यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः। न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥
॥ लिप्यन्तरणम् ॥
yastvavijñānavānbhavatyamanaskaḥ sadā'śuciḥ | na sa tatpadamāpnoti saṁsāraṁ cādhigacchati ||
॥ अन्वयः ॥
यः तु अविज्ञानवान् अमनस्कः सदा अशुचिः भवति सः तत्पदं न आप्नोति। संसारं च अधिगच्छति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ tu avijñānavān amanaskaḥ sadā aśuciḥ bhavati saḥ tatpadaṁ na āpnoti| saṁsāraṁ ca adhigacchati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ इन्द्रियनिग्रहाऽनिग्रहवतोः प्राप्यं फलम् ]
यस्त्वेवंविधो, यस्तु नैवंविधः तयोरर्थानर्थावाह - यस्तु इति ।
यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः ।
न स तत् पदमाप्नोति संसारं चाधिगच्छति ॥७॥
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥८॥
अमनस्कः - अनियमितमनस्क इति यावत् । अत एवाशुचिः - करणत्रयमालिन्ययुक्तः । तत्पदम् - यत्प्राप्यं तन्नाधिगच्छति । संसारं चाधिगच्छति - अधोऽधः संसारं प्रविशतीति यावत् । परस्तु रथी सुसारथिना सुगृहीतमनः प्रग्रहेण नियमिताश्वेन सुपथे नीयमानः तत्पदं प्राप्नोति, यतो भूयो न जायते ॥७,८॥
॥ आङ्गल-अर्थः ॥
Yea, he that is without knowledge and is unmindful and is ever unclean, reaches not that goal, but wanders in the cycle of phenomena.
॥ हिन्दी-अर्थः ॥
''वस्तुतः वह जो अज्ञानी होता है, अचेतनमना तथा सदा अशुचिमय होता है, वह उस (परम) पद को प्राप्त नहीं करता, वह संसार-चक्र में ही भटकता रहता है।
॥ शब्दावली ॥
यः तु - yaḥ tu - he who
अविज्ञानवान् - avijñānavān - without knowledge
अमनस्कः - amanaskaḥ - unmindful
सदा अशुचिः - sadā aśuciḥ - ever unclean
भवति - bhavati - is
सः - saḥ - he
तत्पदम् - tatpadam - that goal
न आप्नोति - na āpnoti - reaches not
संसारम् अधिगच्छति - saṁsāram adhigacchati - wanders in the cycle of phenomena
च - ca - and
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know