१.३.१
सूत्राणि:॥ भूवादयो धातवः ॥
॥ व्याख्या: ॥॥ अष्टाध्यायी प्रवचनम् ॥
विभक्तिः - भूवादय: १।३ धातवः १।३।
समासः - (१) भू आदिर्येषां ते भूवादय: (बहुव्रीहि:) । भू+व्+आदयः= भूवादयः । अत्र मङ्गलार्थो वकार इति केचित् । (२) भुवोऽर्थं वदन्तीति भूवादयः (उपपद समासः) । (३) भूश्च वाश्चेति भूवौ । भूवौ आदी येषां भूवादय: (बहुव्रीहि:) । भू इत्येवमादयो वा इत्येवं प्रकारका इत्यर्थः, इत्यन्ये ।
अर्थ: - क्रियावाचिनो भूवादयः शब्दा धातुसंज्ञका भवन्ति ।
उदाहरणम् - (भू सत्तायाम्) भवति । (एध वृद्धौ) एधते । (स्पर्ध संघर्षे) स्पर्धते, इत्यादि ।
आर्यभाषार्थ - (भूवादयः) क्रियावाची, भू के तुल्य अर्थ को बतलानेवाले शब्दों की (धातवः) धातु संज्ञा होती है ।
उदाहरणम् - (भू सत्तायाम्) भवति । (एध वृद्धौ) एधते। (स्पर्ध संघर्षे) स्पर्धते, इत्यादि ।
सिद्धिः - भवति । भू+लट् । भू+शप्+तिप् । भो+अ+ति । भव्+अ+ति । भवति ।
यहां 'भू' शब्द की धातु संज्ञा होने से, उससे 'वर्तमाने लट्' (३.२.१२३) से लट् प्रत्यय, 'तिप्तझि०' (३.४.७८) से 'ल्' के स्थान में 'तिप्' आदेश, 'कर्तरि शप्' (३.१.६८) से विकरण शप्प्रत्यय सार्वधातुकार्धधातुकयोः' (७.३.८४) से अङ्ग को गुण तथा 'एचोऽयवायाव:' (६.१.७८) से 'अव्' आदेश होता है । इसी प्रकार 'एधते' आदि ।
विशेष - (१) भू+आदय: = 'भ्वादयः' ऐसा पाठ होना चाहिये ? कुछ लोग यहां 'व्' का निर्देश मङ्गलार्थ मानते हैं - भू+व्+आदय: - भूवादयः । कुछ लोग भू+वादय: = भूवादय:, ऐसा स्वीकार करते हैं । किन्हीं का कहना है कि जो भू अर्थवाले जो वा आदि शब्द हैं उनकी धातु संज्ञा होती है ।
(१) भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । भुवो वाऽर्थं वदन्तीति ध्वर्था वा वादय: स्मृताः ।।
(२) 'धातु' यह पूर्वाचार्यों की संज्ञा है । उन्होंने क्रियावाची शब्दों की यह संज्ञा की है ।
॥ काशिका ॥
‘भू’ इत्येवमादयः शब्दाः क्रियावचना धातुसंज्ञा भवन्ति । भू’ (धा.पा. १) - भवति । ‘एध’ (धा.पा.२) - एधते । ‘स्पर्द्ध’ (धा.पा. ३) - स्पर्द्धते । ‘धातु’ शब्दः पूर्वाचार्य संज्ञा । ते क्रियावचनानां संज्ञां कृतवन्तः । तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावाचिनामेव भूवादीनां धातुसंज्ञा विधीयते ॥ भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । भुवो वार्थं वदन्तीति वर्था वा वादयः स्मृताः ॥ धातुप्रदेशाः - ”धातोः” (३.१.९१/२८२९) इत्येवमादयः ॥
१.३.१
सूत्राणि:॥ भूवादयो धातवः ॥॥ व्याख्या: ॥॥ न्यासः ॥
भूरादिर्येषां ते भूवादयः । भूवादयो दशगणीपरिपठिता गृह्यन्ते । ‘भवति’ इत्यादि । अत्र धातुसंज्ञायां सत्याम् ‘धातो:’ (३.१.९१) इत्यनुवर्त्तमाने ‘वर्त्तमाने लट्’ (३.२.१२३) इति लट्प्रत्ययः । ‘भू इत्येवमादयः शब्दा धातुसंज्ञका भवन्ति’ इत्यनेन गणपाठेनैवेयं धातुसंज्ञा विधीयत इति दर्शयति तेन अणपयति, कड्ड्पयति इत्येवमादीनां धातुसंज्ञा न भवतीत्युक्तं भवति यद्यवम्, या वा- दिव- इत्येवमादीनां सर्वनाम - विकल्प - स्वर्गाभिधायिनां धातुसमानशब्दानामक्रियावचनानामपि धातुसंज्ञा प्राप्नोतीति कस्यचिद्भ्रान्तिः स्यात्, अतस्तन्निराकर्त्तुमाह - ‘धातुशब्दः’ इत्यादि । लघ्वर्थं हि संज्ञाकरणमिच्छन्त्याचार्या इत्येकाक्षरायां संज्ञायां कर्त्तव्यायां महत्याः पूर्वाचार्यसंज्ञाया यदाश्रयणं तस्यैतत्प्रयोजनम् - यथाविधानां ते धातुसंज्ञां कृतवन्तः, तथाविधानमेवैषा संज्ञा यथा स्यादिति ते च क्रियावचनानामेव धातुसंज्ञां विहितवन्तः । तदिहापि पूर्वाचार्यसंज्ञाश्रयणात् क्रियावचनानामेव धातुसंज्ञा विधीयते । तेन या-वा-दिव इत्येवमादीनां धातुसमानशब्दानामक्रियावचनानान्न भवतीति भावः । ननु च भूरादिर्येषामिति बहुव्रीहौ कृते, आदिशब्दे परतो यदि संहितया निर्देशः, तदा ‘इको यणचि’ (६.१.७७) इति यणादेशे कृते ‘भ्वादयः’ इति भवितव्यम्, अथासंहितया निर्देशस्तदा भू आदय इति , तत्कुतोऽयं वकारो यस्मिन् सति भूवादय इति निर्देशो भवतीत्यत आह - ‘भवादीनाम्’ इत्यादि । भूवादीनां संज्ञिनां निर्देशेऽयं वकारो मङ्गलार्थः प्रयुज्यते । मङ्गलमर्थः प्रयोजनं यस्य स तथोक्तः । स मङ्गलशब्दो धर्मपर्यायः, धर्मार्थ इति यावत् । यथा वेदे ‘त्रियम्बकं यजामहे’ इत्यत्र यकारस्य दृष्टप्रयोजनं नास्त्रीत्यदृष्टार्थो धर्मार्थ एव पाठस्तस्य तथेहापि वकास्य । अथवा - अपूर्वस्य वस्तुनो लाभो लोके मङ्गलं सम्मतम्, यथा प्रातर्दध्यादीनाम्; तथेहापि वकारस्यापूर्वस्यलाभो मङ्गलं प्रशस्तम् । प्रशस्तार्थो मङ्गलशब्दः । तथा चोक्तम्- ‘मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च’ (म.भा. १.१.१) इति । इह चादौ वृद्धिशब्दो मङ्गलम्, मध्ये चायं वकार:, (१.३.) अन्ते च ‘स्वरिदतोयम्’ (८.४.६७) इत्युदयशब्दः । ‘भुवो वार्थम्’ इत्यादि । अथवा - भूवादय इत्यत्र निर्देशे नायमादिशब्द्स प्रयोगः, नापि मङ्गलार्थस्य वकारस्य किं तर्हि ? वादिशब्दस्यौणादिकस्य । वदन्तीति वादयः, वाचका इत्यर्थः । वदेर्थातोः ‘वसिवपियजिराजिव्रजिसदिहनिवाशिवादिवारिभ्य इञ्’ (द.उ. १.५३) इति कर्तरीञ्प्रत्ययः । यद्यपि वादीति सूत्रण्यन्तस्योपदानाम्, तथापि बहुलवचनादण्यन्तादपि भवति ‘भ्वर्थाः’ इति । तेषां वदीनामिदं विशेषणम्, भवनं भूः, सम्पदादित्वाद्भावे क्विप् । भवतेरर्थः क्रियासामान्यम् । भूर्थो येषां ते भ्वर्थाः । कस्मात् पुनस्ते भ्वर्थाः ? ‘भुवो वार्थं वदन्ति’ इति । इति करणो हेतौ - यस्माद्भृवो धातोरर्थ वदन्त्यभिदधति तस्मात् ते भ्वर्थाः । एवं विधा वादयो वाचकाः शब्दा भूवादयो धातुसंज्ञा भवन्तीत्युक्तं इतीह सूत्रे संज्ञिनः स्मृताः = अभिमता, अभिप्रेता इत्यर्थः । तदेवं क्रियावचनाः शब्दा भूवादयो धातुसज्ञा भवन्तीत्युक्तं भवति । तेन याव-वा- दिव प्रभृतीनां धातुसमानशब्दानां क्रियावचनानां धातुसंज्ञा न भवति गणपाठसामर्थ्यात् पाठोऽप्यङ्गीक्रियते । तेनाणपयतीत्येवमादीनां क्रियावचनानामपि धातुसंज्ञा न भवतकीत्युक्तंभवति अस्मिन् व्याख्याने भूवादय इति षष्ठीसमासो वेदितव्यः - भुवोवादयो भूवादय इति । अथवा - आदिशब्दस्यैवात्र ‘वा गतिगन्धनयो:’ (धा.पा. १०५०) इत्यस्मात् परस्य प्रयोगः । वा आदिः येषां ते वादयः । आदिशब्दः प्रकारवाची, वाप्रकारा इत्यर्थः । प्रकारस्तु सादृश्यम्, तत्पुनः क्रियात्मकतया, यदाह - ‘भ्वर्थाः’ इति । भ्वर्थता तु भुवोऽर्थ वदतीति हेतोः । एवं विधा वाप्रकारकाः शब्दा इह सूत्रे संज्ञिनः स्मृता । तदनेन प्रकारेण क्रियावचनानामेव भूवादीनां धातुसंज्ञा भवतीत्युक्तम् । तेन धातुसमानशब्दानां या-वा-दिव - प्रभुतीनां धातुसंज्ञा न भवति । न हि ते क्रियावचनाः; निष्पन्नवस्त्वभिधायित्वात् । साध्यमानस्वरूपा हि क्रिया निरवयवा क्वचित् पूर्वापरीभूतावयवाऽनिष्पन्नवस्तुस्वभावा । गणपाठस्तु पूर्ववदेवाङ्ङ्गीक्रियते । तेनाणपयतीत्येवमादीनां शब्दानां धातुसंज्ञा न भवतीति अस्मिन्नपि व्याख्यानं ‘भूवादयः’ इति षष्ठीसमासोऽयम् । षष्ठी च वाच्यवाचकसम्नब्धलक्षणा वेदितव्या ॥
१.३.१
सूत्राणि:॥ भूवादयो धातवः ॥
॥ व्याख्या: ॥॥ पदपञ्जरी ॥
‘भू’ इत्येवमादयः शब्दा इत्यनेन पाठनिबन्धनेयं संज्ञेति दर्शयति । यदि त्वनाद्दत्य, पाठाम्, क्रियावचनो धातुरित्युच्येत, तत आणवेदुइत्यादिष्वपि स्यात् । कथं पुनरपभ्रंशानामनुशासनमाशङ्क्यते ? कुतो तु खल्वेतद् आणवेद्वित्यादयोऽपभ्रंशा इति यावता ये शास्त्रेणानुगम्यन्ते ते साधवः ? अवश्यं चातुबन्धादिविशिष्टं रूपं पाठेनैव दर्शनीयम्, न हि तद्रूपं प्रयोगे सम्भवति । अतोऽन्यार्थः सन् गणपाठ एवाश्रितो भवतीति धातुत्वे सति लड् भवति । एधते, स्पर्द्धते इत्यनुदात्तेतौ । यदि पाठमात्रनिबन्धनेयं संज्ञा, या वा - दिव्-शब्दानां सर्वनामविकल्पस्वर्गवाचिनां समानशब्दानामपि प्रसङ्गः ? न च प्रापणादिर्थो नियामकः, अनार्षत्वाद्, अभियुक्तैरुत्तरकालनिर्दिष्टत्वाद्, अनेकार्थत्वाभ्युपगमाच्च, सत्यम्, संज्ञायां को दोष: ? न तावद्धातुप्रत्ययानां लडादीनां प्रसङ्गः; कर्त्रादीनामभावात्, इच्यते, याः पश्येति’आतो धातो:’ इति लोपः स्यात् । ननु अधातुः इति निषेधाद् अप्रातिपादिकत्वाद्विभक्तिरेव न स्यात्, नौतदस्ति;विभक्तावुत्पन्नायां त्यदाद्यत्वे टापि च यारूपत्वे सति धातुत्वम्, सुबुत्पत्तिदशायां तु यदित्यस्य नास्ति धातुत्वम; वाशब्दात्तु सुबेव न स्यात्; एवं दिव्शब्दादपि । न च ‘दिव औत्; इत्येतद्धातुत्वाभावे लिङ्गम्; क्किबन्तस्य दीव्यतिः सुपि सम्भवात् । सानुबन्धकत्वेऽपि तस्यैव ग्रहणं स्याद्, अतः समानशब्दानां प्रतिषेधो वक्तव्य इत्यत आह - धातुशब्द इत्यादि । क्कचित्तु’भू’ इत्येवमादयः शब्दा इत्यस्यानन्तरं क्रियावाचिन इति पठ्यते, तस्मिन् पक्षे यास्य ग्रन्थस्य शङ्का सा तस्य द्रष्टव्या । अस्य तु कथं पुनः सूत्रेऽनुपात्तः क्रियावचन इत्ययं विशेषो लभ्यते ? अत आह - धातुशब्दः पूर्वाचार्यसंज्ञेति । ततः किमित्याह - ते चेति । ततोऽपि किमित्याह तदिहापीति । महत्याः पूर्वाचार्यसंज्ञाया आश्रयणं तदीयोपाधिपरि-ग्रहार्थमेवेति भावः ॥
यावित्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥
सिद्धं वा भवत्वसिद्धं वा, शब्देन तु यद्वस्तु साध्यत्वेनाभिधीयते सा क्रिया साध्यत्वे चाश्रितक्रमरूपत्वात् पूर्वापरीभूतावयवत्वं विततरूपत्वं यत्तद्रूपमभिधीयते तस्यैकस्मिन् क्षणेऽनवस्थानम्, यदाह - क्रिया नामेयम् अत्यन्तापरिहष्टऽशक्या च सा पिण्डीभूता निदर्शयितुम् इति । एकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपा धातुवाच्या क्रिया न प्रत्यक्षेत्यर्थः । क्रमवन्त एव क्षणा एकफलो देशेन संपाद्यामानत्वात् ऐक्यमिवापन्ना धातुवाच्याः तद्यथा - पचतीत्यधिश्रयणादयोऽधः श्रयणान्ताः क्लेदनफलावच्छिन्नाः । एवमपचदित्यत्रापि क्रिया साध्यैव । ताहशस्यैव हि रूपस्य तत्रात्ययः प्रतीयते यत्पूर्वापरीभूतं क्रियते । घट इत्यत्र तु घटशब्देन चक्रोदरगतोऽपि घटः सिद्धरूप उच्यते, एकस्मिन्नेव क्षणे यद्दर्शनयोग्यं रूपं तेन रूपेणेत्यर्थः । तदेवं क्रियावचनो धातुरित्याश्रयणादतिप्रसङ्गो नास्तीति स्थितम् । इह भूरादिर्यषामिति बहुव्रीहौ यणादेशे कृते’भूवादयः’इत्यनुपपन्नो निर्देश इत्यत आह - भूवादीनां वकारोऽयं मङ्गलार्थ इति । अभिधानधर्मस्याप्यभिधेये उपचारः, यथा - भ्रमरे द्विरेफ इति । भूवादीनां संज्ञीनां सम्बन्धी यो वकारः, तदभिधायिनि भूवादिशब्दे स्थितोऽयं प्रयुज्यते, लक्षणेनाप्रप्तो निपात्यत इत्यर्थः । स च मङ्गलार्थः । अपूर्वस्य लाभो मङ्गलम्, साधुशब्दप्रयोगेऽपि धर्मो भवति, भूवादिशब्दश्च साधुः । किं च वकारे सत्यविकृतो भूशब्दो व्यवत्यादि स्मारयतीत्यपि धर्मो भवतीति ।
प्रकारान्तरमाह - भुवो वार्थं वदन्तीति । भुवो धातोरर्थं वदन्तीति वा, भूवादय इति निर्देश इत्यर्थः । अर्थकथनं चैतद् । व्युत्पत्तिस्तु भवनं भूः, क्रियासामान्यभुवं वदन्तीत्यौणादिकोऽयम्, ‘वसिवपियजिराजिवजिसदिहनिवाशिवादिवारिभ्य इञ् इति कर्तरि वदे: इञ् प्रत्ययः । यदि क्रियासामान्यं ये वदन्ति ते संज्ञिनः, अस्तिभवतिविद्यतीनामेव स्याद्, न प चत्यादीनां विशेषवाचिनाम् ? विशेपक्षे गणपाठसामर्थ्यात् सोऽप्यङगीक्रियते, अन्यथा शब्विकरणा ये सेटो निरनुबन्धका अन्तर्गणकार्यवर्जिता भूप्रभृतयस्तेषां पाठोऽनर्थकः स्याद् । बहुवीहेस्तु भूत्वादिशब्दस्य पृषोदरादित्वात्साधुत्वम् । तृतीयं प्रकारमाह - भ्वर्था वा वादयः स्मृता इति । भवनं भूः सोऽर्थो येषां ते भ्वर्था, एवम्भूता वादयो वात्र संज्ञिनः स्मृता इत्यर्थः । किमिदं वादय इति ? ‘वा गतिगन्धनयो:, ‘ वा आदिर्येषां ते वादयः वा गति इत्यारभ्या चुरादिसमाप्तेः । तथा च भ्वादयो वादयः भूप्रभृतय आ ‘वा गतिगन्धनयोः’ इत्यस्माद् । वादयश्च वादयश्च बहुव्रीहितत्पुरुषयोः सहविवक्षायां स्वरभिन्नानां यस्योत्तरः स्वरविधिरिति बहुव्रीहेः शेषः । ततो भुवो वादय इति वाच्यवाचकसम्बन्धे शेषषष्ठीसमासः । अस्मिन्पक्षे पाठविशेषोऽर्थश्चेत्युभयं सूत्राक्षरैरेवोपात्तं भवति ॥
१.३.१
सूत्राणि:॥ भूवादयो धातवः ॥
॥ व्याख्या: ॥॥ शब्दकौस्तुभः ॥
क्रियावाचिनो गणपठिता धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । भवति, एधते । क्रियावाचिनः किम् ? ‘या पश्य’ इत्यादौ धातुत्वं मा भूत । सति हि तस्मिन् “आतोधातोः” (६.४.१४०) इत्यालोपः स्यात् । न च “या प्रापणे” (धा.सू.१०४९) इत्याद्यर्थनिर्द्देशो नियामकः । तस्यापाणिनीयत्वात् । भीमसेनादयो ह्यर्थं निर्दिदिशुरिति स्मर्यते । पाणिनिस्तु “भ्वेध” इत्याद्यपाठीदिति भाष्यवार्त्तिकयोः स्पष्टम् । किञ्च अभियुक्तैरपि कृतोर्थनिर्देशो नार्थान्तरनिवृत्तिपरः सुखमनुभवतीत्यादावधातुत्पप्रसङ्गात् । उक्तञ्च -
“क्रियावाचित्वमाख्यातुमेकैकोर्थः प्रदर्शितः । प्रयोगतोऽनुसर्त्तव्या अनेकार्था हि धातवः” ॥ इति ।
अत एव “कुर्द खुर्द गुर्द गुद क्रीडायामेव” (धा.सू.२१.२२.२३.२४) इत्येवकारः पठ्यते “श्लिष आलिङ्गने” (३.१.४६) इत्यादिसूत्राण्यपीह ज्ञापकानि । तस्मात् ‘याः पश्य’इत्यादिव्यावृत्तये क्रियावाचिन इति विशेषणं स्थितम् । गणपठिता इति किम् ? हिरुक्, पृथक्, ऋते, इत्याद्यव्ययानां ‘शिश्ये’ इति भावार्थतिङन्तस्य चा मा भूत् । न चैवं सौत्रेष्वव्याप्तिः । स्तम्भवादीनामुदित्करणेन धात्वधिकारीयकार्यविधानेन च धातुत्वानुमानात् । न चैवमपि लौकिकानां चुलुम्पादीनामसङ्ग्रहापत्तिः । भ्वाद्यन्ते यजादिसमाप्त्यर्थं वृत्करणेऽपि भ्वादीनामसमाप्तेः । धातुवृत्तिषु तथैव व्याख्यातत्वात् । “कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थम्” (का.वा.) इति कात्यायनवचनेनाप्येतल्लभ्यते । एवं भ्वाद्यन्ते वृत्करणस्य पुषादिसमाप्त्यर्थतया दिवादीनामपरिसमाप्तेः ‘मृग्यति’इत्यादिसिद्धिः । वस्तुतस्तु चुरादीनामन्ते “बहुलमेतन्निदर्शनम्” इति गणसूत्रेण सकलेष्टसिद्धिः । तद्धि धातुवृत्तिषु द्वेधा व्याखायातम् । भ्वादिगणपठितेभ्योऽपि णिच् प्रयोगानुसाराज्जप इति । दशगणीपाठो दिङ्मात्रप्रदर्शनार्थस्तेनान्येऽपि शिष्टप्रयुक्ता धातवः सङ्ग्राह्या इति च । स्यादेतम् - भूरादिर्येषामिति विग्रहे यणि सति भ्वादय इति स्यात् । क्रियावाचित्वञ्च सूत्रानारूढमेवेति । उच्यते - ” भवनं भूः क्रियासामान्यम् । वदन्तीति वादयः वदेरौणादिक इञ्” इति भाष्यम् । यद्यपि “वसि वपि यजि राजि व्रजि सहि हनि वासि वादि वारिभ्य इञ्” (उ.सू.५७४) इत्यौणादिकसूत्रेण वदेर्ण्यन्तादिञ् विहितस्तथापि बहुलग्रहणात् केवलादपि भविष्यतीति न्यासकारादयः । वस्तुतस्तु “वदन्तीति वादयः” इति भाष्यमर्थकथनपरम् । ण्यन्तादेव त्विञ् । न चेह ण्यर्थानन्वयः । पचतिपाचयत्योस्तुल्यार्थत्वात् । भुवो वादय इति विग्रहः । तथाच क्रियावाचित्वं तावत्सूत्रारूढम् । निरनुबन्धानां शब्विकरणानां भूप्रभृतीनां पाठसामर्थ्यात्पठितानामेव संज्ञेत्यनुमीयते । “सनाद्यन्ता धातवः” (३.१.३२) इति सूत्रारम्भाच्च । अथ वा भूरादिर्येषामिति विग्रहः । निपातनाद् वुगागमः महासंज्ञाकरणं तु “दधति क्रियाम्” इति धातवः इत्यन्वर्थसंज्ञाविज्ञानार्थम् । यद्वा - भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोस्तु व्यवस्थाप्रकारवाचिनोरेकशेषः । ततो भूवौ आदी येषामिति बहुव्रीहिः । भूप्रभृतयो वासदृशाः क्रियावाचिन इति यावत् । अथ वा वाइत्ययमादिर्येषामिति बहुव्रीहिः वाइत्यस्यादय इति तत्पुरुषः । तयोरेकशेषे स्वरभिन्नानामिति बहव्रीहिशेषः । भुवो वादय इति षष्ठीतत्पुरुषः । वाच्यवाचकभावश्च षष्ठ्यर्थः । “द्विर्वचनेचि” (१.१.५९) इति वत्तन्त्रावृत्त्यादिना वा उभयलाभः । सर्वथापि क्रियावाचिनो भ्वादय एव धातव इति स्थितम् । का पुनः क्रिया? उच्यते, करोत्यर्थभूता उत्पादनापरपर्याया उत्पत्त्यनुकूलव्यापाररूण भावनैव क्रिया । तथाहि - अभवतो गगनादेरक्रियमाणतया भवतश्च घटादेः क्रियमाणतया भवत्यर्थकर्त्तुः करोतिकर्मत्वम् । तथा च करोत्यर्थकर्त्तुर्भवितृप्रयोजकतया । भवतेरुत्पत्त्यर्थाप्रयोजकव्यापारे णिजुत्पद्यमानः करोत्यर्थमवलम्बते । उक्तञ्च - “करोतिक्रियमाणेन न कश्चित्कर्मणा विया । भवत्यर्थस्य कर्त्ता च करोतेः कर्म जायते ॥
करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याथ प्रयोज्यत्त्वं प्रपद्यते ॥
प्रयोज्यकर्तृकैकान्तव्यापारप्रतिपादकाः । ण्यन्ता एव प्रयुज्यन्ते तत्प्रयोजककर्मसु ॥
तेन भूतिषु कर्तृत्त्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भाविनां भावनाविदः ॥” इति ॥
सा च सकलधातूनां वात्त्या । अत एव ‘किं करोति’? इति प्रश्ने ‘पचति’ ‘पठति’ इत्याद्युत्तरं सङ्गच्छते । न चासौ मीमांसकोक्तरीत्या प्रत्ययवाच्यैवास्तामिति वाच्यम् । भोक्तव्यमित्यादावाख्यातं विनापि तत्प्रतीतेः । तथा च तत्रापि कारकापेक्षा दृश्यते । अस्ति च तत्रापि पकोतिसामानाधिकरण्यं, किं कर्त्तव्यं, भोक्तव्यम्, किं कृतवान्भुक्तवानिति । किञ्च, ‘भावयति घटम्’ इति वत् त्वन्मते ‘भवति घटम्’ इत्यपि स्यात् ‘तुल्यार्थत्त्वात् । दृष्टान्ते कर्त्तुः कुम्भकारस्य व्यापारं णिजाचष्टे, दार्ष्टान्तिके त्त्वाख्यातप्रत्ययः । ननु प्रयोजकव्यापारो णिजर्थः, कर्तृव्यापारस्त्वाख्यातार्थः । इति वैषम्यमिति चेत्, कारकचक्रप्रयोक्तुः कर्तृत्वे घटस्यातथात्त्वात् । यदि तु -
“धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते” इति भर्तृहरिप्रतिपादितरीत्या प्राधान्येन धातूपात्तव्यापारत्त्वरूपं कर्तृत्वं तवापि सम्मतं कस्तर्हीदानीमाख्यातार्थः । व्यापारस्य धातुनैवाभिहितत्वात् । अपि च, धातोः सकर्मकाकर्मकत्वविभाग उच्छिद्येत । ‘अकर्मकाच्च’(१.३.२६) इत्यादिसूत्राणि च विरुध्येरन् । ननू सिद्धान्तेऽपि क्रियायाः कर्मापेक्षानियमात्कथमकर्मकतेति चेत्, न, फलव्यापारयोः सामानाधिकरण्यवैयधिकरण्याभ्यां सकर्मकाकर्मकविभागस्य वक्ष्यमाणत्वात् । किञ्च, ‘ज्योतिष्टोमयाजी’ इत्यादौ “करणे यजः” (३.२.८५) इति णिनिरस्मत्पक्षे सङ्गच्छते । धातुत्वेन धातुपात्तां भावनां प्रति यजित्वेन तदुपात्तस्यांशान्तरस्य करणत्वात् । पच्यादयो हि धातुत्वेन भावनामाहुः । विक्लित्याद्यंशान्तरे तु पाचत्वादिना प्रातिस्विकरूपेणाहुः । तच्चांशान्तरभावतां प्रति प्रायेण भाव्यतया सम्बध्यते । ‘ज्योतिष्टोमयाजी’ इत्यादौ तु करणतया ‘ज्योतिष्ठोमाख्येन यागेन स्वर्गं भावितवान्” इत्यर्थप्रतीतेः । स्पष्टं चेदं णिनिविधौ हरदत्तग्रन्थे । एतेन “द्व्यर्थः पचिः” इति भाष्यं व्याख्यातम् । भट्टिश्चाह -
विभज्यसेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ । नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून्” इति ।
ननु क्रियाया धात्वर्थत्वे ‘पचति’ इत्यादौ एककर्तृका वर्तृमाना पचिक्रियेति क्रियाविशेष्यको बोधो न स्यात् । प्रत्ययार्थं प्रति प्रकृत्यर्थस्य विशेषणताया औपगवादौ क्लृप्तत्वादिति चेन्न, “प्रत्ययार्थः प्रधानम्’ इति ह्युत्सर्गः स चेह त्यज्यते । “क्रियाप्रधानमाख्यातम्” इति स्मरणात् । “पाचिका” इत्यादौ स्त्रीत्वस्य विशेषणत्वाभ्युपगमाच्च । प्रत्युत तवैव ‘पचति’ इत्यादावनुपपत्तिः । ‘पचन्तं तं पश्य’ इत्यादौ शतृशानचोः कर्तृप्रधान्यस्य सर्वसम्मततया तिङ्क्ष्वपि तथात्वापत्तेः, शत्रादीनां तिङाश्च लादेशत्वस्याविशिष्टत्वात्, आदेशानाञ्च स्थानिस्मारकत्वे स्थान्यर्थाभिधायित्वे वार्थैक्यध्रौष्टत्वात् । अत एव हि युष्मदि समानाधिकरणे मध्यभः, अस्मद्युत्तमः, इत्यादिपुरुषव्यवस्था सङ्गच्छते । अभिहिते कर्तरि प्रथमा, इत्यादि च । न ‘समानाधिकरणे’ इत्यनेन स्वाभिधेयसंख्यान्वयित्वम्, अभिहितशब्देन चाभिहितसङ्ख्याकत्वं विवक्षितमिति वाच्यम् । सूत्राननुगुणत्त्वात् । कृत्ताद्धितसमासैः संख्याया अनभिधानात्तदभिहितेऽपि तृतीयाप्रसङ्गाच्च । न च कृत्यनभिधानमेव कर्त्तुरनभिधानमिति वाच्यम् । भावार्थलकारेऽपि कर्त्तरि प्रथमापत्तेरिति दिक् । स्यादेतत् - अस्तिभवतिविद्यतिषु क्रियावाचित्वमव्याप्तम् । न हि तत्रोत्पादः प्रतीयते । एवन्तिष्ठतावपि तथा जायत उत्पद्यते इत्यत्राप्यव्याप्तिः उत्पत्तिर्हि आद्यक्षणसम्बन्धः । तदनुकूलव्यापारश्चोत्पादया । तदनुभवश्चास्त्यादिभ्यो नास्त्येवः । अत एव ‘किं करोति’ इति प्रश्ने ‘पचति’ इत्यादिवत् ‘अस्ति’ इति न प्रतिब्रुवते इति चेत्, उच्यते, ‘अस्ति’ इत्यादेः स्वरूपधारणं ‘करोति’ इत्यर्थः । धारणञ्चोत्तरकालसम्बन्धः । तथा सत्यपि करोत्यर्थे धात्त्वर्थान्तर्गतेन धारणेनैव भाव्याकाङ्क्षायाः पूरणात् ‘जीवति’ ‘नृत्यति’ आदिवदकर्मकता क्रिया हि व्यापारव्यधिकरणैवोत्पत्तिरुच्यते । अत एव तत्र घटादीनां कर्मता । परसमवेतव्यापारफलीभूतोत्पत्तिशालित्वात् । जनिप्रभृतिभिस्तु व्यापारसमानाधिकरणैवोच्यते । अत एवाकर्मकता तेषाम् । सोत्पत्त्यनुकूलव्यापारभाजमपि सूक्ष्मरूपापन्नघटादीनां परसमवेतत्त्वघटितकर्मताविरहात् । उक्तञ्च हरिणा - “आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।” इति । अन्येप्याहुः -
“अस्त्यादावपि धर्म्यंशे भाव्येऽस्त्येव हि भावया । अन्यत्राशेषभावात्तु सा तथा न प्रकाशते” इति ॥
तथा पचौ विक्लिदौ च विक्लित्तिर्यद्यपि साधारणी तथाऽपि पचौ व्यापारव्यधिकरणा विक्लिदौ तु तत्समानाधिकरणा सेति सकर्मकाकर्मकविभागः । न हि धात्वर्थभूतफलशालित्त्वमात्रं कर्मत्वं किन्तु व्यापारवैयधिकरण्यमपि फलेऽपेक्ष्यते । यत्तूक्तं ‘किं करोति’ इति प्रश्ने इत्यादि । तदसिद्धम् । आसन्नविनाशं कञ्चिदुद्दिश्य ‘किं करोति’ इति प्रश्ने ‘अस्ति’ इत्युत्तरस्य सर्वसम्मतत्वात् । इतरत्र तु सुस्थतया निश्चिते ‘किं करोति’ इति प्रश्नः पाकादिविशेषगोचर एवेत्यवधारणात् ‘अस्ति’ इति नोत्तरम् । एतेन -
“यावत्सिद्धमसिद्धे वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्त्वात्सा क्रियेत्यभिधीयते” ॥
इत्यपि व्याख्यातम् । पूर्वापरीभावापन्नानेकक्षणविशिष्टस्योत्पत्तिः “आत्मास्ति” इत्यादावपि सुलभैवेति भावः । पचत्यादावपि हि अधिश्रयणादिरधःश्रयणान्तो व्यापारकलापः क्रिया । अत एव तस्य युगपदसन्निकर्षान्न प्रत्यक्षता । किन्तु एकैकस्याधिश्रयणादिव्यापारस्य क्रमेणानुभवे सति मनसा सङ्कलना क्रियते । तदुक्तं भाष्ये - ”क्रिया नामेयमत्यन्तापरिदृष्टा अशक्या पिण्डीभूता निदर्शयितुम्” इति । ऐक्यमपि पारिभाषिकम् । एकफलावच्छिन्नत्वात् । उक्तं च -
“गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥” इति ॥
तदेव भवत्यादौ क्रियावाचकत्त्वं सुवचम् । अत एव ‘अभूत्’ ‘अस्ति’ ‘भविष्यति’ इति कालयोगः । न हि क्रियात्वं विनाऽसौ सम्भवति । तदुक्तम् - “क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका” । इति । “कालानुपाति यद्रूपन्तदस्तीति प्रतीयते ।” इति च । आष्ये तूक्तार्थसाधनाय निरुक्तकारवचनमुदाहृतम् - ”षड्भावविकारा इति ह स्माह भगवान्वार्थापणिरिति । भावस्य क्रियायाः षट् प्रकारा इत्यर्थः । तेषु च जायतेऽस्तीति पाठात्सर्वक्रियान्वयः सिद्ध इत्वर्थः । कैयटस्तु प्रकारान्तरेणापि व्याचख्यौ। भावस्य सत्ताया एते प्रकाराः सप्तैवानेकक्रियात्मिका साधनसम्बन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतथावभासते” इति । तथा च - ”जातिसमुद्देशेऽपि सम्बन्धिभेदात्सत्तैवेत्युपक्रम्योक्तम् -
“प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत्सत्वमिति कथ्यते” ॥ इति ॥
व्यापारविशेषाणां साध्यत्वात् क्रमिकत्त्वाच्च तदुपहितायास्ते भवत इत्यर्थः । ‘पाकः’ इत्यादौ तु प्रकृत्या साध्यावस्थाया असत्वरूपाया उपस्थितिः । घञा तु सिद्धरूपायाः । उक्तञ्च -
“क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्विधिम् ॥
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता । प्रकल्पिता यथा शास्त्रे स घञादिष्वपि क्रमः ॥
साध्यत्त्वेन क्रिया तत्र धातुरूपनिबन्धया । सत्वभावस्तु यस्तस्याः स घञादि निबन्धने” ॥ इति ।
लिङ्गसङ्ख्याकारकाद्यन्वययोग्येनावस्थाविशेषेण घञादिभ्य उपस्थितिरित्यर्थः । एतेन “कृदभिहितो भावो द्रव्यवत्प्रकाशते” इति तृतीयाध्याये भाष्यमपि ध्याख्यातम् । प्रकल्पितेत्यनेन पदस्फोटस्यैव वास्तवतां ध्यनयति - साध्येत्त्वेनेति । अत एव तम्प्रतिकारकतया ओदनादेरन्वय इति भावः । अत एव ‘भोक्तुं पाकः’ ‘भुक्त्वा गमनम्’ इत्यादौ तुमुनादयः सिद्धाः । कृत्त्वोर्थास्त्वनभिधानान्नेत्येव शरणम् । अत एव क्वचिदृश्यतेपि द्विर्वचनम् । ‘द्विरणविधिः’ इति सूत्रवार्त्तिकयोः प्रयोगात् । सत्त्वभावस्त्विति । अत एव ‘पाकं करोति’ इत्यादौ कारकत्वेन साऽन्वेतीत्यर्थः । नन्वेवं “पश्य मृगो धावति” इत्यादौ मृगकर्तृकशीघ्रगतेर्दशनम्प्रतिकर्मता न स्यात् । न च संसर्गमर्यादयेह कर्मताभानेऽपि प्रकारत्वेनाभानान्नोक्तदोष इति वाच्यम् । एवमपि ‘पचति’ भवति’ इत्यादावसङ्गतेः । एककर्तृका वर्त्तमाना पचिक्रिया एककर्तृका वर्तगाना भवनक्रियतेति हि तत्र वाक्यार्थः । तत्र च ‘भवति’ इति लकारार्थत्य कर्तुर्देधदत्तकर्तृकपचिक्रियां प्रत्यभेदेन संसर्गेण विशेष्यत्वस्यावात्यकत्वात् । तथा च देवदत्तवत्पचिक्रियायः सत्वधर्मो दुर्वारः । अत्राहुः - ”कर्तृत्वकर्मत्वयोरनुभवबलाद्भानं स्वीक्रियते । कारकान्तराभावमात्रे तु तात्पर्यम्” इति । “आख्यातशब्दे भागाभ्याम्” इत्युदाहृतश्लोकोप्येतदभिप्रायक एव । तत्र “यं प्रति” इत्युत्तरश्लोकानुरोधादिति तृतीये स्फुटीकरिष्यामः । एतेन ‘अपाक्षीत्’ ‘अपाक्षीः’ ‘अपाक्षीः’ ‘पचतः’ पचन्ति’ ‘पक्ष्यति’ ‘पक्ष्यतः’ इत्यादावपि ‘भवति’ इत्यनेन कर्तृत्वेनान्वयो व्याख्यातः । ‘भावी वर्त्तते’ ‘ध्वस्तोस्ति’ इत्यादाविव सूक्ष्मावस्थस्य वर्त्तमानसत्तासम्भवात् ।
१.३.१
सूत्राणि:॥ भूवादयो धातवः ॥
॥ व्याख्या: ॥॥ व्याकरणसिद्धान्तसुधानिधिः ॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः । भवति । धातुत्वाल्लडादयः । याः पश्यसीत्यादौ धातुसंज्ञायां या इत्यादेरातो लोपस्य वारणाय क्रियावचना इति । हिरुक इत्यादौ वर्जयित्वेत्याद्यर्थके निपाते, शिश्ये इत्यादौ भावतिङन्ते चातिव्याप्तिवारणाय वादय इति गणपठिता इत्यर्थकम् । न च लाक्षणिकत्वादेव याशब्दस्य गणेऽनुपादानमिति वाच्यम् । स्थलान्तरे प्रतिपदोक्तत्वस्य तत्रापेक्षितत्वात् । न चान्तरङ्गे लोपेऽर्थनिमित्तकतया बहिरङ्गस्य टापोऽसिद्धत्वम् । लिङ्गस्य कारकापेक्षया प्रथमप्रतीतिकत्वेन अजादिप्रत्ययनिमित्तकस्य लोपस्यैव बहिरङ्गत्वात् । नाजानन्तर्ये इति निषेध इत्यपि केचित् । न चार्थनिर्देशो नियामकः । तस्याभियुक्तान्तरकृतत्वेनापाणिनीयत्वात् ।
क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः । प्रयोगतोऽनुसर्त्तव्या अनेकार्था हि धातवः ॥
इत्यर्थान्तरव्यावृत्तौ तात्पर्याभावाच्च । अत एव ‘कुर्द खुर्द गुर्द गुद क्रीडायामेव’ इत्येवकारः । ‘श्लिष आलिङ्गने’ इत्यादिकं च सङ्गच्छते । न चैवं ‘टु वम् उद्गिरणे’ इति निपातनादित्त्वमित्यस्यानुपपत्तिः । एतदपरितोषादेव पृषोदरादित्वस्यान्यैरुक्तत्वात् । भूवादय इति निपातनाद्वकारागमः । न चासाधुत्वम् । वैयाकरणनिकाये प्रसिद्धत्वात् । न च क्रियावचनत्वस्य सूत्रादलाभः । भवनं भूः क्रियासामान्यं तद् वदन्तीति भूवादय इत्यर्थात् । वसिवपियजिराजिव्र जिसहिहनिवासिवादिवारिभ्य इञ् इत्यत्र इञो वादयतेर्विधानेऽपि बाहुलकाद्वदेरपि तत्सम्भवादिति केचित् । वादयतेरेवात्र इञ् निवृत्तप्रेषणतयाऽर्थभेदाभावात् । वदन्तीतिभाष्यस्य चार्थकथनपरत्वादित्यन्ये । न चैवं गणपठितत्वस्य दौर्लभ्यम् । सनाद्यन्ता धातवः इत्यस्यारम्भेण पठितानामेव संज्ञाऽनुमानात् । सौत्राणां तु स्तम्भ्वादीनामुदित्करणेन धात्वधिकारीयकार्यविधानेन च धातुत्वसिद्धेः । चुलुम्पादीनां च वादेराकृतिगणत्वात् । वृत्करणस्य यजादिसमाप्त्यर्थत्वात् । एतेन दिवाद्यन्ते वृत्करणं पुषादिसमाप्त्यर्थम्, तेन मृग्यतीत्यादिकमपि व्याख्यातम् ।
वस्तुतो बहुलमेतन्निदर्शनम् इति चुराद्यन्ते गणसूत्रेण सर्वसिद्धिः । भ्वादिभ्योऽपि स्वार्थे णिच् । यद्वा दशगणीपाठो दिङ्मात्रम्, शिष्टप्रयोगादन्येऽपि धातवो ज्ञेया इति द्वेधा तस्य ग्रन्थकृन्द्भिव्र्याख्यानात् । यद्वा भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । भूवौ आदी येषामिति बहुव्रीहिः । सादृश्यं च क्रियावाचित्वेनेति यथोक्तविशेषणद्वयलाभः । न च वातेर्धातुत्वानापत्तिः । भेदाघटितसादृश्यस्य तत्र सत्त्वात् । यद्वा वादय इत्यत्र बहुव्रीहितत्पुरुषयोरेक शेषः । स्वरभिन्नानां यत्परं तच्छिष्यते इति बहुव्रीहेः शेषः । भुवो वादय इति षष्ठीसमासः । वाच्यवाचकभावश्च षष्ठ्यर्थः । यद्वा तन्त्रावृत्त्यादिना उभयलाभः, द्विर्वचनेऽचि इत्यादिवत् । अत्र भूप्रभृतयो वासदृशा इत्येव सारम् । एतेन -
भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते । भुवो वार्थ वदन्तीति वर्धा वा वादयः स्मृताः ॥
इति वार्त्तिकं व्याख्यातम् । वस्तुतस्त्वभियुक्तानां परिभाषाविशेषसम्बन्धेन धातुपदवत्त्वमेव घातुत्वम् । तत्परिचायकं चोक्तसूत्रम् । न तु वाद्यन्यतमत्वम्, गौरवात् । अनुकरणेषु तत्तद्रूपाणामतिप्रसङ्गाच्च । तद्व्यावृत्तस्य भूत्वादेरन्यतमत्वघटकस्य प्रकारान्तरेण दुर्वचत्वात् । अत एव सौत्राणाम्, चुलुम्पादीनां च सङ्ग्रहः । अत एव च धात्वर्थत्वं क्रियात्वमिति तान्त्रिकाणामुद्घोषः सङ्गच्छते । अथ केयं क्रिया नाम? यत्त्वाहुः फलाव्यवहितपूर्वकालवर्ती व्यापारविशेषस्तथा । अधिश्रयणादीनां तु क्रियात्वमौपचारिकम् । तदुक्तम् -
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः । प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यया ॥ इति ।
न च काष्ठादिव्यापारस्य तथात्वाद्व्यभिचारः । जनकान्तराननुकूलत्वस्य वाच्यत्वात् । नापि पाकारम्भेऽपि क्रियाया भावित्वात्पक्ष्यतीत्यस्यापत्तिः । गौणमुख्यसाधारणतत्क्रियासमूहस्यातीतत्वेऽपाक्षीदिति, प्रागभावे पक्ष्यतीति, यत्किञ्चित्सत्त्वे च पचतीति प्रयोग इति व्यवस्थाऽभ्युपगमात् । इदञ्च यङ्विधौ भाष्ये स्पष्टम् । तन्त्र, मुख्यत्वसम्भवे गौणत्वस्यानुचितत्वात् । अथ पचित्वं जातिः, पचतीत्यनुगतव्यवहारात्, सैव क्रिया । न चैवमसाध्यत्वापत्तिः । तदाश्रयव्यक्तीनामेव तथात्वात् । तदुक्तम् -
जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्त्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवावभासते ॥ इति ।
