केनोपनिषद्
प्रथमः खण्डः
श्रोत्रस्य श्रोत्रं मनसो मनो यत्। वाचो ह वाचं स उ प्राणस्य प्राणः। चक्षुषश्चक्षुरतिमुच्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥
॥ लिप्यन्तरणम् ॥
śrotrasya śrotraṁ manaso mano yat | vāco ha vācaṁ sa u prāṇasya prāṇaḥ | cakṣuṣaścakṣuratimucya dhīrāḥ | pretyāsmāllokādamṛtā bhavanti ||
॥ अन्वयः ॥
यत् श्रोत्रस्य श्रोत्रम्। मनसः मनः। वाचः ह वाचम्। सः उ प्राणस्य प्राणः। चक्षुसः चक्षुः। एवं विदित्वा श्रोत्रादिषु आत्मभावम् अतिमुच्य धीराः अस्मात् लोकात् प्रेत्य अमृताः भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yat śrotrasya śrotram | manasaḥ manaḥ | vācaḥ ha vācam | saḥ u prāṇasya prāṇaḥ | cakṣusaḥ cakṣuḥ | ( evaṁ viditvā ) śrotrādiṣu ātmabhāvam atimucya dhīrāḥ asmāt lokāt pretya amṛtāḥ bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ आचार्यस्य प्रतिवचनम् ]
एवं पृष्ट: प्रतिवक्ति - श्रोत्रस्येत्यादि ।
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो हवाचं स उप्राणस्य प्राणः चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥
ज्ञातुः पुरुषस्य शब्दसाक्षात्कारे उपकारकतया किञ्चिदिन्द्रियं श्रोत्रमुच्यते, तदपि श्रोत्रं तत्साक्षात्कारापादने स्वयं साक्षादक्षमं परं ब्रह्मापेक्षते, तदुच्यते परं ब्रह्म श्रोत्रस्य श्रोत्रमिति । न हि किमपि सर्वान्तर्यामिणा परब्रह्मणाऽनाहितशक्तिकं स्वकार्याय क्षमम् । तच्छ्रोत्रादीनि सर्वाण्युपकरणानि परब्रह्माहितशक्तिकान्येवोपकरणभावं प्राप्नुवन्तीति भावः । यत्तु अन्तर्यामिणमर्थान्तरमवधीर्य प्रत्यगात्मानमेव श्रोत्रस्य श्रोत्रमिति व्यपदिशन्ति, तन्नातिरमणीयम् । न हि शब्दसाक्षात्कारे पुरुषस्योपकारकमिन्द्रियमपेक्ष्योपक्रियमाणः पुरुषः उपकारकभावेन श्रोत्रस्य श्रोत्रमिति निर्देशमर्हति, न ह्यालोकेनोपक्रियमाणं चक्षुरालोकस्याप्यालोक इति व्यपदेशमर्हति । तच्छ्रोत्रशब्दनिर्देशादेव श्रोतारं प्रति कस्यचिदिन्द्रियस्योपकरणता स्वयमवगतैव । स चायमुपकरणभावोऽस्य सर्वतोऽन्तर्यामिणा सर्वशक्त्याधायकेन परब्रह्मणैवेति श्रोत्रस्य श्रोत्रमिति श्रोतुरर्थान्तरमेव परं ब्रह्म स्वरसतः प्रतीयते । न तु विना श्रोत्रेण बधिरो भवंस्तद्योगेन शब्दसाक्षात्कारार्हस्तदुपजीव्यो जीवः । वाचमिति विभक्तिव्यत्ययश्छान्दसः । यच्छ्रोत्रस्य श्रोत्रं मनसो मनो वाचो वाचं चक्षुषश्चक्षुः प्राणस्य प्राण इत्यन्वयः । चक्षुष इत्यन्तम् इन्द्रियाणामुपलक्षकम् । स उ एवम्भूत एव त्वया केनेषितमित्यादिना पृष्टो जानीहीति भावः । एवं वेदनस्य फलमाह - अतिमुच्येत्यादि । अतिमुच्य - एवं ज्ञात्वा ।
यद्वा - अतिमुच्य - वयं भोक्तारः, करणेषु सर्वथा स्वतन्त्रा - इति स्वातन्त्र्यभ्रमं त्यक्त्वा स एव हृषीकेशस्सर्वेन्द्रियनियन्ता, सर्वं भगवान्कारयतीत्यनुसन्दधानाः । अस्माल्लोकात्प्रेत्य - निर्गत्य, अमृता भवन्ति मुक्ता भवन्तीत्यर्थः । अनेन मुक्तस्थानं लोकान्तरं व्यज्यते ॥२॥
॥ आङ्गल-अर्थः ॥
That which is hearing of our hearing, mind of our mind, speech of our speech, that too is life of our life -breath and sight of our sight. The wise are released beyond and they pass from this world and become immortal.
॥ हिन्दी-अर्थः ॥
२. वह जो हमारे श्रवण का श्रवण है, हमारे मन का जो मन है, हमारी वाणी के पीछे जो वाक् है, वही हमारे प्राण का प्राण है तथा हमारे चक्षु का चक्षु है। ज्ञानी पुरुष इससे परे पहुँचकर मुक्त हो जाते हैं तथा इस लोक से प्रयाण करके वे अमर हो जाते हैं।
॥ शब्दावली ॥
यत् - yat - that which
श्रोत्रम् - śrotram - hearing
श्रोत्रस्य - śrotrasya - of the hearing
मनसः - manasaḥ - of the mind
मनः - manaḥ - mind
वाचः - vācaḥ - of the speech
ह - ha - indeed
वाचम् - vācam - speech
सः - saḥ - he
उ - u - indeed
प्राणस्य - prāṇasya - of life
प्राणः - prāṇaḥ - the life -breath
चक्षुसः - cakṣusaḥ - of the sight
चक्षुः - cakṣuḥ - sight
एवं विदित्वा - (evaṁ viditvā) - thus having known
धीराः - dhīrāḥ - the wise men
अतिमुच्य - atimucya - released beyond
अस्मात् - asmāt - from this
लोकात् - lokāt - world
प्रेत्य - pretya - having passed
अमृताः - amṛtāḥ - immortal
भवन्ति - bhavanti - become

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know