Ad Code

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते।



तपसा चीयते ब्रह्म ततोऽन्नमभिजायते। अन्नात्‌ प्राणो मनः सत्यं लोकाः कर्मसु चामृतम्‌ ॥

लिप्यन्तरणम्

tapasā cīyate brahma tato'nnamabhijāyate | annāt prāṇo manaḥ satyaṁ lokāḥ karmasu cāmṛtam ||

अन्वयः

ब्रह्म तपसा चीयते। ततः अन्नम् अभिजायते। अन्नात् प्राणः मनः सत्यं लोकाः तथा कर्मसु अमृतं च ॥

अन्वयलिप्यन्तरणम्

brahma tapasā cīyate| tataḥ annam abhijāyate| annāt prāṇaḥ manaḥ satyaṁ lokāḥ ( tathā ) karmasu amṛtaṁ ca ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सृष्टिक्रमः ]

उपादानत्वेऽपि निमित्तत्वमूर्णनाभिदृष्टान्ततो व्यज्यमानमाकारविशेषतः सङ्गमयन्विश्वोत्पत्तिप्रकारमाह - तपसेति ।

तपसा चीयते ब्रह्म ततोऽन्नमभिजायते ।

अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥८॥

यथोर्णनाभिर्विहर्तुकामः स्वस्मिन्विलीनमाविष्कुर्वन्सङ्कल्पते तथा परं ब्रह्म सङ्कल्पते । तेन सङ्कल्पेन तपसा चीयते - अनन्यनिरपेक्षं स्वयमेव चीयते - वर्धते, सृष्ट्युन्मुखं भवतीति यावत् । तथा चोपादानस्यापि परब्रह्मणः सङ्कल्पविशिष्टवेषेण निमित्तत्वं घटेतैवेति भावः । ततः सृष्ट्युन्मुखाद्ब्रह्मणो ऽन्नमभिजायते भोक्तुर्जीवस्य भोगायैव यस्य स्वरूपम्, तत्प्रधानमन्नमुच्यते । यत्तदन्नमनभिव्यक्तंसूक्ष्मतया तदेतन्महदादिरूपेणाभिजायते - अभिव्यक्तं भवतीति यावत् । अन्नात् - महदादिरूपेण अभिव्यक्तात्तस्मात्, यद्भोगोपकरणतया प्रथितं प्राणो मनश्च तदुभयं जायते । यश्च भोक्ता भोगावच्छेदके भोगोपकरणे विवर्तमानेऽपि स्वयमपि वर्तमानो जीवः सत्यशब्दवाच्यः सोऽपि देवादिरूपेण जायते । इह जनिश्च तत्तद्योनिसम्बन्धरूपा । भोगस्थानभूताश्च लोका: - मानुषलोकादयश्च तस्माज्जायन्ते । तेषु तेषु लोकेषु यानि कर्माणि तेषु यदमृतं तत्फलीभूतं यत्स्वर्गादि सर्वं ततो जायते । एतेन कीटविशेषाद्यधिष्ठितादूर्णादितः तन्त्वादिकमिवाक्षराधिष्ठितात्प्रधानात् सङ्कल्परूपाधिष्ठातृशक्तिविक्षोभिताद्भोक्तृभोग्यभोगोपकरणभोगस्थानरूपेण विभक्तमिदं विश्वमाविर्भवतीति दृष्टान्तानुगुणो विश्वसम्भवप्रकार: प्रदर्शितः ॥८॥

॥ आङ्गल-अर्थः ॥

Brahman grows by his energy at work, and then from Him is Matter born, and out of Matter life, and mind and truth and the worlds, and in works immortality.

॥ हिन्दी-अर्थः ॥

'ब्रह्म' तपःक्रिया से संवर्धित होता है, तत्पश्चात् 'उससे' 'अन्न' की उत्पत्ति होती है। 'अन्न' से प्राण, मन, सत्य तथा लोकों की, तथा कर्म में अमृतत्व की।

॥ शब्दावली ॥

ब्रह्म - brahma - Brahman

तपसा - tapasā - by his energy at work

चीयते - cīyate - grows

ततः - tataḥ - then from Him

अन्नम् अभिजायते - annam abhijāyate - is Matter born

अन्नात् - annāt - out of Matter

प्राणः - prāṇaḥ - life

मनः - manaḥ - mind

सत्यम् - satyam - truth

लोकाः - lokāḥ - the worlds

कर्मसु अमृतम् च - karmasu amṛtam ca - in works immortality


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code