तन्त्र, दण्डादिव्यापारस्यापि फलानुकूलत्वेन तदाश्रयस्य दण्डस्य कर्तृत्वे तिङा तदभिधानापत्त्या दण्डेन देवदत्तः पचतीत्यत्र दण्डेऽपि प्रथमापत्तेः । न च करणार्थेयं तृतीया । कर्तृत्वे करणत्वस्यानुपपत्तेः । आकडारादेका संज्ञा इति नियमात् । न च तदा दण्डादिव्यापारस्य धात्वर्थत्वेनाविवक्षितत्वान्न दोष इति वाच्यम् । तथाऽपि क्रियायाः साध्यत्वप्रत्ययस्यान्यविषयकत्वे मानाभावात् । अथ साध्यत्वेनाभिधीयमानो व्यापारविशेषः क्रिया । तदुक्तम् -
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते ॥ इति ।
न च साध्यत्वेनाभिधाने मानाभावः, पचति, पाकः, करोति, कृतिरित्यादौ धात्वर्थप्रतीत्यविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोर्दर्शनस्य मानत्वात् । तथा च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकत्वं साध्यत्वम् । तदेवासत्त्वभूतत्वम् । क्रियायाः प्रत्ययार्थतावादेऽपि पचति पाकभवनेत्यादौ तथा दर्शनात्तथात्वावश्यकत्वादिति । तन्त्र, साध्यत्वप्रकारकशाब्दबोधस्य सर्वानुभवविरुद्धत्वात् । भोक्तुमित्यादावसत्त्वभूता क्रिया भासते इति सिद्धान्तविरोधाच्च । क्रियान्तराकाङ्क्षायास्तत्र सत्त्वात् इति तृतीये वक्ष्यते इति चेदत्रोच्यते फलानुकूलो व्यापारसमूह एव क्रिया । तदुक्तं भाष्ये क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुम् इति । व्यापारसमूहघटकानामवयवानामेकक्षणानवच्छिन्नतया प्रत्यक्षासम्भवादित्यर्थः । तथा च वाक्यपदीये -
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥
युगपदनवस्थाने हेतुः क्रमजन्मनामिति । बुद्ध्या तावद्विषयकसमूहालम्बनज्ञानैन । प्रकल्पितः अभेदो यस्य । तथा चानेकवर्णसमुदाये एकज्ञानावच्छिन्नतया यथैकं पदमिति व्यवहारस्तथोक्तस्थले क्रियाया अपीत्यर्थः । पिण्डीभूतेति । यथा परमाणवः पिण्डीभूता उपलभ्यन्ते न केवलाः एवं पिण्डीभावात् क्रिया न प्रत्यक्षेति कैयटः । काव्यप्रकाशकारेणाप्युक्तम् साध्यः पूर्वापरीभूतावयवः क्रियारूप इति । तद्व्याख्यातारोऽपि साध्यः साध्यत्वेन विवक्षितः पूर्वापरीभूतत्वेन प्रतीयमाना अवयवाः प्रचयान्तर्गताः प्रचयिनोऽधिश्रयणादयो यस्य पाकादिधात्वर्थस्य सः । अक्रमस्य क्रमप्राप्तिश्च्व्यर्थः । प्रचयस्य तत्तत्प्रत्येकातिरिक्तस्याभावाद्व्यापारार्णा प्रत्येकं पाकत्वेन क्रमेण पाक इति भ्रम एवेति । अत एवोक्तमाश्रित्यक्रमरूपत्वात् इति ।
यद्वा अधिश्रयणादिरपि तत्तदाश्रयविशिष्टः क्रियारूपः, क्रियाया विशेष्यस्य चैकत्वाद् अक्रमत्वेऽपि आश्रयीभूतविशेषणक्रमात्क्रमोपचारः । अन्ये तु स्थालीन्धनतण्डुलादिविशिष्टक्रिया पचादिधात्वर्थः, तदवयवाश्च स्वनिष्ठशक्त्यवच्छेदकत्वे सति स्वाश्रयाः स्थाल्यादयः, तेषां वास्तवपौर्वापर्याभावाच्च्विप्रत्यय इत्याहः । न च यत्र चुल्युपरिधारणादयोऽवतारणपर्यन्ता व्यापाराः पुरुषभेदेन नानापाकक्रियासु युगपद्भवन्ति तदा पाकक्रियाप्रत्यक्ष स्यादिति वाच्यम् । तद्व्यक्तीनां परस्परसहकारित्वाभावात् ।
ननु पाकत्वं प्रत्येकव्यापारपर्याप्तम्, न तु संयोगादिवद्व्यासज्यवृत्ति भिन्त्रकालीनेषु एकस्य व्यासक्त्यनुपपत्तेः, उक्तग्रन्थान्तरेभ्योऽपि तथाप्रतीतेश्च । शब्दकण्टकोद्धारेऽप्युक्तम्चुल्लीज्वालनमारभ्यावतारणपर्यन्तव्यापारकलापे घटत्वादिवत् प्रत्येकपर्याप्तमेव पाकत्वं भावनात्वं वा आख्याताथों वा, फलावच्छिन्नव्यापारसमुदायस्य तदर्थत्वात् । उक्तं च भाष्ये नाना चैकार्था क्रिया पचतीति स्थाल्यधिश्रयणमुदकावसेचनं तण्डुलावपनमेधोऽपकर्षणमग्निज्वालनं दर्वीघट्टनमवतारणम् इति, तथा च पाकप्रत्यक्षं स्यादेवेति चेन्न, पाकत्वस्य वस्तुतस्तथात्वेऽपि तत्समूहस्यैव क्रियाव्यवहारविषयत्वात् । तस्य च प्रत्यक्षायोगात् । अत एव ‘पश्य मृगो धावती’ त्यादावेकदेशस्यैव वर्तमानस्य दर्शनकर्मत्वमिति तृतीये वक्ष्यते । तदुक्तं हरिणा -
क्रमात्सदसतां तेषामात्मानो न समूहिनाम् । सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥
न यान्तीत्यन्वयः । क्रमिकव्यापारसमुदायस्य क्रियात्वात्तस्य वर्तमानत्वासम्भवान्न चक्षुरादिग्राह्यत्वम् । वर्तमानस्य तदेकदेशभूतस्य व्यापारस्य चाक्षुषत्वं तूपपन्नमेवेत्यर्थः । तत्सिद्धं क्रिया धात्वर्थ इति ।
अथोक्तरूपक्रियाया धात्वर्थत्वे किं मानम् ? न तावद् भावप्रधानमाख्यातम् इति निरुक्तम् । आख्यातशब्दस्य धातावशक्तत्वात् । ननु सर्वमाख्यातजं नाम इति निरुक्तकृताऽभिधानात्तस्य धातुवाचकत्वम् । प्रत्ययजन्यत्वस्य नामत्वसम्भवात् । नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् इति भाष्योक्तेश्च । शकटस्य ऋषेस्तोकमपत्यमिति कैयटः । शाकटायन इति यावत् । तथा च निरुक्तम् तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च इतीति चेन्नैवम्, कृदन्ते घातावाख्यातपदप्रयोगाभावात् । तत्र लक्षणया तदुपपत्तेः । अत एव येषां तूत्पत्तावर्थे स्वे प्रयोगो न विद्यते तान्याख्यातानि इति जैमिनिसूत्रेऽपि लक्षणयैवाख्यातपदं घातुपरम् । उत्पत्तावुच्चारणकाले स्वेऽर्थे प्रयोगो न विद्यते, स्वार्थसिद्धो न विद्यते इति यावत् । अयं तु विशेषः जैमिनिसूत्रे तेन तिङन्तस्यैव धातोर्ग्रहणम्, निरुक्ते तु आख्यातपदस्योपलक्षणतया घातुस्वरूपमात्रस्येति । नापि भावपदस्य भावनापरत्वम् । धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । इति वैयाकरणैः परिभाषितत्वेऽपि निरुक्तस्मृतौ आख्यातार्थभावनाया एव ग्रहणात् । तस्य व्याकरणमात्रपरत्वात् । तत्रापि नपुंसके भावे क्तः इत्यादावेव तथा, न तु तस्य भावस्त्वतलौ इत्यादाविति स्पष्टम् । किञ्च भावनाया धात्वर्थत्वे मुख्यविशेष्यत्वं न स्यात्, प्रत्ययार्थप्राधान्यभङ्गापत्तेः । क्वचित्तत्परित्यागेऽपि उत्सर्गे पक्षपातस्य युक्तत्वात् । न च भावनायास्तिङर्थत्वे कृदन्तेषु तत्प्रतीतिर्न स्यादिति वाच्यम् । धात्वर्थकारकैस्तत्सिद्धेः । तदुक्तम् -
धात्वर्थकारकैरेव गुणभूतोऽवगम्यते । भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयते ॥
अत एव भावनाप्रधानत्वादाख्यातेषु तत्सम्बन्धादेव गुणभूतकारकप्रतीतिसिद्धेर्न कर्तृकर्मणोरभिधानम् । न च स्वार्थफलव्यधिकरणव्यापारवाचित्वरूपसकर्मकत्वनिर्वचनानुपपत्तिः । तत्र हि वस्तुतः फलव्यधिकरणो यो व्यापारस्तद्वाचित्वं सकर्मकत्वम्, उत फलव्यधिकरणत्वेन व्यापारवाचकत्वम् । नाद्यः, पच्यादेरपि फलाविवक्षायामकर्मकत्वाङ्गीकारात् । तत्र वस्तुतः फलव्यधिकरणत्वस्याभावात् । नान्त्यः, अनुभवविरोधात् । न च सर्वदाऽकर्मकस्यैव वारणीयत्वान्न पूर्वोक्तातिव्याप्तिरिति । तादृशाकर्मकादिलक्षणस्यानुपयुक्तत्वात् । लः कर्मणि च भावे चाकर्मकेभ्यः इत्यकर्मकग्रहणेनाविवक्षितकर्मकाणामपि ग्रहणस्येष्टत्वात् । नेह ‘पच्यते’ इत्यादौ भावलकार इति हरदत्तादिभिरुक्तत्वात् । ‘पीता गावो’ ‘भुक्ता ब्राह्मणाः’ ‘कृतपूर्वी कटम्’ ‘गतं तिरश्चीनम्’ इत्यादौ ग्रन्थकारैभवि क्तप्रत्ययव्याख्यानाच्च । ननु गतिबुद्ध्यादिसूत्रे गत्यर्थाकर्मकेति सूत्रे च अविद्यमानकर्मकाणामेव ग्रहणं देवदत्तेन पाचयतीति तृतीयानुरोधात्, दत्तवान्पक्ववानित्यर्थे दत्तः पक्व इत्यादेरापत्तेश्चेति चेत्तर्हि तदननुगमतादवस्थ्यम्, तस्मादविवक्षाविरहविशिष्टकर्मसाकाङ्क्षघातुत्वमेव सकर्मकत्वं तदभावश्चाकर्मकत्वम् । पच्यादीनां स्वरूपेण कर्मसाकाङ्क्षत्वेऽप्यविवक्षादशायामकर्मकत्वादविवक्षाविरहेति । एतेन कृञो यत्त्रार्थकत्वे यतिवदकर्मकत्वापत्तिरिति निरस्तम् । तथाहि आकाङ्क्षा समभिव्याहारात्मिका शब्दधर्मः । तेनार्थैक्येऽपि घटः कर्मत्वमित्यादावनाकाङ्क्षत्वम् । घटमित्यादौ च साकाङ्क्षत्वम्, तद्वदेव यतेः कर्मानाकाङ्क्षा कृञश्च तदाकाङ्क्षेत्युपपत्तेः । आस्यादिधातूनां च स्वरूपेण अकर्मकत्वेऽपि मासादिकालयोगे तदाकाङ्क्षत्वात्सकर्मकत्वम् । अत एवैकस्यैव ग्रन्थधातो श्चैत्रनिष्ठव्यापारमादाय सकर्मकत्वं पुष्पनिष्ठव्यापारमादाय त्वकर्मकत्वमित्यभ्युपगमः ।
अथ भावयति घटमितिवद्भवति घटमित्यपि स्यात् । दृष्टान्ते णिचा दाष्टान्तिके चाख्यातेन व्यापारबोधाविशेषात् । न च प्रयोजकव्यापारो णिजर्थः, कर्तृव्यापारस्त्वाख्यातार्थ इति विशेष इति वाच्यम् । त्वद्रीत्या कारकचक्रप्रयोक्तुरेव कर्तृत्वेन घटस्यातथात्वात् । न च यस्यैवान्यापेक्षयाऽऽख्यातोपात्तव्यापारसमवायः स कर्ता इति बाधाध्याये व्यवस्थितत्वाददोष इति वाच्यम् ।
करोतिः क्रियमाणेन न कश्चित्कर्मणा विना । भवत्यर्थस्य कर्ता च करोतेः कर्म जायते ॥
करोत्यर्थस्य यः कर्ता भवितुः स प्रयोजकः । भविता तमपेक्ष्याऽथ प्रयोज्यत्वं प्रपद्यते ॥
तेन भूतिषु कर्तृत्वं प्रतिपन्नस्य वस्तुनः । प्रयोजकक्रियामाहुर्भावनां भावनाविदः ॥
इति भावार्थाधिकरणे भट्टपादैर्भावनाया निरूपितत्वात् तदनाश्रयस्य कर्तृत्वानुपपत्तेः । न च धातूपात्तव्यापाराश्रयत्वमेव कर्तृत्वमिति वाच्यम् । व्यापारस्य धात्वर्थत्वसिद्धौ भावनायास्तिङर्थत्वानुपपत्तेरिति चेन्न, अनुकूलंव्यापारे शक्तिपक्षे हि अनुकूलत्वं जनकत्वम् प्रयोजकसाधारणं वा ? नाद्यः, फलजनकशरीरगतक्रियाविशेषोपक्षीणस्यात्मनिष्ठप्रयत्नादेरन्यथासिद्धस्याऽसङ्ग्रहापत्तेः । नान्त्यः, कृष्यादिसाधारण्यात् । न च यत्नत्वाधः सन्तापनत्वादीनां तत्तद्रूपेण शक्यतावच्छेदकत्वाङ्गीकारान्नातिप्रसङ्गः । तथापि पचति पाके यतते इत्यादिविवरणाद्यनादीनां धात्वर्थबहिर्भावस्य दुर्वारत्वात् । न च घञादियोगे धातोः फलमात्रमर्थः । सामान्यसामग्रीमर्यादया तद्बोधापत्तेः । घञादिसमभिव्याहारस्य तत्प्रतिबन्धकत्वे गौरवात् । तिबादिसमभिव्याहृतधातुत्वस्य शक्ततावच्छेदकत्वे कार्यकारणभावद्वयमवच्छेदकगौरवं तत्र व्यापारबोधानुभवविरोधश्च । स्तोकं पाक इत्यस्योपपादनविरोधश्च । न च तत्र विवक्षाविरहादेव यलबहिर्भावः । देवदत्तः पचतीत्यत्र विवक्षाध्रौव्यात् । अन्यथा तस्य कर्तृत्वानुपपत्तेः । धातूपात्तव्यापारवत एव त्वन्मते तत्त्वात् । अतः पचतीत्यत्र भासमानो यत्नोऽवश्यं पच्यर्थाद्बहिः कार्यः । स एवाख्यातार्थः । विवरणवेलायां भासमानस्य तस्य परिशेषादाख्यातवाच्यत्वकल्पनात् । तत्रापि रथो गच्छतीत्यादेरनुरोधादनुकूलव्यापारवाचिणिजन्तभूधातुना विवरणात्, सङ्ग्रहकलाघवाच्चानुकूलव्यापारे एव शक्तिः, यत्त्रस्यापि तद्रूपेण सङ्ग्रहादिति मीमांसकाः ।
मण्डनमिश्रानुयायिनस्तु फलमात्रं धात्वर्थः, अनुकूलव्यापारो व्यापारमात्रं वाऽऽख्यातार्थः । जन्यजनकभावः संसर्गलभ्यः । लडाद्यर्थो वर्त्तमानत्वादि लिङर्थश्चेष्टसाधनत्वादि व्यापार एवान्वेति । आख्यातजन्यवर्त्तमानत्वप्रकारकबोधे तज्जन्यव्यापारोपस्थितेर्हेतुत्वकल्पनात् । न च व्यापारविगमे फलसत्त्वे पाको विद्यते इति स्यादिति वाच्यम् । भावार्थघञदेरनुकूलव्यापारार्थत्वात् । अत एव व्यापारसत्त्वे फलानुत्पत्तिदशायां पाको भविष्यतीति न प्रयोगः । नापि घटभूतलयोर्मिथः संयोग इतिवन्मिथो गमनमित्यादि । संयोग इत्यादौ तु घञादेः प्रयोगसाधुतामात्रम्, धात्वर्थमात्रप्रतीतेः । व्यापाररहितेऽपि वृक्षादौ संयुज्यते इत्यादिव्यवहारात्तत्र तिङोऽपि न व्यापारोऽर्थ इति न सकर्मकत्वम्, आश्रयत्वस्यैव तत्र तिङर्थत्वात् । न चैवं धात्वर्थतावच्छेदकफलशालित्वरूपं कर्मत्वं ग्रामादेरनुपपन्त्रम् । प्रत्ययोपनीतपरसमवेतव्यापारजन्यधात्वर्थफलशालित्वस्य कर्मत्वात् । प्रत्ययोपनीते परसमवेते च व्यापारस्य विशेषणम् । ‘भूमि प्रयाति विहग’ इत्यत्र विहगादेरपि स्वापेक्षया भिन्त्रो यः स्वावयवः तत्समवेतव्यापारजन्यधात्वर्थफलसंयोगवत्त्वात्स्वात्मानं प्रयातीत्यादिवारणाय प्रत्ययोपनीतेति । तादृशस्वार्थव्यापारस्तु न परसमवेतः । गमनात्मकव्यापारस्यैव प्रत्ययोपनीतत्वात्, तस्य च परसमवेतत्वाभावात् । गमनजन्यविभागशालिपूर्वदेशेऽतिव्याप्तिवारणाय धात्वर्थेति । तण्डुलं पचतीत्यत्र आधेयत्वं द्वितीयार्थः, फले धात्वर्थे तदन्वयः । फलस्य जनकत्वसम्बन्धेनाख्यातार्थव्यापारे तस्याश्रयत्वेन चैत्रेऽन्वयः । तण्डुलवृत्तिविक्लित्तिजनकव्यापारवांश्चैत्र इति धीः । चैत्रेण पच्यते तण्डुल इत्यत्र तृतीयार्थवृत्तित्वस्य तिङर्थे व्यापारे, तस्य जन्यत्वसम्बन्धेन धात्वर्थे फले, तस्याश्रयत्वेन तण्डुलादावन्वयः । चैत्रवृत्तिपरसमवेतव्यापारजन्यफलवांस्तण्डुल इति धीः । फलव्यापारयोर्विशेषणविशेष्यभेदेन कर्तृकर्मव्यवहारः ।
अथ सुबर्थस्य धात्वर्थेऽन्वयः क्लृप्त इति तस्याख्यातान्वयकल्पनमयुक्तम्, एवम् आख्यातार्थव्यापारस्य धात्वर्थविशेषणत्वमपि इति विभाव्यते, तर्हि तृतीयाया व्यापार एवार्थः, तत्र वृत्तित्वं प्रकृत्यर्थस्य संसर्गः, व्यापारस्य जन्यत्वेन धात्वर्थफलेऽन्वयः, तस्य निरूपितत्वसम्बन्धेन तिङर्थेऽधिकरणत्वे तस्य तण्डुलेऽन्वयः । कर्मकृतः फलाश्रयः, कर्तृकृतश्च व्यापाराश्रयोऽर्थः, तण्डुलः पक्वः चैत्रो गन्ता इत्यादिसामानाधिकरण्यानुरोधात् । कर्मप्रत्यये सुबर्थ एव व्यापारे वर्त्तमानत्वान्वयः । न च भिन्त्रपदोपात्तान्वयेऽतिप्रसङ्गः । फलबोधकधातुसमभिव्याहृतकर्माख्यातजन्यवर्त्तमानत्वबोधे तृतीयाजन्यव्यापारोपस्थितेर्हेतुत्वात् । पक्ववानित्यादौ कर्तृप्रत्यये तु एकदेशे व्यापार एव तदन्वयः । यद्वा व्यापारे आश्रये च खण्डशक्तिः विशिष्टमन्वयलभ्यम् । अत एव एवकारस्य अन्ययोगे व्यवच्छेदे च शक्तिः । अन्ययोगप्रतियोगिकव्यवच्छेदशक्तौ पार्थ एव मनुष्य इत्यादेः प्रसङ्गात् । पार्थान्ययोगो घटश्चेत्युभयाभावस्य मनुष्यत्वे सत्त्वात् । न चान्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदः शक्यः । वस्तुमात्रस्य यत्किञ्चिदपेक्षयाऽन्यत्वात् अप्रसिद्धेः ।
न चान्यसंयुक्तत्वावच्छिन्नप्रतियोगिताव्यवच्छेदोऽन्यसमवेतत्वावच्छिन्नव्यवच्छेदश्च ध्वंसादौ प्रसिद्ध इति वाच्यम् । पार्थ एव धनुर्धर इत्यादौ बाधितत्वात् । पार्थस्यापि कुतश्चिदन्यत्वेन तत्समवेतत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य धनुर्धरत्वे विरहात् । पार्थान्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदस्य अन्ययोगत्वावच्छिन्नप्रतियोगिताकव्यवच्छेदाद्भिन्नतया तदप्रत्ययप्रसङ्गाच्च । एवं च नीलो घटो नास्तीत्यत्र नीलान्वितस्य घटस्याभावेऽन्वयात् नीलघटत्वावच्छिन्नप्रतियोगित्वं संसर्गः तथा पार्थाद्यन्वितस्यान्ययोगस्य व्यवच्छेदेऽन्वयात्पार्थान्ययोगत्वावच्छिन्नप्रतियोगिताकत्वं संसर्ग इति बोध्यम् । न च प्रतियोगितामात्रेणान्ययोगविशिष्टो व्यवच्छेद एवार्थोऽस्तु व्युत्पत्तिबलादुक्तव्यवच्छेदलाभसम्भवादिति वाच्यम् । वाक्यार्थलाभ एव व्युत्पत्तेस्तन्त्रतया पदार्थस्य तदलभ्यत्वात् । न चैकपदार्थयोः कथं मिथोऽन्वय इति वाच्यम् । आख्यातार्थकृतौ कालान्वयस्य परैरभ्युपगमादित्याहुः ।
