्यवर्तिनामपि इतां न ग्रहणमित्यर्थः । कुत इत्यत आह - अनुनासिक इत्यादिनिर्देशादिति । आदिना `तृषिमृषिकृषेः काश्ग्रपस्य' इत्यादिसंग्रहः । कथमयं निर्देश उक्तार्थे हेतुरित्यत आह - न हीति । अत्र अनुनासिकशब्दे ककारे परे इकारस्य अच्प्रयुक्तं कार्यम् `इको यणची'ति यणादेशो न दृश्यते हीति योजना । यदि हि अजादिप्रत्याहारेषु इतामपि ग्रहणं स्यात्तर्हि अच्‌प्रत्याहारे ॠलृक्‌ इति ककारस्यापि प्रविष्टत्वेन ्च्त्वात्तस्मिन् परे इकारस्य `इको यणचि' इति यणादेशे `लोपो व्योर्वलि' इति लोपे `अनुनास्क' इति स्यात् । इकारो न श्रूयते । श्रूयते च । अतः प्रत्याहारेष्वितां न ग्रहणमिति विज्ञायत इति भावः । यत्तु ॠलृगिति ककारस्य अच्‌प्रत्याहारप्रविष्यत्वेऽपि `प्रत्ययस्थात्' इत्यादिना इत्वविधिसामर्थ्यादेव यण् लोपश्च न भवति । अन्यथा लाघवाल्लोपमेव विदध्यात् । अतः प्रत्याहारेष्वितां न ग्रहणमित्यत्र अनुनासिक इत्यादिनिर्देशो न लिङ्गमित्याहुः । तन्न, `प्रत्ययस्थात्कात्‌पूर्वस्यातो लोप आप्यसुपः' इति लोपविधौ वर्णादिक्यप्रसङ्गात् । प्रत्याहारशब्दस्याऽप्रसिद्धार्थत्वादाह - आदिरन्त्येनेत्यादिना । प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णा इति व्युत्पत्तेरिति भावः । नच अणुदित्सूत्रसिद्धासु अइउ इत्यादिसंज्ञास्वतिप्रसङ्गः शङ्क्यः, योगरूढ्याश्रयणात् । वैयाकरणप्रसिद्धिवशाच्च तथा रूढिरिति भावः । तत्र वर्णसमाम्नायसूत्रेषु पूर्वेण णकारेण एकः प्रत्याहारः-अण् । ककारेण त्रयः-अक् इक् उक् । ङकारेण एकः-एङ्‌ । चकारेण चत्वारः-अच् इच् एच् ऐच् । टकारेण एकः-अट् । परेण णकारेण त्रयः-अण् इण् यण् । मकारेण चत्वारः-अम् यम् ञम् ङम् । ञकारेण एकः-यञ् । षकारेण द्वौ-झष् भष् । शकारेण षट्-अश् हश् वश् झश् जश् बश् । वकारेण एकः-छव् । यकारेण पञ्च-यय् मय झय् खय् चय् । रेफेण पञ्च-यर् झर् खर् चर् शर् । लकारेण षट्-अल् हल् वल् रल् झल् शल् । अकारेण एको रप्रत्याहारः इति वार्णसमाम्नायिकाः प्रत्याहाराश्चतुश्चत्वारिंशत्, एतेषामेव शास्त्रे उपयोगात् । इङित्यादिप्रत्याहारास्तु प्रयोजनाऽभावान्न भवन्ति, शास्त्रे तद्व्यवहाराऽभावात् । अत्राऽस्मदीया सङ्ग्रहकारिका - `स्यादेको ङञणवटैः, षेण द्वौ, त्रय इह कणाभ्याम् । चत्वारश्च चमाभ्यां, पञ्च यराभ्यां, शलाभ्यां षट् ।।'

॥ तत्त्वबोधिनी ॥

उपदेशेऽजनु । उपदेशनमुपदेशः । भावे घञ् । उपदेशे किंम् । अभ्र आँ अपः । सप्तम्यर्थद्योतकोऽत्राङ् । 'आङोऽनुनासिकश्छन्दसि' इत्याकारोऽनुनासिकः । यद्यपीह 'उञ् ऊँ' इत्यत्रेवानुनासिकविधानसामथ्र्यान्नेत्त्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कत्र्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम् । अच् किम् ? । मनिनो मकारस्य मा भूत् । नच 'हलन्त्यम्' इत्यन्त्यग्रहणसामथ्र्यादनन्त्यस्य मकारस्य न भवेदिति वाच्यम्, आलच् - त्राप्रत्ययादावतिप्रसङ्गवारणेन तस्य चरितार्थत्वात् । अनुनासिक इति किम् ? । 'ईक्ष दर्शने' । ईक्षितः । सत्यां हीत्संज्ञायां 'आआदितो निष्ठायाम्' इतीण् न स्यात् । यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रयणेनैव गतार्थत्वादनुनासिकसंज्ञासूत्रं मन्दप्रयोजनमिति ध्वनयितुं नेहोपन्यस्तम् । नचैवं 'यरोऽनुनासिके' इत्यत्र यरः पदान्तस्यानुनासिकशब्दे परेऽनुनासिकशब्दः स्यादित्यर्थः प्रसज्येत, 'स्वं रूपम्' इति परिभाषाया अनुपस्थितिकल्पबनात्सूत्रमतेऽपि दोषाऽभावात् । ननूक्तनिर्देशाश्रयमे प्रतिपत्तिगौरवमिति चेत्, अतएव 'निष्प्रयोजन' मित्यनुक्त्वा 'मन्दप्रयोजन' मित्युक्तम् । प्रतिज्ञेति । प्रतिज्ञायत इति प्रतिज्ञा । 'आतश्चोपसर्गे' इति कर्मण्यङ् । अनुनासिकस्य भाव आनुनासिक्यम् । 'गुणवचनब्राआहृणादिभ्यः' इति ष्यञ् । प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः । केचित्तु - प्रतिज्ञानं प्रतिज्ञा, सा अस्यास्तीति प्रतिज्ञम् । अर्शाअद्यच् । प्रतिज्ञमानुनासिक्यमेषामिति विगृह्णन्ति । यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टः, तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक्स्थित इत्यनुमीयत इति भावः । पाणिनीया इति । पाणिनीया प्रोक्तं पाणिनीयम् । 'वृद्धाच्छः' । तदधीयते विदन्ति वा पाणिनीयाः । 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक् ।ननु रलयोरिति न्यूनं, टकारस्यापि मध्यगत्वादत आह - प्रत्याहारेष्विति । अनुनासिक इत्यादीति । आदिशब्देन 'पापाणके कुत्सितैः', 'एङः पदान्तादति' इत्यादि ग्राह्रम् । प्रत्याहारशब्देनेति । प्रत्याह्यियन्ते सङ्क्षिप्यन्ते वर्णा यत्रेति प्रत्याहारः । 'करणाधिकरणयोश्च' इति ल्युटि प्राप्ते 'कुत्यल्युटो बहुल' मिति बहुलग्रहणादधिकरणे घञ् । यद्युपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तन्तथापि योगरूढिरिति भावः ।

॥ बृहच्छब्देन्दुशेखरः ॥

कौमुदीमूलम् — उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात् । प्रतिज्ञानुनासिक्याः पाणिनीयाः । लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । प्रत्याहारेष्वितां न ग्रहणम् । अनुनासिक इत्यादिनिर्देशात् ॥ नह्यत्र ककारे परेऽच्कार्यं दृश्यते । आदिरन्त्येनेत्येतत्सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते ॥

ननु शास्त्रेऽनुनासिकोच्चारणाभावात्तत्त्वज्ञानं दुर्लभमत आह — प्रतिज्ञेति । प्रतिज्ञाविषयानुनासिक्यवन्त इत्यर्थः । पाणिनीया इत्यस्य पाणिनिप्रभृतिप्रोक्ता वर्णा इत्यर्थः । प्रतिज्ञा चायमेवमिति कथनं, वर्णानां तत्त्वज्ञापको व्यवहारश्च, ताभ्यां तज्ज्ञानं सुलभमिति भावः । प्रतिज्ञातारश्च प्रत्यासत्त्यैतच्छास्त्रकर्तार एवेति दिक् ।

निर्देशादिति । तेषां तत्र ग्रहणे हि नासिकादौ यणापत्तिरिति भावः । न चेत्त्वविधिसामर्थ्याद्यणभावः सिद्धः । तस्यापि प्रत्याहारेष्वनुबन्धाग्रहणज्ञापनद्वारैव यणभावकल्पकत्वौचित्यात् । साक्षाच्छास्त्रबाधककल्पनापेक्षयाऽस्यार्थस्यौचित्यात् । निर्देशादित्यस्य - तन्मूलभूतेत्त्वविधानसामर्थ्यादित्यर्थ इति तात्पर्यम् । आदिना - तृषिमृषिकृषेरेकः पूर्वेत्यादिसङ्ग्रहः ।

ननु प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न इति वार्तिके प्रत्याहारशब्दस्य वर्णसमाम्नाये प्रसिद्धेः प्रत्याहारेष्वितामित्यनुपपन्नमत आह — आदिरन्त्येनेतीति । वार्तिके तादर्थ्यात्ताच्छब्द्यमिति भावः ।

॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥

यद्यप्यत्रोपजीव्यत्वादनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगत इति योगाश्रणेनैव गतार्थत्वाद् 'अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम्' इति ध्वनयितुं नेहोपन्यस्तम् । उपदेशे किम् ? 'अब्भ्र आँ अपः' । यद्यपीह उञः ऊँ इत्यत्रेव विधानसामर्थ्यान्नेत्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कर्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैव कृतम् । अच् किम् ? मनिनो मकारस्य मा भूत् । 'प्रतिज्ञायते इति प्रतिज्ञा' । आतश्चोपसर्गे इति कर्मण्यङ् । प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः । एवं च 'प्ररतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणा' इति क्लिष्टं व्याख्यानं नाश्रयणीयम्, 'पाणिन्युपज्ञं व्याकरणम्' इत्यादिष्विव लक्षणां विनैव निर्वाहात् । यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टस्तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक् स्थित इत्यनुमीयत इति भावः । ननु रलयोरिति न्यूनं, टकारस्यापि मध्यगतत्वादित्यत आह -  प्रत्याहारष्विति । व्यवह्रियन्ते इति । प्रत्याह्रियन्ते = संक्षिप्यन्ते वर्णा यत्रेति बाहुलकादधिकरणे घञ् । यद्यपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तं तथापि योगरूढिरिति भावः । प्रत्याहाराश्चैकचत्वारिंशदिति प्राञ्चः । चतुर्दशसूत्रीस्थैर्हल्भिरिद्भिः कृता अष्टाध्याय्यां व्यवहृता एकचत्वारिंशदिति तस्यार्थः । तेन सुप्तिङादीनां, रप्रत्याहारस्य, 'चयो द्वितीयाः' इति वार्तिकस्थस्थ'चय्'प्रत्याहारस्य चाधिकेऽप्यदोषः । यत्तु 'ञमङन्ताड्डः' 'यमिर्ञमन्तेष्वनिडेक इष्यते' इति च 'ञम्' वार्तिककृता व्यवहृत इत्याहुः, तद्रभसाऽभिधानम्, आद्यस्योणादिसूत्रत्वात् , द्वितीयस्य व्याघ्रभूतिकारिकास्थत्वात्; इत्यास्तां तावत् । एष च संख्यानियमो नातीवोपयुज्यत इत्युपेक्षितः ॥ 

॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥

कौमुदी - उपदेशेऽजनुनासिक इत् (पा. सू.१.३.२) उपदेशेऽनुनासिकोऽजित्ससंज्ञः स्यात् । 

मनोरमा - उपदेशेऽजनुनासिक इत् (पा. सू.१.३.२) यद्यप्यत्रोपजीव्यत्वात् अनुनासिक - संज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकमनुगत इति योगाश्रयणेनैव गतार्थत्वात् 'अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम्' इति ध्वनयितुं नेहोपन्यस्तम् । 

यह सूत्र 'अनुनासिक अच्' की इत्संज्ञा का विधान करता है । एवञ्च यह तो सब जानते हैं कि विशिष्ट बुद्धि में विशेषण का ज्ञान कारण होता है तो 'अनुनासिक अच्' इस विशिष्ट का ज्ञान तभी होगा जब विशेषण रूप 'अनुनासिकत्व' का ज्ञान अर्थात् अनुनासिक किसे कहते हैं इसका ज्ञान हो । इस प्रकार 'अनुनासिकत्वविशिष्ट अच्' के ज्ञान में ‘अनुनासिकत्व' का ज्ञान, कारण होने से उपजीव्य है । अतः यद्यपि उपजीव्यत्वात् पहले अनुनासिक संज्ञा कहनी चाहिए थी अर्थात् अनुनासिक किसे कहते हैं ? इस प्रश्न का समाधान पहले 'मुखनासिकावचनोऽनुनासिक:' इस सूत्र के द्वारा करनी चाहिए थी । तब इस सूत्र का कथन करना चाहिए था । तथापि कौमुदीकार ने जो यहाँ पहले अनुनासिकसंज्ञा करने वाले सूत्र का उपन्यास नहीं किया वह 'नासिकामनुगतः ' इस योग (व्युत्पत्ति) के द्वारा ही अनुनासिकत्व का ज्ञान हो जाने से अनुनासिकसंज्ञाविधायक सूत्र 'मुखनासिकवचन:' गतार्थ है । अत: वह सूत्र मन्द प्रयोजन है । यहाँ शब्दरत्नकार 'नासिकामनुगत:' इस व्युत्पत्ति के द्वाराअनुनासिकत्व अर्थ का लाभ कैसे होता है ?  इसको बताते हुए कहते हैं - 

शब्दरत्न - नासिकामनुगत इति । नासिकामभिहत्यवायुनाऽभिव्यञ्जित इत्यर्थः । प्रातिशाख्यशिक्षादौ लोके च तद्व्यवहारस्य तथैवोपपादनमावश्यकमिति तात्पर्यम् । अत एव मुखग्रहणप्रत्याख्यानभाष्यध्वनितो यमानुस्वारयोरनुनासिकव्यवहारः सूत्रमते सङ्गच्छते । यरोऽनुनासिक (पा. सू.८.४.) इत्यादौ स्वरूपग्रहणाभावस्तु 'पशुः' 'अपत्यम्' इत्यादिवदिति ध्येयम् । 

मनोरमोक्त ‘नासिकाम् अनुगतः' में जो 'अनु' है, उसका अर्थ शब्दरत्नकार 'अभिहत्य' तथा मनोरमोक्त 'गतः' का अर्थ 'अभिव्यञ्जितः' करते हैं । इस प्रकार 'नासिकामनुगतः' का अर्थ हुआ नासिका को अभिहत करके, वायु द्वारा अभिव्यञ्जित होने वाले को 'अनुनासिक' शब्द से कहा जाता है । इस प्रकार उपर्युक्त व्युत्पत्ति से ही 'अनुनासिक' शब्द के उस अर्थ का लाभ हो जाता है जिसका कथन 'मुखनासिकावचन:' सूत्र करता है । शब्दरत्नकार आगे कहते हैं कि 'नासिकामभिहत्य - वायुनाऽभिव्यञ्जित:' इस व्युत्पत्ति से लब्ध अर्थ के आधार पर ही प्रातिशाख्य, शिक्षा आदि ग्रन्थों में 'अनुनासिकत्व' व्यवहार का उपपादन किया गया है । अत एव ' मुखनासिकावचन:' इस सूत्र में गृहीत 'मुख' पद के प्रत्याख्यानभाष्य से ध्वनित यम तथा अनुस्वार के लिए 'अनुनासिक' यह व्यवहार भी सूत्रमत में सङ्गत होता है । 

अब यहाँ जब तक 'मुख' ग्रहण का जो प्रत्याख्यान है उसे न समझ लिया जाए तब तक उससे ध्वनित होने वाला 'यम तथा अनुस्वार के लिए अनुनासिक व्यवहार' भी नहीं समझ में आएगा । अतः उस प्रत्याख्यान को समझें । भाष्य में पहले प्रश्न किया गया - 'मुखनासिकावचन:' सूत्र में 'मुख' का ग्रहण क्यों ? तो उत्तर दिया 'यम तथा अनुस्वार ही केवल अनुनासिकन कहलाएं, एतदर्थ मुखग्रहण किया गया । इस उत्तर का तात्पर्य यह है कि यदि सूत्र में 'मुख' ग्रहण नहीं होगा तो सूत्र का स्वरूप होगा 'नासिकावचनोऽनुनासिकः' तो जिनका उच्चारण केवल नासिका से होता है वे यम तथा अनुस्वार ही केवल 'अनुनासिक' कहलाएंगे, न कि जिनका मुख सहित नासिका से वे ञ, म, ङ, ण, न आदि भी । जबकि ञ, म, ङ् आदि भी अनुनासिक हैं । अतः ञमङ आदि भी अनुनासिक कहलावें एतदर्थ सूत्र में 'मुख' ग्रहण किया गया । इस पर भाष्यकार ने प्रासादवासिन्याय के आधार पर मुखग्रहण का प्रत्याख्यान करके मुखग्रहणाभाव स्थिति में भी ञमङणन में अनुनासिकत्व व्यवहार का उपपादन किया । प्रासादवासिन्याय का अर्थ है कि जो प्रासाद में रहते हैं उनका ग्रहण प्रासादवासी कहने से होता है, और जो भूमि पर रहते हैं उनका ग्रहण 'भूमिवासी' कहने से होता है । परन्तु जो दोनों जगह रहते हैं अर्थात् प्रासाद तथा भूमि दोनों पर रहते हैं उनका ग्रहण तो प्रासादवासी कहने से भी होता है और भूमिवासी कहने से भी । इसी प्रकार जिन वर्णों का उच्चारण मुख से भी होता है और नासिका से भी होता है वे 'मुखवचन' भी कहे जा सकते हैं और नासिकावचन भी । तो ञ म ङ ण न आदि चूँकि मुख तथा नासिका दोनों से उच्चरित होते हैं तो उनका ग्रहण 'नासिकावचनः' कहने से भी हो ही जाएगा । इसके लिए सूत्र में मुख ग्रहण करने की आवश्यकता नहीं । इस प्रकार भाष्य में 'मुख' ग्रहण का प्रत्याख्यान कर दिया गया । इस प्रत्याख्यानभाष्य से यह बात ध्वनित हुई कि यम, तथा अनुस्वार के लिए भी 'अनुनासिक' इस संज्ञा का व्यवहार हो सकता है क्योंकि ये भी उभयवचन हैं अर्थात् मुख तथा नासिका से उच्चरित होते हैं । तो यम तथा अनुस्वार के लिए उपर्युक्त प्रत्याख्यान भाष्य से ध्वनित होने वाला 'अनुनासिक' व्यवहार तभी सङ्गत होगा जब 'अनुनासिक' शब्द की व्युत्पत्ति 'नासिकामभिहत्य वायुनाऽभिव्यञ्जितः' मानें तभी तो यम तथा अनुस्वार में 'उभयवचनत्व' आ पाएगा । इस प्रकार उपर्युक्त 'नासिकामनुगतः इस व्युत्पत्ति के द्वारा ही अनुनासिकत्व का ज्ञान सम्भव है । अनुनासिकसंज्ञा सूत्र मन्दप्रयोजन है । यदि उपर्युक्त रीति से अनुनासिक संज्ञा करने वाले सूत्र को मन्दप्रयोजन (व्यर्थ) माना जाएगा तो इसका अर्थ है इस सूत्र को बनाने की आवश्यकता नहीं । तब एक प्रश्न यह होता है कि - 'स्वं रूपं शब्दस्याशब्दसंज्ञा' इस सूत्र के अनुसार पाणिनीयव्याकरणशास्त्रीयसंज्ञा से अतिरिक्त संज्ञावाची शब्द का संज्ञी, उसका अर्थात् उस संज्ञावाची शब्द का अपना रूप भी होता है । हाँ पाणिनीय व्याकरणशास्त्रीय संज्ञावाची शब्द का संज्ञी उसका अपना रूप नहीं होता । जैसे 'टि, घु' आदि पाणिनीय व्याकरण शास्त्रीय संज्ञा का संज्ञी उसका अपना जो रूप है टकारोत्तरवर्ती इकार अर्थात् 'टि' वह नहीं होता । परन्तु अन्यत्र संज्ञा का अपना स्वरूप भी उसका संज्ञी होता है । ऐसी स्थिति में यदि 'मुखनासिकावचनोऽनुनासिकः' यह सूत्र न रहे तो 'अनुनासिक' यह पाणिनीयशास्त्रीयसंज्ञा न होकर पाचक, पाठक की तरह लौकिक यौगिक संज्ञा कहलाएगी । तो इस अनुनासिक संज्ञा का संज्ञी इसका अपना जो आनुपूर्वी विशिष्ट स्वरूप है 'अनुनासिक' ऐसा, इसका भी ग्रहण होगा तो 'यरोऽनुनासिकेऽनुनासिको वा’' सूत्र में अनुनासिक पद से अनुनासिक इस शदस्वरूप का भी ग्रहण होने से ‘अनुनासिक' इस शब्दस्वरूप के परे भी 'यर्' को अनुनासिक होने लगेगा । यह आपत्ति आएगी । एवं च जब अनुनासिक संज्ञा करने वाले सूत्र का आरम्भ करते हैं तो 'अनुनासिक' यह शब्दशास्त्रीय संज्ञा हो गयी तो उससे शब्दस्वरूप का ग्रहण नहीं होगा तो उपर्युक्त आपत्ति नहीं आएगी । अतः इसे मन्दप्रयोजन कहना उचित नहीं । इसका समाधान करते हुए शब्दरत्नकार कहते हैं कि जैसे 'पशु:', अपत्यम्, देवदत्त आदि लौकिक संज्ञा का उच्चारण जहाँ होता है वहाँ भी उस संज्ञा से संज्ञीमात्र का ग्रहण होता है, न कि शब्दस्वरूप का भी । उसी तरह 'यरोऽनुनासिके' सूत्र में भी अनुनासिक इस संज्ञा से ञ् म् ङ् आदि अनुनासिकत्व विशिष्ट वर्ण का ही ग्रहण होगा, न कि 'अनुनासिक' इस शब्दस्वरूप का भी । इस प्रकार कोई दोष न होने से अनुनासिक संज्ञा करने वाला सूत्र मन्द प्रयोजन ही है । शब्दरत्नकार 'मन्दप्रयोजन' शब्द का अर्थ बताते हैं - 

