संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥
॥ लिप्यन्तरणम् ॥
saṁprāpyainamṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ te sarvagaṁ sarvataḥ prāpya dhīrā yuktātmānaḥ sarvamevāviśanti ||
॥ अन्वयः ॥
एनम् सम्प्राप्य ऋषयः ज्ञानतृप्ताः कृतात्मानः वीतरागाः प्रशान्ताः भवन्ति ते युक्तात्मानः धीराः सर्वगं सर्वतः प्राप्य सर्वम् एव आविशन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
enam samprāpya ṛṣayaḥ jñānatṛptāḥ kṛtātmānaḥ vītarāgāḥ praśāntāḥ ( bhavanti ) te yuktātmānaḥ dhīrāḥ sarvagaṁ sarvataḥ prāpya sarvam eva āviśanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ज्ञानिनां परमात्मना परमसाम्यापत्तिप्राप्तिः ]
अनिष्पन्नयोगस्य यतमानस्य बलादिपरिकरः प्रोक्तः । अथ निष्पन्नयोगस्य स्थितिर्निरूप्यते सम्प्राप्यैनमिति ।
सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति ॥५॥
ऋषयः तत्त्वदर्शिनः, निष्पन्नयोगा इति यावत् । एनम् - परमात्मानम् । सम्प्राप्य - समुपलभ्य समाधिसमये । ज्ञानतृप्ताः तत्साक्षात्काररूपेण ज्ञानेनैव सर्वदा तृप्ताः । अत एव कृतात्मानः - कृतस्वरूपाः, निष्पन्नस्वरूपा इति यावत् । यस्त्वन्नपानादिना तृप्तः स ह्यस्तस्वरूपः । वीतरागाः प्रशान्ताः - प्रकर्षेण शान्ता:, निस्तरङ्गार्णववदप्रकम्पाशयाः, अस्तवासनोर्मय इति यावत् । भवन्तीति शेषः । ते हि धीरास्तं सर्वतः प्राप्नुवन्ति - उपलभन्ते । कुत: ? स हि सर्वगः, न ह्यनेनात्मतयाऽनधिष्ठितमेकं वा, एते च ऋषयः, समुपलब्धस्तु समाधौ यथावस्थितमयमात्मा, तदेतेषां धीराणां निष्पन्नयोगानां यतो यतो दृष्टि - स्ततस्ततः समुपलभ्यते परमात्मैव । भावास्तु सर्वे शब्दादय इवाकाशस्य तस्योपसर्जनभूताः प्रकाशन्ते । तत्तत्र तत्र तत्तदुपसृष्टः स एव समुपलभ्यते, तत्ते सर्वगं सर्वतः प्राप्य युक्तात्मानः सर्वमेवाविशन्ति - तस्मिन्नेव सर्वान्तर्यामिणि स्वेतरसमस्तवस्तुप्रकारके युक्तः प्राधान्येन योजित आत्मा मनो येषां ते तथाभूताः सन्तः, ‘ज्योतींषि विष्णुर्भुवनानि विष्णुः' (विष्णुपुराणम् - २.१२.३८) इति सर्वमेवानुभवन्ति । 'अहं मनुरभवं सूर्यश्चाहं कक्षीवानृषिरस्मि' (ऋग्वेद.सं. ४.२६.१) इति सर्वं स्वात्मात्मकतयाऽनुभवन्तीति वा ।
अपरे तु - मुक्तिदशा निरूप्यते, तत्र पूर्वार्धे नार्थभेदः, ते धीरा युक्तात्मानः सर्वतः सर्वगं सर्वदेशावच्छेदेन सर्ववस्तुगतं परमात्मानं प्राप्य स्वयमपि सर्वमाविशन्ति, सर्वव्यापिनो भवन्तीत्यर्थः । ' स चानन्त्याय कल्पते' इति श्रुतेः । आनन्त्यं च स्वरूपतः स्वभावतो वा। तत्राव्याकुलो ऽन्तिमः पक्ष इति ॥५॥
॥ आङ्गल-अर्थः ॥
Attaining to him, seers glad with fullness of knowledge, perfected in the Self, all passions cast from them, tranquillised, -these, the wise, come to the all-pervading from every side, and, uniting themselves with him, enter utterly the All.
॥ हिन्दी-अर्थः ॥
'उसे' प्राप्त करके, ज्ञान की पूर्णता से संतृप्त ऋषिगण जिन्होंने 'आत्मा' की पूर्णता प्राप्त कर ली है, जो समस्त कामनाओं से मुक्त (वीतराग) हैं, प्रशान्त हैं, उस सर्वव्यापी को सब ओर से प्राप्त करते हैं तथा उससे स्वयं को युक्त करके ये विद्वान् उस 'सर्वात्म-रूप' में पूर्णरूप से प्रवेश कर जाते हैं।
॥ शब्दावली ॥
एनम् सम्प्राप्य - enam samprāpya - attaining to him
ऋषयः - ṛṣayaḥ - seers
ज्ञानतृप्ताः - jñānatṛptāḥ - glad with fullness of knowledge
कृतात्मानः - kṛtātmānaḥ - perfected in the Self
वीतरागाः - vītarāgāḥ - all passions cast from them
प्रशान्ताः - praśāntāḥ - tranquillised
ते धीराः - te dhīrāḥ - these, the wise,
सर्वगम् - sarvagam - to the all-pervading
सर्वतः - sarvataḥ - from every side
प्राप्य - prāpya - having come
युक्तात्मानः - yuktātmānaḥ - uniting themselves with him
सर्वम् एव - sarvam eva - the All
आविशन्ति - āviśanti - enter utterly
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know