नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्। उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥
॥ लिप्यन्तरणम् ॥
nāciketamupākhyānaṁ mṛtyuproktaṁ sanātanam | uktvā śrutvā ca medhāvī brahmaloke mahīyate ||
॥ अन्वयः ॥
मेधावी इदं मॄत्युप्रोक्तं सनातनं नाचिकेतम् उपाख्यानम् उक्त्वा श्रुत्वा च ब्रह्मलोके महीयते ॥
॥ अन्वयलिप्यन्तरणम् ॥
medhāvī ( idaṁ ) mṝtyuproktaṁ sanātanaṁ nāciketam upākhyānam uktvā śrutvā ca brahmaloke mahīyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नाचिकेतोपाख्यानश्रवणफलम् ]
श्रुतिरिममुपदेशं स्तौति -
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥१६॥
नाचिकेतम् - नचिकेतसा प्राप्तम् । सनातनम् अपौरुषेयत्वात् । एवम्भूतमिदम् उपाख्यानं गुरुभ्यः श्रुत्वा शिष्येभ्यः उक्त्वा च ब्रह्मलोके महीयते ॥१६॥
॥ आङ्गल-अर्थः ॥
The man of intelligence having spoken or heard the eternal story of Nachiketas wherein Death was the speaker, grows great in the world of the Brahman.
॥ हिन्दी-अर्थः ॥
मेधावी व्यक्ति नचिकेता के इस सनातन उपाख्यान को कहकर अथवा सुनकर, जिसके वक्ता थे मृत्युदेव, ब्रह्मलोक में महिमान्वित होता है।
॥ शब्दावली ॥
मेधावी - medhāvī - the man of intelligence
मॄत्युप्रोक्तम् - mṝtyuproktam - wherein Death was the speaker
नाचिकेतम् - nāciketam - of Nachiketas
सनातनम् उपाख्यानम् - sanātanam upākhyānam - the eternal story
उक्त्वा श्रुत्वा च - uktvā śrutvā ca - having spoken or heard
ब्रह्मलोके - brahmaloke - in the world of the Brahman
महीयते - mahīyate - grows great
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know