शब्दरत्न - मन्दप्रयोजनमिति । मन्देषु प्रयोजनमस्येति बहुव्रीहिः । एवंविधयोगलोक - प्रातिशाख्याद्यनभिज्ञं प्रति सप्रयोजनमित्यर्थः ।

'मन्दप्रयोजन' शब्द में 'मन्देषु = मन्दबुद्धिमत्सु, प्रयोजनम् = सार्थक्यम्, अस्य = सूत्रस्य' एतदर्थक बहुव्रीहि समास हुआ है । जिसका तात्पर्य है कि जो लोग 'नासिकामनुगतः' अर्थात् 'नासिकामसिहत्य वायुनाऽभिव्यञ्जित अनुनासिकः' ऐसे योग अर्थात् व्युत्पत्ति, लोक तथा प्रातिशाख्य, शिक्षा आदि से अनभिज्ञ हैं उन मन्दबुद्धि वालों के प्रति अनुनासिकसंज्ञा सूत्र भले ही सप्रयोजन हो परन्तु अभिज्ञजनों के लिए नहीं । इस बात को द्योतित करने के लिए ही मनोरमाकार ने प्रकृत 'उपदेशेऽजनुनासिक' सूत्र से पहले अनुनासिक संज्ञा करने वाले सूत्र का उपन्यास नहीं किया । 

मनोरमा - उपदेशे किम् ? अष्ण औं अपः । यद्यपीह 'उन' 'ॐ' (पा.सू. १.१.१७-१८) इत्यत्रेव विधानसामर्थ्यान्नेत्वमिति सुवचम्, तथाप्युत्तरार्थमवश्यं कर्तव्यमुपदेशग्रहणं स्पष्टप्रतिपत्तये इहैवकृतम् । 

'उपदेशेऽजनुनासिकः' सूत्र में जो 'उपदेश' पद का ग्रहण है, उसके विषय में प्रश्न होता है कि 'उपदेशे किम्' अर्थात् सूत्र में 'उपदेशे' का ग्रहण क्यों किया गया? इसका समाधान करते हुए मनोरमाकार कहते हैं 'अभ्र आँ अपः । '

शब्दरत्न - अभ्र आँ अप इति । अत्रेत्संज्ञायां - लोपः स्यादिति भावः । 

तात्पर्य यह है कि यदि सूत्र में उपदेशे ग्रहण नहीं होगा तो सूत्र का स्वरूप होगा 'अजनुनासिक इत्’  । एवं च अनुनासिक अच् मात्र की इस सूत्र से इत् संज्ञा होगी 'अन्ध्र आँ अपः' यहाँ पर जो 'आँ' है उसमें अनुनासिकत्व 'आडोऽनुनासिकश्छन्दसि' सूत्र से भले ही विहित हो परन्तु वह 'आँ' अनुनासिक अच् तो है ही तो उसकी भी इत्संज्ञा होने लगेगी तथा लोप भी हो सकता है । सो न होवे, एतदर्थ 'उपदेशे' ग्रहण किया गया । एवञ्च जब उपदेशे ग्रहण करते हैं तो उपर्युक्त 'आँ' उपदेशावस्था में अनुनासिक तो था नहीं तो उसकी इत्संज्ञा नहीं होती । 

मनोरमाकार आगे 'यद्यपीह' इत्यादि से कहते हैं कि जैसे 'उब:' 'ॐ' में अनुनासिकविधानसामर्थ्यात् इत्संज्ञा नहीं होती, ऐसे ही यहाँ पर भी अनुनासिकविधान - सामर्थ्य से 'आँ' कि इत्संज्ञा नहीं होगी । ऐसा कह सकते हैं । यहाँ शब्दरत्नकार मनोरमोक्त 'विधानसामर्थ्यात्' को स्पष्ट करते हैं - 

शब्दरत्न - विधानेति । इदितिवक्तव्येऽनुनासिकविधानसामर्थ्यादित्यर्थः । नेत्त्वमिति । तत्फललोपस्य सामर्थ्यादभावे इत्त्वमपि फलाभावान्नेत्यर्थः । 

तात्पर्य यह है कि 'उञ्' के स्थान पर 'ॐ' का विधान 'उञः 'ॐ' इन दोनों सूत्रों के द्वारा होता है । इन दोनों में पहले वाला 'उञः ' इस षष्ठयन्त सूत्र के 'उन्' का स्थानी रूप में निर्देश किया गया और 'ॐ' इस परवर्ती सूत्र के द्वारा उसके स्थान पर 'ॐ' इस आदेश का विधान किया जाता है । अस्तु । एवञ्च आदेशभूत 'ॐ' की यदि इत्संज्ञा और लोप ही करना सूत्रकार को इष्ट होता तो 'उञः' के आगे 'इत्' इतना सूत्र कह देते उसी से 'उब्' की इत्संज्ञा तथा लोप हो ही जाता । इसके लिए 'उन्' के स्थान पर पहले अनुनासिक 'ॐ' का विधान करना और तत्पश्चात् उसकी इत्संज्ञा करना उचित नहीं । परन्तु सूत्रकार ने तो ऐसा किया है अर्थात् 'ॐ' इस अनुनासिक का आदेश विधान किया है । अतः जैसे यहाँ पर 'ॐ' इस अनुनासिकविधानसामर्थ्यात् अनुनासिक होने पर भी 'ॐ' की इत्संज्ञा तथा लोप नहीं होता । उसी प्रकार 'आङइदितिवक्तव्यः' इतना कह देने से ही सीधे 'आ' की इत्संज्ञा हो जाती, पुनः उसमें 'आङोऽनुनासिकः' से अनुनासिकत्व का विधान तथा तत्पश्चात् उसकी इत्संज्ञा करके लोप करना अनुचित है । अतः आडोऽनुनासिकः से आङ् को द्वारा अनुनासिकविधानसामर्थ्यात् आङ्ग की इत्संज्ञा नहीं होती । यहाँ शब्दरत्नकार 'नेत्वम्' प्रतीक से कहते हैं कि अनुनासिकविधानसामर्थ्यात् इत्संज्ञा का फल रूप लोप नहीं होगा अतः इत्संज्ञा भी नहीं होगी । यहाँ शब्दरत्नकार का तात्पर्य यह है कि - 'अनुनासिकत्व' अजूवृत्ति धर्म है और धर्म की सत्ता धर्म की सत्ता के रहने पर ही होती है । अत: चूँकि भगवान् पाणिनि ने 'अनुनासिकत्व' धर्म का विधान किया है । अतः अनुनासिकत्व रूप धर्मविधानसामर्थ्यात् धर्मी रूप 'आँ' का लोप तो होगा नहीं क्योंकि यदि 'आँ' का लोप हो जाए तो 'अनुनासिकत्व' धर्म का विधान व्यर्थ है । एवञ्च चूँकि इत्संज्ञा का फल जो लोप है वह नहीं होगा । अतः आङ् की इत्संज्ञा भी नहीं होगी । यही मनोरमकार के 'नेत्त्वम्' का तात्पर्य है । 

शब्दरत्न - ननु 'अब्ध्र आँ अटितः' इत्यत्र 'अनेकान्ता अनुबन्धाः' इति पक्षे 'आदितश्च' (पा. सू.७.२.१६) इतीट् प्रतिषेधः फलम् । न च लोपाभावे इदितिमहासंज्ञाकरणात्संज्ञाऽपि नेति वाच्यम् । महासंज्ञयैव लोपसिद्धया 'तस्यलोपः ' (पा.सू.१.३.९) इत्यस्य वैयर्थ्यापत्तेः । 'इक' इत्यादौ ककारादिश्रवणानापत्तेश्च, इति चेत् ? न, अनुबन्धानामेकान्तत्वमेव इति मुख्यपक्षे दोषाभाव इत्याशयात् । तदा हि मुख्येऽवययविन्यन्यपदार्थे बहुब्रीहिः । न चायमाकारोऽधातोरवयव इत्यदोषात् । 

अब यहाँ कोई शब्दरत्नकार के 'फलाभावन्नेत्संज्ञा' के ऊपर प्रश्न करता है कि इत्संज्ञा का फल यदि केवल लोप होता तब तो 'तत्फललोपस्य सामर्थ्यादभावे इत्त्वमपि न' यह कहना शब्दरत्नकार का उचित होता, परन्तु इत्संज्ञा का तो अन्य भी फल है । जैसे 'अब्भ्र आँ अटितः' यहाँ पर 'आँ' की यदि इत्संज्ञा हो जाए तो वह इत् रूप 'आँ' चूँकि 'अटितः' के 'अट्' धातु के समीप है तो जिस पक्ष में समीप में अवयवत्व का आरोप रूप लक्षणा मानी जाती है उस 'अनेकान्ता अनुबन्धा:' इस पक्ष में 'अट्' धातु 'आदित्' कहलाएगा । क्योंकि इस पक्ष में अनुबन्ध अवयव नहीं माने जाते । इस पक्ष में टित्, कित् आदित आदि की उपपत्ति, समीप अर्थ में अवयवत्व का आरोप करके लक्षणा से की जाती है । अर्थात् ट्कार है सभीप रूप अवयव जिसका इत् वह टित् तथा ककार है समीप में इत् जिसके वह कित् कहलाता है । उसी प्रकार 'आत्' है इत् जिसके समीप में वह 'अट्' आदित् कहलाएगा । एवञ्च जब 'अटितः' का 'अट्' धातु आदित होगा तो उसे 'आदितश्च' सूत्र से इट् का निषेध होगा । यही 'आ' की इत्संज्ञा का फल हुआ । इस प्रकार 'आ' की इत्संज्ञा होने पर लोप रूप फल भले न हो, परन्तु 'इट' का निषेध रूप फल तो हो सकता है । तब कैसे शब्दरत्नकारने इत्संज्ञा का फल केवल लोप को माना और कहा 'तत्फललोपस्य सामर्थ्यादभावे इत्संज्ञा न’  । 

इस पर कोई न च से कहता है कि 'इत्' यह महासंज्ञा है और महासंज्ञा वहीं होती है जहाँ उसका अर्थघटित हो । अत: 'आँ' की इत्संज्ञा होने पर भी यदि उसका लोप नहीं होगा तो वहाँ अन्वर्थत्वाभावात् 'आ' की इत्संज्ञा भी नहीं होगी? इसका खण्डन करते हुए कोई कहता है कि 'इत्' महासंज्ञाकरण सामर्थ्यात् ही इत्संज्ञकों का लोप हो ही जाता, इस प्रकार तो 'तस्य लोपः सूत्र ही व्यर्थ हो जाएगा । दूसरी बात यह होगी कि तब 'इक्' आदि प्रत्याहारबोधक शब्दों में 'क'कार का श्रवण भी नहीं होगा । क्योंकि प्रत्याहार के लिए 'ककार' की इत्संज्ञा करनी तो आवश्यक है ही और 'इत्' को यदि महासंज्ञा मानोगे तो ‘एतिगच्छति' इति इत्' इस व्युत्पत्तिलभ्य महासंज्ञार्थ के अनुसार 'क्’कारका लोप हो जाएगा । अतः 'इत्' को महासंज्ञा मानकर अन्वर्थत्वाभावात् लोपाभावात् इत्संज्ञाभाव की कल्पना नहीं कर सकते । 

