बृहच्च तद् दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति। दूरात् सुदूरे तदिहान्तिके च पश्यन्त्विहैव निहितं गुहायाम् ॥
॥ लिप्यन्तरणम् ॥
bṛhacca tad divyamacintyarūpaṁ sūkṣmācca tat sūkṣmataraṁ vibhāti | dūrāt sudūre tadihāntike ca paśyantvihaiva nihitaṁ guhāyām ||
॥ अन्वयः ॥
तत् बृहत् दिव्यम् अचिन्त्यरूपं च बिभाति। तत् सूक्ष्मात् सूक्ष्मतरं च तत् दूरात् सुदूरे इह अन्तिके इह एव पश्यत्सु गुहायां निहितं च ॥
॥ अन्वयलिप्यन्तरणम् ॥
tat bṛhat divyam acintyarūpaṁ ca bibhāti| tat sūkṣmāt sūkṣmataraṁ ca tat dūrāt sudūre iha antike iha eva paśyatsu guhāyāṁ nihitaṁ ca ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मनः बृहत्त्वादिविशेषणोक्तिः ]
ननु स्यात्परिच्छिन्नं दृष्टसजातीयं वा तत्, यस्य देशं देवयानेन पथा ऋषयः प्राप्नुवन्ति, देशो वा पन्था वा यस्य स हि परिच्छिन्नो दृष्टसजातीयश्चेति मन्दस्य शङ्कामपनुदन्विशिनष्टि बृहच्चेत्यादिना ।
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके च पश्यत्स्विहैव निहितं गुहायाम् ॥७॥
तच्च बृहत् - चस्त्वर्थे, भिन्नक्रमश्च, यत्सत्यस्य परमं निधानं तत्तु बृहत्, असङ्कोचन्यायेन सर्वतो बृहत्त्वं गम्यते । स्वरूपतः स्वभावतश्चापरिच्छिन्नमिति यावत् । स्थानविशेषेऽभिव्यक्तिर्न परिच्छिन्नत्वावहेति भावः । नापि दृष्टसजातीयं तत्, किन्तु दिव्यम् - अत एवाचिन्त्यरूपम् - अप्रतर्क्यस्वरूपम्, दृष्टसजातीये हि तर्कः । सूक्ष्माच्चाकाशाज्जीवात्मनश्च तत्सूक्ष्मतरम्, सर्वत्रान्तः प्रविष्टत्वात्, सर्वकारणत्वाच्च । विभाति - विशेषत: प्रकाशते । दूरात्सुदूरे अत्यन्तं दूरे । इह - सन्निहिते प्रदेशे, तत्राप्यन्तिके - अत्यन्तसमीप इति यावत् । कथमेकस्यैव विप्रकृष्टता सन्निकृष्टता चेत्याशङ्कामधिकारिभेदेन वारयन्नाह - पश्यत्स्विहैव निहितं गुहायाम् - ये नाम योगकलया साक्षात्कर्तुं प्रभवन्ति तेषु विषये इहैव शरीरे हृदयगुहायां सन्निहितम्, तेषां हृदयकमल एव प्रकाशमानतयाऽत्यन्तं सन्निहितम् । अविदुषां त्वगोचरत्वेनात्यन्तविप्रकृष्टमिति भावः ॥७॥
॥ आङ्गल-अर्थः ॥
Vast is That, divine, its form unthinkable; it shines out subtler than the subtle: very far and farther than farness, it is here close to us, for those who have vision it is even here in this world; it is here, hidden in the secret heart.
॥ हिन्दी-अर्थः ॥
वह 'परतत्त्व' अतिविस्तृत (वृहत्) है, दिव्य है, इसका रूप अचिन्त्य है; यह सूक्ष्म से भी सूक्ष्मतर आभासित होता हैː दूरता से भी दूरतर अतिदूर है, यह यही हमारे अतिसमीप है, सत्यद्रष्टाओं के लिए वह यहीं, इसी जगत् में है; यह यहीं हृद्गुहा में निहित है।
॥ शब्दावली ॥
तत् बृहत् - tat bṛhat - Vast is That
दिव्यम् - divyam - divine
अचिन्त्यरूपम् च - acintyarūpam ca - and its form unthinkable
तत् - tat - it
सूक्ष्मात् सूक्ष्मतरम् - sūkṣmāt sūkṣmataram - subtler than the subtle
बिभाति - bibhāti - shines out
दूरात् सुदूरे - dūrāt sudūre - very far and farther than farness
तत् इह अन्तिके - tat iha antike - it is here close to us
इह एव - iha eva - it is even here in this world
पश्यत्सु - paśyatsu - for those who have vision
गुहायाम् - guhāyām - in the secret heart
निहितम् च - nihitam ca - hidden

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know