यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति। यथा सतः पुरुषात् केशलोमानि तथाऽक्षरात् संभवतीह विश्वम् ॥
॥ लिप्यन्तरणम् ॥
yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṁbhavanti | yathā sataḥ puruṣāt keśalomāni tathā'kṣarāt saṁbhavatīha viśvam ||
॥ अन्वयः ॥
यथा ऊर्णनाभिः तन्तून् सृजते गृह्णते च यथा पृथिवीम् ओषधयः सम्भवन्ति यथा सतः पुरुषात् केशलोमानि सम्भवन्ति तथा इह अक्षरात् विश्वम् सम्भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yathā ūūrṇanābhiḥ ( tantūn ) sṛjate gṛhṇate ca yathā pṛthivīm oṣadhayaḥ sambhavanti yathā sataḥ puruṣāt keśalomāni ( sambhavanti ) tathā iha akṣarāt viśvam sambhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
ननु भूतयोनित्वं कथं घटेताक्षरे ? उपादानभावो हि स्वरूपे विकारमपेक्षते, क्षीरं हि दध्युपादानं भवद्विकृतमेव भवति, अक्षरं त्वविकृतं कथमुपादानं भवेत्, तच्चेद्विक्रियमाणस्वरूपमक्षरमिति कथमुच्यते । विविधा भावाः कथं वा एकस्मादक्षरात्स्युः ? विजातीयेषु विजातीयैरुपादानैर्हि भाव्यम् । तथैव ह्युपलम्भ: । मृज्जातीया मृज्जातीयेषु, लोहजातीया लोहजातीयेषु । अथ च विरूपयोरनयोरुपादानोपादेयभावः कथं घटेत ? अक्षरं च ततोऽत्यन्तविलक्षणमित्याशङ्काः परिहरन् दृष्टान्तनिरूपणेन भूतयोनित्वमक्षरे सङ्गमयति यथेति ।
[ सृष्टिक्रम: ]
यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति ।
यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्सम्भवतीह विश्वम् ॥७॥
ऊर्णनाभिः - कीटविशेषो यथा स्वशरीरात्तन्तुं सृजति यथा च गृह्णते संहरति । अनेन दृष्टान्तेनाविकृतस्वरूपस्याप्यक्षरस्योपादानत्वं सङ्गमितं भवति । न हि कीटस्वरूपे विकारः, अथाप्युपादानं कीटविशेषस्तन्तौ । यथा चैकस्यां पृथिव्यां विविधा व्रीहियवादय ओषधयः सम्भवन्ति । अनेनैकस्यैवाक्षरस्य मिथो विजातीयानां भावानामुपादानत्वं सङ्गमितम् । व्रीहियवादयो हि विजातीयाः, उपादानं पृथिवी त्वेकजातीयैव । यथा सतः पुरुषात् - जीवत: पुरुषात्, ततो विरूपाणि केशलोमानि भवन्ति । अनेन विश्वतो विसदृशस्याप्यक्षरस्य विश्वं प्रत्युपादानत्वं सङ्गमितम् ।
ननु किमेभिर्दृष्टान्तैर्निरूपितैः, न हि दृष्टान्तनिरूपणमात्रेण सङ्गमनमसङ्गतस्य स्यात्, प्रत्युतासङ्गत्याशङ्का तत्रापि प्रसरेदेव । विसदृशस्य विसदृशे उपादानत्वं, मिथो विजातीयेषु विविधकार्येष्वेकस्योपादानत्वम् अप्राप्तविकारस्योपादानत्वं चासङ्गतमेव । मैवम् । सूक्ष्मचिदचिद्विशिष्टस्य ब्रह्मणः स्थूलचिदचिद्विशिष्टे ब्रह्मण्युपादानत्वात् । अविकृतस्वरूपस्यापि परस्य ब्रह्मणः