Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

न तत्र चक्षुर्गच्छति न वाग्गच्छति



प्रथमः खण्डः

केनोपनिषद्

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात्। अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥

॥ लिप्यन्तरणम् ॥

na tatra cakṣurgacchati na vāggacchati no mano na vidmo na vijānīmo yathaitadanuśiṣyāt | anyadeva tadviditādatho aviditādadhi | iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ||

॥ अन्वयः ॥

तत्र चक्षुः न गछति। न वाक् न उ मनः। तत् न विद्मः। यथा एतत् अनुशिष्यात् तत् अपि न विजानीमः। तत् विदितत् अन्यत् एव। अथो अविदितात् अधि पूर्वेषाम्। इति शुश्रुमः ये नः तत् व्याचचक्षिरे ॥

॥ अन्वयलिप्यन्तरणम् ॥

tatra cakṣuḥ na gachati | na vāk na u manaḥ | ( tat ) na vidmaḥ | yathā etat anuśiṣyāt ( tat api ) na vijānīmaḥ | tat viditat anyat eva | atho aviditāt adhi pūurveṣām | iti śuśrumaḥ ye naḥ tat vyācacakṣire ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ लौकिकप्रमाणागोचरत्वं परमात्मनः]

एवमखिलेन्द्रियप्रेरकतया प्रक्रान्तस्य परमात्मनो लौकिकार्थेभ्यो वैलक्षण्यमाह - न तत्रेति ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो

न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥

लौकिको ह्यर्थश्चक्षुषा - प्रत्यक्षेण, तदुपजीव्येन शब्देन, तदुपजीव्येनानुमानेन वा सिध्यति, परमात्मा तु न तथा यत्तत्र चक्षुर्न गच्छति न हि घटादिवत्स इदङ्कारेणानेन चक्षुषा गृह्यते, अतीन्द्रियत्वात्, न प्रत्यक्षगम्य इति यावत् । न वाग्गच्छति - वागिन्द्रियसाध्यश्शब्दो न गच्छति, न तं प्राप्नोति । अतीन्द्रियेऽस्मिन्नर्थे प्रत्यक्षमूलशब्दो न पराक्रमते । सर्वो हि शब्दो लौकिको वागिन्द्रियसाध्यः प्रत्यक्षोपजीव्यः, लौकिकव्यवहारगम्य इति यावत् । नापि मनः - अत्र मन इति मनोव्यापारप्रधानमनुमानमुच्यते, तदपि तस्मिन्न गच्छति, तस्यापि प्रत्यक्षोपजीव्यत्वात् । प्रत्यक्षातिपतितकृत्स्नधर्मे, तस्मिन्प्रत्यक्षोपजीव्यसाहचर्यनियमसापेक्षस्यानुमानस्य क्व प्रसरावकाश ? इति भावः । एतेनालौकिकप्रमाणैकवेद्यत्वं व्यज्यते । अत्र चक्षुश्शब्देन प्रत्यक्षमुपक्रम्य वाङ्मनसोरभिधानाद्वाङ्मनश्शब्दाभ्यां तत्सजातीययोः शब्दानुमानयो- र्ग्रहणमुचितमिति तथा व्याख्यातम् । एतद्यथाऽनुशिष्यात्तं प्रकारं तत्र न विद्म इत्यन्वयः । एतदिति सन्निहिततरमुच्यते । प्रत्यक्षतस्सन्निहितमिदं लौकिकं वस्तु येन प्रकारेणानुशिष्यात्तं प्रकारं तत्र परमात्मनि न विद्म इत्यर्थः । लौकिकानि हि वस्तूनि त्रिकोणत्वसास्नादिमत्वादिभिराकारैरनुशिष्यन्ते परमात्मा न तैः प्रकारैः करतलामलकवदुपदेशार्ह इति भाव: ।

असदृशः परमात्मा

ननु विचित्रेष्विहोपलभ्यमानेषु यत्किञ्चिद्विलक्षणाकारं निदर्शनतया वा तस्योपलक्षकं किं न स्यादित्यत्राह - न विजानीमः - तादृशं किमपि लौकिकं वस्तु विशेषतो न विजानीमः, येन विशेषेणांशतो वा निदर्शनतया तस्य परमात्मन उपलक्षकं भवेत् । यथाऽयं लौकिकप्रमाणागोचरस्तथा लौकिकैः प्रकारैरपि नोपलक्ष्य इति भावः ।

