यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥
॥ लिप्यन्तरणम् ॥
yastvavijñānavānbhavatyayuktena manasā sadā tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ ||
॥ अन्वयः ॥
यः तु सदा अयुक्तेन मनसा अविज्ञातवान् भवति सारथेः दुष्टाश्वाः इव तस्य इन्द्रियाणि अवश्यानि भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ tu sadā ayuktena manasā avijñātavān bhavati sāratheḥ duṣṭāśvāḥ iva tasya indriyāṇi avaśyāni ( bhavanti ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ देहात्मविवेकशून्यस्य इन्द्रियनिग्रहः अशक्यः ]
रथिनाऽनेन सुसारथिना भाव्यमित्युच्यते - यस्त्विति ।
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥
यस्तु रथी आत्मा, अविज्ञानवान्भवति विशिष्टं ज्ञानं विज्ञानम् - विवेकः, ततो विपरीतमविज्ञानं तद्वान्, कुबुद्ध्या युक्त इति यावत् । अत एव अयुक्तेन अनियमितेन मनसा सदा उपलक्षितः । तस्येन्द्रियाण्यवश्यानि, दुष्टाश्वा इव सारथेः ॥५॥
॥ आङ्गल-अर्थः ॥
Now he that is without knowledge with his mind ever unapplied, his senses are to him as wild horses and will not obey the driver of the chariot.
॥ हिन्दी-अर्थः ॥
we will add data soon.
॥ शब्दावली ॥
यः - yaḥ - he that
तु - tu - indeed
अदा - adā - ever
अयुक्तेन - ayuktena - unapplied
मनसा - manasā - with mind
अविज्ञातवान् - avijñātavān - without knowledge
भवति - bhavati - the one who becomes
तस्य - tasya - his
इन्द्रियाणि - indriyāṇi - senses
सारथेः - sāratheḥ - of the driver of the chariot
दुष्टाश्वाः इव - duṣṭāśvāḥ iva - as wild horses
अवश्यानि - avaśyāni - uncontrolable
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know