सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम्। अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥
॥ लिप्यन्तरणम् ॥
satyena labhyastapasā hyeṣa ātmā samyagjñānena brahmacaryeṇa nityam | antaḥśarīre jyotirmayo hi śubhro yaṁ paśyanti yatayaḥ kṣīṇadoṣāḥ ||
॥ अन्वयः ॥
यं क्षीणदोषाः यतयः पश्यन्ति एषः ज्योतिर्मयः शुभ्रः आत्मा अन्तःशरीरे हि सः नित्यम् सत्येन तपसा सम्यग्ज्ञानेन ब्रह्मचर्येण च लभ्यः हि ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaṁ kṣīṇadoṣāḥ yatayaḥ paśyanti eṣaḥ jyotirmayaḥ śubhraḥ ātmā antaḥśarīre hi ( saḥ ) nityam satyena tapasā samyagjñānena brahmacaryeṇa ( ca ) labhyaḥ hi ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मप्राप्तिसाधनोक्तिः ]
अथास्य परमात्मनः साक्षात्कारे उपकरणविशेषान विदधन्नाह - सत्येति ।
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥५॥
अन्तःशरीरे ज्योतिर्मयो हि शुभ्रः यो ह्यन्तः शरीरे ज्योतिर्मयः स्वप्रकाशज्ञानैकस्वरूपः, शुभ्रः - शोकमोहादिमालिन्यरहितो वर्तते । एतेनानीशया यः शोचति मुह्यमानस्ततो व्यावृत्तिः । यमिमं यतयः क्षीणदोषाः - प्रक्षीणचित्तदोषाः, अपेतविषयवासनाकलङ्काः पश्यन्ति साक्षात्कुर्वन्ति योगकलया । एष ह्यात्मा सत्येन नित्यं ब्रह्मचर्येण तपसा सम्यक् ज्ञानेन लभ्य: । सत्यम् - यथादृष्टार्थं भूतहितं वचः । ब्रह्मचर्यम् - अमैथुनम् । तपः - द्वन्द्वसहनम् । सम्यग्ज्ञानम् ब्रह्मनिष्ठाद्गुरोर्यथावस्थितमात्मस्वरूपस्यावगतिः । एतेषां ध्यानोपकारकतया साधनत्वं बोध्यम् । स्मर्यते च योगे सत्यब्रह्मचर्ययोर्यमेषु परिगणना तपः सम्यग्ज्ञानयोर्नियमेषु ब्रह्मचर्यापरिग्रहा यमा:' (योगदर्शनम् - २.३०) 'शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ' (योगदर्शनम् - २.३२) इति । भाषितं च- 'तपो द्वन्द्वसहनम्', 'स्वाध्यायो मोक्षशास्त्राणामध्ययन' मिति । इदं च सत्याद्युपकरणविधानमुपकरणान्तरस्याप्युपलक्षकम् ॥५॥
॥ आङ्गल-अर्थः ॥
The Self can always be won by truth, by self-discipline, by integral knowledge, by a life of purity,-this Self that is in the inner body, radiant, made all of light whom by the perishing of their blemishes the doers of askesis behold.
॥ हिन्दी-अर्थः ॥
यह 'आत्मा' सत्य से, आत्म-संयम (तप) से, सम्पूर्ण एवं सम्यक् ज्ञान से, ब्रह्मचर्य से सर्वदा लभ्य है यह 'आत्मा' जो अन्तःशरीर में है शुभ एवं ज्योतिर्मय है जिसे वे तपस्वीजन (यतिजन) देखते हैं जो दोषमुक्त हो चुके हैं।
॥ शब्दावली ॥
यम् - yam - whom
क्षीणदोषाः - kṣīṇadoṣāḥ - by the perishing of their blemishes
यतयः - yatayaḥ - the doers of askesis
पश्यन्ति - paśyanti - behold
एषः - eṣaḥ - this
ज्योतिर्मयः - jyotirmayaḥ - made all of light
शुभ्रः - śubhraḥ - radiant
आत्मा हि - ātmā hi - Self
अन्तःशरीरे - antaḥśarīre - that is in the inner body
नित्यम् - nityam - always
सत्येन - satyena - by truth
तपसा - tapasā - by self-discipline
सम्यग्ज्ञानेन - samyagjñānena - by integral knowledge
ब्रह्मचर्येण हि - brahmacaryeṇa hi - by a life of purity
लभ्यः - labhyaḥ - the Self can be won

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know