केचित्तु व्यापारमात्रं धात्वर्थः । गतो गम्यते ग्राम इत्यादौ फलस्य कृदात्मनेपदाभ्यामेव लाभात्, ग्रामङ्गच्छति, ग्रामस्य गन्तेत्यादावपि द्वितीयादेः फलजनकत्वमर्थः । आदेशशक्त्यनङ्गीकारे तु तत्स्मारितद्वितीयाया एव सोऽर्थः । यद्वा षष्ठ्याः कर्मत्वे लक्षणा फलं चाधिकरणत्वसंसर्गेण नामार्थेऽन्वेति । यद्वा फलमात्रमर्थो जनकत्वं संसर्गः । न चैवं ग्रामं गच्छति त्यजतीत्यादौ फलसामान्यस्य द्वितीयादिना लाभेऽपि नियतसंयोगविभागादिलाभो न स्यात् । ततश्च गृहाद्यामं गच्छति चैत्रे ग्रामस्येदं गमनं न तु गृहस्येति न स्यात् गृहवृत्तिफलजनकत्वसामान्याभावस्य तत्रासत्त्वादिति वाच्यम् । गम्यते ग्राम इत्यत्र फलमात्मनेपदार्थ इति वदतामपि फलविशेषप्रत्ययानुपपत्तिप्रसङ्गात् । न च तदवच्छिन्नव्यापारवाचिधातुसमभिव्याहारात्फलविशेषो लभ्यते यथेष्टसाधकत्ववाचकाद्विधेरेव स्वर्गादिपदसमभिव्याहारात्स्वर्गजनकत्वम् । प्रतीतिस्त्विष्टत्वफलत्वाभ्यां स्वर्गत्वसंयोगत्वाभ्यां वेत्यन्यदेतदिति वाच्यम् । गमिसमभिव्याहारे द्वितीयायाः संयोगः, त्यजिसमभिव्याहारे च विभाग एवार्थ इत्यत्र तयोस्तात्पर्यग्राहकत्वसम्भवादित्याहुः ।
नैयायिकास्तु फलावच्छिन्नव्यापारवाचित्वमेव धातोः सकर्मकत्वम् । त्यजेर्विभागावच्छिन्ने, गमेश्च संयोगावच्छिन्ने स्पन्दे शक्तत्वात् । धात्वर्थजन्यफलशालित्वमात्रस्य कर्मत्वे पूर्वदेशे ‘गमेः कर्मत्वम्, उत्तरस्मिन् त्यजेः, स्पन्देश्व पूर्वापरदेशयोः स्यात् । उक्तरीत्या तु स्पन्देर्व्यापारमात्रे शक्तिर्नतु फलावच्छिन्ने इति न सकर्मकत्वम् । न चैवं जानात्यादेः सकर्मकत्वं न स्यादिति वाच्यम् । तत्र तद्व्यवहारस्य भाक्तत्वात् । न चैवं तत्र द्वितीयादिकं न स्यादिति वाच्यम् । कर्मणि द्वितीया इत्यनुशासनं हि तत्समभिव्याहारमपेक्ष्य प्रवर्तते तेन रक्तं रागाद् इतिवत्, तथा च पच्यादियोगे धात्वर्थतावच्छेदकफलशालिनि तण्डुलादौ द्वितीयादिकं विदधाति, जानात्यादियोगे धात्वर्थविषये घटादौ, स्पन्दादियोगे तूक्तान्यतरप्रकाराभावान्न कुत्रचिदिति व्यवस्थोपपत्तेः । सकर्मकधातुयोगे द्वितीया इत्येतादृशानुज्ञाभावात् । तदेवं विवादे कथं विशिष्टा भावना धात्वर्थ इति प्राप्ते सिद्धान्तमाह भाष्यकारः ‘किं करोति’ इति क्रियासामान्यविषयकप्रश्ने पचतीत्यादेरुत्तरस्य प्रयोगात् धात्वर्थ एव व्यापारः ।
ननु किं विषयकयनवानित्येव प्रश्नार्थः, कृत्रो यत्नार्थत्वात् । तदुक्तं कुसुमाञ्जलौ -
कृताकृतविभागेन कर्तृरूपव्यवस्थया । यत्न एव कृतिः पूर्वा परस्मिन्सैव भावना ॥
क्रियाजन्यत्वाविशेषेऽपि यलजन्याजन्यत्वप्रतिसन्धानात्पटाङ्करयोः कृताकृतव्यवहारात्, ज्ञात्रादिवदाश्रयपरतृजन्तकर्तृपदस्य यनाश्रयबोधकत्वाच्च । क्रियायास्तदनुकूलव्यापारस्य वा कर्तृपदार्थत्वे तदाश्रयं करणमात्रं वा कर्तृपदार्थः स्यात् । अत एव पचतीत्यस्य पार्क करोतीति कृञा तिङर्थस्यैव विवरणम् । तदुक्तम् -
भावनैव हि यत्नात्मा सर्वाख्यातस्य गोचरः । तया विवरणध्रौव्यादाक्षेपानुपपत्तितः ॥ इति ।
इति चेन्नैवम्, कृञो यत्त्रमात्रार्थकत्वे ‘क्रियते घटः स्वयमेव’ इति कर्मवद्भावानुपपत्तेः । कर्मस्थक्रियेष्वेव तद्विधानमिति वक्ष्यमाणत्वात् । अन्यथा ‘ज्ञायते घटः स्वयमेव’ इत्यस्यापि प्रसङ्गात् । तदुक्तम् -
निर्वत्र्ये च विकार्ये च कर्मद्भाव इष्यते । नतु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ॥
प्राप्यत्वं च क्रियाकृतविशेषवत्तयाऽनुपलभ्यमानत्वमिति वक्ष्यते । तस्मादुत्पादनैव कृञर्थः । उत्पत्तिमत्तया च घट उपलभ्यते एव ‘अयं घटः केनचित्कृतः’ इति घटदर्शने ज्ञानोदयात् । न च घटोपादानविषयककृतौ साध्यतया घटस्यापि विषयत्वात् तद्व्यतिरेकेण च घटानुत्पत्तेर्यत्रवत्तयाऽपि घट उपलभ्यते एव, साक्षात्कारस्य त्वयाऽप्यभिधानादुत्पत्तेरतीन्द्रियत्वात् इति वाच्यम् । तदपेक्षया उत्पत्तेरेव तद्विषयत्वौचित्यात् । अन्यथा फलज्ञानस्यापि प्रवृत्तिप्रयोजकतया तद्विषयत्वस्याप्युत्पत्त्या आक्षेपात् ‘ज्ञायते घटः स्वयमेव’ इत्यादिकमपि स्यात् । न च तत्रोत्पत्तौ कृञो लक्षणा । उत्पादनाया उपाधिरूपतया शक्यतावच्छेदकत्वगौरवाद् । अत एवोत्पादना तिङर्थ इति रत्नकोषमतमपि मणिकृतैवमेव निरस्तम् । न च लक्ष्यतावच्छेदक इव शक्यतावच्छेदकेऽपि गौरवं न दोष इति शङ्क्यम् । लक्षणायाः शक्तिकल्पनोत्तरकल्प्यतया तत्र लाघवानादरणात् । अन्यथा निषादस्थपत्यधिकरणविरोध इति चेन्न, उक्तप्रयोगरूपसाधकेन उत्पादनायामेव शक्तिपरिच्छेदात् । एवं किङ्करोतीत्यत्र कृञो यनार्थकत्वे प्रश्नवाक्ये तिङर्थयत्नानन्वयस्य वाच्यतया पचतीति उत्तरानुपपत्तिः । धातोः प्रश्नविषयार्थानवबोधात् । तथाहि दैवतं लोके’ इत्यादौ ‘एकदैवतत्वव्याप्यधर्मप्रकारकज्ञानं ममेष्टसाधनम्’ इति ज्ञानात् ‘तादृशज्ञानं मम जायताम्’ इतीच्छया उक्तवाक्यप्रयोगः । तस्य च ‘एकदैवतत्वव्याप्यधर्मो मम जिज्ञासाविषयः’ इति वाक्यार्थः । विष्णुदैवतमित्याद्युत्तरेण च जिज्ञासानिवृत्तिः, विष्णुत्वप्रकारकज्ञानोदयात् । तस्यैव विष्णुत्वांशे एकदैवतत्वव्याप्यधर्मप्रकारकज्ञानत्वरूपेणेच्छाविषयत्वात् । अन्यज्ञानादन्येच्छानुत्पत्तेः । सिद्धेऽपि तदनुत्पत्तेश्च । उत्पादनार्थत्वे तु व्यापारसामान्यविषयकप्रश्ने तद्विशेषविषयकोत्तरोपपत्तिरिति । ‘किमेकं नन्वेवं अस्ति भवतीत्यादिषु उभयांशविरह इति चेन्मैवम्, तत्रापि क्रियासद्भावात् । तदुक्तम् -
अस्त्यादावपि धम्र्यंशे भाव्येऽस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रतीयते ॥
धम्यैशे धर्मिभागे, भाव्ये भाव्यतया विवक्षायाम् । भूघातोरुत्पत्तिस्थित्युभयार्थकत्वात् । तत्र भवः, तत्र जातः इति भेदनिर्देशात् । अत एव तत्र लडादिप्रयोगः, कालस्य क्रियात्मकत्वात् । क्रियाभेदाय कालस्तु सङ्ख्या सर्वस्य भेदिका । इति कालानुपाति यद्रूपं तदस्तीति प्रतीयते । इति वाक्यपदीयोक्तेः । न चैवं ‘घटं करोति’ इत्यत्रेव ‘घटो भवति’ इत्यादावपि तत्प्रतीतिः स्यादिति वाच्यम् । अशेषभावाद्भावनाफलयोरेकनिष्ठत्वाद्भावना स्पष्टं न प्रतीयते इत्युत्तरार्द्धार्थात् । न चैवं ‘किङ्करोति’ इति प्रश्ने ‘पचति’ इत्यादिवद् ‘अस्ति’ इत्यादिकमपि उत्तरं स्यादिति वाच्यम् । सुस्थतया निश्चिते प्रश्नस्य विशेषविषयकत्वज्ञानात् तदभावेऽपि आसन्नविनाशधर्मिकयथोक्तप्रश्ने अस्तीत्युत्तरस्य सर्वाभिमतत्वात् ।
ननु ‘दिगस्ति’ ‘आत्मा भवति’ इत्यादौ उत्पत्तेर्बाधिततया कथं भावना वाच्येति चेन्न, तत्तत्क्षणविशिष्टत्वेन तेषामप्युत्पत्तेः । यद्वा स्वरूपधारणमेव फलं तदाश्रयतैव साध्यत्वेनाभिधीयमानो व्यापारः । तथा चात्माऽऽदिः स्वरूपधारणं करोतीत्यर्थः । अस्तीत्युत्पन्नस्यात्मधारणमुच्यते इति निरुक्तकारोक्तेः । आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते इति वाक्यपदीयोक्तेश्च । न चैवं सकर्मकत्वापत्तिः । जीवत्यादिवदन्तर्भूतकर्मकत्वात् । यद्वा अस्तित्वमेव व्यापारः, अवच्छेदकतारूपा व्याप्तिः फलम् । अंत एव ‘मासमास्ते’ इत्यादौ धात्वर्थतावच्छेदकफलशालित्वरूपं मुख्यमेव कर्मत्वमिति भाष्ये द्वितीये वक्ष्यते ।
अथवा क्रियावाचित्वावश्यकत्वेऽपि फलवाचित्वानावश्यकत्वात्सत्ताऽऽदिरेव क्रिया । अत एव ‘पश्यति भवः स्वयमेव’ ‘दर्शयते भवः’ इत्यादौ निवृत्तप्रेषणे विषयतारूपफलस्यैव धात्वर्थत्वं क्रियात्वं चेति स्वीकारः । एवं पच्यते ओदनः स्वयमेवेत्यादौ ।
एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्त्तन्ते तुल्यरूपं समाश्रिताः ॥
इति वाक्यपदीयानुसारेण विक्लित्तिमात्रं धात्वर्थः । तद्रूपक्रियाश्रयत्वात् ओदनादीनां कर्तृत्वमिति व्याचक्षते । भावस्य भाष्ये तु निरुक्तमप्युदाहृतम् षड् भावविकारा इति ह स्माह वार्ष्यायणिः इति । अत्र कैयटः क्रियायाः षट् प्रकाराः तेषु चास्तिः पठित इति तस्यापि क्रियात्वम् । अथवा भावस्य सत्ताया एते प्रकाराः । सत्तैवानेकक्रियात्मिका साधनसम्बन्धाध्यवसीयमानसाध्यरूपा जन्मादिरूपतया भासते इति । तथा च जातिसमुद्देशे हरिणोक्तम् सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । इत्युपक्रम्य -
प्राप्तक्रमविशेषेषु क्रिया सैवाभिधीयते । क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ॥ इति ।
व्यापारविशेषाणां साध्यत्वात्क्रमिकत्वाच्च तदुपहितसत्तायास्तद्योग इत्यर्थः । स्यादेतत्जानाति, इच्छति, यतते, द्वेष्टि इत्यादौ अवच्छेदकं फलं नास्त्येव, तथा च तत्र कथं सकर्मकत्वम्, वैयाकरणानां स्वार्थफलव्यधिकरणव्यापारवाचित्वस्यैव तत्त्वात् । न च ज्ञानजन्यं विषयताख्यमेव फलं घटनिष्ठमिति वाच्यम् । ज्ञानजन्यविषयतायां मानाभावात् । अतीतादौ तदुत्पत्तेरशक्यवचनत्वात् । तदुक्तं कुसुमाञ्जलौ -
स्वभावनियमाभावादुपकारोऽतिदुर्घटः । सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥
पूर्वार्द्धस्यायमर्थः विषयस्य ज्ञानेन सह पूर्वमसम्बन्धे घटज्ञानं पटेऽपि ज्ञाततां जनयेत् असम्बद्धत्वाविशेषात् । स्वभावादेव तज्ज्ञानं पटीयमिति चेन्न, ज्ञाततास्वीकारवैयर्थ्यात् । न च क्रियात्वात्कर्मनिष्ठफलजनकत्वानुमानम् । इच्छति नश्यति इत्यादौ व्यभिचारात् । न च ‘घटो ज्ञातः’ इति प्रत्यक्षं मानम् । ज्ञानवैशिष्ट्यस्यैव तद्विषयत्वात् । तदुक्तम् -
अनेकान्तादसिद्धेर्वा न च लिङ्गमिह क्रिया । तद्वैशिष्ट्यप्रकाशत्वान्नाध्यक्षानुभवोऽधिके ॥ इति ।
इष्टतादीनामपि सिद्धिप्रसङ्गादित्यर्थः । अत्र वदन्ति आवरणभङ्गजनकज्ञानं ज्ञानानुकूलव्यापारो वा जानातेः, इच्छाद्वेषानुकूलव्यापार इच्छतिद्विष्यादीनामर्थ इति सकर्मत्वमुपपन्नमिति । अद्वैतचन्द्रिकाकृतस्तु नैतद्युक्तम् । आवरणभङ्गरूपफलस्य परोक्षज्ञानविषयनिष्ठत्वाभावात् । परोक्षवृत्त्याऽसत्त्वापादकस्यैवावरणस्य निवृत्तेः । तत्र वृत्तेर्विषयसम्बन्धाभावेन विषयनिष्ठाभानावरणभङ्गाभावात् । प्रमातृमात्रनिष्ठवृत्त्या प्रमातृनिष्ठावरणभङ्गस्यैव सम्पादनात् । परम्परया फलसम्बन्धमादाय सकर्मकत्वोक्तावकर्मकस्यापि तदापत्तेः । तस्यापि फलव्यापारयोर्धातुरित्यादिना त्वया स्ववाच्यव्यापारसमानाधिकरणफलवाचकत्वोक्तेः । सुखादिस्थले आवरणस्यैवाप्रसिद्धत्वाच्च । अत एव ज्ञानमपि न फलम् । चैतन्यस्य नित्यतया फलत्वायोगात् । वृत्तिज्ञानस्य परोक्षस्य विषयनिष्ठत्वाभावात् । विषयतासम्बन्धस्य वृत्त्यनियामकत्वात् । सुखादिस्थले तदसम्भवाच्च ।
यदपि विषयताजनकज्ञानादिकं जानात्यादेरर्थ इति तदपि न, विषयताया ज्ञानाद्यतिरिक्तत्वेऽपि ज्ञानादिजन्यत्वे मानाभावात् । ज्ञानादिपूर्व विषयतासत्त्वेऽपि ज्ञानाद्यभावादेवोपपत्तेः । ज्ञानादीनां च स्वोत्पत्तिद्वितीयक्षणे स्वकार्योपधानासम्भवात्स्वोत्पत्तिक्षणे सविषयकत्वाभावात् । तस्मादेवं वाच्यम्वाच्यम् असत्त्वापादकाज्ञाननिरूपकत्वाभावस्य यदधिकरणत्वं तत्प्रयोजकचिदेव जानात्यर्थः । उक्ताधिकरणत्वरूपफलवत्त्वेन घटादेर्शानादिकर्मता । सुखादिनिष्ठे तादृशाधिकरणत्वेऽपिसुखाद्युपहितरूपेण चित्प्रयोजिका । सुखादेरसत्त्वदशायां तादृशचिदभावे उक्ताधिकरणत्वाभावात्तद्भावे तद्भावाच्च । न च यथोक्तनिरूपकत्वाभावप्रयोजकचिदेव ज्ञाधात्वर्थोऽस्त्विति वाच्यम् । घटाकारवृत्तिदशायां प्रमातारं जानातीति प्रसङ्गात् । तादृशवृत्तिप्रयुक्तस्योक्तनिरूपकत्वाभावस्य प्रमातरि सत्त्वात् । उक्तनिरूपकत्वाभावाधिकरणत्वोक्तौ तु प्रमातृनिष्ठस्य तस्य स्वतः सिद्धतया न वृत्त्यवच्छिन्नचित्प्रयोज्यत्वम् इति न तदापत्तिः, घटादौ विघ्नाभावाधिकरणत्वस्य मङ्गलाप्रयुक्तत्ववत् । एवं च वृत्त्युपहितरूपेण सुखाद्युपहितरूपेण च तादृशप्रयोजकत्वाद् वृत्त्यवच्छिन्नचितो जानात्यर्थत्वम् इति ग्रन्थसङ्गतिः । यदि तु तार्किकादिरीत्या साक्षात्करोतिजानात्योर्मुख्यसकर्मकत्वं नाभ्युपेयते तत्र ज्ञाधातोः शक्यता शुद्धचिद्व्यक्तावेव निरवच्छिन्ना, शक्यनानात्व एवानुगमार्थमवच्छेदकस्वीकारात् । घटं जानातीत्यादौ तदीयासत्त्वापादकाज्ञानविरोधित्वसम्बन्धेन घटादेर्शाधात्वर्थेऽन्वयः । तदीयत्वं च स्वावच्छित्रचिद्विषयिताविषयितान्यतररूपस्तत्सम्बन्धः । स्वावच्छिन्नचिद्विषयित्वमात्रनिवेशे ब्रह्म जानातीत्यादावनुपपत्तिः । ब्रह्मणश्चित्स्वरूपत्वेन सावच्छिन्नत्वाभावात् । विषयित्वमात्रनिवेशे च घटं जानातीत्यादावनुपपत्तिः । घटादेर्जडत्वेनावरणकृत्याभावात् । घटादिविषयकत्वस्याज्ञानेऽनङ्गीकारात् । अत उभयमुपात्तम् । अभानापादकाज्ञानसत्त्वेऽपि परोक्षवृत्तिकाले घटं जानामीत्याद्यनुभवादसत्त्वापादकेतीत्याहुः । इदं च तर्ककौतूहले विचारितमस्माभिरिति तिष्ठत्वतिविस्तरः ।
॥ सिद्धान्तकौमुदी ॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
॥ बालमनोरमा ॥
भूवादयो धातवः । भूश्च वाश्च भूवौ । आदिश्च आदी । प्रथम आदिशब्दः प्रभृतिवचनः, द्वितीयस्तु प्रकारवचनः । भूवौ आदी येषां ते भूवादयः । भूप्रभृतयो वासदृशाश्च ये, ते धातुसंज्ञका इत्यर्थः । वाधातुसादृश्यं च क्रियावाचकत्वेन । तदाह - क्रियावाचिन इत्यादिना । क्रियावाचिनः किम् ? । धातुपाठे या इत्यस्य पाठात् याः पश्यन्तीत्यत्र टाबन्तयच्छब्दस्य धातुत्वं मा भूत् । धातुत्वे हि 'आतो धातोः' इत्याल्लोपः स्यात् । वस्तुतस्तु लक्षणप्रतिपदोक्तपरिभाषया टाबन्तयच्छब्दस्याऽत्र न ग्रहणप्रसक्तिः । 'क्रियावाचिन' इति तु वाशब्दस्य विकल्पार्थस्य निपातस्य धातुत्वनिवृत्त्यर्थम्, धातुपाठे वा इत्यस्य पाठात् । 'वां गतिगन्धनयोः' 'या प्रापणे' इत्यर्थनिर्देशस्याधुनिकत्वात् । 'क्रियावाचिन' इत्युक्तौ तु न दोषः । वार्थस्य विकल्पस्य, 'वा भविष्यति' इति 'वा अभव'दित्येवं भूतभविष्यत्कालसंबन्धाऽभावेन क्रियात्वाऽभावादिति शब्देन्दुशेखरे स्थितम् । भ्यादयः किम् ? । वर्जनक्रियावाचिनो हिरुगित्यस्य धातुत्वं मा भूत् ॥
॥ तत्त्वबोधिनी ॥
भूवादय इति । भूश्च वाश्च भूवाविति द्वन्द्वः , आदिशब्दयोव्र्यवस्थाप्रकारवाचिनोरेकशेषः । आदिश्च आदिश्च आदी, भूवौ आदी येषामिति विग्रहः । भूप्रभृतयो वासदृशाः । सादृश्यं च क्रियावाचित्वेनेत्यभिप्रेत्याह - क्रियावाचिन इति । क्रियावाचिन इति किम् ? 'याः पश्यसी' त्यादौ धातुत्वं मा भूत् । सति हि तस्मिन् 'अतो धातो' रित्याकारलोपः स्यादिति स्थितं मनोरमायाम् । भ्वादयः किम् ? 'हिरुक्' 'पृथग्' इत्याद्यव्ययानां 'शिश्ये' इति भावार्थतिङन्तस्य च मा भूत् । स्तन्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते । चुलुम्पादीनां 'बहुलमेतन्निदर्शन' मिति गणसूत्रेण सङ्ग्रहः ।
१.३.१
सूत्राणि:
॥ भूवादयो धातवः ॥॥
व्याख्या: ॥॥ बृहच्छब्देन्दुशेखरः ॥
कौमुदीमूलम् - क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः ॥
भूवादयो धातवः । क्रियावाचिनः किम् ? विकल्पार्थकवाशब्दस्य निपातस्य धातुत्वेऽप्रातिपदिकत्वात्सुबभावे पदत्वानापत्तेः तदुक्तौ तु न दोषः। वार्थस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात् । अस्त्याद्यर्थस्यापि तत्त्वं भूतभविष्यत्कालसम्बन्धात् । भ्वादयः किम् ? 'आणवयति' 'वट्टयती'त्यादीनां धातुत्वे शास्त्रविषयतया साधुत्वापत्तेः । सूत्रशेषे भाष्ये स्फुटमेतत् । स्तम्भ्वादीनामुदित्त्वेन धात्वधिकारविहितकार्योद्देश्यत्वादिना स्थितपाठभ्रंशानुमानान्न तेषु दोषः ।
॥ प्रौढमनोरमा - संस्कृतव्याख्या ॥
भूवादयो धातवः ॥ भूश्च वाश्चेति द्वन्द्वः । आदिशब्दयोर्व्यवस्था-प्रकारवाचिनोरेकशेषः । भूवौ आदी येषामिति बहुव्रीहिः । भूप्रभृतयो वासदृशाः । सादृश्यं च क्रियावाचकेनेत्यभिप्रेत्य आह - क्रियावाचिन इति । क्रियावाचिनः किम् ? 'याः पश्यसि' इत्यादौ धातुत्वं मा भूत् । सति हि तस्मिन् आतो धातोः इति स्यात् । भ्वादयः किम् ? हिरुक्, पृथगित्यादीनां, शिश्ये इति भावार्थतिङन्तस्य च मा भूत् । स्तम्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते । चुलुम्पादीनां तु 'बहुलमेतन्निदर्शनम्' इति गणसूत्रेण संग्रहः ॥
