यः सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायाते ॥
॥ लिप्यन्तरणम् ॥
yaḥ sarvajñaḥ sarvavid yasya jñānamayaṁ tapaḥ | tasmādetad brahma nāma rūpamannaṁ ca jāyāte ||
॥ अन्वयः ॥
यः सर्वज्ञः यः सर्ववित् यस्य ज्ञानमयं तपः तस्मात् एतत् ब्रह्म नाम रुपम् अन्नं च जायते ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ sarvajñaḥ ( yaḥ ) sarvavit yasya jñānamayaṁ tapaḥ tasmāt etat brahma nāma rupam annaṁ ca jāyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥९॥
उक्तं विश्वसम्भवमनुवदंस्तपः शब्दं विवृणोति साधारणैरसाधारणैश्च प्रकारैर्यः सर्वं जानाति, यस्य सिसृक्षोस्तपः सङ्कल्पान्नातिरिच्यते, तस्मादक्षराद्यत्सर्वस्य मूलं प्रधानं ब्रह्मशब्दवाच्यं तज्जायते । नन्वनादेरनन्तस्यास्य जनिः कथमित्यत्राह - नाम रूपं जायते नामरूपान्तरविशिष्टतया जायत इति व्यपदेशो योग्य इति भावः । ननु किं रूपान्तरम्, येन नामान्तरं तत्राह अन्नं च जायते भोग्यपृथिव्याद्याकारविशिष्टं भवतीति यावत् । चकाराद्भोगोपकरणभोगस्थानाद्यात्मना परिणतिः सङ्गृह्यते ।
परे तु - पूर्वमन्त्रेऽपि ब्रह्मशब्द: प्रधानपर एव । यथा बीजमङ्कुरावस्थातः प्राक्पृथिव्यन्तरेवोच्छूनतां प्राप्नोत्यधिष्ठानमहिम्ना, तथा तपोलक्षणेनाधिष्ठानमहिम्नोच्छूनतां प्राप्नोतीत्युच्यते तपसा चीयते ब्रह्मेति । एतेन प्रधानस्य महदवस्थातः प्राक्तनमक्षराव्यक्तावस्थाद्वयमुक्तं भवति । ततः प्रधानादुपचयं प्राप्तादन्नं महदादिपृथिव्यन्तं समष्टितत्त्वं जायते ततश्च यथासम्भवं प्राणादि । ननु चीयतां नाम तपसा सङ्कल्पलक्षणेन प्रधानम्, नैतावता दृष्टान्त इव दान्तिकेऽधिष्ठानोपादानत्वलाभः, परिणाम्युपादानं हि बीजादि पृथिव्याद्यधिष्ठानमहिम्नोपचीयमानं तदधिष्ठितं सदेवाङ्कुरात्मना परिणमति, न चेह तथेत्याशङ्कामपनुदन्नाह तस्मादिति । न केवलं परस्य ब्रह्मणः - सङ्कल्पेनोपचितमनन्याधिष्ठितं परिणमति, येन निमित्तत्वमात्राशङ्का स्यात्, किन्तु पृथिवीत बीजमिवौषध्यात्मनोर्णनाभित ऊर्णेव तन्त्वात्मना तस्मात्सर्वज्ञात्तत्सङ्कल्पेनोपचितं प्रधानं विभक्तनामरूपमन्नाद्यात्मनाऽऽविर्भवति । तस्मादित्यपादाने पञ्चमीति प्राहुः ॥९॥
॥ इति प्रथममुण्डके प्रथमः खण्डः ॥
॥ आङ्गल-अर्थः ॥
He who is the Omniscient, the allwise, He whose energy is all made of knowledge, from Him is born this that is Brahman here, this Name and Form and Matter.
॥ हिन्दी-अर्थः ॥
जो 'सर्वज्ञ' है, सर्वविद् है, 'वह' जिसका तप ज्ञानमय है, 'उससे' ही यह 'ब्रह्म', यह 'नाम' 'रूप' एवं 'अन्न' उत्पन्न होते हैं।
॥ शब्दावली ॥
यः सर्वज्ञः - yaḥ sarvajñaḥ - he who is the Omniscient
सर्ववित् - sarvavit - the all-wise
यस्य - yasya - whose
ज्ञानमयम् तपः - jñānamayam tapaḥ - energy is all made of knowledge
तस्मात् - tasmāt - from Him
एतत् ब्रह्म - etat brahma - this that is Brahman here
नाम - nāma - this Name
रुपम् - rupam - Form
अन्नम् च - annam ca - and Matter
जायते - jāyate - is born

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know