तब तो पूर्वोक्त दोष शब्दरत्नकार के ऊपर रह ही गया । शब्दरत्नकार इसका खण्डन करते हुए 'न' इत्यादि से करते हैं कि 'अनुबन्धों का एकान्तत्व' अर्थात् में 'अनुबन्धा एकान्ताः' यह मुख्य अर्थात् सिद्धान्त पक्ष है । अतः इस पक्ष मुख्य अवयवीरूप अन्य पदार्थ में बहुव्रीहि होता है । अर्थात् जिसका अवयव (न कि समीपवर्ती) इत् होता है वह अवयवी रूप अन्य पदार्थ टित् कित् आदि कहलाता है । प्रकृत में 'अब्भ्र आँ अटितः' में 'आँ' अट् धातु का वास्तविक अवयव तो है नहीं तो यदि उसकी इत्संज्ञा हो भी जाएगी तब भी 'अट्' धातु तो 'आदित्' कहलाएगा नहीं तो उसे इट् का निषेध भी नहीं होगा । अतः इत्संज्ञा का वस्तुतः लोप ही फल है और वह अनुनासिक विधानसामर्थ्यात् होगा नहीं तो 'आँ' की इत्संज्ञा भी नहीं होगी । 

इस प्रकार यह बात सिद्ध हुई कि अब्भ्र आँ अपः इत्यादि में 'उपदेशेऽजनुनासिक' सूत्र में यदि उपदेश ग्रहण नहीं भी किया जाए तब भी इत्संज्ञा न होने से कोई दोष यद्यपि नहीं है तथापि उत्तरार्द्ध अर्थात् आगे के 'हलन्त्यम्' सूत्र में 'उपदेशे' ग्रहण आवश्यक है इसलिए आगे तो करना ही पड़ेगा तो स्पष्ट प्रतिपत्ति के लिए अर्थात् विना सामर्थ्याश्रयण के ही 'अब्भ्रं आ अप:' आदि स्थलों में अनुनासिक अच् की इत्संज्ञा का वारण करने के लिए इसी सूत्र में उपदेशे ग्रहण कर लिया गया । 

मनोरमा - अच् किम्? मनिनो मकारस्य मा भूत् । 

इस सूत्र में अच् ग्रहण का प्रयोजन बताने के लिए मनोरमाकार पहले प्रश्न करते हैं अच् किम् । पुन: इसका स्वयं उत्तर देते हैं 'मनिनोमकारस्य मा भूत्' अर्थात् मनिन् प्रत्यय के आदिभूत जो मकार है उसकी इत्संज्ञा न हो जाए एतदर्थ सूत्र में 'अच्' ग्रहण किया गया । अर्थात् यदि सूत्र में अच् ग्रहण नहीं किया जाएगा तो यह सूत्र सूत्र में उपदेशावस्था के अनुनासिक मात्र की इत्संज्ञा करेगा तो 'मनिन्' का आदिभूत मकार भी उपदेशावस्था का अनुनासिक है ही तो उसकी इत्संज्ञा होने लगेगी । सो न होवे एतदर्थ अच् ग्रहण किया गया । मकार चूँकि अच् नहीं है । अतः उपदेशावस्था में अनुनासिक होने पर भी उसकी इत्संज्ञा नहीं होती । 

कौमुदी - प्रतिज्ञानुनासिक्या: पाणिनीयाः । 

मनोरमा - प्रतिज्ञायते इति प्रतिज्ञा । "आतश्चोपसर्गे" (पा. सू.३.३.१०६) इति कर्मण्यड् । प्रतिज्ञा आनुनासिक्यं येषामिति विग्रहः एवञ्च प्रतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणा 'इति क्लिष्टं व्याख्यानं नाश्रयणीयम्, पाणिन्युपज्ञं व्याकरणम्' इत्यादिष्विव लक्षणां विनैव निर्वाहात् । यद्यपि सूत्रकारकृतोऽनुनासिकपाठ इदानीं परिभ्रष्टस्तथापि वृत्तिकारादिव्यवहारबलेन यथाकार्यं प्राक्स्थित इत्यनुमीयत इति भावः । 

कौमुदी में जो कहा गया 'प्रतिज्ञाऽनुनासिक्याः पाणिनीयाः' उसका व्याख्यान करते हुए मनोरमाकार कहते हैं कि 'प्रतिज्ञा' शब्द 'प्रतिज्ञायते इति प्रतिज्ञा' इस कर्मव्युत्पत्ति में अर्थात् प्रतिज्ञायते इस कर्म अर्थ में 'आतश्चोपसर्गे' सूत्र से 'अङ् प्रत्यय करके निष्पन्न हुआ । एवञ्च उपर्युक्त व्युत्पत्ति के आधार पर प्रतिज्ञा शब्द का जो अर्थ होगा उसे शब्दरत्नकार कहते हैं - 

शब्दरत्न - प्रतिज्ञेति । प्रतिज्ञानविषय इत्यर्थः । 

उपर्युक्त व्युत्पत्ति के अनुसार प्रतिज्ञा शब्द का अर्थ हुआ 'प्रतिज्ञान का विषय । ' अर्थात् जिसकी प्रतिज्ञा की जाए । एवञ्च जो लोग 'प्रतिज्ञा' शब्द को भाव अर्थ में अड् प्रत्ययान्त मानकर उसकी प्रतिज्ञासमधिगम्य अर्थ में लक्षणा करते थे, उनकी यह व्याख्या क्लिष्ट होने से अनाश्रयणीय है । शब्दरत्नकार इसे दो प्रतीकों से स्पष्ट करते हैं । उनमें पहला प्रतीक हैं - 

शब्दरत्न - प्रतिज्ञाशब्दस्येति । भावाङन्तस्येत्यर्थः । 

भाव में अङन्त 'प्रतिज्ञा' शब्द की । एवञ्च दूसराप्रतीक है - 

शब्दरत्न – क्लिष्टेति । शक्तिग्राहकव्याकरणसत्त्वाच्छक्त्यैव तदर्थबोधसम्भवे लक्षणाश्रयणं क्लेश इति भावः । 

शक्तिग्राहकव्याकरण के रहने से शक्ति से ही इस अर्थ का लाभ जब सम्भव है तो लक्षणा का आश्रय लेना ही क्लेश है । इसीलिए मनोरमाकार ने इस व्याख्या को क्लिष्ट कहा । यहाँ के सम्पूर्ण शब्दरत्न का तात्पर्य यह है कि जब 'प्रतिज्ञा' शब्द में कर्म में अङ्ग प्रत्यय करते हैं तो कर्मत्व का विषयत्व अर्थ होने से 'प्रतिज्ञा' शब्द का शक्यार्थ (मुख्यार्थ) ही हो गया 'प्रतिज्ञान का विषय ' अर्थात् प्रतिज्ञा के द्वारा जिसका ज्ञान हो अर्थात् प्रतिज्ञासमधिगम्य । इस प्रकार 'आतश्चोपसर्गे' इस सूत्र रूप व्याकरण, जो कि 'शक्तिग्राहक' है । क्योंकि व्याकरण को 'शक्तिग्राहक' माना जाता है । वह बताता है कि यहाँ ‘अङ्' प्रत्यय का अर्थ कर्म है । इस प्रकार 'आतश्चोपसर्गे' इस व्याकरण के द्वारा 'प्रतिज्ञा' शब्द जब शक्त्या ही 'प्रतिज्ञासमधिगम्य' अर्थ को बता रहा है तो ऐसी स्थिति में 'प्रतिज्ञासमधिगम्य' अर्थ में प्रतिज्ञा शब्द की लक्षणा मानना क्लेश तो है ही क्योंकि लक्षणा तो तब मानी जाती है जब शक्ति से अभीष्ट अर्थ का बोध सम्भव नहीं हो । यहाँ तो कर्म में अङ्ग विधायक व्याकरण रूप शक्तिग्राहक के द्वारा शक्त्या ही जब 'प्रतिज्ञासमधिगम्य' रूप इष्ट अर्थ लाभ सम्भव है तो उसी अर्थ में उसी शब्द को भावाङन्त मानकर लक्षणा मानना क्लेश ही तो है । विशेष क्या उन्होंने स्वयं भी 'पाणिन्युपज्ञं व्याकरणम्' यहाँ पर 'उपज्ञ' में कर्म में अङ्ग प्रत्यय मानकर लक्षणा के बिना ही अर्थात् शब्दरत्नकार इसे और स्पष्ट करते हैं - 

शब्दरत्न - लक्षणां विनैवेति । अत्र लक्षणया व्याख्यानं कुर्वताऽपि तत्र लक्षणां विना मदुक्तरीत्यैव व्याख्यातम् । एवं च पूर्वापरविरोधस्तस्येति भावः । न चोभयोर्विधानेऽपि लाघवाद् भावे शक्तिः, कर्मणि लक्षणा अनुशासनमपि लाक्षणिकार्थानुशासनमेवेति वाच्यम्, 'लः कर्मणि' (पा. सू. ३.४.६९) इत्यादीनामपि तथात्वापत्तौ 'तिsi कर्त्रादौ शक्ति:' इति सिद्धान्तासङ्गत्यापत्तेः, व्याकरणस्याभियुक्तोक्तशक्तिग्राहकत्वस्य भन्नापत्तेश्च ॥