॥ प्रौढमनोरमा-शब्दरत्न - हिन्दी ॥
कौमुदी - भूवादयो धातवः १.३.१ क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः।
मनोरमा - भूवादयो धातवः (पा.सू.१.३.१) भूश्च वाश्चेति द्वन्द्वः। आदिशब्दयोर्व्यवस्थाप्रकारवाचिनोरेकशेषः । भूवौ आदी येषामिति बहुव्रीहिः । भूप्रभृतयो वासदृशाः । सादृश्यश्च क्रियावाचकत्वेनेत्यभिप्रेत्याह क्रियावाचिन इति । क्रियावाचिनः किम्? 'या: पश्यसि' इत्यादी धातुत्वं मा भूत् । सति हि तस्मि 'आतोघातो:' (पा.सू.६.४.१४०) इति स्यात् ।
कौमुदी में इस सूत्र की व्याख्या में जो कहा गया क्रियावाचिनो' उस अर्थ के लाभ की प्रक्रिया बताने के लिए मनोरमाकार इस सूत्रस्थ 'भूवादय:' में समास बताते हुए कहते हैं कि पहले भूश्च वाश्च 'भूवी' ऐसा द्वन्द्व समास हुआ। व्यवस्थावाची आदि शब्द तथा प्रकारवाची आदि शब्द का आदिश्व आदिश्व आदी ऐसा एकशेषहुआ है । एवं यः शिष्यते स लुप्यमानार्थाभिघायी इस नियमानुसार 'आदी' शब्द का अर्थ हुआ व्यवस्था तथा प्रकार। एवच 'भूवौ आदी येषाम्' ऐसा बहुव्रीहिसमास होकर 'भूवादय:' ऐसा रूप निष्पन्न हुआ है । इनमें भू शब्द का व्यवस्थावाची आदि शब्द के साथ तथा 'वा' शब्द का प्रकार (सादृश्य) वाची आदि शब्द के साथ क्रमश: - अन्वय होताहै । अतः सूत्र का अर्थ हुआ भूप्रभृतयः वासदृशाः धातुसंज्ञाः स्युः। अब यहाँ 'वा' का सादृश्य भृप्रभृति में कैसे लेना है ? तो इसके उत्तर में मनोरमाकार कहते हैं 'सादृश्यं च क्रियावाचकत्वेन' अर्थात् वा का सादृश्य क्रियावाचकत्वेन भूप्रभृति में लेना है । इसी अभिप्राय से कौमुदी में कहा गया 'क्रियावाचिनः भ्वादयः' इत्यादि । अब यहाँ प्रश्न यह होता है कि सादृश्य भेदघटित होता है । क्योंकि 'नित्ये मति तद्गतभूयोधर्मवत्त्वं सादृश्यम्' यह सादृश्य का लक्षण है । तो भू, एच आदि घ्यादि में तो वा भिन्नत्व है और क्रियावाचित्व रूप भूयोधर्म भी है तो धातुत्व उपपन्न होगा । परन्तु गतिगन्धनरूप क्रियावाची 'वा' धातु में 'वा' भिन्नत्व तो है नहीं स्व में स्व का भेद नहीं माना जाता । पुनः 'वा' का सादृश्य 'वा' में कैसे जाएगा ? तो इसके उत्तर में शब्दरत्नकार कहते हैं -
शब्दरत्न - सादृश्यं चेति । वा धातौ वा सादृश्यं च प्रयोगभेदेन बोध्यम् ।
अर्थात् 'वा' धातु में वा का सादृश्य प्रयोग भेदेन रहता है यह समझना चाहिए । अर्थात् 'वाति' इस प्रयोगघटक 'वा' का भेद 'वात' आदि अन्य प्रयोग घटक 'वा' में है । ‘प्रत्युच्चरितः' शब्दो भिद्यते के अनुसार इस प्रकार 'वा' का भेद 'वा' में भी प्रयोगभेदेन होने से 'एतद्वाभिन्नत्व' 'तद् वा' में रहेगा और उसमें क्रियावाचित्व भी रहेगा तो तद्वा' की धातु संज्ञा हो जाएगी । इसी प्रकार तद्वा भिन्नत्व एतद्वा में भी रहेगा । इस प्रकार चालनीयन्याय से 'वा' का भेद 'वा' में भी आने से वा का सादृश्य वा में भी रहता है और उन सब प्रयोग घटक 'वा' में क्रियावाचित्व तो रहता ही है तो 'वा' की धातु संज्ञा होने में कोई बाधा नहीं ।
मनोरमा में आगे प्रश्न किया गया क्रियावाचिनः किम् ? अर्थात् भ्वादिगणपठित शब्दों में क्रियावाचित्व रहने पर ही धातुसंज्ञा क्यों मानी जाती है ? तो इसके उत्तर में कहा गया - 'या:' यहाँ पर 'या' की धातुसंज्ञा न हो जाए, एतदर्थ क्रियावाचित्व कहा गया । तात्पर्य यह है कि यदि क्रियावाचित्व नहीं कहा जाएगा तो धातु का लक्षण होगा 'भ्वादयः' अर्थात् भ्वादिगण में जो पठित हों उनकी धातुसंज्ञा हो । तो भ्वादि गण में 'या' ( प्रापणार्थक) का भी पाठ है तो 'यत्' शब्द के स्त्रीत्व विवक्षा में जो 'या' शब्द बनता है उसकी भी धातुसंज्ञा होने लगेगी। क्योंकि 'या' आनुपूर्वी तो दोनों में समान ही है । एवञ्च यदि स्त्रीप्रत्ययान्त 'या' शब्द की भ्वादिगणपठितत्वेन धातु संज्ञा होगी तो 'या: पश्यसि' यहाँ भी द्वितीया के बहुतवचन में 'या' के आकार का 'आतोधातो:' से लोप होने लगेगा 'या' ऐसा शब्दरूप नहीं बन पाएगा । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - आतो धातोरिति । न च स्त्र्यर्थनिमित्तकटापो बहिरनासिद्धत्वम्, 'नाजानान्तयें' (परि.) इति निषेधात् । ततोऽपि बहिर्भूतसंख्यानिमित्तकविभक्तिनिमित्तक भसंज्ञानिमित्तकत्वेन लोपस्य बहिरनत्त्वाच्च, अर्थीनिमित्तकबहिरङ्गत्त्वस्याभावाच्च । नाप्ययं लाक्षणिकः ।
नकारजावनुस्वारपञ्चमौ झलि धातुषु ।
सकारज: शकरश्चेषट्टिवर्गस्तवर्गजः ॥ इत्यभियुक्तोक्तेभ्वादिषु लाक्षणिकानामपि दर्शनेन तद्विषये तत्परिभाषाया अप्रवृत्तेः। आतो धातोः (पा. सू. ६.४.१४०) इत्यत्र प्रतिपदोक्त आकारो गृह्यते इति तु वक्तुमप्यशक्यम्, पशुष इत्यसिद्धयापत्तेः। पशुं सनोतीति विट्, 'विड्वनो:' (पा. सू.६.४.४१) इत्यात्त्वम् । 'आतोऽनाप:' इति वार्तिकमते तु विकल्पार्थकनिपातवाशब्दस्य धातुत्वे प्रातिपदिकत्वाभावात् सुबभावे पदत्वानापत्तिर्दोषः । क्रियात्वं च साध्यत्वेन प्रतीयमानत्वम् । साध्यत्वञ्च उत्पद्यमानत्वमेवेत्यन्यत्र विस्तरः ।
यहाँ कोई क्रियावाचित्व, धातु के लक्षण में नहीं देने पर 'याः पश्यसि' में 'या' की धातु संज्ञा हो जाने पर भी 'आतो धातो:' से आकार के लोपरूप आपत्ति का वारण करने के उद्देश्य से कहे कि 'आतो धातो:' से विहित लोप की अपेक्षा 'स्त्री' अर्थ' को निमित्त मानकर होने वाला टाप् बहिर है, तो लोप रूप अन्तरत्र की दृष्टि में बहरज टाप् के असिद्ध होने से आकार का लोप 'आतोधातो:' से नहीं हो सकता । तो ऐसा वह नहीं कह सकता । क्योंकि ‘नाजानान्तर्ये बहिष्ट्वप्रक्लृप्तिः' से टापू में बहिरङ्गत्व का निषेध हो जाएगा । उपर्युक्त परिभाषा का अर्थ है कि जिस कार्य में पञ्चम्यन्तशब्द - बोध्यअच् में अन्य निरूपित आन्तर्य का आश्रय लिया गया हो अर्थात् 'अच् से अव्यवहित पर' को निमित्त मानकर जो कार्य होता है उसमें बहिरङ्गत्व नहीं होता । ‘टाप्' रूप कार्य में ‘अच् 'का अव्यवहितपरत्व' निमित्त होता है । क्योंकि 'अजाद्यष्टाप्' सूत्र 'अजन्त शब्द' से टाप् का विधान करता है तो उसमें अजन्त से पर होना निमित्त है । अतः उस 'अजानन्तर्य' निमित्तक टाप् में बहिरङ्गत्व नहीं होने से लोप की दृष्टि में वह असिद्ध नहीं होगा । दूसरी बात यह भी है कि - स्त्रीत्व रूप एक अर्थ को निमित्त मानकर होने वाला टापू यदि बहिर है, तो उस टाप् से भी बहिरङ्ग है 'आतोधातो:' से होने वाला लोप। क्योंकि वह "भसंज्ञक अङ्ग का लोप' करता है । इस प्रकार वह भसंज्ञा निमित्तिक है और वह भसंज्ञा, विभक्ति सापेक्ष है क्योंकि यादिअजादि विभक्ति के परे पूर्व की भसंज्ञा होती है, और वह विभक्ति संख्या सापेक्ष होती है । जो संख्या प्रातिपदिकार्थ से बहिर्भूत है । स्त्रीत्व रूप लिङ्ग तो प्रातिपदिकार्थ के अन्दर ही मतविशेष में माना जाता है । इस प्रकार बहिर्भूत जो संख्या, तन्निमित्तक जो विभक्ति, उस विभक्तिनिमित्तक जो भसंज्ञा उस भसंज्ञा निमित्तक है लोप। इस प्रकार टापू की अपेक्षा लोप के अधिक निमित्तक होने से, लोप ही बहिरङ्ग है । अतः लोप की दृष्टि में टाप् असिद्ध नहीं है तो उसका लोप 'आतो धातो:' से हो ही सकता । तीसरी बात यह भी है कि 'अर्थनिमित्तक बहिरङ्गत्व' लिया भी नहीं जाता । तात्पर्य यह है कि व्याकरणशास्त्र शब्दशास्त्र है । अतः इसमें शब्द की ही प्रधानता है । अतः 'असिद्धं बहिरङ्गमन्तरङ्गे' में 'अङ्ग' शब्द का अर्थ है निमित्त। वह निमित्त शब्द स्वरूप ही लिया जाता है अर्थात् शब्दस्वरूप निमित्त के आधार पर ही कोई अन्तरङ्ग या बहिरङ्ग कहलाता है । अन्यथा 'तिसृणाम्' यहाँ पर त्रि + आम इस स्थिति में स्त्रीत्व रूप अर्थ को निमित्त मानकर होने वाले 'तिसृ' आदेश 'त्रेस्त्रयः' से होने वाले त्रयोदेश की अपेक्षा बहिरङ्ग होने से, पहले त्रयादेश हो जाएगा । पुनः स्थानिवद्भाव से उस 'त्रय' को 'त्रि' मानकर 'तिसृ' आदेश होगा । अब पुनः इस 'तिसृ' को त्रयादेश 'लक्ष्ये लक्षणं सकृदेव प्रवर्त्तते' के अनुसार प्राप्त ही नहीं होगा तो उस त्रयादेश का निषेध करने के लिए 'त्रयादेशे स्रन्तस्य निषेध:' वचन किया गया, यह वार्तिक व्यर्थ ही होगा । अतः अर्थ को निमित्त मानकर बहिरङ्गत्व नहीं माना जाता । अतः स्त्रीत्वरूप को निमित्त मानने के कारण टापू को बहिरङ्ग नहीं माना जा सकता ।
शब्दरत्नकार आगे कहते हैं 'नाप्ययं लाक्षणिकः। ' इसका तात्पर्य यह है कि 'नाप्ययं लक्षण परिभाषायाः अर्थात् लक्षणप्रतिपदोक्तपरिभाषाया विषय:' अर्थात् इस टाप् के आकार के लोप का वारण लक्षणप्रतिपदोक्त परिभाषा से भी नहीं किया जा सकता । भाव यह है कि 'आतोधातो:' धातु के अवयव (अङ्गावयव) में 'आकार' जहाँ प्रतिपदोक्त रहता है उसी प्रतिपदोक्त आकार का लोप करता है लाक्षणिक का नहीं । 'या' का 'आ' तो 'अजाद्यष्टाप्' रूप लक्षण से 'टाप्' करके आया है । अतः 'या' के आकार का लोप नहीं करेगा । इस प्रकार 'या' की धातु संज्ञा होने पर भी कोई दोष नहीं हैं । ऐसा भी नहीं कहा जा सकता । क्योंकि अभियुक्तों ने जो कहा 'नकाराजावनुस्वारपञ्चमौ झलि धातुषु' इत्यादि । उनके इस कथन से यह बात सूचित है कि 'धातु के अवयव अनुस्वार, पञ्चमवर्ण, नकारज होते हैं अर्थात् नकार के स्थान पर आदेश होकर धातु पाठ में सुनाई पड़ते हैं । इसी प्रकार 'शकार' सकारज तथा टवर्ग, तवर्गज होते हैं । इसका अर्थ हुआ कि धात्ववयव अनुस्वार ङ्, ञ्, ण् आदि वर्ण लाक्षणिक ही होते हैं तो धातु में यदि लक्षणप्रतिपदोक्त परिभाषा लगे तब तो उन वर्णों को कोई भी कार्य नहीं हो पाएगा । अतः धातुओं में लक्षणप्रतिपदोक्त परिभाषा की प्रवृत्ति नहीं होती । अतः 'या' का आकार लाक्षणिक भले ही हो उसके लोप की प्राप्ति तो धातुत्व रहने पर रहेगी ही । इस पर यदि कोई कहे कि 'आतो धातो:' में प्रतिपदोक्त आकार का ग्रहण है । प्रश्न का तात्पर्य यह है कि अन्यत्र धातु के विषय में लक्षणप्रतिपदोक्त परिभाषा की भले ही प्रवृत्ति नहीं होती हो, परन्तु 'आतो धातो:' से प्रतिपदोक्त आकार का ही लोप होता है । शब्दरत्नकार कहते है कि आक्षेप करने वाला ऐसा कह भी नहीं सकता । क्योंकि यदि 'आतो धातो:' से प्रतिपदोक्त आकार का ही लोप होगा तब तो 'पशुषः' की सिद्धि नहीं होगी, यह आपत्ति आएगी। क्योंकि पशुं सनोति इस विग्रह में 'पशु अम्' इस उपपद के रहते सन् धातु से 'जन सन्' इत्यादि सूत्र से विट् प्रत्यय होता है, एवञ्च उस विट् प्रत्यय का सर्वापहारी लोप हो जाता है, तब विडन्त होने के कारण 'क्विबन्ता: विजन्ता: विङन्ताः धातुत्वं न जहति प्रातिपकत्वं च लभन्ते' के अनुसार उसकी प्रातिपदिकसंज्ञा होती है तो प्रातिपदिकावयव सुप् (पशुपदोत्तर अम्) का लुक् हो जाने पर 'पशु सन्' ऐसा रूप बनता है, तब 'विडवनोरनुनासिकस्याऽत्' से सन् के नकार को आत्व होता है तो षत्व होकर 'पशुषा' ऐसा प्रातिपदिक बनता है । इस प्रकार 'पशुषा' में जो 'षा' का आकार है, वह लाक्षणिक है । एवञ्च यदि ‘आतो धातो:' प्रतिपदोक्त आ का ही लोप करेगा तब तो 'पशुषा' से शस् विभक्ति आने पर पशुषा + अस् यहाँ पर लाक्षणिक 'षा' के आकार का लोप नहीं हो पाएगा तो 'पशुषः' यह रूप कैसे निष्पन्न होगा ? अर्थात् नहीं निष्पन्न हो सकता है । अतः यह नहीं कह सकते कि आतो धातोः प्रतिपदोक्त आकार का ही लोप करता है । एवञ्च 'या' में आकार लोपापत्ति रहेगी ही । यदि 'या' की धातुसंज्ञा हो जाए तो। अतः या' की धातुसज्ञा का वारण करने के लिए धातु के लक्षण में 'क्रियावाचित्व' भी देना आवश्यक है । अतः कहा गया 'क्रियावाचिनः ।
हाँ वार्तिककार 'आतोधातो:' में 'आतोनाऽपः' ऐसा वार्तिक पढ़ते हैं तो इस वार्तिकमत में तो अनाप् आ का ही अर्थात् आप सम्बन्धी आकार से भिन्न आकार का ही लोप 'आतो धातो:' करेगा तो 'या' के आकार के लोप की प्राप्ति उसकी धातुसंज्ञा होने पर नहीं होगी । तब धातु के लक्षण में 'क्रियावाचित्व' नहीं देने पर - विकल्पार्थक आनुपूर्वी का पाठ 'भ्वादिगण' में है 'वा गतिगन्धनयो:' में। एवञ्च 'वा' की यदि धातुसंज्ञा होगी तो उसकी प्रातिपदिकसंज्ञा नहीं होगी तो उसके आगे स नहीं आएगा तो 'वा' इस निपात की भी धातुसंज्ञा होने लगेगी। यह समझना चाहिए । क्योंकि 'वा' ऐसे 'वा' इस निपात में पदत्व नहीं आ पाएगा । यह दोष समझना चाहिए ।
शब्दरत्नकार 'क्रियावाचित्व' में जो क्रियापद है उसका तात्पर्य बताते है क्रियात्वं च साध्यत्वेन प्रतीयमानत्व अर्थात् 'साध्यरूप में जिसकी प्रतीति होती है उसे ही यहाँ क्रियापद से समझना चाहिए । ' अब जिज्ञासा होती है 'साध्यत्व' क्या है ? तो इसका उत्तर देते हैं 'साध्यत्वञ्चोत्पद्यमानत्वम्' अर्थात् उत्पद्यमानत्व ही साध्यत्व है । इस प्रकार क्रिया का अर्थ हुआ 'उत्पद्यमान रूप में प्रतीयमान' अर्थात् जिसकी प्रतीति होती है उसे ही क्रिया कहते हैं । उस उत्पद्यमानत्वेन प्रतीयमान को जो कहे उसे ही क्रियावाचक अर्थात् 'धातु' कहते हैं । यह सब अन्यत्र 'लघुशब्देन्दुशेखर' आदि ग्रन्थ में विस्तृत रूप में कहा गया है ।
मनोरमा - भ्वादयः किम्? हिरुक्, पृथगित्याद्यव्ययानां, शिश्ये इति भावार्थतिङन्तस्य च मा भूत् । स्तम्भ्वादीनामुदित्करणेन सौत्राणां धातुत्वं ज्ञाप्यते । चुलुम्पादीनां तु 'बहुलमेतन्निदर्शनम्' इति गणसूत्रेण संग्रहः ।
धातु के लक्षण में (भूवादिसूत्र में) भ्वादि क्यों कहा? इस प्रश्न के उत्तर में मनोरमाकार ने पहले कहा, हिरुक्, पृथक् इत्यादि अव्ययों की धातुसंज्ञा न हो । एतदर्थ भ्वादि कहा गया । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - हिरुगित्यादि । एषां क्रियासमानाधिकरणत्वाल्लिमाद्यनन्वयित्वाच्च तदर्थस्य क्रियात्वमित्यभिमानः । एषामव्ययेषु पाठस्तु अप्रातिपदिकत्वेऽप्यकजर्थः स्यात् । एतेन तेषु पाठसामर्थ्याद् धातुत्वाभाव इत्यपास्तम् ।
