नायमात्मा बलहीनेन लभ्यो न च प्रमादात् तपसो वाप्यलिङ्गात्। एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥
॥ लिप्यन्तरणम् ॥
nāyamātmā balahīnena labhyo na ca pramādāt tapaso vāpyaliṅgāt | etairupāyairyatate yastu vidvāṁstasyaiṣa ātmā viśate brahmadhāma ||
॥ अन्वयः ॥
अयम् आत्मा बलहीनेन न लभ्यः प्रमादात् च न वा अलिङ्गात् तपसः अपि न लभ्यः यः विद्वान् एतैः उपायैः यतते तस्य एषः आत्मा ब्रह्मधाम विशते ॥
॥ अन्वयलिप्यन्तरणम् ॥
ayam ātmā balahīnena na labhyaḥ pramādāt ca na vā aliṅgāt tapasaḥ api ( na labhyaḥ ) yaḥ vidvān etaiḥ upāyaiḥ yatate tasya eṣaḥ ātmā brahmadhāma viśate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मप्राप्त्यै बलादि उपायाः ]
अथान्वयव्यतिरेकाभ्यां बलादेः परिकरत्वं निरूपयति - नायमात्मेति ।
नायमात्मा बलहीनेन लभ्यो नच प्रमादात्तपसो वाऽप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम ॥४॥
अयमुक्तलक्षणलक्षितः परमात्मा बलहीनेन न लभ्यः । बलं च शारीरं मानसं च । तत्र शारीरं बलं व्याध्यादिभिरशिथिलता शरीरस्य । असति तस्मिन्बले व्याक्षिप्तं चित्तमात्मप्रणिधानाय न प्रकल्पेत । तथैवासति च मानसे बले धृत्यात्मके । नायमात्मा लभ्यः । न च प्रमादात् प्रमादोऽनवधानम् । तपसो वाऽप्यलिङ्गात् यल्लिङ्गमाश्रमस्य वर्णस्य च तद्रहितेन तपसा न लभ्यः । 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (योगदर्शनम् - २.१) इति पातञ्जलदर्शने तपसो योगोपकारकत्वमुक्तम् । विहाय वर्णाश्रमलिङ्गमनुष्ठितं नोपकारकमिति भावः।
यद्वा - लिङ्गं लक्षणम्, तपसो हि लक्षणं ज्ञानम्, विना ज्ञानलवं तपसे प्रवृत्तस्तु तपस्व्याभास एव । तस्माद्विना ज्ञानं क्रियमाणात्कायक्लेशमात्रफलकात्तपसो नायमात्मा लभ्यः । एवं व्यतिरेक उक्त: । अथान्वयमाह - यस्तु विद्वानेतैर्बलादिभिरुपायैरात्मध्यानाय यतते, तस्य विदुष आत्मा - स्वरूपं ब्रह्माख्यं धाम विशते प्राप्नोति । स विद्वान् प्रविशतीति यावत् ॥४॥
॥ आङ्गल-अर्थः ॥
This Self cannot be won by any who is without strength, nor with error in the seeking, nor by an askesis without the true mark: but when a man of knowledge strives by these means his self enters into Brahman, his abiding place.
॥ हिन्दी-अर्थः ॥
यह 'परमात्मा' बलहीन व्यक्ति के द्वारा लभ्य नहीं है, न ही प्रमादपूर्ण प्रयास से, और न ही लक्षणहीन तपस्या के द्वारा प्राप्य है, किन्तु जब कोई विद्वान् इन उपायों के द्वारा प्रयत्न करता है तो उसका आत्मा ब्रह्म-धाम में प्रवेश कर जाता है।
॥ शब्दावली ॥
अयम् आत्मा - ayam ātmā - this Self
बलहीनेन - balahīnena - the one who is without strength
न लभ्यः - na labhyaḥ - cannot be won
न च प्रमादात् वा - na ca pramādāt vā - nor with error in the seeking
अलिङ्गात् तपसः अपि - aliṅgāt tapasaḥ api - nor even by an askesis without the true mark
यः विद्वान् - yaḥ vidvān - but when a man of knowledge
एतैः उपायैः - etaiḥ upāyaiḥ - by these means
यतते - yatate - strives
तस्य एषः आत्मा - tasya eṣaḥ ātmā - his self
ब्रह्मधाम - brahmadhāma - into Brahman, his abiding place
विशते - viśate - enters
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know