यहाँ अर्थात् 'प्रतिज्ञानुनासिक्या:' में प्रतिज्ञा शब्द को 'प्रतिज्ञासमधिगम्य' अर्थ में लक्षणा मानकर व्याख्यान करने वाले स्वयं 'पाणिन्युपज्ञं व्याकरणम्' यहाँ पर लक्षणा किये बिना ही मेरे द्वारा बतायी गयी रीति से ही अर्थात् कर्म में अङ्ग प्रत्यय मानकर ही व्याख्यान किया है । इस प्रकार उनका स्वयं पूर्वापर विरोध हो रहा है । क्योंकि एकत्र वह भावाङन्त मानकर लक्षणा मानते हैं और अन्यत्र कर्माङन्त मानकर शक्त्या व्याख्यान करते हैं । इस पर कोई न च से कहता है कि अङ्ग प्रत्यय का विधान यद्यपि कर्म तथा भाव दोनों अर्थों में होता है, तथापि अङ् प्रत्यय की शक्ति लाघवात् भाव में मानेंगे और कर्म में उसकी लक्षणा मानेंगे । 'कर्म' अर्थ में अङ् प्रत्यय का अनुशासन करने वाले सूत्रादि भी 'लाक्षणिक अर्थ का' ही अनुशासन करते हैं ऐसा मानेंगे । अर्थात् 'आतश्वोपसर्गे' इत्यादि सूत्र भी लाक्षणिक ही कर्म अर्थ का अनुशासन करते हैं । यह मानेंगे न कि अङ् प्रत्यय की शक्ति कर्म अर्थ में है इस बात का अनुशासन करते हैं । शब्दरत्नकार इस युक्ति का खण्डन करते हुए कहते हैं कि यदि सूत्रादि रूप अनुशासन को लाक्षणिक अर्थ का अनुशासक माना जाएगा तब तो 'लः कर्मणि च भावे' आदि सूत्र भी जो लकार का अर्थ कर्ता कर्म आदि है यह बताता है उसे भी लाक्षणिक अर्थ का ही अनुशासक माना जा सकता है । इस प्रकार लकार के द्वारा लक्षणया ही कर्त्ता, कर्म आदि अर्थ का बोध मानना पड़ेगा अर्थात् कर्त्ता, कर्म आदि अर्थों में लकार की लक्षणा ही माननी पड़ेगी न कि शक्ति । तब जो 'तिङां कर्त्रादौ शक्ति:' यह व्याकरण का सिद्धान्त है वह असंगत हो जाएगा । दूसरी बात यह भी होगी कि अभियुक्त लोग जो व्याकरण को 'शक्तिग्राहक' कहते हैं वह शक्तिग्राहकत्व भी भक्त हो जाएगा क्योंकि आप तो उसे लाक्षणिक अर्थ का अनुशासन मानते हैं । अतः कर्म रूप लाक्षणिक अर्थ में सूत्र को अनुशासन नहीं कह सकते । ऐसी स्थिति में जब अङ् प्रत्यय की शक्ति कर्म अर्थ में मानने से ही 'प्रतिज्ञा' शब्द से शक्त्या ही 'प्रतिज्ञासमधिगम्य' अर्थ का लाभ हो जाएगातो उस अर्थ में लक्षणा मानकर व्याख्यान करना उचित नहीं । 

मनोरमाकार आगे कहते हैं कि पाणिनि ने जो अनुनासिकयुक्त अच् का पाठ किया था वह यद्यपि आजकल भ्रष्ट हो गया है उपलब्ध नहीं होता परन्तु वृत्तिकार आदि के व्यवहार से अर्थात् जहाँ उन्होंने अनुनासिकत्व प्रयुक्त कार्य किया है । उन कार्यरूप व्यवहार के बल से तत् तत् कार्यानुरूप यह अच् पहले अनुनासिक था, ऐसा अनुमान आज भी किया जाता है ।

कौमुदी - लण (मा.सू.६) सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा । 

मनोरमा - ननु रलयोरिति न्यूनं टकारस्यापि मध्यगतत्वादित्यत आह प्रत्याहारेष्विति । व्यवह्रियन्ते इति । प्रत्याहियन्ते संक्षिप्यन्ते वर्णा यत्रेति बाहुलकाद् अधिकरणे घञ् । यद्यपि योगमात्रमकारादिसंज्ञास्वतिप्रसक्तं तथापि योगरूढिरिति भावः । 

कौमुदी में जो कहा गया - लण् सूत्रस्थावर्णेन रेफो रलयोः संज्ञा अर्थात् 'र' यह र अर्थात् रेफ, तथा लकार; दोनों की संज्ञा है । उस विषय में मनोरमाकार प्रश्न करते हुए ‘ननु' इत्यादि से कहते हैं कि - 'रलयो:' इतना कथन न्यून है अर्थात् 'र' न केवल रेफ तथा लकार की ही संज्ञा हो सकती है, अपितु टकार की भी संज्ञा हो सकती है । क्योंकि 'हयवरट्' सूत्र के 'र्' से लेकर 'लण्' सूत्रस्थ इत्संज्ञक अकार तक के वर्णों का बोध कराने वाले 'र' प्रत्याहार के बीच में 'ट'कार अर्थात् 'हयवरट्' का टकार भी है । अतः र् तथा लकार के समान टकार के भी मध्यगत होने से टकार की भी संज्ञा जब 'र' हो सकती है, तो 'रलयोः संज्ञा' कहना कौमुदीकार की न्यूनता ही हुई । मनोरमाकार इसके उत्तर में कहते हैं कि उपर्युक्त आपत्ति को ध्यान में रखकर ही कौमुदी में आगे कहा गया - “प्रत्याहारेष्वितां ग्रहणं न” अर्थात् प्रत्याहारों में इत्संज्ञकवर्णों का ग्रहण नहीं होता । 'हवरट्' का टकार भी चूँकि इत्संज्ञक है । अतः मध्यगत होने पर भी उसका ग्रहण नहीं होता । 

यहाँ शब्दरत्नकार 'टकारस्यापीति' इस प्रतीक से कहते हैं - 

शब्दरत्न - टकारस्यापीति । अत्र यद्वक्तव्यं तदन्यत्रोक्तम् ।

अर्थात् इस 'र' प्रत्याहार के विषय में जो कुछ कहने योग्य है वह सब लघुशब्देन्दुशेखर आदि अन्य ग्रन्थों में कहा जा चुका है है । 

कौमुदी में जो कहा गया ‘आदिरन्त्येन सहेता' सूत्र से की गयी संज्ञा का 'प्रत्याहार' शब्द से व्यवहार होता है अर्थात् उसे प्रत्याहार कहा जाता है । मनोरमाकार उसमें उपपत्ति बताने के लिए कहते हैं कि चूँकि 'प्रत्याहियन्ते' अर्थात् संक्षिप्यन्ते, वर्णा यत्र इस विग्रह में बाहुलकाद् अधिकरण अर्थ में घञ् प्रत्यय करके 'प्रत्याहार' शब्द निष्पन्न होता है । अतः प्रत्याहार शब्द का अर्थ हुआ 'जहाँ वर्ण संक्षिप्त किये जाते हैं' एवञ्च 'आदिरन्त्येन सहेता' सूत्र अ इ उण् के अकार से लेकर ऐ औच के चकार के मध्यगामी वर्णों की तथा अकार की भी 'अच्' यह संज्ञा करता है । एवञ्च इस 'अच्' संज्ञा में या संज्ञा द्वारा अकारादि नी वर्ण संक्षप्ति किये जाते हैं । अतः 'अच्' को प्रत्याहार शब्द से व्यवहृत किया जाता है । 

यहाँ शब्दरत्नकार 'प्रत्याहार' शब्द की निष्पत्ति के विषय में यत्तु के मत का खण्डन करने के लिए कहते हैं । 

शब्दरत्न - बाहुलकादिति । भवघञन्तादर्शआद्यजित्यपि बाहुलकादविशिष्टमिति भावः । 

यत्तु ने जो 'प्रत्याहार' शब्द में पहले भाव में घञ् प्रत्यय करके पुनः उसमें अधिकरण अर्थ की विवक्षा करके 'अर्शाद्यच्' से अच् प्रत्यय माना है । सो उनकी यह प्रक्रिया 'बाहुलकाद् अधिकरणे घञ्' से विशिष्ट नहीं । अपितु उनकी प्रक्रिया में गौरव ही है । क्योंकि उनकी प्रक्रिया के अनुसार 'प्रत्याहार' शब्द का 'अर्शादि' गण में पाठ मानना पड़ेगा और घञ् तथा अच् रूप दो कृत्प्रत्यय रूप दो वृत्ति की कल्पना करनी पड़ती है । 

मनोरमाकार आगे कहते हैं कि यदि 'प्रत्याहार' इस संज्ञा में योगमात्र मानें अर्थात् इसे केवल यौगिक संज्ञामानें तब तो 'अ' इत्यादि संज्ञा भी प्रत्याहार कहलाने लगेंगे । क्योंकि 'अ' में भी अट्टारह अवर्ण, तथा 'इ' में अट्ठारह इवर्ण संक्षिप्त होते हैं । जैसाकि कहा भी गया 'अ इ उ ऋ' इत्यष्टादशानां संज्ञा तो 'प्रत्याहियन्ते अस्मिन् ' यह विग्रहार्थं तो अकारादिसंज्ञा में भी घटित होता ही है तो वे अकारादि - प्रत्याहार शब्द से कहे जाने लगेंगे । यह अतिव्याप्ति होगी । अतः 'पङ्कज' शब्द की तरह 'प्रत्याहार' शब्द को अजादि अर्थ में योगरूढि माननी चाहिए अर्थात् उसे 'योगरूढ' संज्ञा मानना चाहिए । 

 मनोरमा - प्रत्याहाराश्चैकचत्वारिंशदिति प्राश्चः । चतुर्दशसूत्री स्थैर्हभिरिन्द्रिः कृता अष्टाध्याय्यां व्यवहृता एकचत्वारिंशदिति तस्यार्थः । तेन सुपूतिङादीनां रप्रत्याहारस्य 'चयो द्वितीयाः' इतिवार्तिकस्थचयप्रत्याहारस्य चाऽधिक्येऽप्यदोषः । यत्तु 'अमन्ताङः' इति, 'यमिर्जमन्तेष्वनिडेकइष्यते' इति च 'अम्' वार्तिककृता व्यवहृत इत्याहुः, तद्रभसाऽभिधानम् । आद्यस्योणादिसूत्रत्वात्, द्वितीयस्य व्याघ्रभूतिकारिकास्थत्वात्; इत्यास्तां तावत् । एष च संख्यानियमो नातीवोपयुज्यत इत्युपेक्षितः । 

प्रत्याहार 'इकतालीस' होते हैं, ऐसा प्राचीनों का मत है । शब्दरत्नकार प्राचीनों ने जैसे इकतालीस संख्या प्रत्याहारों की मानी है उसे दिखाते हैं - 

शब्दरत्न - एकचत्वारिंशदिति । 

एकस्मान् डञणवटा, द्वाभ्यां ष, स्त्रिभ्य एव कणमाः स्युः । 

ज्ञेयौ चयौ चतुर्भ्यः रः पञ्चभ्यः, शलौ षड्भ्यः ॥

 इति तदुक्तेरिति भावः । 

अर्थात् ङ्, ञ, ण् व् तथा टू प्रत्येक से बनने वाले एक - एक प्रत्याहार इस प्रकार पाँच, तथा 'ष्' से बनने वाले दो प्रत्याहार, तथा तीन - तीन प्रत्याहार क् सेण् तथा म् से इस प्रकार नौ, इसी प्रकार चार - चार प्रत्याहार चुकार से य्कार से, इस प्रकार आठ, इसी प्रकार पाँच प्रत्याहर कार से, तथा छ: छः प्रत्याहार श्कार से तथा लकार से अर्थात् बारह । इस प्रकार कुल संख्या 'इकतालिस' होती है । 

