Ad Code

न तत्र चक्षुर्गच्छति न वाग्गच्छति



प्रथमः खण्डः

केनोपनिषद्

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात्। अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥

॥ लिप्यन्तरणम् ॥

na tatra cakṣurgacchati na vāggacchati no mano na vidmo na vijānīmo yathaitadanuśiṣyāt | anyadeva tadviditādatho aviditādadhi | iti śuśruma pūrveṣāṁ ye nastadvyācacakṣire ||

॥ अन्वयः ॥

तत्र चक्षुः न गछति। न वाक् न उ मनः। तत् न विद्मः। यथा एतत् अनुशिष्यात् तत् अपि न विजानीमः। तत् विदितत् अन्यत् एव। अथो अविदितात् अधि पूर्वेषाम्। इति शुश्रुमः ये नः तत् व्याचचक्षिरे ॥

॥ अन्वयलिप्यन्तरणम् ॥

tatra cakṣuḥ na gachati | na vāk na u manaḥ | ( tat ) na vidmaḥ | yathā etat anuśiṣyāt ( tat api ) na vijānīmaḥ | tat viditat anyat eva | atho aviditāt adhi pūurveṣām | iti śuśrumaḥ ye naḥ tat vyācacakṣire ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ लौकिकप्रमाणागोचरत्वं परमात्मनः]

एवमखिलेन्द्रियप्रेरकतया प्रक्रान्तस्य परमात्मनो लौकिकार्थेभ्यो वैलक्षण्यमाह - न तत्रेति ॥

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो

न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥३॥

लौकिको ह्यर्थश्चक्षुषा - प्रत्यक्षेण, तदुपजीव्येन शब्देन, तदुपजीव्येनानुमानेन वा सिध्यति, परमात्मा तु न तथा यत्तत्र चक्षुर्न गच्छति न हि घटादिवत्स इदङ्कारेणानेन चक्षुषा गृह्यते, अतीन्द्रियत्वात्, न प्रत्यक्षगम्य इति यावत् । न वाग्गच्छति - वागिन्द्रियसाध्यश्शब्दो न गच्छति, न तं प्राप्नोति । अतीन्द्रियेऽस्मिन्नर्थे प्रत्यक्षमूलशब्दो न पराक्रमते । सर्वो हि शब्दो लौकिको वागिन्द्रियसाध्यः प्रत्यक्षोपजीव्यः, लौकिकव्यवहारगम्य इति यावत् । नापि मनः - अत्र मन इति मनोव्यापारप्रधानमनुमानमुच्यते, तदपि तस्मिन्न गच्छति, तस्यापि प्रत्यक्षोपजीव्यत्वात् । प्रत्यक्षातिपतितकृत्स्नधर्मे, तस्मिन्प्रत्यक्षोपजीव्यसाहचर्यनियमसापेक्षस्यानुमानस्य क्व प्रसरावकाश ? इति भावः । एतेनालौकिकप्रमाणैकवेद्यत्वं व्यज्यते । अत्र चक्षुश्शब्देन प्रत्यक्षमुपक्रम्य वाङ्मनसोरभिधानाद्वाङ्मनश्शब्दाभ्यां तत्सजातीययोः शब्दानुमानयो- र्ग्रहणमुचितमिति तथा व्याख्यातम् । एतद्यथाऽनुशिष्यात्तं प्रकारं तत्र न विद्म इत्यन्वयः । एतदिति सन्निहिततरमुच्यते । प्रत्यक्षतस्सन्निहितमिदं लौकिकं वस्तु येन प्रकारेणानुशिष्यात्तं प्रकारं तत्र परमात्मनि न विद्म इत्यर्थः । लौकिकानि हि वस्तूनि त्रिकोणत्वसास्नादिमत्वादिभिराकारैरनुशिष्यन्ते परमात्मा न तैः प्रकारैः करतलामलकवदुपदेशार्ह इति भाव: ।

असदृशः परमात्मा

ननु विचित्रेष्विहोपलभ्यमानेषु यत्किञ्चिद्विलक्षणाकारं निदर्शनतया वा तस्योपलक्षकं किं न स्यादित्यत्राह - न विजानीमः - तादृशं किमपि लौकिकं वस्तु विशेषतो न विजानीमः, येन विशेषेणांशतो वा निदर्शनतया तस्य परमात्मन उपलक्षकं भवेत् । यथाऽयं लौकिकप्रमाणागोचरस्तथा लौकिकैः प्रकारैरपि नोपलक्ष्य इति भावः ।