स्वशरीरभूतचिदचिद्वारा विकारान्वयेोऽस्त्येव । न च दृष्टान्तवैगुण्यम्, अविभक्ततन्तुको ह्यूर्णनाभिः स्वयमेव विभक्ततन्तुको भवतीत्यत्रैवोर्णनाभिदृष्टान्ततात्पर्यात् । शरीरद्वारा विकारान्वये निरूपणीयेऽनुगुणदृष्टान्तता चोर्णनाभे: । अयमेव विशेषोऽत्र दृष्टान्तान्तरतः । एवमेकेनाप्युपादानेन मिथो विसदृशानि विविधानि कार्याण्यारभ्यन्त एव । तैर्मिथो विसदृशैरप्युपादानसरूपैर्भाव्यमित्येव नियमः, आरभ्यन्ते खलु विविधा अपि तिलमाषादयः सरूपया पृथिव्या । आरभ्यते च तथैव विश्वम् । विश्वशब्दवाच्यं चेह तच्छरीरकं परं ब्रह्मैव। उपादेये विशेषणद्वारा वैचित्र्येऽप्युपादानेन ब्रह्मणा सह स्वरूपतः सारूप्यमनपायमेव । एवमुपादेयं ह्यंशतः सरूपं विरूपं चोपादानस्य दृश्यते । केशलोमादि हि भौतिकत्वेन पुरुषत: सरूपं विरूपं च केशत्वादिना । तथैव विश्वशब्दवाच्यं स्थूलशरीरकं परं ब्रह्मोपादेयं सूक्ष्मचिदचिद्विशिष्टपरब्रह्मणः कारणस्य चिदचिद्विशिष्टत्वेन सरूपं विरूपं च स्थूलचिदचिद्विशिष्टत्वेनेति नोक्तशङ्कावकाशः ।
परे तु प्राहुः - परस्य ब्रह्मणो जगदुपादानत्वं यादृशं तादृशं दृष्टान्ततः सङ्गमयति यथोर्णनाभिरित्यादिना । अयमाशय: - यद्यपि ब्रह्माविकृतस्वरूपं विश्वतश्चिदचिद्रूपादन्यदपि, अथाप्युपादानं तत्र तत् । उपादानत्वं हि परिणामिकारणत्वेनाधिष्ठानकारणत्वेन च द्वेधा सम्प्रतिपन्नम् । यद्द्द्द्रव्यं यदात्मना विकरोति तद्द्रव्यं तस्मिन्परिणाम्युपादानमुच्यते, यथा मृद्द्रव्यं घटशरावादिषु । यदधिष्ठानकं सत्कारणं यदात्मना परिणमति, तत्र तदधिष्ठानोपादानम्, यथोर्णनाभिस्तन्तुविशेषे । ऊर्णा हि कीटविशेषाधिष्ठानकैव तन्त्वात्मना परिणमति । बीजविशेषाश्च पृथिव्यधिष्ठानका एवं तिलमाषादिरूपेण भवन्ति । पुरुषाधिष्ठानकमेव किञ्चित्सूक्ष्मद्रव्यं केशलोमात्मकं भवति । ईदृशं चोपादानत्वं कार्यभूताद्विश्वतोऽन्यस्मिन्नपि परब्रह्मणि घटेतैव । सूक्ष्मचिदचिद्वर्गयोः परमात्मनः शरीरतया तदधिष्ठानकयोरेव हि स्थूलचिदचिदात्मना परिणतिः । ईदृशोपादानत्वं ब्रह्मणि द्रढयितुं दृष्टान्तत्रयनिरूपणम् । एतेनोर्णनाभिपृथिवीपुरुषाणां तन्त्वोषधिकेशात्मना परिणामस्यासम्भवात्तेषां दृष्टान्तीकरणेन ब्रह्मणि विश्वोपादानत्वलाभः कथमिति शङ्का परास्ता ।
नन्वेवं सति ‘सच्च त्यच्चाभवत्' ( तैत्तिरीय.आन.६.८) 'ब्रह्म स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः' (तैत्तिरीय.ब्रा.२.८.९.६) 'तदात्मानं स्वयमकुरुत' ( तैत्तिरीय.आन.