मनोरमाकार इसमें स्पष्टीकरण देते हैं कि माहेश्वर चतुर्दशसूत्री में विद्यमान इत्संज्ञक हल से बनने वाले जिनका अष्टाध्यायी में व्यवहार किया गया है ऐसे प्रत्याहारों की संख्या इकतालीस है यह भाव प्राचीनों का है । इसका यह अर्थ नहीं समझना चाहिए कि इससे अधिक प्रत्याहार हैं ही नहीं । इस प्रकार सुप्, तिङ् आदि सौत्रप्रत्याहार, र प्रत्याहार, 'चयोद्वितीया पौष्करसादेरिति वाच्यम्' इस वार्तिक में पढ़ा गया 'चय्' प्रत्याहार । इन सब प्रत्याहारों के इकतालीस से अधिक होने पर भी कोई दोष नहीं । अर्थात् प्राचीनों के ऊपर यह आक्षेप नहीं किया जा सकता कि जब सुप्, तिङ्, र, चय आदि भी प्रत्याहार हैं तो आपने प्रत्याहार की संख्या इकतालीस ही कैसे कही ? क्योंकि उन्होंने जो संख्या बतायी वह माहेश्वर सूत्रों के इत्संज्ञक हल् वर्णों से बनने वाले प्रत्याहारों की, न कि पूरे व्याकरणशास्त्र में व्यवहृत होने वाले प्रत्याहारों की भी । 

यत्तु ने जो 'अमन्ताडु:' में तथा 'यमिर्ञमन्तेषु' इत्यादि में प्रयुक्त 'अम्' प्रत्याहार को वार्तिककार द्वारा व्यवहृत कहा, सो यत्तु का यह कथन रभस से अर्थात् असावधानी से हुआ मानना चाहिए । क्योंकि पहला अर्थात् 'अमन्ताड्डुः' उणादि का सूत्र है न कि वार्तिक, इसी प्रकार ‘यमिर्ञमन्तेषु' इत्यादि भी व्याघ्रभूति की कारिका का है न कि वार्तिक । अस्तु । प्रत्याहारों की संख्या का यह नियम अर्थात् प्रत्यहारों की संख्या इतनी ही है यह बताना कोई अत्यन्त उपयोगी नहीं है । अतः कौमुदीकार ने प्रत्याहारों की संख्या की उपेक्षा कर दी अर्थात् नहीं कहा । 

॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥

ननु शास्त्रेऽनुनासिकोच्चारणाभावात् तत्त्वज्ञानं दुर्लभम् ? अत आह-प्रतिज्ञेति । प्रतिज्ञाविषयानुनासिकयवन्त इत्यर्थः । 'पाणिनीयाः' इत्यस्य पाणिनिप्रभृतिप्रोक्ता वर्णा इत्यर्थः । प्रतिज्ञा चायमेवमिति कथनम्, वर्णानां तत्त्वज्ञापको व्यवहारञ्च । ताभ्यां तज्ज्ञानं सुलभमिति भावः । प्रतिज्ञातारश्च प्रत्यासत्येतच्छास्त्रकर्त्तार एवेति दिक् ।

 निर्देशादिति । तेषां तत्र ग्रहणे हि नासिकादी यणापत्तिरिति भावः । न चेत्त्वविधानसामर्थ्यादि यणभावः सिद्धः; तस्यापि प्रत्याहारेष्यनुबन्धाग्रहणज्ञापनद्वारैव यण- भावकल्पकत्ववित् । साक्षाच्छास्त्रबाधकल्पनापेक्षयाऽस्यार्थस्यौचित्यात् । 'निर्देशाद्' इत्यस्य तन्मूलसूत्वविधानसामर्थ्यादित्यर्थं इति तात्पर्यम् । आदिना 'तृषिमृषिकृषेः' (१.२.२५) 'एकः पूर्व' (६.१.८४ ) इत्यादिसङ्ग्रहः ।

ननु 'प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न' (का०वा०) इति वातिके प्रत्याहार- शब्दस्य वर्णसमाम्नाये प्रसिद्धेः प्रत्याहारेष्वितामित्यनुपपन्नम् ? अत आह-- आदिरन्त्ये- नेतीति । वातिके तादर्थ्यात्ताच्छन्द्यमिति भावः ॥

पाणिनीया इति । अत्र पाणिनिपदं कात्यायन पतञ्जलिपदस्याप्युपलक्षणम् । अत एवं प्रभृतिपदोपादानम् । तैः प्रोक्ता वर्णा इत्यर्थः । अयमेवमिति । अदडादेशे अनुना- सिकोपधत्वं क्रियते इत्यादिना प्रतिपादनम्, व्यवहारश्च तत्र तत्राचार्याणां कार्यविशेषेण कृतः प्रयोगश्च । ताभ्याम् प्रत्येकम् अयमेवमिति कथनेन प्रयोगेण च । तज्ज्ञानम्= अनुनासिकत्वविवेकः सुलनः । प्रतिज्ञा च न यस्य कस्यापि, किन्तु पाणिनीयव्याकरण- शास्त्रप्रवर्तकाचार्याणामेव ।

अजादिप्रत्याहारेषु मध्यगवर्णानामिव अन्त्याक्षराणामित्संज्ञकानां ग्रहणं कस्मान्न भवति ? इति शङ्कां समाधातुमाह-निर्देशादिति। तेषाम् इताम्, तत्र प्रत्याहारेषु, ग्रहणे अनुनासिकशब्दे ककारात्पूर्वस्येकारस्य यणादेशः स्यात् । 'ऋलक्' सूत्रघटकककार- स्यापि अच्प्रत्याहारे ग्रहणेन तस्यापि बच्त्वात् । न च तत्र 'मुखनासिकावचनोऽनुनासिक' इति सूत्रं कुर्वता सूत्रकृता यणादेशः कृत इति तन्निर्देशादिदं कल्प्यते - प्रत्याहारेषु इतां न ग्रहणमिति । तथा चेत्संज्ञकानां वर्णानां प्रत्याहारेषु ग्रहणाभावान्न यणा निर्देशः सूत्रकृता कृतः । न चान्यत्रापि तथा ।

नचाव यणि 'प्रत्यस्थात्' इति सूत्रेण ककारात् पूर्वस्येत्वविधानं व्यर्थमापद्येत । सहकारात् पूर्वस्य तस्य पणा अपहारेण क्वचिदपि श्रूयमाणत्वभावेन तस्याङ्गस्पष्ट एवं तत्सामर्थ्येन यणादेशाभावकल्पनया दोषाभावादिति वाच्यः तस्यापि त्वविधानसामध्यंस्यापि । अस्मिन् पत्रे साक्षात् यविधायकसूत्रस्य बाधकल्पना भवति । एतदपेक्षया अनुबन्धानां प्रत्याहारे ग्रहणाभावद्वारा यणोऽभावकल्पने साक्षात् सुधाभावेन इत्वविधानसामर्थ्यात् इतो प्रत्याहारे ग्रहणाभावज्ञापनस्यैव युक्तत्वात् । अस्मिन् कल्पे - अस्वाभाव निबन्धना यणोऽप्राप्तिरिति साक्षात् सूत्रस्य न बाध इत्याशयः । नचानुनासिकपटककारस्याच्त्वेऽपि 'इकोऽसवर्णे' इत्यनेन प्रकृतिभावे यणा- देशापसमा इकारघटितानुनासिकपदनिर्देशस्य इत्यविधानस्य चोपपत्तेरितां प्रत्या- हारेषु ग्रहणं नेति ज्ञापनासम्भव इति वाच्यम्; ककारस्याच्त्वे अजादित्वेन कप्रत्ययावय- तत्वेन च 'यचि भस्' इत्यनेन भसंज्ञायां पदसंज्ञाया बाधेन पदान्तत्वाभावाद् 'इको- इसवर्णे' इत्यस्याप्राप्तेः पदान्तस्यैव हकः प्रकृतिभावस्य तेन बोधनात् । न चैवमपि यणं बाधित्वा सत्वेन प्राप्ते 'यस्येति च' इत्यनेन लोप एवं आपादनीयो न यणिति वाच्यम् । मासाशब्दात् प्रत्यये कृते 'केऽण:' इति सूत्रेण अण्प्रत्याहारमाधित्य विधीयमानो ह्रस्वः, अण्प्रत्यहार ग्रहणसामर्थ्यात्' परत्वाच्च 'यस्येति च' इति सूत्रं बाधित्वा प्रवर्तते । ततश्च 'सद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' इति परिभाषया पुनः 'यस्येति च' इति सूत्राप्रवृत्त्या गणादेशापादनस्यैव युक्तत्वात् । 

अथवा नासशब्दे अस्माद धातोः पवत्प्रत्येये टापि इत्वे सति निष्पन्ने नासिका- शब्दे 'यस्येति च' इत्यस्य प्राप्तिरेव नास्तीति युक्तं यणादेशापादनम् ।

नचैवमित्व विधानसामर्थ्यादिति वक्तव्ये निर्देशादिति परममूलोक्तं नोचितामित्यत आह- तन्सुलेति । तस्य निर्देशस्य, मूलभूतमित्त्वम्, तदुद्विधानसामर्थ्यादत्र तात्पर्यम् नतु शाब्दिकोऽर्थः । अत एव मूले तात्पर्यमित्युक्तम् । 'प्रत्याहारेऽनुबन्धानाम्' इत्यादि- वार्त्तिके प्रत्याहारशब्देन वर्णसमाम्नायस्य चतुर्दशसूत्रीरूपस्य ग्रहणं प्रसिद्धम् । तथा च वर्णसमाम्नाये इत्संज्ञकानां ग्रहणस्य सत्त्वेन तद्भावस्य वक्तुमशक्यत्वादतः प्रत्याहा रेष्विति वार्त्तिके प्रत्याहारशब्देन न तादृशस्य ग्रहणम्, किन्तु अन्यादृशमित्याह- आदिरन्त्येनेति । आदिरन्त्येनेति सूत्रेण यस्य कृता संज्ञा तस्य प्रत्याहारपदेन भाष्यवाति - कादौ व्यवहारः । प्रत्याहारपदस्येदृशार्थकत्वे वर्णंसमाम्नाये प्रत्याहारव्यवहारः कथम् ? इत्यत आह-तादर्थ्यादिति । यो हि यदर्थः सोऽपि तच्छब्देन व्यवह्रियते । यथा जला- पेक्षणे वृष्टौ सत्यां प्रसह्य कश्चिद् ब्रूते - अन्नं वर्षति देवः । वृष्टया अन्नस्याधिक्यमिति अन्नार्थत्वाद् वृष्टेः तत्रारोप्य अन्नपदस्य प्रयोगः, तथैवात्रापि प्रत्याहारार्थो वर्णसमाम्नाय इति प्रत्याहारशब्दप्रयोगस्तस्मिन् वार्त्तिके ॥

॥ लघुशब्देन्दुशेखरः - हिन्दी ॥

ननु शास्त्रेऽनुनासिकोच्चारणाभावात्तत्त्वज्ञानं दुर्लभमत आह - प्रतिज्ञेति । प्रतिज्ञाविषयानुनासिक्यवन्त इत्यर्थः । 'पाणिनीया' इत्यस्य पाणिनिप्रभृतिप्रोक्ता वर्णा इत्यर्थः । प्रतिज्ञा चायमेवमिति कथनं, वर्णानां तत्त्वज्ञापको व्यवहारश्च, ताभ्यां तज्ज्ञानं सुलभमिति भावः । प्रतिज्ञातारश्च प्रत्यासत्त्यैतच्छास्त्रकर्तार एवेति दिक् ।