शब्दरत्नकार का तात्पर्य यह है कि भ्वादिग्रहण के अभाव में हिरुक् आदि अव्ययों में धातुत्वापत्ति का जो दोष मनोरमाकार ने दिया वह इन हिरुक्, पृथक् आदि अव्ययों में भी वर्जन, भिन्नता आदि अर्थ के कारण क्रियासमानाधिकरणत्व होने के कारण तथा जैसे क्रिया में लिङ् संख्या आदि का अन्वय नहीं होता वैसे ही उन अव्ययों में भी लिङ्गादि का अन्वय न होने के कारण उन अव्ययों में भी क्रियावाचकत्व रहता है इस अभिमान से। अन्यथा उनमें क्रियावाचकत्व के नहीं रहने के कारण ही धातुत्व नहीं रहेगा । धातुत्वापत्ति दोष देना ही असंगत हो जाएगा । अतः मनोरमाकार ने उनमें क्रियात्वाभिमान से धातुत्वापत्तिदोष दिया, कि यदि धातु के लक्षण में ध्यादि नहीं दिया जाएगा तो वर्जन क्रियावाचकत्व 'हिरुक्' अव्यय में तथा भिन्नता रूप क्रियावाचकत्व पृथक् इस अव्यय में इसी प्रकार अन्य अव्ययों में भी क्रियावाचकत्व रहने से हिरुक्, पृथक् आदि अव्ययों की भी धातुसंज्ञा होने लगेगी यह आपत्ति आएगी। यहाँ प्रश्न यह होता है कि 'क्रिया' का जो लक्षण उत्पद्यमानत्व पहले कहा गया है उस उत्पद्यमानत्व रूप क्रियावाचकत्व के नहीं रहने से हिरुक् आदि की तो धातु संज्ञा प्राप्त ही नहीं मनोरमाकार ने कैसे उनमें धातुत्वापत्ति का दोष दिया? इसका उत्तर यह है कि पुनः इसी आपत्ति को ध्यान में रखकर शब्दरत्नकार ने कहा - एषां क्रियासमानाधिकरणत्वात् अर्थात् वर्जन, भिन्नता आदि चूँकि क्रिया में ही विशेषण होते हैं । अतः इस क्रियाविशेषणत्व रूप क्रियासामानाधिकरण्य के कारण तथा क्रिया की तरह लिङ्गादि का अनन्वयी होने के कारण 'हिरुक' आदि अव्ययों के जो द्योत्य अर्थ वर्जन आदि हैं उसे क्रिया मानकर हिरुक् आदि में क्रियावाचकत्वाभिमान से हिरुगादि में धातुत्वापत्ति दी गयी। इस पर पूर्वपक्षी कहता है कि यदि हिरुगादि की धातुसंज्ञा होगी तो उसकी प्रतिपादिक संज्ञा न ही होगी । एवञ्च उनमें प्रातिपदिकत्व नहीं रहेगा तो उनसे प्रातिपदिकत्वाभावात् ही सुविभक्तियां नहीं आऐंगी। इसके लिए उन 'हिरुक' आदि का अव्ययगण में पाठ करना व्यर्थ है ? इसके उत्तर में शब्दरत्नकार कहते हैं कि हिरुगादि का अव्ययगण में पाठ केवल सुप् विभक्तियों के लोप के लिए ही नहीं है, अपितु उनसे 'अकच्' प्रत्यय हो इसके लिए भी है । अतः धातुसंज्ञा के कारण यदि उनमें प्रातिपदिकत्व नहीं भी रहेगा तब भी उनसे अकच् प्रत्यय हो सके एतदर्थ अव्ययगण में उनका पाठ सार्थक ही होगा, व्यर्थ नहीं । शब्दरत्नकार कहते हैं - इस प्रकार जो लोग यह कहते थे कि ‘अव्ययगण' में चूँकि हिरुक आदि का पाठ है उस पाठसामर्थ्यात् हिरुगादि की धातु संज्ञा नहीं होगी । इसके लिए धातुलक्षण में 'भ्वादि' विशेषण देना व्यर्थ है । उनका मत भी परास्त हो गया । क्योंकि प्रातिपदिकत्वाभावदशा में भी अव्ययगण में जब उनका पाठ व्यर्थ नहीं है तो उसके सामर्थ्य का आश्रयण नहीं लिया जा सकता और उस सामर्थ्याश्रयण के द्वारा धातुत्वापत्ति का वारण नहीं हो सकता ।
शब्दरत्न - नन्वेषां क्रियाकाँक्षादर्शनेन न क्रियावाचकत्वमत आह शिश्ये इति । कालोऽपिधात्वर्थ एवेति न क्रियावाचकत्वहानिः। तस्य च धातुत्वे 'आदेच उपदेशे' (पा.सू. 6/1/45) इत्यात्वं स्यात् । तद्धि अनैमित्तिकं धातुत्वनिमित्तकं चेति प्रत्ययस्यैवधातुत्वापत्तिबोध्या, तिङन्तस्य तूपदेशाभावान्नात्व स्पष्टमेव। अत्र च प्रसक्तिरित्याहुः ।
इसके ऊपर 'ननु' इत्यादि से कोई प्रश्न करता है जिसका तात्पर्य यह है कि क्रिया का अर्थ है साध्यत्वेन प्रतीयमानत्व और साध्यत्व है 'क्रियान्तराकाँक्षानुत्था - पकतावच्छेदकत्व' अर्थात् जिसे सुनने के पश्चात् अन्य क्रिया की आकांक्षा स्वतः उत्थित न हो । जैसे कोई कहे 'पाकः' तो यहाँ पचधात्वर्थ क्रिया को सुनने के पश्चात् 'भवति', भविष्यति, अभूद्रा आदि अन्य क्रिया की आकांक्षा होती है परन्तु जब कोई कहे 'पचति' तो यहाँ पर पच् धात्वर्थ क्रिया को सुनने के बाद श्रोता को अन्य क्रिया की आकांक्षा नहीं रहती । अतः 'पाक' में क्रिया सिद्धत्वेन प्रतीत होती है जबकि 'पचति' में धातुत्व 15 साध्यत्वेन। अस्तु । हिरुक् आदि अव्यय स्थल में क्रियान्तर की आकाँक्षा का अनुभव होता है । अतः उनमें साध्यत्वेनप्रतीयमान रूप क्रिया की वाचकता तो रहती नहीं तो उनमें की आपत्ति देना उचित नहीं? शब्दरत्नकार कहते हैं इसीलिए मनोरमाकार ने 'शिश्ये' में धातुत्वापत्तिदोष दिया ।
तात्पर्य यह है कि भावप्रत्ययान्त तिङन्त का अर्थ वही होता है जो प्रकृति अर्थात् 'धातु का होता है । एवञ्च 'शिश्ये' यह तिङन्त भी धात्वर्थ क्रिया रूप अर्थ को कहता है तो इस तिङन्त में भी क्रियावाचकत्व रह गया तो 'शिश्ये' इस तिङन्त की भी धातुसंज्ञा होने लगेगी 'भ्वादयः' नहीं कहने पर ।
इस पर पुनः कोई प्रश्न करता है कि क्रियामात्र का जो वाचक हो उसे ही क्रियावाचक कहा जाता है । 'शिश्ये' इस तिङन्त से तो शयनरूप क्रिया के अतिरिक्त परोक्षभूत रूप काल अर्थ की भी प्रतीति होती है । अतः शिश्ये में क्रियावाचकत्व नहीं माना जा सकता? इसके उत्तर में शब्दरत्नकार कहते हैं कि पञ्चकं प्रातिपदिकार्थः की तरह पञ्चकं धात्वर्थ: यह भी मत है । एवञ्च इस मत में काल भी धात्वर्थ ही है । अतः शयन तथा काल दोनों का वाचक वहाँ धातु ही है । अतः 'शिश्ये' में धातुत्व की हानि नहीं । प्रश्न का तात्पर्य यह था कि क्रिया तो धातु का ही अर्थ होता है । अतः क्रियामात्रवाचकत्व जिसमें रहे उसे धातु मानना चाहिए? उत्तरकर्त्ता का तात्पर्य यह है कि क्रिया के समान काल भी चूँकि धातु का ही अर्थ है अतः क्रिया तथा काल आदि का वाचक जो जोगा उसे धातु माना जाना चाहिए । एवञ्च 'शिश्ये' में यदि काल अर्थ प्रतीत भी हो रहा है तो उसे धातु माना जा सकता है । एवञ्च यदि ' शिश्ये' इस तिङन्त की धातु संज्ञा होगी तो 'आदेच उपदेशेऽशिति' से आत्व होने लगेगा । शब्दरत्नकार 'आदेच उपदेशे' से होने वाले आत्व के विषय में कहते हैं कि यह आत्व अनैमित्तक है और धातुनिमित्तक है । आशय यह है कि सूत्र में जो 'अशिति' पद है उसका 'तात्पर्य' 'अशित्' इस निमित्त में नहीं है अर्थात् 'अशित्' रहने पर उपदेशावस्था में एजन्त धातु को आत्व हो यह तात्पर्य नहीं है । अपितु 'अशिति' में नञ् प्रसज्यप्रतिषेधार्थक है अर्थात् शित् परे आत्व का निषेध करने के लिए है । इस प्रकार इस सूत्र से आत्व होने के लिए धातुत्व ही केवल निमित्त है । तो 'शिश्ये' में निमित्त रूप धातुत्व तो है ही तो आत्व होने लगेगा । यह आपत्ति होगी । इस पर कोई कहता है कि 'शिश्ये' इस पूरे तिङन्त की धातुसंज्ञा यदि हो भी जाए तो कोई आपत्ति नहीं है क्योंकि पूरे समुदाय से तो धातुत्व का फल 'तिह' हो नहीं सकता । क्योंकि वह उक्तार्थ है तो उत्तार्थानामप्रयोगः यह न्याय रोक देगा । यदि कहो 'आदेच उपदेशे' से आत्वापत्ति होगी तो वह भी नहीं कह सकते । क्योंकि पूरे 'शिश्ये' इस तिङन्त में आद्योच्चारणत्व रूप उपदेशत्व नहीं है, तो उपदेशाभावात् यह सूत्र आत्व नहीं कर सकता । यह सूत्र तो उपदेशावस्था में एजन्त धातु को ही आत्व करता है । अतः शब्दरत्नकार कहते हैं - अत्र च प्रत्ययस्यैव इत्यादि । तात्पर्य यह है कि 'शिश्ये' में प्रत्यय जो 'तिङ्' है उसीमें धातुत्वापत्ति समझनी चाहिए । 'अर्थात् 'शिश्ये' में जो प्रत्ययांश है उसकी धातुसंज्ञा होने लगेगी। एवञ्च उस 'ते' रूप प्रत्यय में या 'एत्व' में उपदेशत्व तो है ही तो उसे आत्व होने लगेगा यह दोष होगा । 'शिश्ये' इस तिङन्त में तो उपदेशाभावात् आत्व की आपत्ति नहीं है ।
यहाँ पूर्वपक्षी पुनः प्रश्न करता है कि छठे अध्याय के इस 'आदेच 'उपदेशे' सूत्र में धातुग्रहण का सम्बन्ध नहीं है, यह बात भाष्य में कही गयी है । एवञ्च इस सूत्र से आत्व धातुनिमित्तक नहीं है । तात्पर्य यह है कि 'शिश्ये' की धातुसंज्ञा होने के कारण आत्वापत्ति नहीं दी जा सकती । क्योंकि आत्व का निमित्त धातुत्व है ही नहीं । दूसरी बात यह भी है कि इस सूत्रस्थ 'अशिति' को यदि प्रसज्यप्रतिषेध मान भी लिया जाए (उचित तो यह है कि उसे पर्युदास माना जाए । क्योंकि नत्र यहाँ समस्तपदावयव है), तब भी 'अशिति' का तात्पर्य यह है कि जो शितपरक तो न हो परन्तु उसमें शित्परकत्व की अर्थात् उसके आगे शित् प्रत्यय आने की योग्यता रहे, उसी को आत्व का विधान यह सूत्र करता है । शिश्ये के प्रत्यय 'ए' में तो शित्परत्व योग्यता भी नहीं है । तो उसमें आत्वापत्ति कैसे दी जा सकती है ? अर्थात् नहीं दी जा सकती । तीसरी बात यह भी है कि भ्वादि में'वा' का सादृश्य सीधे क्रियावाचकत्वेन नहीं लिया जाता अपितु 'अन्यानभिहितक्रियावाचकत्वेन' लिया जाता है । अर्थात् अन्य से अनुक्त क्रिया का वाचक होना। 'शिश्ये' में भावप्रत्यय 'ए' तो धातु के द्वारा उक्त क्रिया अर्थ को ही कहता है । अतः उसमें अन्यानभिहित क्रियावाचकत्व नहीं होने से प्रत्यय में धातुत्व की आपत्ति नहीं दी जा सकती । अतः मनोरमाकार ने अन्त में 'च' अर्थात् तिङन्तस्य 'च' माभूत् कहा जिसका तात्पर्य यह है कि इस सूत्र के शेषभाष्य में आज्ञापयति इस अर्थ में 'आणवयति' का वर्त्तयति इस अर्थ में 'वट्टयति' का जो प्रयोग हुआ है उन आणवयति इत्यादि भी चूँकि क्रियावाचक है तो उनमें शास्त्र की धातुसंज्ञा करने वाले सूत्र की, प्रवृत्ति होने से उनमें भी साधुत्व की आपत्ति आने लगेगी। अर्थात् आणवयति, वट्टयति इत्यादि प्रयोग भी साधु कहलाने लगेंगे तो ऐसे शब्दों का प्रयोग याग में भी होने लगेगा । वह न हो एतदर्थ धातु के लक्षण में 'भ्वादि' अर्थात् भ्वादिगण पठितत्व दिया गया ।
तब प्रश्न होता है कि स्तम्भु आदि की धातु संज्ञा कैसे होगी उनका पाठ तो भ्वादिगण में नहीं है । इस पर मनोरमाकार कहते हैं कि सौत्र अर्थात् सूत्र में पढ़े गये स्तन्भु स्कन्भु इत्यादि में जो सूत्रकार ने उदित किया है अर्थात् उनमें उकार का उच्चारण कर उसकी इत्संज्ञा की गयी उससे उन स्तन्भु आदि में धातुत्व ज्ञापित होता है । यहाँ शब्दरत्नकार कहते हैं -
शब्दरत्न - ननु षष्ठे प्रकृतसूत्रे धातुग्रहणासम्बन्ध उक्तो भाष्ये इति न तद् धातुत्वनिमित्तकम्, किं चाशीति इति प्रसज्यप्रतिषेधेऽपि शित्परत्वयोग्यत्वस्यैवात्वविधानान्नात्रात्व - प्रसक्तिः । अपि च वासादृश्यमन्यानभिहितक्रियावाचकत्वेनेति न दोषोऽत आह - चेति । सूत्रशेषभाष्योक्तेष्वाणवयति, वट्टयतीत्यादिषु च धातुत्वे शास्त्रविषयतया साधुत्वापत्तिरिति तद्व्यावृत्तये तदिति भावः ।
तात्पर्य यह है कि 'स्तम्भु' आदि में जो उकार की इत्संज्ञा की जाती है, उससे 'स्तम्भु' आदि धातु हैं इस बात का अनुमान होता है । क्योंकि 'उपदेशेजनुनासिक' से उपदेशावस्था में विद्यमान ही अनुनासिक अच् की इत्संज्ञा की जाती है । एवञ्च स्तम्भु आदि के उकार में उपदेशत्व तभी सम्भव है जब 'स्तम्भु' आदि को धातु माना जाए । अतः इत्संज्ञा रूप कार्य के आधार पर स्तम्भु आदि में धातुत्व रूप (उपदेशत्व रूप) कारण का अनुमान होता है । जैसे स्तम्भु आदि को यदि धातु न मानकर प्रातिपदिक मानें तब भी उदित होने के कारण सर्वनामस्थान विभक्ति में 'उगिदचां' से उन्हें नुम् हो सकता है । इस प्रकार नुम् विधान कराकर उदितकरण जब सार्थक हो सकता है तो उस उदित्करण से धातुत्व का अनुमान नहीं हो सकता? शब्दरत्नकार इस आपत्ति को ध्यान में रखकर ‘उदित्करणेति' इस प्रतीक से कहते हैं कि - स्तम्भु आदि है प्रकृति जिसकी ऐसे ‘च्ली' को उद्देश्य करके अङ् का जो विधान किया जाता है उससे भी 'स्तन्भु' आदि में धातुत्व का अनुमान हो सकता है । क्योंकि अङ् का स्थानी जो 'च्ली' उसका प्रकृति धातु ही होता है क्योंकि 'च्लि' यह विकरण 'च्लि लुङि' इस सूत्र से लुङ् लकार के परे ही आता है, और लुङ् लकार का विधान 'धातु' से ही होता है 'धातो:' इसके अधिकार में विहित होने के कारण । अतः स्तम्भ्वादिप्रकृतिक च्लि उद्देश्यक अङ्ग विधान से भी स्तभ्वादि में धातुत्व का अनुमान होता है । अत: मनोरमाकार ने जो 'उदित्करण' धातुत्व का ज्ञापक (अनुमापक) कहा है वह उपलक्षण है । इस पर यदि कोई कहे को उपर्युक्त अङ् के आधार पर 'स्तम्भु' में भले ही धातुत्व मान लिया जाए 'स्तन्भु' आदि। में । धातुत्व कैसे माना जा सकता है । तो इसका उत्तर देने के लिए शब्दरत्नकार आगे कहते हैं - 'सार्वधातुके परे विकरणविधानेन । ' अर्थात् स्तम्भु, स्तन्भु आदि से कर्त्रर्थक सार्वधातुक के परे, श्ना, श्नु आदि विकरण का जो विधान किया गया है उससे भी स्तम्भु, स्तन्भु आदि में धातुत्व का अनुमान होता है । क्योंकि सार्वधातुकसंज्ञा 'तिशित्सार्वधातुकम् सूत्र तिङ् की ही करता है, या शित् की। उनमें तिङ् रूप सार्वधातुक धातु से ही विहित होता है तो कर्त्रर्थक सार्वधातुक धातु से ही परे मिलेगा । अतः ऐसे सार्वधातुक के परे श्ना, श्नु रूप विकरणविधान से भी अनुमित होता है कि कर्त्रकसार्वधातुक तिङ् का प्रकृतिभूत जो 'स्तम्भु, स्तन्भु' आदि हैं, वे सब धातु हैं । इसी प्रकार 'जुचङ्क्रम्य' सूत्र में पढे 'जु' की तथा 'जपजभ' इत्यादि सूत्र में पढे गये 'पस' की, तथा 'ऋति' आदि में भी धातुत्व का अनुमान उन जु प्रभृति में 'धातो:' के अधिकार में विहित कार्यों की उद्देश्यता को देखकर होता है । अर्थात् जो कार्य धातोः के अधिकार में विहित हैं ऐसे कार्य 'जु' प्रभृति को उद्देश्य करके विहित किये गये हैं । इससे अनुमित होता है कि 'जु' आदि भी धातु है (अन्यथा उनसे 'धात्वधिकारीय' कार्य भला कैसे विहित होते । ) इन सब हेतुओं से यह सिद्ध होता है कि धातुपाठ में इन सौत्र धातुओं (स्तम्भु स्तम्भु आदि, जु पस्, ऋत प्रभृति) का पाठ भी स्थित था, जिसका भ्रंश हो गया है (काल के कारण) उनका पाठ सम्प्रति धातुपाठ में उपलब्ध नहीं हो रहा है । पहले धातुपाठ में इनका भी पाठ था । चुलुम्पादी का धातुरूप में 'बहुलमेतन्निदर्शनम्' इस मैत्रेयसम्मत गणसूत्र से संग्रह समझना चाहिए ।
॥ लघुशब्देन्दुशेखरः - संस्कृतव्याख्या ॥
भूवादयो० (१.३.१)। क्रियावाचिनः किम् ? विकल्पार्थक वाशब्दस्य निपातस्य धातुत्वेऽप्रातिपदिकत्वात्सुबभावे पदत्वातापतेः । तयुक्तौ तु न दोषः वार्यस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात् ।
अस्त्याद्यर्थस्यापि तत्त्वं भूतभविष्यत्कालसम्बन्यात् ।
भूवादयो धातव इति । भूश्च वाश्चेति द्वन्द्वे भूवो, आदिश्व आदिश्चेति आदी, भूवौ आदी येषामिति भूवादयः । प्रथम आदिशब्दो व्यवस्था ( प्रभृति )वाची, द्वितीयः प्रकारार्थकः । प्रकारो मेदः, सादृश्यञ्च । 'सादृश्यं चात्र क्रियावाचकत्वेन गृह्यते इति मनोरमाकाराः । परमेतन्मते भूशब्दस्य व्यवस्थावाचिनि आदिशब्दे, वाशब्दस्य प्रकारवाचिनि आदिशब्देऽन्वयात् एकधर्मावच्छिन्ने एकधर्मावच्छिन्नस्य एकसम्बन्धेन अन्वयविवक्षारूपसहविविवक्षाया भिन्न-भिन्नधर्मावच्छिन्ने अन्वयेन अभावात् दन्कशेष कथं स्याताम् | 'आद्यन्तौ टकितौ' इत्यत्र इव समुदायत्वावच्छिन्ने समुदायत्वावच्छिन्नस्य भूवासमुदायस्य आदिसमुदाये अन्वयविवक्षया सहविवक्षायाः उपपतेः । द्वन्द्वे एकदशेषे च कृते यथासंख्यसूत्रबलेन पश्चाद् भृशब्दस्य व्यवस्थावाचिनि वाशब्दस्य प्रकारवाचिनि अन्वयः स्यात् । एवमपि सादृश्यं क्रियावाचित्वेनेत्यस्यासङ्गतिर्दुवारा । तथाहि - चन्द्रवन्मुखमित्यत्र यथा सादृश्यप्रतियोगिनि चन्द्रे या प्रतियोगिता तदवच्छेदको धर्मः चन्द्रत्वं तोर्मेण आह्लादकत्वेन सादृश्यं मुखे गृह्यते, तथैव वासादृश्यं वात्वव्यापकघर्येण असत्त्ववचनत्वेन ग्रहीतुं शक्यते, न क्रियावाचित्वेन । विकल्पार्थके वाशब्दे क्रियावाचित्व- स्यासत्वात् वात्वरूपानुपूर्व्यास्तत्रापि सद्भावेन विकल्पार्थंकवाशब्दस्यापि वाशब्देन संग्रहात् । तत्र च क्रियावाचित्वस्य विरहेण तस्य वात्वव्यापकत्वासम्भवात् इति न तेन सादृष्य सम्भवति । न च वासहचर्याद् भूशब्दोऽसत्त्ववचनः । असत्ववाचिनो भूशब्दस्य साहचर्पेण क्रियावाचिनो वाशब्दस्य ग्रहणमिति परस्यरसाहचर्येण सादृश्यस्य क्रियावाचित्वेन ग्रहीतुं शक्यत्वादिति वाच्यम् । एकेनैव आदिपदेन उपस्थापितयोः व्यवस्थाप्रकारयोः उपस्थितौ क्रमिकत्वाभावेन यथासंख्यसूत्रस्य प्रवृत्तावपि क्रमनिर्णयो न स्यात् । कदाचित् भूशब्दस्या- व्यवस्थायां कदाचित् प्रकारार्थे अन्वयः स्यात् । किञ्च, एकपदोपस्थितयोरर्थयोः विभिन्नपदान्तरेण उपस्थितेऽर्थे अभेदान्वयाभावेन भूप्रभृतयो वासदृशा धातुसंज्ञका इत्यर्थस्यासङ्गतिः दुष्परिहरा । अतः भूवादयश्च भूवादयश्चेति तन्त्रेण एकशेषेण वा निर्देशः ।