७) इत्यादिश्रुतीनां व्याकोपः स्यात् । मैवम् । न वयं परिणाम्युपादानत्वं ब्रह्मण: प्रतिक्षिपामः, उक्तश्रुतिभिस्तदप्यभ्युपगच्छामः । श्रावयिष्यति चेहैव द्वितीयखण्डे तदपि पावकविस्फुलिङ्गदृष्टान्तेन । उपादेयता च परस्यैव ब्रह्मणः स्थूलचिदचिद्विशिष्टतावेषेण । नैतावता अधिष्ठानोपादानत्वस्य प्रदर्शितदृष्टान्तबलादवगम्यमानस्योपमर्दः । अधिष्ठानो पादानतावच्छेदकं हि सूक्ष्मचिदचिद्गर्भत्वेनाऽऽकारेण । तत्प्रतिसम्बन्ध्युपादेयत्वं च प्रपञ्चे स्थौल्ययोगादुपपद्यते । उपादानसामान्यलक्षणं तु तादात्म्यसम्बन्धावच्छिन्नकार्य तानिरूपिततादात्म्य- संयोगविशेषान्यतरसम्बन्धावच्छिन्नकारणताश्रयत्वम् ।
नन्वास्तां नाम विश्वं प्रति ब्रह्मणोऽधिष्ठानोपादानत्वम्, प्रतिपिपादयिषितं तु प्रकृते परिणाम्युपादानत्वमेव, 'कस्मिन्विदिते सर्वमिदं विदितं स्यादिति हि पृष्टम्, अधिष्ठानोपादानत्वस्य ब्रह्मणि प्रतिपादनमात्रेण न तदुत्तरितं स्यात्, न ह्यधिष्ठानोपादाने विदिते उपादेयं विश्वं विदितं स्यात्, तयोर्भेदात्, विश्वापेक्षया परिणाम्युपादाने विदिते तु ततोऽनन्यतयोपादेयं विश्वमिदं विदितं भवेत् । सत्यम् । पृष्टं नाम कस्मिन्विदिते सर्वमिदं विदितं स्यादिति । प्रश्नस्तु नोपादानजिज्ञासया किन्तु इदं विदितमिदं तु न विदितं तदस्येयं न्यूनता फल इत्येतद्वैषम्यं यस्मिन्विदिते न स्यात् - सर्वमेव वेदनफलमन्तर्गतं स्यात्तत्किमिति जिज्ञासयाऽयं प्रश्नः । 'सर्वविद्याप्रतिष्ठा' मिति पदेन च ब्रह्मविद्यायामयमेव विशेषः प्रथमं प्रस्तुतश्च । सर्वविद्याप्रतिष्ठात्वं ह्यस्याः समुद्रे गोष्पदमितिवत् । सर्वविद्याजन्यफलानामेतत्फलेऽन्तर्गततैवेति ॥७॥
॥ आङ्गल-अर्थः ॥
As the spider puts out and gathers in, as herbs spring up upon the earth, as hair of head and body grow from a living man, so here all is born from the Immutable.
॥ हिन्दी-अर्थः ॥
जिस प्रकार मकड़ी अपने (जाले का) सर्जन करती है तथा उसे अपने में समेट लेती है, जिस प्रकार पृथ्वी पर औषधियाँ उत्पन्न होती हैं, जिस प्रकार जीवित मनुष्य के शरीर के रोम तथा सिर के बाल बढ़ते हैं, उसी प्रकार 'अक्षर तत्त्व' से यही सब कुछ उत्पन्न होता है।
॥ शब्दावली ॥
यथा - yathā - as
ऊर्णनाभिः - ūūrṇanābhiḥ - the spider
सृजते - sṛjate - puts out
गृह्णते च - gṛhṇate ca - and gathers in
यथा पृथिवीम् - yathā pṛthivīm - as upon the earth
ओषधयः - oṣadhayaḥ - herbs
सम्भवन्ति - sambhavanti - spring up
यथा सतः पुरुषात् - yathā sataḥ puruṣāt - as from a living man
केशलोमानि - hair of head and body grow -
तथा इह - tathā iha - so here
अक्षरात् - akṣarāt - from the Immutable
विश्वम् सम्भवति - viśvam sambhavati - all is born

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know