“उपदेशेऽजनुनासिक इत्” इस सूत्र से जिन अनुनासिक अचों की इत् संज्ञा अभिप्रेत है वे सभी अच् अनुनासिक चिह्नविशिष्ट करके इस शास्त्र (व्याकरणशास्त्र) में धातु आदि में उच्चारित नहीं किये गये हैं । ऐसी स्थिति में तत्त्व ज्ञान = अनुनासिकत्व और अननुनासिकत्व का ज्ञान दुर्लभ होने के कारण उनकी इत् संज्ञा किस प्रकार होगी ? इस शंका को दृष्टिगत कर कह रहे हैं - “प्रतिज्ञानुनासिक्याः पाणिनीयाः” । यहाँ प्रतिज्ञा शब्द में 'प्रतिज्ञायते इति प्रतिज्ञा' इस विग्रह में प्रति पूर्वक ज्ञा धातु से “आतश्चोपसर्गे” इस सूत्र से कर्म में अङ् प्रत्यय किया गया है । प्रति पूर्वक ज्ञा धातु का अर्थ है व्यवहार और अङ् प्रत्यय का अर्थ है  - विषय । “पाणिनेरिमे” इस विग्रह में “वृद्धाच्छ:” सूत्र से छः प्रत्यय करके बने हुए 'पाणिनीय' शब्द का अर्थ है पाणिनि प्रभृति से प्रोक्त वर्ण । इस प्रकार उपर्युक्त वाक्य का अर्थ होता है कि पाणिनि प्रभृति से प्रोक्त वर्णों का अनुनासिकत्व प्रतिज्ञा का विषय अर्थात् व्यवहार का विषय है । वर्णों की यह प्रतिज्ञा = व्यवहारविषयता दो प्रकार से होती है । पहला तो यह है कि जिस वर्ण का अनुनासिकत्व वाञ्छित है, उसके लिए ऐसा कहा गया हो कि 'अयमेवम्' अर्थात् 'अयम् अनुनासिकः' । जैसे “अदडुतरादिभ्यः पञ्चभ्यः” इस सूत्र में यदि अदड् को डित् न किया जाय तो वहाँ पूर्वसवर्ण दीर्घ होने लगेगा ? ऐसी आशंका करके भाष्यकार ने कहा कि “अदड्” का अकार अनुनासिक है । इस प्रसंग में भाष्य की शब्दावलि इस प्रकार है  - 'सिद्धन्तु अनुनासिकोपधात् । ' इस प्रकार भाष्यकार के द्वारा यहाँ अकार को अनुनासिक कहा गया है ।

अनुनासिकत्व के परिज्ञान का दूसरा प्रकार पाणिनि आदि आचार्यों का व्यवहार है । जैसे पाणिनि ने सूत्र बनाया “उदितो वा” “इदितो नुम्धातोः” यह उदित् और इदित् का व्यवहार इस बात का संकेत देता है कि तत्तत् स्थलों में उकार और इकार अनुनासिक है, इसलिए उनकी इत् संज्ञा करने से तत्तद् धातु उदित् और इदित् कहे जाते हैं । इसके अतिरिक्त पाणिनि ने “प्रत्ययः”, “परश्च” इत्यादि सूत्रों में जो सु विभक्त्यन्त का प्रयोग किया है, इससे विदित होता है कि सु का उकार अनुनासिक है, जिसकी इत् संज्ञा और लोप करने के बाद सकार को रुत्व - विसर्ग करके उक्त निर्देश बनाये गये हैं । इस प्रकार ताभ्याम् = “कथनव्यवहाराभ्याम्” अर्थात् कथन और व्यवहार के द्वारा तज्ज्ञानम् = अनुनासिकत्व का ज्ञान सुलभ होता है । 

उपर्युक्त प्रकार की जो प्रतिज्ञा है वह 'अयमेवम्' इस प्रकार की और व्यवहारवेद्या है, यह बात ऊपर कही जा चुकी है । अब जिज्ञासा होती है कि “अयमेवम्” इस प्रकार का कथन किसका यहाँ पर ग्राह्य है ? तथा किसके व्यवहार से वर्णों के अनुनासिकत्व का परिज्ञान किया जाय ? इस प्रकार की शंका का समाधान करते हुए कह रहे हैं कि ऐसी प्रतिज्ञा के करने वाले उपस्थितत्वात् इस व्याकरण के कर्ता जो मुनित्रय हैं, वे ही यहाँ गृहीत हैं न कि अन्य कोई व्यक्ति । इस प्रकार पाणिनि प्रभृति से प्रोक्त वर्णों का अनुनासिकत्व उनके अनुनासिक सम्बन्धी कथन तथा व्यवहार से समझा जाता है । 

निर्देशादिति । तेषां तत्र ग्रहणे हि नासिकादौ यणापत्तिरिति भावः । न चेत्त्वविधानसामर्थ्याद्यणभावः सिद्धः । तस्यापि प्रत्याहारे ष्वनुबन्धाग्रहणज्ञापनद्वारैव यणभावकल्पकत्वौचित्यात् । साक्षाच्छास्त्रबाधकल्पनापेक्षयाऽस्यार्थस्यौचित्यात् । 'निर्देशादि'त्यस्य- 'तन्मूलभूतेत्त्वविधानसामर्थ्यादित्यर्थ' इति तात्पर्यम् । आदिना तृषिमृषिकृषेरेकः पूर्वेत्यादिसङ्ग्रहः ।

“उपदेशेऽजनुनासिक इत्” सूत्र से “लण” सूत्रस्थ अकार की इत् संज्ञा करने का परिणाम यह होता है कि “हयवरट्” सूत्र के रकार से लण के अकार तक “र” प्रत्याहार बनता है । इस र प्रत्याहार में र और ल ये दो वर्ण आते हैं । यहाँ शंका होती है कि र और ल के मध्यपाती जो टकार अनुबन्ध (इत्संज्ञक वर्ण) है उसका भी ग्रहण र प्रत्याहार में क्यों नहीं होता ? इस शंका के उत्तर में कहा गया कि प्रत्याहारों में इत्संज्ञक वर्ण का ग्रहण नहीं होता है । यदि कहा जाय कि इस कथन में क्या प्रमाण है ? तो इसका उत्तर देते हुए कह रहे हैं कि “अनुनासिक इत्यादि निर्देशात्” । शेखर में “निर्देशात् यह जो प्रतीक कहा गया है वह कौमुदीकार के उपर्युक्त कथन का ही प्रतीक है । इसका तात्पर्य यह है कि यदि प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण होता तो पाणिनि के “मुखनासिकावचनोऽनुनासिकः” इस सूत्र में आया हुआ “अनुनासिक” यह निर्देश बन ही नहीं सकता था, क्योंकि उस स्थिति में ककार अच् प्रत्याहार में आता और उस ककार रूपी अच् को पर में मानकर सकारोत्तरवर्ती इकार को यण होने लगता । किन्तु यहाँ यण् नहीं हुआ है, इसलिए यह समझते हैं कि प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता है ।  

यदि कहा जाय कि “नासा एव नासिका” इस विग्रह में अत्यन्तस्वार्थिक कन् प्रत्यय करने से निष्पत्र “नासिका “शब्द में के प्रत्यय को पर में मानकर “स्वादिष्वसर्वनामस्थाने “इस सूत्र से पद संज्ञा और “इकोऽसवर्णे शाकल्यस्य” सूत्र से ह्रस्वसमुचित प्रकृतिभाव हो जाने से यहाँ यण की प्राप्ति नहीं है, तो यह कहना ठीक नहीं है; क्योंकि प्रकृतिभाव के वैकल्पिक होने दो कारण उसके अभावपक्ष में यण की प्राप्ति तो है ही । यहाँ भ संज्ञा से पदसंज्ञा का बाघ होने से “इकोऽसवर्णे” की अप्राप्ति होने के कारण यण की प्राप्ति है, ऐसा कहना ठीक नहीं है; क्योंकि “यचि भम्” सूत्र में यकार वर्ण केवल हल्त्वधर्मविशिष्ट ही सम्भव है इसलिए उसके साहचर्य से अच् वर्ण भी केवल अच्त्वविशिष्ट ही लिया जायेगा । प्रस्तुत में ककाररूपी वर्ण अच्त्व और हल्त्व उभयधर्माक्रान्त है, इसलिए इसके पर में रहने पर भ संज्ञा की प्राप्ति ही नहीं है । वस्तुतस्तु “नासिका” शब्द “नासृ शब्दे” के नास धातु से ण्वुल् प्रत्यय करके बना हुआ है । इसलिए यहाँ भ और पद संज्ञा का विषय ही नहीं है ।

यदि कहा जाय कि “प्रत्ययस्थात् कात्पूर्वस्य” (७ ।३ ।४४) इस पाणिनि सूत्र से “नासिका” शब्द में जो इकार - विधान किया गया है तत्सामर्थ्यात् यहाँ यण नहीं होगा । इसलिए प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता, इसमें कोई प्रमाण नहीं है तो यह कहना भी ठीक नहीं है; क्योंकि इकारविधानसामर्थ्यात् यण को अप्रवृत्ति करने से “इको यणचि” इस विधिशास्त्र का साक्षात् बाध करना पड़ता है । इसकी अपेक्षा तो यही उचित है कि अनुनासिक इस निर्देश से अप्रधान संज्ञाशास्त्र “आदिरन्त्येन सहेता” का ही बाध करके यह परिकल्पना की जाय कि प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता है ।

अथवा “नह्यत्र ककारे परेऽच्कार्य दृश्यते” इस पंक्ति की व्याख्या इस प्रकार भी की जाती । है कि “नहि अत्र अपरे ककारे अच्कार्य दृश्यते” अर्थात् यदि प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण होता तो कण्ठस्थानजन्य ककार अच् प्रत्याहार में आता और इसकी अकार के साथ सवर्ण संज्ञा होती । परिणाम यह होता कि “अनुनासिक” शब्दघटक ककार, जिसके पर में अकार है, इन दोनों के स्थान पर दीर्घ एकादेश रूपी अच कार्य हो गया होता । किन्तु ऐसा अच्कार्य यहाँ देखा नहीं जाता । इससे समझते हैं कि प्रत्याहार में इतसंज्ञक वर्ण का ग्रहण नहीं होता है । 

यहाँ “अनुनासिक इत्यादिनिर्देशात्” में आये हुए आदि शब्द से “तृषिमृषिकृपेः काश्यपस्य”, में “एकः पूर्वपरयोः” इत्यादि पाणिनि के निर्देशों का ग्रहण करना चाहिए । यहाँ पहले सूत्र में ककार को पर में मान कर “मृषि के इकार को यण नहीं हुआ है । इसी प्रकार दूसरे सूत्र ककार को पर में मानकर एकार को “अय्” आदेश नहीं हुआ है । इन सब उदाहरणों से स्पष्ट है कि प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता है । अन्यथा ककार रूपी अच् को पर में मान कर उक्त दोनों स्थलों में उक्त दोनों सन्धिकार्य होने लगते ।

