Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

केनेषितं पतति प्रेषितं मनः



केनोपनिषद्

प्रथमः खण्डः

केनेषितं पतति प्रेषितं मनः। केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति। चक्षुः श्रोत्रं क उ देवो युनक्ति ॥

॥ लिप्यन्तरणम् ॥

keneṣitaṁ patati preṣitaṁ manaḥ | kena prāṇaḥ prathamaḥ praiti yuktaḥ | keneṣitāṁ vācamimāṁ vadanti | cakṣuḥ śrotraṁ ka u devo yunakti ||

॥ अन्वयः ॥

मनः केन इषितं प्रेषितं च सन् पतति। केन युक्तः प्रथमः प्राणः प्रैति । केन इषिताम् इमं वाचं वदन्ति। चक्षुः श्रोत्रं कः उ देवः युनक्ति ॥

॥ अन्वयलिप्यन्तरणम् ॥

manaḥ kena iṣitaṁ preṣitaṁ ( ca san ) patati | kena yuktaḥ prathamaḥ prāṇaḥ praiti | kena iṣitām imaṁ vācaṁ vadanti | cakṣuḥ śrotraṁ kaḥ u devaḥ yunakti ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

केनोपनिषत्

स्वामिनारायणमूलभाष्यसमेता

शान्तिपाठः

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोद अनिराकणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ।

मङ्गलाचरणम्

देवानामपि यो देवो न देवा द्योतयन्ति यम् ।

अमतस्तु मतो योऽसौ तमानन्दघनं श्रये ॥

वाति वायुर्दहत्यग्निर्येनैवाहितशक्तिकः ।

तमेतमौपनिषदं नारायणमुपास्महे ॥

प्रथम: खण्ड:

अवतारिका

जीवात्मनो विलक्षणं परमात्मानं प्रश्नप्रतिवचनमुखेन व्याचष्टे तलवकारोपनिषदियम् । व्यज्यते चैतत्तृतीयखण्डारम्भे ब्रह्म हेत्याद्याख्यायिकया । जानतोऽपि शास्त्रतो विधिनिषेधौ परिजिहीर्षतोऽपि परिहरणीयं, करणानीमानि स्वयं स्वतन्त्राणीव स्वस्वाभिलषितमेव अभिसमापतन्ति । तदिमानि करणान्यन्येन केनाऽपि पात्यन्त इति लक्ष्यन्ते । तत्कोऽयमीदृश इति पृच्छति - केनेषितमित्यादि ।

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।

केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥

जीवात्मविलक्षणपरमात्मविषयकप्रश्नाः

अनिच्छतोऽपि मनः स्वयं बलात् स्वामीव किञ्चिदिष्टमभिपतति, मनस्तु जडं केनापि प्रेरितमेव तु पतेत्, तत्केन प्रेषितं सदिषितं पतति । इषितम् - इष्टमित्यर्थ: । छान्दसः प्रयोगः। केन प्रयुक्तः प्रथमः प्राण: - मुख्य: प्राण:, प्रैति - स्वकार्ये गच्छति । केन प्रेरिताः इषिताम्- अभिलषिताम्, इमां वाचं शब्दरूपां वदन्ति । जना इति शेषः । अनेन निर्देशेन करणाधिपाधिपं हृषीकेशमुद्दिश्यैवायं प्रश्न इति व्यज्यते । वदन्तीति करणाधिपस्यापि पारवश्याभिव्यक्तेः । न हि वदन्तीत्यत्रेन्द्रियमात्रं कर्तृ, बहुवचनवैयर्थ्यात् स्वारस्यभङ्गाच्च । चक्षुश्श्रोत्रं क उ देवो युनक्ति प्रेरयति । देवशब्दस्वारस्याच्चोक्ताभिप्राय एव प्रश्नः । करणाधिपमजानन् पामरो गण्यते । न हि तादृशः प्रष्टा समुचितोऽत्र ।

यद्वा नेह प्रश्नप्रतिवचनमुखेनारम्भः किन्त्वाक्षेपमुखेन । अयं भावः - अस्ति प्रायस्सर्वेषां सत्यपि क्षेत्रक्षेत्रज्ञविभागविज्ञाने परमियमभिमति:, यथाऽभिलषितं विज्ञातुं कर्तुं भोक्तुं च समर्थास्स्मो वयम्, यदिमानि करणानि वशे नः, न नः परः कश्चिदिति; तमिमं स्वतन्त्रताभ्रमं निरस्यन्नाह - केनेति । आक्षेपे किंशब्द: । भोः मानवाः ! यानीमानि मनःप्रभृतीनि सत्यं सहायभूतानि वः, परं तानीमानि केन नियुक्तान्युपकरणभावं प्राप्य वः क्रियास्साधयन्ति, न युष्माभिरेव नियुक्तानि तथा कुर्वन्ति, वयं वयमिति भ्रान्तिः केवलं वः । कस्तर्हि ? अस्त्यन्यस्सर्वस्यान्तरात्मा यः श्रोत्रस्य श्रोत्रं मनसो मनः । किं बहुना पूर्वं देवा अप्यासन्नभिमानिनः, अस्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तमिममभिमानं खण्डयितुमन्तरात्मा प्रादुर्भूय यक्षात्मना सन्निहितमग्निमहमखिलं दग्धुं प्रभवामीत्यभिमन्यमानमभितृणं निदधावेतद्दहेति । स तन्न शशाक दग्धुम् । तन्मा भूद्वो भ्रमः, वयमिदं कुर्मो वयमिदं विजानीम इति, अस्ति नः परमात्मा सर्वेश्वरस्तस्य बलेन वयं प्राणिमो वयं व्यवहराम इति तत्परतन्त्रतां भावयतेति ॥१॥

॥ आङ्गल-अर्थः ॥

By whom missioned falls the mind shot to its mark? By whom yoked moves the first life - breath forward on its paths? By whom impelled is this word that men speak? What god set eye and ear to their workings?

॥ हिन्दी-अर्थः ॥

किसके द्वारा प्रेषित यह मन बाणवत् अपने लक्ष्य पर जाकर गिरता है? किसके द्वारा नियुक्त प्रथम प्राण अपने पथ पर आगे बढ़ता है? किसके द्वारा प्रेरित है यह वाणी जिसे मनुष्य बोलते हैं? कौन है वह देव जिसने चक्षु और कर्ण को उनकी क्रियाओं में नियुक्त कर दिया है?

॥ शब्दावली ॥

केन - kena - by whom

इषितम् - iṣitam - missioned

मनः - manaḥ - the mind

प्रेषितम् - preṣitam - sent / shot

सन् - san - being

पतति - patati - falls

केन - kena - by whom

युक्तः - yuktaḥ - yoked

प्रथमः - prathamaḥ - first

प्राणः - prāṇaḥ - life - breath

प्रैति - praiti - moves

केन - kena - by whom

इषिताम् - iṣitām - impelled

इमम् - imam - this

वाचम् - vācam - speech

वदन्ति - vadanti - speak

चक्षुः - cakṣuḥ - eye and to their workings

श्रोत्रम् - śrotram - ear

कः - kaḥ - What/which

उ - u - (an emphatic particle)

देवः - devaḥ - god

युनक्ति - yunakti - sets


एक टिप्पणी भेजें

0 टिप्पणियाँ