यद्वा - इन्द्रियाणां प्रेरक को देव इति पृष्टे श्रोत्रस्य श्रोत्रमित्यादिना श्रोत्रादीनामपि श्रोत्रं तत्तदिन्द्रियप्रकाशकः कश्चिदित्येतावन्मात्रेण प्रतिवचनेन नातीव सुस्पष्टमुपदिष्टं तत्स्वरूपमित्यत्राह - न तत्रेति । न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । शब्दार्थः पूर्ववत् । लौकिकं चेद्वस्तुस्वरूपं त्रिकोणत्वसास्नादिमत्त्वादिभिरिदमित्थमेतावदिति स्यान्नाम । इदन्तु परमात्मस्वरूपमगोचरं लौकिकस्य कथमिव लौकिकवस्तुवदिदमित्थमेतावदिति शक्नुमो निरूपयितुमिति भावः । न विद्मः - अलौकिकार्थावबोधकतया प्रसिद्धा वयमपि न विद्मो यत्स्वरूपम्, अपारत्वात् । 'यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिन:' (यादवा.१.२) । तत्कथमिवेत्थमेतावदिति निरूपयितुं शक्नुम इति भावः । न विद्म इत्यलौकिकप्रमाणस्य वेदस्यायं निर्देशः । वेद एव खल्वत्र गुर्वपदेशेन प्रतिवक्ति । बहुवचनेन अनन्ता वेदाः, तथापि कात्स्र्त्स्न्येन तत्स्वरूपं न विद्म इत्युक्तं भवति । तर्हि गुरुः शिष्यान्प्रति कथमुपदिशति ? न विजानीमो यथैतदनुशिष्यात् एतत् लौकिकवस्तुतो विलक्षणम्, अपरिच्छिन्नमलौकिकार्थावबोधकैरप्यलब्धपारं तत्स्वरूपं यथा येन प्रकारेणोपदिशेत्, तद्वयं न जानीमः। कार्त्स्न्येन तदुपदेश: कार्त्स्न्येन तदवबोधो वाऽसंभावित इति भावः ॥३॥

[ परमात्मन: अनुशास्यत्वप्रकारः ]

उक्तं लौकिकार्थवदननुशास्यत्वमतिपतितसकललौकिकप्रकारस्यापरिच्छिन्नस्य परमात्मन:, तर्हि कथमसावनुशास्यस्तदाह - अन्यदेवेति ।

अन्यदेव तद्विदितादथो अविदितादधि ।

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥४॥

तत्परमात्मस्वरूपं विदितादन्यत्, नास्य विदितकोटावन्तर्भावः तर्हि ज्ञानागोचरत्वेन तुच्छता स्यादत आह अथोऽविदितादधि अविदितात् ज्ञानागोचरात् अधि - अन्यदित्यर्थः । इदमित्थमेतावदिति परिच्छिद्य ज्ञातुमशक्यतया विदितमित्यपि वक्तुं न शक्यते, शास्त्रवेद्यस्वरूपत्वाज्ज्ञानागोचरमित्यपि वक्तुं न शक्यते । एवमेव तद्वस्तुस्वरूपमुपदेश्यमिति भावः । ये नस्तत्परमात्मस्वरूपं व्याचचक्षिरे, तेषां सम्प्रदायपरम्पराप्राप्तम्, इति - एवं प्रकारं वचः शुश्रुमः - श्रुतवन्तः ।

चिदचिद्विलक्षणः परमात्मा

यद्वा - उक्तं लौकिकप्रमाणागम्यत्वमलौकिकप्रमाणागम्यत्वं चापरिछित्तेः । अत एव तच्चिदचिदात्मकाज्जगतोऽन्यदेवेत्याह - अन्यदेवेति । इह जगति संसृष्टे चिदचिदंशेऽचिदंशं सर्व एव जानन्ति पण्डितपामराविशेषेणेत्यचिदंश उच्यते विदितमिति शब्देन । अधिकारिविशेषप्रमाणविशेषानुपहितो हि वेदनशब्दः पण्डितपामरसाधारणं वेदनमेव स्वरसतोऽवगमयेत् । अविदितमितिशब्देन विदितशब्दोपात्तादचिदंशादन्यश्चेतनांश उच्यते । ताभ्यामन्यदुक्तपरमात्मस्वरूपमिति भावः । इति शुश्रुमेत्यादि यथाव्याख्यातम् ॥४॥

॥ आङ्गल-अर्थः ॥

There sight travels not, nor speech, nor the mind. We know It not nor can distinguish how one should teach of It: for It is other than the known; It is there above the unknown. It is so we have heard from men of old who declared That to our understanding.

॥ हिन्दी-अर्थः ॥

३. वहाँ न चक्षु जा सकता है, न वाणी, न ही मन। हम न 'उसे’ जानते हैं न यह जान पाते हैं कि ‘उसकी’ शिक्षा कैसे दी जाये; क्योंकि 'वह' विदित से अन्य है; तथा अविदित से भी परे है; 'वह' ऐसा है यह हमने उन पूर्वजों से सुना है जिन्होंने उस 'परतत्त्व' की हमारे बोध के लिए व्याख्या की है।

॥ शब्दावली ॥

तत्र - tatra - there

चक्षुः - cakṣuḥ - sight

न - na - not

गछति - gachati - travels

न - na - nor

वाक् - vāk - nor speech

न - na - not

उ - u - indeed

मनः - manaḥ - mind

तत् - tat - It

न विद्मः - na vidmaḥ - we know not

यथा - yathā - as

एतत् - etat - It

अनुशिष्यात् - anuśiṣyāt - one should teach of

तत् अपि - tat api - that also

न विजानीमः - na vijānīmaḥ - we know not

तत् - tat - It

विदितत् - viditat - than the known

अन्यत् - anyat - other

एव - eva - indeed

अथो - atho - and

अविदितात् - aviditāt - the unknown

अधि - adhi - above

इति - iti - thus / it is so

पूर्वेषाम् - pūurveṣām - from men of old

शुश्रुमः - śuśrumaḥ - we have heard

ये - ye - who

नः - naḥ - to us (to our understanding)

तत् - tat - That

व्याचचक्षिरे - vyācacakṣire - have declared

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