प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता, यह बात अनुनासिक शब्द में इत्वविधान के सामर्थ्य से ज्ञापित की गई है । इसलिए मूल में जो यह कहा गया है कि “अनुनासिक इत्यादिनिर्देशात्” इस पंक्ति का अर्थ ऐसा करना चाहिए कि अनुनासिक इत्यादि निर्देश में तन्मूलभूत इत्वविधान के सामर्थ्य से प्रत्याहार में इत्संज्ञक वर्ण का ग्रहण नहीं होता है । अन्यथा यहाँ इकार को यण होने से इत्वविधान ही व्यर्थ हो जाता ।

ननु 'प्रत्याहारेऽनुबन्धानां कथमज्यहणेषु न' इति वार्तिके प्रत्याहारशब्दस्य वर्णसमाम्नाये प्रसिद्धेः 'प्रत्याहारेष्वितामित्यनुपपन्नमत आह - आदिरन्त्येनेतीति । वार्तिके तादर्थ्यात्ताच्छब्धमिति भावः ।

शंका होती है कि “प्रत्याहारेऽनुबन्धानां कथमज्यहणेषु न” इस वार्तिक में आया हुआ प्रत्याहार शब्द वर्णसमाम्नाय का बोधक है । वहाँ पठित अनुबन्धों का अच्ग्रहण (बोधक) से ग्रहण क्यों नहीं होता है ? इस शंका में जब प्रत्याहार शब्द से वर्णसमाम्नाय का ग्रहण किया जा रहा है तब इस शंका का औचित्य ही नहीं रहता, क्योंकि णकारादि अनुबन्ध तो वर्णसमाम्नाय में गृहीत ही हैं । लोक में और शास्त्रान्तर में प्रत्याहार शब्द योग के अंग के रूप में प्रसिद्ध है, जहाँ इत्संज्ञक वर्ण के ग्रहण का कोई प्रश्न ही उपस्थित नहीं होता है । ऐसी स्थिति में जब कि प्रत्याहार शब्द का अर्थ ही अस्पष्ट है तो “प्रत्याहारेष्वितां न ग्रहणम्” इस वाक्यघटक प्रत्याहार शब्द से किसका ग्रहण किया जाय ? इस शंका के उत्तर में कह रहे हैं कि “आदिरन्त्येन सहेता” इस सूत्र से की गई “अल् - अच् - हल्” आदि संज्ञाएँ ही प्रत्याहार शब्द से कही जाती हैं । “प्रत्याहियन्ते संक्षिप्य बोध्यन्ते वर्णा यत्र स प्रत्याहारः” इस व्युत्पत्ति से निष्पन्न प्रत्याहार शब्द अच् आदि अर्थों की अन्वर्थ संज्ञा है । अल शब्द से सम्पूर्ण अक्षरों का बोध स्पष्ट ही संक्षिप्तीकरण की प्रक्रिया है । 

अब शंका होती है कि जब “आदिरन्त्येन सहेता” इस सूत्र से की गई “अच्, हल्” आदि संज्ञाएँ ही प्रत्याहार हैं तब “प्रत्याहारेऽनुबन्धानाम्” इस वार्तिक में प्रत्याहार शब्द से वर्णसमाम्नाय का ग्रहण क्यों किया जाता है ? इस शंका के उत्तर में कह रहे हैं कि इस वार्तिक में आया हुआ “प्रत्याहार” शब्द “तादर्थ्य” में प्रयुक्त हुआ है । जिसके लिए जो होता है उसके लिए भी उसका प्रयोग किया जाता है । वर्णसमाम्नाय प्रत्याहार बनाने के लिए हैं, इसलिए प्रत्याहारार्थं वर्णसमाम्नाय के लिए भी प्रत्याहार शब्द का प्रयोग किया गया है । 

॥ महाभाष्यम् ॥

॥ इत्सञ्ज्ञाप्रकरणम् ॥

(१२३. अचामित्सञ्ज्ञासूत्रम् १.३.१ आ. २). 

उपदेशेऽजनुनासिक इत् १.३.२ 

॥ उद्देशोपदेशपदार्थकथनाधिकरणम् 

आक्षेपभाष्यम् - उपदेश इति किमर्थम्?

समाधानभाष्यम् - अन्न आँ अपः । उद्देशेयोऽनुनासिकस्तस्य मा भूदिति । 

आक्षेपभाष्यम् - कः पुनरुद्देशोपदेशयोर्विशेषः ?

समाधानभाष्यम् - प्रत्यक्षमाख्यानमुपदेशः । गुणैः प्रापणमुद्देशः । प्रत्यक्षं विदाख्यानमुपदेशः । तद्यथा - अगोज्ञाय कश्चिद्रां सक्थनि कर्णे वा गृहीत्वा उपदिशति - 'अयं गौः' इति । स प्रत्यक्षमाख्यातमाह - 'उपदिष्टो मे गौः' इति । गुणैः प्रापणमुद्देशः । तद्यथा - कश्चित्कञ्चिदाह 'देवदत्तं मे भवानुद्दिशतु' इति । स इहस्थः पाटलिपुत्रस्र्थ देवदत्तमुद्दिशति 'अङ्गदी कुण्डली किरीटी व्यूढोरस्को वृत्तबाहुलोहिताशस्तुङ्गनासो विचित्राभरण ईदृशो देवदत्तः' इति । स गुणैः प्राप्यमाणमाह - 'उद्दिष्टो मे देवदत्तः' इति ।

(८२५. आक्षेपवार्तिकम् - १) * इत्सञ्ज्ञायां सर्वप्रसङ्गोऽ विशेषात् * 

भाष्यम् - इत्सञ्ज्ञायां सर्वप्रसङ्गः । सर्वस्यानुनासिकस्येत्सव्ज्ञा प्राप्नोति । अस्यापि प्राप्नोति - अभ्र आँ अपः । किं कारणम् ? अविशेषात् । नहि कश्चिद्विशेष उपादीयते - एवं जातीयकस्यानुनासिकस्येत्सञ्ज्ञा भवतीति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । 

आक्षेपबाधकभाष्यम् - किमुच्यते - अनुपादीयमाने विशेष इति । कथं न नामोपादीयते यदोपदेश इत्युच्यते ?

आक्षेपसाधकभाष्यम् - लक्षणेनापि ह्युपदेशः । सङ्कीर्णावुद्देशोपदेशौ । प्रत्यक्षमप्याख्या - नमुद्देशः' गुणैश्च प्रापणमुपदेशः । प्रत्यक्षं तावदाख्यानमुद्देशः । तद्यथा - कश्चित्कञ्चिदाह - 'अनुवाकं मे भवानुद्दिशतु' इति । स तस्मायाचष्टे - 'इषेत्वकमधीष्व' 'शंनोदेवीयकमधीष्व' इति । स प्रत्यक्षमाख्यातमाह - 'उद्दिष्टो मेऽनुवाकस्तमध्येष्ये' इति । गुणैश्च प्रापणमुपदेशः । तद्यथा - कश्चित्कञ्चिदाह - 'ग्रामान्तरं गमिष्यामि पन्थानं मे भवानुपदिशतु' इति । स तस्मायाचष्टे - 'अमुष्मिन्नवकाशे हस्तदक्षिणो ग्रहीतव्यः, अमुष्मिन्हस्तवामः' इति । स गुणैः प्राप्यमाणमाह - 'उपदिष्टो मे पन्थाः' इति । एवमेतौ सङ्कीर्णावुद्देशोपदेशौ । 

आक्षेपबाधकभाष्यम् - एवं तहींत्कार्याभावादत्रेत्सञ्ज्ञा न भविष्यति ।

आक्षेपसाधकभाष्यम् - ननु  च लोप एवेत्कार्यं स्यात् । 

आक्षेपबाधकभाष्यम् - अकार्य लोपः । इह हि शब्दस्य द्वयर्थ उपदेशः । कार्याथों भवत्युपदेशः श्रवणार्थो वा । कार्य चेह नास्ति । कार्ये चासति यदि श्रवणमपि न स्यादुपदेशोऽनर्थकः स्यात् । 

आक्षेपसाधकभाष्यम् - इदमस्तीत्कार्यम् - 'इह अभ्र आँ अटितः' अनन्तरलक्षणायां सत्यामित्संज्ञायाम् 'आदितश्च' इतीट्प्रतिषेधः प्रसज्येत । 

(८२६. एकदेशिसमाधानवार्त्तिकम् - २) * सिद्धं तूपदेशनेऽनुनासिकवचनात् * 

भाष्यम् - सिद्धमेतत् । कथम् ? उपदेशने योऽनुनासिकः स इत्सञ्ज्ञो भवतीति वक्तव्यम् । किं पुनरुपदेशनम् ? शास्त्रम् । 

आक्षेपभाष्यम् - सिध्यति । सूत्रं तर्हि भिद्यते । 

सिद्धान्ति समाधानभाष्यम् - यथान्यासमेवास्तु ।

आक्षेपस्मारणभाष्यम् - ननु चोक्तम् - 'इत्सञ्ज्ञायां सर्वप्रसङ्गोऽविशेषात्' इति । 

समाधानभाष्यम् - नैष दोषः । उपदेश इति घञयं करणसाधनः । 

समाधानबाधकभाष्यम् न सिध्यति । परत्वाल्ल्युट् प्राप्नोति । 

समाधानसाधकभाष्यम् - न ब्रूमः 'अकर्तरि च कारके सञ्ज्ञायाम्' इति । किं तहि? 'हलच' इति । 

समाधानबाधकभाष्यम् - तत्रापि सञ्ज्ञायामिति वर्तते, न चैषा सञ्ज्ञा । 

समाधानसाधकभाष्यम् - प्रायवचनादसञ्ज्ञायामपि भविष्यति । 

समाधानबाधकभाष्यम् - प्रायवचनात्संज्ञायामेव स्याद्वा न वा । नह्युपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् । 

हेतुबाधकभाष्यम् - यदि नोपाधेरुपाधिर्भवति विशेषणस्य वा विशेषणम् । 'कल्याण्यादीनामिनङ्, कुलटाया वा' इन‌विद्वभाषा न प्राप्नोति । 

हेतुसाधकभाष्यम् - इनडेवात्र प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते । 

हेतुबाधकान्तरभाष्यम् - इह तर्हि 'वाकिनादीनां कुक् च, पुत्रान्तादन्यतरस्याम्' इति कुग् विभाषा न प्राप्नोति । 

हेतुसाधकभाष्यम् - अत्रापि कुगेव प्रधानम् । विहितः प्रत्ययः प्रकृतश्चानुवर्तते । 

आक्षेपोपसंहारभाष्यम् - एवं न चेदमकृतं भवति 'नोपाधेरुपाधिर्विशेषणस्य वा विशेषणम्' इति । न च कश्चिद्दोषो भवति । एवं च कृत्वा घञ् न प्राप्नोति । सिद्धान्ति

समाधानभाष्यम् - एवं तर्हि 'कृत्यल्युटो बहुलम्' इत्येवमत्र घञ् भविष्यति । उपदेशेऽजनुनासिक इत् ॥ २ ॥ 

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code