Ad Code

सत्यमेव जयते नानृतं सत्येन पन्था विततो



सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः। येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्‌ सत्यस्य परमं निधानम्‌ ॥

लिप्यन्तरणम्

satyameva jayate nānṛtaṁ satyena panthā vitato devayānaḥ | yenākramantyṛṣayo hyāptakāmā yatra tat satyasya paramaṁ nidhānam ||

अन्वयः

सत्यम् एव जयते अनृतं न सत्येन देवयानः पन्थाः विततः। येन आप्तकामाः ऋषयः आक्रमन्ति हि यत्र सत्यस्य तत् परमम् निधानम् अस्ति ॥

अन्वयलिप्यन्तरणम्

satyam eva jayate anṛtaṁ na satyena devayānaḥ panthāḥ vitataḥ| yena āptakāmāḥ ṛṣayaḥ ākramanti hi yatra satyasya tat paramam nidhānam ( asti ) ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सत्यस्य स्तुति: ]

'अहिंसासत्यास्तेय - उक्तेषूपकरणेषु सत्यं स्तौति प्राधान्यात् । जयो वा पराजयो वा न स्वतः सत्यानृतयोः, किन्तु सत्यमनृतं वा प्रोच्यमानं वक्तुर्जये पराजये वा साधनं भवति, तद्वक्तृनिष्ठो जयो वा पराजयो वा साधने उपचारतो निर्दिश्यते - सत्यमेव जयति नानृतमिति ।

सत्यमेव जयति नानृतं सत्येन पन्था विततो देवयानः ।

येनाक्रामन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥६॥

सत्यमेव सर्वार्थसाधनमिति यावत् । यश्च विततो - विस्तृतो देवयानः - अर्चिरादिः सोऽपि सत्येन साधनेन सिध्यति । कोऽसौ देवयानः ? - येनाक्रामन्त्यृषयो ह्याप्तकामाः ऋषयः - अतीन्द्रियात्मस्वरूपसाक्षात्कारसम्पन्नाः, अत एवाप्तकामाः विगततृष्णा इति यावत्, येन पथा आक्रामन्ति - प्राप्नुवन्तीति यावत्, सोऽयं देवयानः । ननु किमाक्रमन्ति देवयानेन ? यत्र तत्सत्यस्य परमं निधानं यत्र देशे सत्यस्य परमं प्राप्यं तत्किञ्चित्सर्वातिशायि वर्तते - तमाक्रामन्तीति पूर्वेण सम्बन्धः ॥६॥

॥ आङ्गल-अर्थः ॥

It is Truth that conquers and not falsehood; by Truth was stretched out the path of the journey of the gods, by which the sages winning their desire ascend there where Truth has its supreme abode.

॥ हिन्दी-अर्थः ॥

'सत्य' की ही विजय होती है असत्य की नहीं; 'सत्य' के द्वारा ही देवों का यात्रा-पथ विस्तीर्ण हुआ, जिसके द्वारा आप्तकाम ऋषिगण वहां आरोहण करते हैं जहाँ 'सत्य' का परम धाम है। ५अथवा, जिसकी योनि है 'ब्रह्म' '', शंकर ने दूसरे अर्थ को एक विकल्प के रूप में स्वीकार किया है, किन्तु इसकी व्याख्या की है ''अपर ब्रह्म की योनि है।'' ६अथवा, ''वह निष्कलंक होकर परम समत्व को प्राप्त करता है।

शब्दावली

सत्यम् एव - satyam eva - it is Truth

जयते - jayate - that conquers

न अनृतम् - na anṛtam - not falsehood

सत्येन - satyena - by Truth

देवयानः पन्थाः - devayānaḥ panthāḥ - the path of the journey of the gods

विततः - vitataḥ - was stretched out

येन हि - yena hi - by which

आप्तकामाः - āptakāmāḥ - winning their desire

ऋषयः - ṛṣayaḥ - the sages

तत् आक्रमन्ति - tat ākramanti - ascend that or there

यत्र - yatra - where

सत्यस्य परमम् निधानम् - satyasya paramam nidhānam - Truth has its supreme abode


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code