यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥
॥ लिप्यन्तरणम् ॥
yastu vijñānavānbhavati yuktena manasā sadā tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ ||
॥ अन्वयः ॥
यः तु सदा युक्तेन मनसा विज्ञानवान् भवति सारथेः सदश्वाः इव तस्य इन्द्रियाणि वश्यानि भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ tu sadā yuktena manasā vijñānavān bhavati sāratheḥ sadaśvāḥ iva tasya indriyāṇi vaśyāni ( bhavanti ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥
यस्तु, सुबुद्ध्या युक्तो नियमितेन मनसोपलक्षितः, तस्येन्द्रियाणि वश्यानि ; सदश्वा इव सारथेः। यस्य रथिन: सुगृहीतमनः प्रग्रहः सुबुद्धिसारथिः, तस्यानुकूला इन्द्रियाश्वा इति भावः ॥६॥
॥ आङ्गल-अर्थः ॥
But he that has knowledge with his mind ever applied, his senses are to him as noble steeds and they obey the driver.
॥ हिन्दी-अर्थः ॥
''जो अज्ञानी है, जिसका मन सर्वदा अयुक्त रहता है, उसकी इन्द्रियाँ दुष्ट जंगली घोड़ों के समान होती हैं और वे अपने सारथी का आदेश-पालन नहीं करतीं।
॥ शब्दावली ॥
यः - yaḥ - he who
तु - tu - indeed
सदा - sadā - ever
युक्तेन मनसा - yuktena manasā - with mind applied
विज्ञानवान् - vijñānavān - with knowledge
भवति - bhavati - the one who becomes
तस्य - tasya - his
इन्द्रियाणि - indriyāṇi - senses
सारथेः - sāratheḥ - of the driver of the chariot
सदश्वाः इव - sadaśvāḥ iva - as noble steeds
वश्यानि - vaśyāni - controlable
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know