मनसैवेदमाप्तव्यं नेह नानाऽस्ति किंचन। मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥
॥ लिप्यन्तरणम् ॥
manasaivedamāptavyaṁ neha nānā'sti kiṁcana | mṛtyoḥ sa mṛtyuṁ gacchati ya iha nāneva paśyati ||
॥ अन्वयः ॥
मनसा एव इदम् आप्तव्यम्। इह किंचन नाना न अस्ति। यः इह नाना इव पश्यति सः मृत्योः मृत्युं गच्छति ॥
॥ अन्वयलिप्यन्तरणम् ॥
manasā eva idam āptavyam| iha kiṁcana nānā na asti| yaḥ iha nānā iva paśyati saḥ mṛtyoḥ mṛtyuṁ gacchati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ विशुद्धमनोग्राह्यं ब्रह्म ]
ननु चक्षुषा भिन्नं भिन्नं स्वनिष्ठं दृश्यते तत्राह - मनसा इति ।
मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।
मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ॥११॥
इदम् एकमेव परमात्मतत्त्वं स्वेतरसमस्तवस्तुप्रकारं सर्वत्र तिष्ठतीत्येतत् मनसैवाप्तव्यम् - शास्त्रसंस्कृतेन मनसैव ज्ञातव्यम् । सुसंस्कृतेन मनसा चेत् पर्यालोच्यते नेह नानास्ति किञ्चन, यस्त्वसंस्कृतेन मनसा चक्षुषा वा नानेव पश्यति, मृत्योः स मृत्युं गच्छति ।
यद्वा - नन्वेकात्मकत्वमखिलस्य कथं घटेत ? अहमयमस्मि अहमसावस्मीति व्यवस्थित एव खलु प्रत्ययो भवति लोकानाम्, आत्मा चेदखिलस्यैकः कथमयं नियमितः प्रत्ययो घटेत ? तदा ह्यहमखिल इति स्यात्प्रत्ययः, तत्राह - यदेवेहेति । अन्तरात्मतत्त्वं तदेवामुत्रापि लोके । यदमुत्र तदन्विह । एकमेवान्तरात्मतत्त्वमखिलस्य, तथाऽपि पामराणां निष्कृष्टात्मस्वरूपज्ञानाभावाच्छरीर एव केषाञ्चिदहंप्रत्ययः, केषाञ्चिज्जीवमात्रे, शास्त्रतः संस्कृतमनसां तु परमात्मन्येवाहंप्रत्ययः । अत एव 'अहं मनुरभवम्' (ऋग्वेदः - ४.२६.१) इत्यादयो भवन्ति व्यवहारा: वामदेवादीनाम् । इह - अन्तरात्मतत्त्वे, नाना- वैविध्यं नास्तीत्यर्थः । शिष्टं स्पष्टम् ॥११॥
॥ आङ्गल-अर्थः ॥
Through the mind must we understand that there is nothing in this world that is really various; who thinketh he sees difference here, from death to death he goeth.
॥ हिन्दी-अर्थः ॥
''मनसा यह सत्य बोद्धव्य है कि यहाँ, इस लोक में, कुछ भी नाना-रूप नहीं है; जो यह समझता है कि वह यहाँ नानात्व को देखता है, वह मृत्यु सें मृत्यु को जाता है।
॥ शब्दावली ॥
मनसा - manasā - through the mind
एव - eva - indeed
इदम् - idam - this
आप्तव्यम् - āptavyam - must be understood
इह - iha - here in this world
न किंचन - na kiṁcana - nothing
नाना - nānā - various / difference
अस्ति - asti - there is
यः - yaḥ - who
नाना इव - nānā iva - difference
पश्यति - paśyati - sees
सः - saḥ - he
मृत्योः - mṛtyoḥ - from death
मृत्युम् - mṛtyum - to death
गच्छति - gacchati - he goeth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know