यद्वा - इन्द्रियाणां प्रेरक को देव इति पृष्टे श्रोत्रस्य श्रोत्रमित्यादिना श्रोत्रादीनामपि श्रोत्रं तत्तदिन्द्रियप्रकाशकः कश्चिदित्येतावन्मात्रेण प्रतिवचनेन नातीव सुस्पष्टमुपदिष्टं तत्स्वरूपमित्यत्राह - न तत्रेति । न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । शब्दार्थः पूर्ववत् । लौकिकं चेद्वस्तुस्वरूपं त्रिकोणत्वसास्नादिमत्त्वादिभिरिदमित्थमेतावदिति स्यान्नाम । इदन्तु परमात्मस्वरूपमगोचरं लौकिकस्य कथमिव लौकिकवस्तुवदिदमित्थमेतावदिति शक्नुमो निरूपयितुमिति भावः । न विद्मः - अलौकिकार्थावबोधकतया प्रसिद्धा वयमपि न विद्मो यत्स्वरूपम्, अपारत्वात् । 'यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिन:' (यादवा.१.२) । तत्कथमिवेत्थमेतावदिति निरूपयितुं शक्नुम इति भावः । न विद्म इत्यलौकिकप्रमाणस्य वेदस्यायं निर्देशः । वेद एव खल्वत्र गुर्वपदेशेन प्रतिवक्ति । बहुवचनेन अनन्ता वेदाः, तथापि कात्स्र्त्स्न्येन तत्स्वरूपं न विद्म इत्युक्तं भवति । तर्हि गुरुः शिष्यान्प्रति कथमुपदिशति ? न विजानीमो यथैतदनुशिष्यात् एतत् लौकिकवस्तुतो विलक्षणम्, अपरिच्छिन्नमलौकिकार्थावबोधकैरप्यलब्धपारं तत्स्वरूपं यथा येन प्रकारेणोपदिशेत्, तद्वयं न जानीमः। कार्त्स्न्येन तदुपदेश: कार्त्स्न्येन तदवबोधो वाऽसंभावित इति भावः ॥३॥

[ परमात्मन: अनुशास्यत्वप्रकारः ]

उक्तं लौकिकार्थवदननुशास्यत्वमतिपतितसकललौकिकप्रकारस्यापरिच्छिन्नस्य परमात्मन:, तर्हि कथमसावनुशास्यस्तदाह - अन्यदेवेति ।

अन्यदेव तद्विदितादथो अविदितादधि ।

इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥४॥

तत्परमात्मस्वरूपं विदितादन्यत्, नास्य विदितकोटावन्तर्भावः तर्हि ज्ञानागोचरत्वेन तुच्छता स्यादत आह अथोऽविदितादधि अविदितात् ज्ञानागोचरात् अधि - अन्यदित्यर्थः । इदमित्थमेतावदिति परिच्छिद्य ज्ञातुमशक्यतया विदितमित्यपि वक्तुं न शक्यते, शास्त्रवेद्यस्वरूपत्वाज्ज्ञानागोचरमित्यपि वक्तुं न शक्यते । एवमेव तद्वस्तुस्वरूपमुपदेश्यमिति भावः । ये नस्तत्परमात्मस्वरूपं व्याचचक्षिरे, तेषां सम्प्रदायपरम्पराप्राप्तम्, इति - एवं प्रकारं वचः शुश्रुमः - श्रुतवन्तः ।

चिदचिद्विलक्षणः परमात्मा

यद्वा - उक्तं लौकिकप्रमाणागम्यत्वमलौकिकप्रमाणागम्यत्वं चापरिछित्तेः । अत एव तच्चिदचिदात्मकाज्जगतोऽन्यदेवेत्याह - अन्यदेवेति । इह जगति संसृष्टे चिदचिदंशेऽचिदंशं सर्व एव जानन्ति पण्डितपामराविशेषेणेत्यचिदंश उच्यते विदितमिति शब्देन । अधिकारिविशेषप्रमाणविशेषानुपहितो हि वेदनशब्दः पण्डितपामरसाधारणं वेदनमेव स्वरसतोऽवगमयेत् । अविदितमितिशब्देन विदितशब्दोपात्तादचिदंशादन्यश्चेतनांश उच्यते । ताभ्यामन्यदुक्तपरमात्मस्वरूपमिति भावः । इति शुश्रुमेत्यादि यथाव्याख्यातम् ॥४॥

॥ आङ्गल-अर्थः ॥

There sight travels not, nor speech, nor the mind. We know It not nor can distinguish how one should teach of It: for It is other than the known; It is there above the unknown. It is so we have heard from men of old who declared That to our understanding.

॥ हिन्दी-अर्थः ॥

३. वहाँ न चक्षु जा सकता है, न वाणी, न ही मन। हम न 'उसे’ जानते हैं न यह जान पाते हैं कि ‘उसकी’ शिक्षा कैसे दी जाये; क्योंकि 'वह' विदित से अन्य है; तथा अविदित से भी परे है; 'वह' ऐसा है यह हमने उन पूर्वजों से सुना है जिन्होंने उस 'परतत्त्व' की हमारे बोध के लिए व्याख्या की है।

॥ शब्दावली ॥

तत्र - tatra - there

चक्षुः - cakṣuḥ - sight

न - na - not

गछति - gachati - travels

न - na - nor

वाक् - vāk - nor speech

न - na - not

उ - u - indeed

मनः - manaḥ - mind

तत् - tat - It

न विद्मः - na vidmaḥ - we know not

यथा - yathā - as

एतत् - etat - It

अनुशिष्यात् - anuśiṣyāt - one should teach of

तत् अपि - tat api - that also

न विजानीमः - na vijānīmaḥ - we know not

तत् - tat - It

विदितत् - viditat - than the known

अन्यत् - anyat - other

एव - eva - indeed

अथो - atho - and

अविदितात् - aviditāt - the unknown

अधि - adhi - above

इति - iti - thus / it is so

पूर्वेषाम् - pūurveṣām - from men of old

शुश्रुमः - śuśrumaḥ - we have heard

ये - ye - who

नः - naḥ - to us (to our understanding)

तत् - tat - That

व्याचचक्षिरे - vyācacakṣire - have declared

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code