एकस्य आदिशब्दस्य व्यवस्थावाचित्वेन अपरस्यादिशब्दस्य च प्रकारवाचित्वेन भूप्रभृतयो वासदृशा इत्यर्थस्य लाभात् । न च व्यवस्थावाचिना आदिशब्देन प्रटिते भूवादि- पदे वाशब्दोपादानं विनापि 'भूप्रभूतयः' इत्यर्थस्य लाभात् एवं प्रकारवाचिना आदि- शब्देन घटिते भूवादिपदे भूग्रहणं विनापि 'वासदृशा:' इत्यर्थस्य लाभेन तत्र तत्र तत्तत्पदाना- मुपादानं विफलमिति वाच्यम्; परस्परसाहचर्येण पृथिवीवाचकभूशब्दस्य विकल्पार्थंकवाशब्दस्य च ग्रहणस्य वारणाय तत्तदुपादानस्य चारितार्थ्यात् ।
क्रियावाचिनः फलमाह - विकल्पेति । विकल्पार्थकवाशब्दस्यापि वारूपत्वाविशेषात् भ्वादिपठितवाधातुरूपतया धातुसंज्ञा स्यात् । धातुसंज्ञायां धातुभिन्नत्वाभावात् प्राति -
पदिकसंज्ञाया विरहेण विभक्त्यनुत्पत्ती पदसंज्ञा 'सुप्तिङन्तम्' इत्यनेन न स्यात् । तथा नवा करोतीत्यत्र अतिङन्तात् पदात्परस्य तिङ्ङतिङः' इत्यनेन विधीयमानो निघातो न प्राप्नुयात् । न चानर्थकस्य निपातस्य प्रातिपदिकसंज्ञेति वार्तिकेन प्रातिपदिकसंज्ञा स्यात् इति वाच्यम्; भाष्ये तस्य प्रत्याख्यानात् । तदुक्तौ क्रियावाचिन इत्युक्तौ ।
'क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका' इति हरिवचनानुसारेण भूतभविष्यत्कालावच्छिनत्वं क्रियात्वम् । तथा च विकल्पार्थक वाशब्दस्य कालान्वयित्वाभावेन क्रियावाचकत्वविरहात् न दोषः । तत्त्वम् - क्रियात्वम् ।
भ्वादयः किम् ? 'आणवयति' 'बट्टपति' इत्यादीनां धातुत्वे शास्त्रविषयतया साघुत्वापत्तेः । सूत्रशेषे भाष्ये स्फुटमेतत् ।
स्तन्वादीनामुदित्वेन धात्वधिकार विहित कार्योद्देश्यत्वाविना वित्तपाठशानुमानान तेषु दोषः ॥
भ्वादिपदप्रयोजनमाह - आणवयतीति । आणवयतीत्यस्य आज्ञापयति, वट्टय- तीत्यस्य वर्तयतीत्यर्थः। क्रियावाचित्वेन धातुसंज्ञायां सूत्रविषयतया प्रयोगस्य साधुत्वापत्तेः । तिङत्पत्तिस्तु नापादिता, तिङत्पत्तेः सत्त्वात् । धातुभागस्य साधुत्वे सवं साधु स्यात् इति भावः । भ्वादिग्रहणे कृते तु एतस्य भ्वादिगणे पठितत्वाभावेन न धातुसंज्ञा । अत एवं च न साघुत्वम् । सूत्रशेषे इति । भूवादिसूत्रस्य अन्ते इत्यर्थः ।
येषां धातूनां भ्वादिगणादारभ्य चुराद्यन्तं यावत् मध्ये पाठो नास्ति तेषु उदित्त्वादि- प्रयुक्तशास्त्रीयकार्यंस्य धातुसंज्ञां बिना अनिर्वाहात् सामर्थ्यात् तेषां धातूनां पाठः पूर्वमासीत्, अधुना केनचित् कारणेन लुप्तो जातः - इति कल्प्यते । तस्माद् धातुसंज्ञा तेषां निष्प्रत्यूहं सिध्यतीति भावः ।
॥ लघुशब्देन्दुशेखरः - हिन्दी ॥
भूवादयो । क्रियावाचिनः किम् ? विकल्पार्थकवाशब्दस्य निपातस्य धातुत्वेऽप्रातिपदिकत्वात्सुबभावे पदत्वानापत्तेः तदुक्तौ तु न दोषः । वार्थस्य विकल्पस्य भूतभविष्यत्कालसम्बन्धाभावेन क्रियात्वाभावात् । अस्त्याद्यर्थस्यापि तत्त्वं भूतभविष्यत्कालसम्बन्धात् । भ्वादयः किम् ? 'आणवयति' 'वट्टयती' त्यादीनां धातुत्वे शास्त्रविषयतया साधुत्वापत्तेः । सूत्रशेषे भाष्ये स्फुटमेतत् । स्तम्भ्वादीनामुदित्त्वेन धात्वधिकारविहितकार्योद्देश्यत्वादिना स्थितपाठभ्रंशानुमानान्न तेषु दोषः ।
“भूवादयो धातवः” सूत्र की व्याख्या करते हुए कह रहे हैं कि इस सूत्र की वृत्ति में “क्रियावाचिनः” इस पद की क्या आवश्यकता है ? इस प्रश्न का उत्तर देने से पूर्व यह जानना आवश्यक है । कि जब सूत्र में “क्रियावाचिनः” पद नहीं है तब यह वृत्ति में कहाँ से आया, जिसके सम्बन्ध में प्रश्न हुआ है कि इसकी क्या आवश्यकता है ? इस बात को जानने के लिए इसके अर्थ पर विचार अप्रासंगिक नहीं होगा । यहाँ “भूश्च वाश्व इति भूवौ, आदिश्च आदिश्च इति आदी, भूवौ आदी येषा से भूवादय:” इस प्रकार का विग्रह किया जाता है । एक आदि शब्द का सम्बन्ध यहाँ भू के साथ होता है और दूसरे का सम्बन्ध वा के साथ होता है । भू शब्द से सम्बद्ध आदि शब्द प्रभृति (अवयव) वाची है और 'वा' शब्द से सम्बद्ध आदि शब्द प्रकार (सादृश्य) वाची है । इस प्रकार अन्वय करके सूत्र का अर्थ इस प्रकार होता है कि “वा के सदृश जो भू इत्यादि है उनकी धातुसंज्ञा होती हैं”। यहाँ वा का सादृश्य क्रियावाचकत्व के आधार पर कर लिया गया है, इसलिए वृत्ति में कहा गया है - “क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः” ।
इस प्रकार से क्रियावाचकत्व का लाभ होने पर भी एक शंका होती है कि क्रियावाचकत्वेन जो यहाँ 'वा' का सादृश्य लिया गया है वह ठीक नहीं है, क्योंकि सादृश्य तो सादृश्यप्रतियोगितावच्छेदक के व्यापकी भूत धर्म के आधार पर लिया जाता है । 'वा' का सादृश्य भू आदि में लेने के कारण “वा” सादृश्य का प्रतियोगी होता है । प्रतियोगितावच्छेदक वाल्व होता है । इस वात्व का व्यापकीभूत धर्म क्रियावाचकत्व नहीं है, क्योंकि अव्यय 'वा' शब्द में वाल्व के रहने पर भी क्रियावाचकत्व नहीं है । इसलिए क्रियावाचकत्वेन सादृश्य नहीं लिया जा सकता । ऐसी स्थति में क्रियावाचकत्व का लाभ यहाँ कैसे होता है ? इस प्रश्न के उत्तर में कहा जाता है कि यहाँ “क्रियावाची” अर्थ का लाभ परस्पर साहचर्य से होता है । वह साहचर्य इस प्रकार लिया जाता है कि भू और वा दो - दो प्रकार के मिलते हैं । एक तो पृथिवीवाची भू और दूसरा 'भू सत्तायाम्' का भू। इसी प्रकार 'वा' शब्द भी दो प्रकार का मिलता है । एक तो अव्यय वा शब्द और दूसरा “वा गतिगन्धनयो: “का वा शब्द दोनों भू शब्दों में पृथिवीवाची भू शब्द सत्ववाची है और सत्ता अर्थवाला भू शब्द असत्ववाची है, किन्तु वा शब्द तो दोनों असत्ववाची ही हैं । इसलिए असत्ववाची वा के साहचर्य से यहाँ असत्ववाची ही भू लिया गया । इसका परिणाम यह हुआ कि पृथिवीवाची भू की व्यावृत्ति हो गई । असत्ववाची भू जिसका यहाँ ग्रहण किया गया है, वह क्रियावाची होता है । इसके साहचर्य से क्रियावाची “वा “का ही ग्रहण किया गया । इससे अव्यय वा की व्यावृत्ति हो गई । इस प्रकार परस्पर साहचर्य से यहाँ क्रियावाची रूपी अर्थ का लाभ होता है । इसीलिए इस सूत्र की वृत्ति में “क्रियावाचिनः” इस पद का उल्लेख हुआ है ।
इस उपर्युक्त प्रकार से उपलब्ध “क्रियावाचिनः” पद के ऊपर आशंका करते । कह रहे हैं कि इस पद की क्या आवश्यकता है ? इस प्रकार की शंका के उत्तर में कह रहे हैं कि यदि यहाँ “क्रियावाचिनः” पद को न रखा जाय तो विकल्पार्थक निपात “वा” शब्द की हुए शेखरकार धातु संज्ञा होने लगेगी । परिणाम यह होगा कि “अधातुः “इस अंश से इसके प्रातिपदिकत्व का निषेध हो जायेगा और प्रातिपदिक संज्ञा के अभाव में इसके आगे विभक्ति न आने से इसकी पद संज्ञा नहीं होगी । पद संज्ञा के अभाव में “अपदं न प्रयुञ्जीत” इस नियम के आधार पर इसका प्रयोग नहीं हो सकेगा । इसलिए इसका पदत्व वाञ्छित है । सूत्र की वृत्ति में जब “क्रियावाचिनः “इस पद का उल्लेख किया जाता है, तब उक्त दोष (वा का पदत्वाभाव रूपी दोष) नहीं होता है, क्योंकि “वा” इस निपात का अर्थ जो विकल्प है वह क्रिया नहीं है । क्रिया वही होती है जिसका सम्बन्ध भूत, भविष्यत् और वर्तमान तीनों कालों के साथ रहे। विकल्प का सम्बन्ध काल के साथ न होने से वह क्रिया नहीं है । वस्तुतस्तु कालत्रय में जिसकी प्रतीति साध्यत्वेन होती है वहीं क्रिया है । इस प्रकार का क्रियात्व “वा” के अर्थ विकल्प में न होने के कारण वह क्रिया नहीं है ।
अब यह शंका होती है कि कालत्रय में जिसकी प्रतीति साध्यत्वेन होती है, वह व्यापार - समुदाय क्रिया है । पाक, गमन, ज्वलन आदि क्रियाओं में अवयवभूत व्यापारों के वैलक्षण्य से साध्यात्मक व्यापार समूह रूप क्रियात्व की प्रतीति स्पष्ट है, किन्तु इस प्रकार का निष्पाद्यत्व रूप क्रियात्व तो अस् धात्वर्थ सत्ता में नहीं है; क्योंकि “आत्मा अस्ति”, “पर्वताः सन्ति” इत्यादि स्थलों में जहाँ आत्मकर्तृक त्रैकालिक सत्ता है उसमें निष्पाद्यत्व का व्यवहार कैसे किया जा सकता है ? इसी प्रकार पर्वतों की सत्ता में कालत्रयावच्छिन्न निष्पाद्यत्व का व्यवहार कैसे होगा ? क्योंकि पर्वतकर्तृक सत्ता की निष्पत्ति कि प्रयोज्य है, यह नहीं कहा जा सकता । यहाँ आये हुए 'तत्त्वम्' का अर्थ 'क्रियात्वम' है ।
नागेशभट्ट इस शंका का उत्तर देते हुए कह रहे हैं कि अस आदि धातुओं का अर्थ भी क्रिया है, क्योंकि उसका सम्बन्ध भी भूत, भविष्यत् और वर्तमान काल के साथ है । आत्मा अस्ति इत्यादि वाक्यों के प्रयोग के समय राजादि प्रसिद्ध व्यक्ति या किसी व्यक्तिविशेष वृत्ति क्रिया में अनुभूयमान वर्तमानत्व के साहचर्य से आत्मा और पर्वतादि को सत्ता (स्थिति) क्रिया में भी वर्तमानत्वादि का उपपादन हो सकता है । जिस प्रकार जीव के नित्य होने पर भी शरीर के अनित्य होने के कारण तदवच्छित्र जीव का भी अनित्यत्व व्यवहार होता है, उसी प्रकार राजादि व्यक्ति वृत्ति क्रिया के वर्तमानत्वादि का आत्मकर्तृक सत्ता में भी व्यवहार होता है । प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगीरूप अनित्यत्व राजादि क्रियाओं में हैं ही, इसलिए तत्तत् क्रियाविशिष्ट सत्ता में भी अनित्यत्व का व्यवहार सुलभ हो जाता है । भूतत्वादि भेदभिन्न राजस्थिति आत्मस्थिति की भेदिका होती है । इस प्रकार अस्त्यर्थ सत्ता में कालत्रय का योग होने से उसमें भी क्रियात्व की उपपत्ति हो जाती है ।
सूत्र में भू इत्यादि शब्दों का उल्लेख करके उन्हीं की धातुसंज्ञा का विधान किया गया है । यदि ऐसा नहीं किया गया होता तो “आज्ञापयति” अर्थ वाले “आणवयति” तथा “वर्तयति” अर्थ वाले “वट्टयति” के प्रकृति भाग “आणव” और “वट्ट” की भी धातु संज्ञा हो जाती । इसका परिणाम यह होता कि ये भी शास्त्र के विषय हो जाते और साधु कहलाने लगते । प्राकृत शब्दों में अर्थबोधकता होने पर भी वे साधु नहीं कहे जाते, क्योंकि साधु तो वे ही कहे जाते हैं जो व्याकरण से निष्पन्न होते हैं । प्राकृत शब्द ऐसे नहीं होते हैं, अतः उनकी साधुत्वापत्ति के वारण के लिए सूत्र में भ्वादिग्रहण किया गया है । यह बात प्रकृत सूत्र “भूवादयो धातवः “के भाष्य में स्पष्ट है ।
इस उपर्युक्त विवेचन से यह स्पष्ट होता है कि धातुपाठ में पठित भू आदि की ही धातु संज्ञा होती है । ऐसी स्थिति में सूत्र में पठित “स्तम्भु” आदि का धातुत्व कैसे होगा ? इसका उत्तर देते हुए कह रहे हैं कि “स्तम्भु” आदि में जो उदित्करण किया गया वह धातु के उदित् - प्रयुक्त कार्य के लिए ही है । अन्यथा उदित्करण की क्या आवश्यकता थी? इससे स्पष्ट होता है कि ये भी धातु हैं । इसके अतिरिक्त इन्हें उद्देश्य बना कर धात्वधिकार कार्य का विधान किया गया है । जैसे “जूस्तन्भुमुचुम्लुचु “सूत्र से धातु को उद्देश्य बनाकर विहित चिल विकरण को अङ् का विधान किया गया है । यह कार्य स्तम्भु आदि के धातुत्व के बिना सम्भव नहीं है । इससे स्पष्ट होता है कि “स्तम्भु” आदि धातुओं का भ्वादिगण में पाठ था, जो नष्ट हो जाने के कारण आज वहाँ उपलब्ध नहीं हो रहा है । इस प्रकार के अनुमान से “स्तम्भु” आदि सूत्रपठित की भी धातु संज्ञा हो जाती है, जिससे कोई दोष नहीं रह जाता है ।
॥ महाभाष्यम् ॥
(१२२. धातुसञ्ज्ञासूत्रम् १.३.१ आ. १ सू.).
भूवादयो धातवः १.३.१
वकारस्य प्राप्तिप्रयोजननिरूपणम्
आक्षेपभाष्यम् - कुतोऽयं वकारः । यदि तावत्संहितया निर्देशः क्रियते, भ्वादय इति भवितव्यम् । अथासंहितया, भूआदय इति भवितव्यम् ?
समाधानभाष्यम् - अत उत्तरं पठति -
(८०६. समाधानवार्त्तिकम् - १) * भूवादीनां वकारोऽयं मङ्गलार्थः प्रयुज्यते *
भाष्यम् - माङ्गलिक आचार्यो महतः शास्त्रौघस्य मङ्गलार्थ वकारमागमं प्रयुङ्गे । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्ति आयुष्मत्पुरुषाणि च, अध्येतारश्च मङ्गलयुक्ता यथा स्युरिति ।
॥ आदिग्रहणप्रयोजनवर्णनाधिकरणम् ॥
आक्षेपभाष्यम् - अथादिग्रहणं किमर्थम् । यदि तावत्पठ्यन्ते नार्थ आदिग्रहणेन । अन्यत्रापि ह्ययं पठन्नादिग्रहणं न करोति । क्वान्यत्र? 'मृडमृदगुधकुषक्लिशवदवसः क्त्वा' इति । अथ न पठ्यन्ते नतरामर्थ आदिग्रहणेन । नह्यपठिताः शक्या आदिग्रहणेन विशेषयितुम् ।
समाधानभाष्यम् - एवं तर्हि सिद्धे सति यदादिग्रहणं करोति, तज्ज्ञापयत्याचार्यः - 'अस्ति च पाठो बाह्यश्च सूत्राद्' इति । किमेतस्य ज्ञापने प्रयोजनम् ? पाठेन धातुसज्ञेत्येतदुपपन्नं भवति ।
॥ अनिष्टापत्तिवारणाधिकरणम् ॥
(८०७. आक्षेपवार्त्तिकम् - २) * पाठेन धातुसञ्ज्ञायां समानशब्दप्रतिषेधः *
भाष्यम् - पाठेन धातुसञ्ज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः । या इति धातुः, या इत्याबन्तः । वा इति धातुः, वा इति निपातः । नु इति धातुः, नु इति प्रत्ययश निपातच । दिव् इति धातुः, दिविति प्रातिपदिकम् । किं च स्याद् यद्येतेषामपि धातुसञ्ज्ञा स्यात् ? धातोरिति तव्यदादीनामुत्पत्तिः प्रसज्येत ।
आक्षेपबाधकभाष्यम् - नैष दोषः । तव्यदादयो विधीयन्ते । साधनं च क्रियायाः । क्रियाभावात्साधनाभावः । साधनाभावात्सत्यामपि धातुसञ्ज्ञायां तव्यदादयो न भविष्यन्ति ।
आक्षेपसाधकभाष्यम् - इदं तर्हि याः पश्य 'आतो धातोः' इति लोपः प्रसज्येत ।
आक्षेपबाधकभाष्यम् - नैष दोषः । 'अनापः' इत्येवं सः ।
आक्षेपसाधकभाष्यम् - अस्य तर्हि वाशब्दस्य निपातस्याधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्यते । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् ।
आक्षेपबाधकभाष्यम् - नैष दोषः । निपातस्यानर्थकस्य प्रातिपदिकत्वं चोदितं तत्रानर्थकग्रहणं न करिष्यते । 'निपातः प्रातिपदिकम्' इत्येव ।
आक्षेपसाधकभाष्यम् - इह तर्हि त्रस्नू इति 'अचिश्नुधातुभ्रुवां य्वोः' इत्युवङादेशः प्रसज्येत ।
आक्षेपबाधकभाष्यम् - नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति 'न प्रत्ययस्योवडादेशो भवति' इति । यदयं तत्र श्नुग्रहणं करोति ।
इष्टानुपपत्तिभाष्यम् - अस्य तर्हि दिव्शब्दस्याधातुरिति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात्स्वाद्युत्पत्तिर्न स्यात् ।
अनुपपत्तिबाधकभाष्यम् - नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयत्युत्पद्यन्ते दिव्शब्दात्स्वादयइति । यदयं दिवः सावौत्त्वं शास्ति ।
अनुपपत्तिसाधकभाष्यम् - नैतदस्ति ज्ञापकम् । अस्ति ह्यन्यदेतस्य वचने प्रयोजनम् । किम्? दिव्शब्दो यः प्रातिपदिकं तदर्थमेतत्स्यात् । अक्षद्यूरिति ।
अनुपपत्तिबाधकभाष्यम् - न वै अत्रेष्यते ।
अनुपपत्तिसाधकभाष्यम् अनिष्टं च प्राप्नोति, इष्टं च न सिध्यति ।
अनुपपत्तिबाधकभाष्यम् - एवं तर्हि 'अननुबन्धकग्रहणे न सानुबन्धकस्य' इत्येवमेतस्य न भविष्यति ।
अनुपपत्तिसाधकभाष्यम् - एवमप्यननुबन्धको दिव्शब्दो नास्तीति कृत्वा सानुबन्धकस्य ग्रहणं विज्ञास्यते ।
(८०८. आक्षेपान्तरवार्त्तिकम् - ३) * परिमाणग्रहणं च *
भाष्यम् - परिणामग्रहणं च कर्तव्यम् । इयानवधिर्धातुसञ्ज्ञो भवतीति वक्तव्यम् । कुतो ह्येतत् - भूशब्दो धातुसञ्ज्ञो भविष्यति, न पुनर्भ्वेधशब्दः - इति ?
