तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥
॥ लिप्यन्तरणम् ॥
tasmiṁstvayi kiṁ vīryamityapīdaṁ sarvaṁ daheyaṁ yadidaṁ pṛthivyāmiti ||
॥ अन्वयः ॥
तस्मिन् त्वयि किं वीर्यम् इति। पृथिव्याम् इदं यत् अस्ति इदं सर्वम् अपि दहेयम् इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
tasmin tvayi kiṁ vīryam iti | pṛthivyām idaṁ yat ( asti ) idaṁ sarvam api daheyam iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ यक्षाग्निसंवादः अग्नेः पराजयः ]
एवं प्रत्युक्तं यक्षस्वरूपमाह - तस्मिन् इति ।
तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥५॥
तस्मै तृणं निदधावेतद्दति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् ।
स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥६॥
अग्निरहं जातवेदा वाऽहमिति बहुनामभिः प्रख्यापितात्मवैभवे त्वयि किं वीर्यमिति । एवं पृष्टोऽग्निः साभिमानमाह यदिदं पृथिव्यां सर्वमपीदं दहेयमिति । तस्मै तृणं निदधौ तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुम् - स्फुटमेतत् । सः - भग्नमानोऽग्निः एतद्यक्षं यत् - यत्स्वरूपम्, एतद्विज्ञातुम् - सम्यग्ज्ञातुम्, नाशकम् इति मत्वेति शेषः, तत एव तत्क्षणादेव, निववृते - गतमानो गतवेगः क्षणमप्यसन्निधायापससारेति भावः ॥५-६॥
॥ आङ्गल-अर्थः ॥
“Since such thou art, what is the force in thee?” “Even all this I could burn, all that is upon the earth.”
॥ हिन्दी-अर्थः ॥
''यदि तुम ऐसे हो, तो तुम्हारे अन्दर क्या शक्ति (वीर्य) है? ''इस सबको, इस पृथ्वी पर जो कुछ है, उस सबको मैं भस्म कर सकता हूँ।
॥ शब्दावली ॥
तस्मिन् - tasmin - such being the case
त्वयि - tvayi - in thee
किम् - kim - what
वीर्यम् - vīryam - the force
इति - iti - thus (the Yaksha asked Agni)
पृथिव्याम् - pṛthivyām - upon the earth
इदम् - idam - all this
यत् - yat - that
अस्ति - asti - is
इदम् सर्वम् - idam sarvam - all this
अपि - api - even
दहेयम् - daheyam- I could burn
इति - iti - thus (the Agni replied to the Yaksha)

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know