न्यासान्तरेण समाधानसम्भावनाभाष्यम् - यदि पुनः -
(८०९. न्यासान्तरवार्त्तिकम् - ४) * क्रियावचनो धातुः *
भाष्यम् - इत्येतल्लक्षणं क्रियेत ।
प्रश्नोत्तरभाष्यम् - का पुनः क्रिया? ईहा । का पुनरीहा? चेष्टा । का पुनश्चेष्टा? व्यापारः ।
उपहासाक्षेपभाष्यम् - सर्वथा भवाञ्छब्दैरेव शब्दानाचष्टे, न किं - चिदर्थजातं निदर्श - यत्येवंजातीयका क्रियेति ।
समाधानभाष्यम् - क्रिया नामेयमत्यन्तापरिदृष्टाऽशक्या पिण्डीभूता निदर्शयितुम् । यथा गर्भो निलुठितः । सासावनुमानगम्या ।
आक्षेपभाष्यम् - कोसावनुमानः ?
समाधानभाष्यम् - इह सर्वेषु साधनेषु सत्रिहितेषु कदाचित्पचतीत्येतद्भवति कदाचिन्न भवति । यस्मिन्सन्निहिते पचतीत्येतद्भवति सा नूनं क्रिया । अथवा यया देवदत्त इह भूत्वा पाटलिपुत्रे भवति सा नूनं क्रिया ।
आक्षेपभाष्यम् - कथं पुनर्ज्ञायते क्रियावचनाः पचादय इति?
समाधानभाष्यम् - यदेतेषां करोतिना सामानाधिकरण्यम् । 'किं करोति ? पचति' 'किं करिष्यति ?
भाष्यम् - तत्र -पक्ष्यति' 'किमकार्षीद्? अपाक्षीद्' इति ।
(८१०. आक्षेपवार्त्तिकम् - ५) * क्रियावचने उपसर्गप्रत्ययप्रतिषेधः *
भाष्यम् - क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधो वक्तव्यः । पचति प्रपचति । किं पुनः कारणं प्राप्नोति ।
(८११. आक्षेपसाधकवार्त्तिकम् - ६) * सङ्घातेनार्थगतेः *
भाष्यम् - सङ्घातेन हाथों गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ।
(८१२. आक्षेपान्तरवार्त्तिकम् - ७) * अस्तिभवतिविद्यतीनां च धातुत्वम् *
भाष्यम् - अस्तिभवतिविद्यतीनां च धातुसञ्ज्ञा वक्तव्या । यथा हि भवता करोतिना पचादीनां सामानाधिकरण्यं दर्शितम्, न तथास्त्यादीनां निदर्श्यते । नहि भवति किं करोति ? अस्तीति ।
(८१३. प्रथमाक्षेप (८१०) समाधानवार्त्तिकम् - ८) * प्रत्ययार्थस्याऽ व्यतिरेकात्प्रकृत्यन्तरेषु *
भाष्यम् - प्रत्ययार्थस्याव्यतिरेकात्प्रकृत्यन्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पचति पठति । प्रकृत्यर्थोऽन्यश्वान्यश्च । प्रत्ययार्थः स एव ।
(८१४. समाधानसाधकवार्तिकम् - ९) * धातोश्चार्थाभेदात्प्रत्ययान्तरेषु *
भाष्यम् - धातोश्वार्थाभेदात्प्रत्ययान्तरेषु मन्यामहे धातुरेव क्रियामाहेति । पक्तिः पचर्न पाक इति । प्रत्ययार्थोऽन्यश्वान्यश्च भवति । प्रकृत्यर्थः स एव । कथं पुनर्जायते - अयं प्रकृत्यर्थः, अयं प्रत्ययार्थ इति ।
(८१५. समाधानसाधकवार्त्तिकम् - १०) * अन्वयव्यतिरेकाभ्याम् *
भाष्यम् - अन्वयाच्च व्यतिरेकाच्च । कोसावन्वयो व्यतिरेको वा? इह पचतीत्युक्ते कश्चिच्छब्दः श्रूयते पच्छब्दश्चकारान्तः, अतिशब्दश्च प्रत्ययः । अर्थोऽपि कश्चिद्गम्यते क्लित्ति कर्तृत्वमेकत्वं च । पठतीत्युक्ते कश्चिच्छब्दो हीयते कश्चिदुपजायते, कश्चिदन्वयी । पच्छब्दो हीयते, पठ्शब्द उपजायते अतिशब्दोऽन्वयी । अर्थोऽपि कश्चिद्धीयते कश्चिदुपजायते कश्चि - दन्वयी । विक्लित्तिर्तीयते, पठिक्रियोपजायते, कर्तृत्वं चैकत्वं चान्वयी । ते मन्यामहे - यः शब्दो हीयते तस्यासावर्थः योऽर्थों हीयते, यः शब्द उपजायते तस्यासावर्थः योऽर्थ उपजायते, यः शब्दोऽन्वयी तस्यासावर्थः योथर्थोऽन्वयी ।
समाधानसाधकभाष्यम् विषम उपन्यासः । बहवो हि शब्दा एकार्था भवन्ति । तद्यथा - इन्द्रः शक्रः पुरुहूतः पुरंदरः । कन्दुः कोष्ठः कुसूल इति । एकश्च शब्दो बह्रर्थः । तद्यथा - अक्षाः पादा माषा इति ।
अतः किम् । न साधीयोऽर्थवत्ता सिद्धा भवति । नापि ब्रूमोऽर्थवत्ता न सिध्यतीति । वर्णिता ह्यर्थवत्ताऽन्वयव्यतिरेकाभ्यामेव । तत्र कुत एतदयं प्रकृत्यर्थोऽयं प्रत्ययार्थ इति न पुनः प्रकृतिरेवोभावर्थी ब्रूयात्प्रत्यय एव वा?
समाधानसाधकभाष्यम् - सामान्यशब्दा एत एवं स्युः । सामान्यशब्दाश्च नान्तरेण प्रकरणं विशेषणं वा विशेषेष्ववतिष्ठन्ते । यतस्तु खलु नियोगतः पचतीत्युक्ते स्वभावतः कस्मिंश्चिद्विशेषे पच्शब्दो वर्ततेऽतो मन्यामहे - नेमे सामान्यशब्दा इति । न चेत्सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।
(८१६. प्रथमाक्षेपसमाधानवार्त्तिकम् - ११) * क्रियाविशेषक उपसर्गः *
भाष्यम् - पचतीति क्रिया गम्यते, तां प्रो विशिनष्टि ।
आक्षेपभाष्यम् - यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्र धातुरूपसर्गं व्यभिचरति । यत्र न खलु तं व्यभिचरति तत्र कथम् अध्येति अधीते इति?
समाधानभाष्यम् - यद्यप्यत्र धातुरुपसर्ग न व्यभिचरति उपसर्गस्तु धातुं व्यभिचरति । ते मन्यामहे - य एवास्याधेरन्यत्रार्थः, स इहापीति । कः पुनरन्यत्राधेरर्थः । अधिरुपरिभावे वर्तते ।
आक्षेपभाष्यम् - इह तर्हि व्यक्तमर्थान्तरं गम्यते - तिष्ठति प्रतिष्ठते इति । तिष्ठतीति व्रजिक्रियायाः निवृत्तिः । प्रतिष्ठत इति नजिक्रिया गम्यते । ते मन्यामहे उपसर्गकृतमेतद्, येनात्र व्रजिक्रिया गम्यत इति ।
समाधानभाष्यम् - प्रोयं दृष्टापचारः आदिकर्मणि वर्तते । न चेदं नास्ति - बह्वर्था अपि धातवो भवन्तीति । तद्यथा - वपिः प्रकिरणे दृष्टः, छेदने चापि वर्तते - केशश्मश्रु वपतीति । ईडिः स्तुतिचोदनायाच्ञासु दृष्टः, प्रेरणे चापि वर्तते - 'अग्निर्वा इतो वृष्टिमीट्टे मरुतो मुतश्यावयन्ति' इति । करोतिरभूतप्रादुर्भावे दृष्टः, निर्मलीकरणे चापि वर्तते - 'पृष्ठं कुरु' 'पादौ कुरु' उन्मृदानेति गम्यते । निक्षेपणे चापि वर्तते 'कटे कुरु' 'घटे कुरु' 'अश्मानमितः कुरु' स्थापयेति गम्यते । एवमिहापि तिष्ठतिरेव व्रजिक्रियामाह तिष्ठतिरेव व्रजिक्रियायाः निवृत्तिम् ।
आक्षेपभाष्यम् - अयं तर्हि दोषः 'अस्तिभवतिविद्यतीनां धातुत्वम्' इति ।
न्यासान्तरेण समाधानसम्भावनाभाष्यम् - यदि पुनः -
(८१७. न्यासान्तरवार्त्तिकम् - १२) * भाववचनो धातुः *
भाष्यम् - इत्येतल्लक्षणं क्रियेत ।
सम्भावितसमाधान आक्षेपभाष्यम् - कथं पुनर्ज्ञायते - भाववचनाः पचादय इति ?
समाधानभाष्यम् - यदेषां भवतिना सामानाधिकरण्यम् - भवति पचति, भवति पक्ष्यति, भवति अपाक्षीदिति ।
आक्षेपभाष्यम् - कः पुनर्भावः ?
समाधानभाष्यम् - भवतेः स्वपदार्थों भवनं भाव इति ।
आक्षेपभाष्यम् - यदि भवतेः स्वपदार्थो भवनं भावः । विप्रतिषिद्धानां धातुसञ्ज्ञा न प्राप्नोति - भेदः छेदः । अन्यो हि भावः अन्योऽभावः । आतश्चान्यो भावः अन्योऽभाव इति । यो हि यस्य भावमिच्छति स न तस्याभावम् । यस्य चाभावं न तस्य भावम् । पचादीनां च धातुसञ्ज्ञा न प्राप्नोति यथा हि भवता क्रियावचने धातौ करोतिना पचादीनां सामानाधि - करण्यं निदर्शितम्, न तथा भाववचने धातौ निदर्श्यते । करोतिः पचादीनां सर्वान्कालान्स - र्वान्पुरुषान्सर्वाणि वचनान्यनुवर्तते । भवतिः पुनर्वर्तमानकालं चैकत्वं च ।
प्रश्नभाष्यम् - का तहींयं वाचोयुक्तिः - भवति पचति, भवति पक्ष्यति, भवत्यपाक्षीदिति ?
उत्तरभाष्यम् - एषैषा वाचोयुक्तिः - पचादयः क्रियाः भवतिक्रियायाः कत्र्र्यो भवन्ति ।
उत्तरबाधकभाष्यम् - यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रान्या चान्या च क्रिया । यत्र खलु सैव क्रिया तत्र कथम् - 'भवेदपि भवेत्', 'स्यादपि स्यात्' इति ।
उत्तरसाधकभाष्यम् - अत्राप्यन्यत्वमस्ति । कुतः ? कालभेदात्साधनभेदाच्च । एकस्यात्र भवतेर्भवतिः साधनं सर्वकालश्च प्रत्ययः । अपरस्य बाह्यं साधनं वर्तमानकालञ्श्च प्रत्ययः । यावतात्राप्यन्यत्वमस्ति, पचादयश्च क्रियाः भवतिक्रियायाः कत्र्यों भवन्तीति ।
समाधानभाष्यम् - अस्त्वयं कर्तृसाधनः भवतीति भाव इति । किं भवति ? विप्रतिषिद्धानां धातुसञ्ज्ञा सिद्धा भवति ।
आक्षेपभाष्यम् - भवेद्विप्रतिषिद्धानां धातुसञ्ज्ञा सिद्धा स्यात्, प्रातिपदिकानामपि तु प्राप्नोति वृक्षः प्लक्ष इति । किं कारणम् ? एतान्यपि हि भवन्ति ।
समाधानभाष्यम् - एवं तर्हि कर्मसाधनां भविष्यति - भाव्यते यः स भाव इति । क्रिया चैव हि भाव्यते । स्वभावसिद्धं तु द्रव्यम् ।
आक्षेपभाष्यम् - एवमपि भवेत्केषांचिन्न स्यात् - यानि न भाव्यन्ते । ये त्वेते सम्बन्धि - शब्दास्तेषां प्राप्नोति माता पिता भ्रातेति । सर्वथा वयं प्रातिपदिकपर्युदासान्त्र मुच्यामहे ।
समाधानभाष्यम् - पठिष्यति ह्याचार्यः 'भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः' इति । यावता पठिष्यति पचादयश्च क्रियाः भवतिक्रियायाः कत्र्यें भवन्तीति अस्त्वयं कर्तृसाधनो भवतीति भाव इति । किं वक्तव्यमेतत् ? नहि कथमनुच्यमानं गंस्यते ? एतेनैवाभिहितं सूत्रेण 'भूवादयो धातवः' इति । कथम् ? नेदमादिग्रहणम् । वदेरयमौणादिक इञ्कर्तृसाधनः - भुवं वदन्तीति भूवादय इति ।
(८१८. प्रथमाक्षेपवार्त्तिकम् - १३) * भाववचने धातौ तदर्थप्रत्ययप्रतिषेधः *
भाष्यम् - भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधो वक्तव्यः । शिश्ये इति । किं च स्यात् ? अशितीत्यात्वं प्रसज्येत । तद्धि धातोर्विहितम् ।
(८१९. द्वितीयाक्षेपवार्त्तिकम् - १४) * इतरेतराश्रयं च प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः *
भाष्यम् - इतरेतराश्रयं च भवति । का इतरेतराश्रयता? प्रत्यये भाववचनत्वं तस्माच्च प्रत्ययः । उत्पन्ने हि प्रत्यये भाववचनत्वं गम्यते स च तावद्भावचनादुत्पाद्यः । तदेतदितरेतराश्रयं भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते ।
(८२०. द्वितीयाक्षेपसमाधानवार्त्तिकम् - १५) * सिद्धं तु नित्यशब्दत्वादनाश्रित्य भाववचनत्वं प्रत्ययः *
भाष्यम् - सिद्धमेतत् । कथम् ? 'नित्यशब्दत्वात् । ' नित्याः शब्दाः । नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वं प्रत्यय उत्पद्यते ।
(८२१. प्रथमाक्षेपसमाधानवार्त्तिकम् - १६) * प्रथमभावग्रहणं च *
भाष्यम् - प्रथमभावग्रहणं च कर्तव्यम् । प्रथमं यो भावमाहेति । कुतः पुनः प्राथम्यम् । कं शब्दत आहोस्विदर्थतः ? किं चातः ? यदि शब्दतः, सनादीनां धातुसञ्ज्ञा न प्राप्नोति - पुत्रीयति वस्त्रीयतीति । अधार्थतः, सिद्धा सनादीनां धातुसञ्ज्ञा, स एव तु दोषः 'भाववचने तदर्थप्रत्ययप्रतिषेधः' इति । एवं तर्हि नापि शब्दतो नाप्यर्थतः । किं तर्हि? अभिधानतः । सुमध्यमेऽभिधाने यः प्रथमं भावमाह ।
क्रियावचनवादिभाष्यम् - इह ये एव भाववचने धातौ दोषास्ते क्रियावचनेऽपि । तत्र त एव परिहाराः ।
आक्षेपभाष्यम् - तत्रेदमपरिहृतम् - अस्तिभवतिविद्यतीनां धातुत्वम् - इति ।
प्रत्याक्षेपभाष्यम् - तस्य परिहारः । कां पुनः क्रियां भवान्मत्वाह - अस्तिभवतिविद्यतीनां धातुसञ्ज्ञा न प्राप्नोतीति । किं यत्तद्देवदत्तः कंसपात्र्यां पाणिनौदनं भुङ्गे इति । प्रत्याक्षेपसमाधानभाष्यम् न ब्रूमः कारकाणि क्रियेति । किं तर्हि? कारकाणां प्रवृत्तिविशेषः क्रिया । अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते, अन्यथा च मांसौदने ।
समाधानभाष्यम् - यद्येवं सिद्धास्तिभवतिविद्यतीनां धातुसञ्जा । अन्यथा हि कारकाण्यस्तौ प्रवर्तन्तेऽन्यथा हि म्रियतौ ।
समाधानसाधकप्रमाणभाष्यम् षड्भावविकारा इति ह स्माह वार्ष्यायणिः । जायतेऽस्ति विपरिणमते वर्द्धतेऽपक्षीयते विनश्यतीति ।
दूषणभाष्यम् - सर्वथा स्थित इत्यत्र धातुसञ्ज्ञा न प्राप्नोति बाह्यो ह्येतेभ्यस्तिष्ठतिः ।
समाधानभाष्यम् - एवं तर्हि क्रियायाः क्रिया निवर्तिका भवति, द्रव्यं द्रव्यस्य निवर्तकम् । एवं हि कश्चित्कञ्चित्पृच्छति - 'किमवस्थो देवदत्तस्य व्याधिः' इति ? स आह - 'वर्द्धते' इति । अपर आह - 'अपक्षीयते' इति । अपर आह - स्थित इति । स्थित इत्युक्ते वर्द्धतेश्चापक्षीयतेश्च निवृत्तिर्भवति ।
समाधानान्तरभाष्यम् - अथवा नान्तरेण क्रियां भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अस्त्यादिभिरपि भूतभविष्यद्वर्तमानकालाः व्यज्यन्ते ।
समाधानान्तरभाष्यम् - अथवा नान्यत्पृष्टे नान्यदाख्येयम् । तेन न भविष्यति किं करोत्यस्तीति ।
आक्षेपभाष्यम् - अथ यद्येव 'क्रियावचनो धातुः' इत्येष पक्षः । अथापि 'भाववचनो
धातुः' इति । किं गतमेतदियता सूत्रेण, आहोस्विदन्यतरस्मिन्पक्षे भूयः सूत्रं कर्तव्यम् ?
समाधानभाष्यम् - गतमित्याह । कथम् ? अयमादिशब्दोस्त्येव व्यवस्थायां वर्तते, तद्यथा - देवदत्तादीन्समुपविष्टानाह देवदत्तादय आनीयन्तामिति । ते. उत्थाप्यानीयन्ते । अस्ति प्रकारे वर्तते, तद्यथा - देवदत्तादय आढ्या अभिरूपा दर्शनीयाः पक्षवन्तः । देव - दत्तप्रकारा इति गम्यते । प्रत्येकं चादिशब्दः परिसमाप्यते - भ्वादय इति च वादय इति च । तद्यदा तावत् 'क्रियावचनो धातुः' इत्येष पक्षः तदा भू इत्यत्र य आदिशब्दः स व्यवस्थायां वर्तते, वा इत्यत्र य आदिशब्दः स प्रकारे, भू इत्येवमादयो वा इत्येवं प्रकारा इति । यदा तु 'भाववचनो धातुः' इत्येष पक्षस्तदा वेत्यत्र य आदिशब्दः स व्यवस्थायाम्, भू इत्यत्र य आदिशब्दः स प्रकारे, वा इत्येवमादयो भू इत्येवंप्रकारा इति ।
आक्षेपभाष्यम् - यदि तर्हि लक्षणं क्रियते नेदानी पाठः कर्तव्यः ।
समाधानभाष्यम् - कर्तव्यश्च । किं प्रयोजनम् ।
(८२२. पाठप्रयोजनवार्तिकम् - १७) * भूवादिपाठः प्रातिपदिकाणवयत्यादिनिवृत्त्यर्थः
भाष्यम् - भूवादिपाठः कर्तव्यः । किं प्रयोजनम् ? प्रातिपदिकाणवयत्पादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थ आणवयत्यादिनिवृत्त्यर्थश्च । के पुनराणवयत्यादयः ? आणवयति वङ्गति वड्डूयतीति ।
(८२३. पाठप्रयोजनान्तरवार्त्तिकम् - १८) * स्वरानुबन्धज्ञापनाय च *
भाष्यम् - स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः । स्वराननुबन्धांश्च ज्ञास्यामीति । नह्यन्तरेण पाठं स्वरा अनुबन्धा वा शक्या विज्ञातुम् ।
प्रत्याख्यानभाष्यम् - ये त्वेते न्याय्यविकरणा उदात्ता अननुबन्धकाः पठ्यन्ते तेषां पाठः शक्योऽकर्तुम् ।
आक्षेपभाष्यम् - एतेषामप्यवश्यमाणवयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः ।
प्रत्याख्यानसाधकभाष्यम् - न कर्तव्यः ।
(८२४. कारणवार्त्तिकम् - १९) * शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिः *
भाष्यम् - शिष्टप्रयोगादाणवयत्यादीनां निवृत्तिर्भविष्यति । स चावश्यं शिष्टप्रयोग उपास्यः । येऽपि पठ्यन्ते तेषामपि विपर्यासनिवृत्त्यर्थः । लोके कि कृष्यर्थे कसिं प्रयुञ्जते, दृश्यर्थे च दिसिम् । भूवादयो धातवः ॥ १ ॥


0 टिप्पणियाँ
If you have any Misunderstanding Please let me know