Ad Code

वेदान्तविज्ञानसुनिश्चितार्थाः



वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्‌ यतयः शुद्धसत्त्वाः। ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥

लिप्यन्तरणम्

vedāntavijñānasuniścitārthāḥ saṁnyāsayogād yatayaḥ śuddhasattvāḥ | te brahmalokeṣu parāntakāle parāmṛtāḥ parimucyanti sarve ||

अन्वयः

वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगात् शुद्धसत्त्वाः ते सर्वे यतयः परान्तकाले ब्रह्मलोकेषु परामृताः परिमुच्यन्ति ॥

अन्वयलिप्यन्तरणम्

vedāntavijñānasuniścitārthāḥ sannyāsayogāt śuddhasattvāḥ te sarve yatayaḥ parāntakāle brahmalokeṣu parāmṛtāḥ parimucyanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ ब्रह्मज्ञानेन मुक्ति: ]

एवमुपायो निरूपितः, अथ फलप्रकारो निरूप्यते ।

वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥६॥

वेदान्तानां श्रुतिशिरसां विज्ञानेन यथावस्थितार्थावगमेन सुनिश्चितः अर्थः उपायोपेयादिर्येषां तथाभूताः । सन्न्यासयोगात् - सर्वकामनात्यागयोगात् । शुद्धसत्त्वाः निर्मलान्तःकरणाः । यतयः - यतनशीलाः, परमात्मध्यान एव सर्वदा प्रवर्तमाना इति यावत् । ते  सर्वे - एवम्भूतब्रह्मदर्शिनः सर्वे । परान्तकाले जन्मानुत्तरतयाऽन्येभ्योऽन्तकालेभ्यः परः उत्कृष्टो योऽन्तकालः प्रारब्धशरीरावसानसमयः तस्मिन्समये । परामृताः सन्तः - परं सर्वोत्कृष्टममृतमानन्दमयत्वाद्धोग्यभूतं ब्रह्मतत्त्वं येषां तथाभूताः सन्तः, अन्तिमसमये परमानन्दमयं परमात्मानं स्मरन्त इति यावत् । ब्रह्मलोकेषु परिमुच्यन्ति, ब्रह्मणस्तेषु तेषु लोकेषु सन्निधाय सर्वतो मुक्ता भवन्ति । श्रूयते च परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते' (छांदोग्योपनिषद् - ८.१२.२) इति । ते ब्रह्मलोकेषु परामृताः परान्तकाले परिमुच्यन्तीति वाऽन्वयः ।

आशयश्चायम् - ये नाम वेदान्तविज्ञानसुनिश्चितार्था न, न वा सन्न्यासयोगाच्छुद्धसत्त्वाः अयतयो वा तेषां ह्यमृतमिहैव लोके, न हि तेषां वित्तपुत्रादिभ्योऽन्यदमृतमस्ति । ये पुनर्वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वास्तेषां हि परममृतं ब्रह्मणो लोकेष्वेव, तत् ब्रह्मलोकेषु परामृतास्ते । तथाभूतास्ते प्रारब्धशरीरावसानकाल एवं परिमुच्यन्ति, सर्वकर्मबन्धविनिर्मुक्ता भवन्तीति ।

परे तु - ये यतयः - तुर्याश्रमिणः, सन्न्यासयोगात् - एषणात्रयत्यागेन, शुद्धसत्त्वाः निर्मलान्त:करणाः, केवलं वेदान्तविज्ञानसुनिश्चितार्थाः - मुमुक्षया कृतवेदान्तविचारा:, ते हि न सपदि मुच्येरन् बन्धनतः, विरक्ता नाम ते वित्तपुत्रदारादिभ्यः, अत एव वैराग्ययोगात्तुर्याश्रमे प्रविष्टाश्च, आश्रमानुगुणया मुमुक्षया श्रुतश्च गुरुमुखत उपनिषदर्थ:, तेन चायमुपायोऽयमुपेय इति च विनिश्चितं नाम, किं तावता परोक्षभूतेन तेन विज्ञानेन यावदेभिर्न साधितस्तत्साक्षात्कारायोपायः, न सिद्धस्तत्साक्षात्कारः, तावदेतेऽनृषयः, केवलं यतयः कथं मुच्येरंस्तुर्याश्रमगौरवेण परं तु ते सर्वे तेन गौरवेण ब्रह्मणो हिरण्यगर्भस्य लोकेषु प्रविश्य तत्र क्रमशः प्राप्तब्रह्मसाक्षात्काराः, ब्रह्मैव परममृतं भावयन्तः, योऽयमायुः परिमाण: (हिरण्यगर्भस्य ) पर इति नाम्ना प्रसिद्धस्तस्यान्ते परिमुच्यन्ति संसृतिबन्धनतः । एवमनेन मन्त्रेण यतीनामनिष्पन्नयोगानां क्रममुक्तिरुक्ता । ये पुनर्निष्पन्नयोगास्तेषां सत्यपि प्रारब्धशरीरे सर्वदा सर्वत्र ब्रह्मसाक्षात्कारयोगेन करस्थत्वान्मुक्तेः सपदि मोक्षस्तेषामिति पूर्वमन्त्रे सूचितम् । अत एव तत्र ऋषय इति पदमिति वदन्ति । ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्व इति पाठे तु - परान्तकाले स्मर्यमाणात्परामृतस्वरूपात्परमात्मनो हेतोः ब्रह्मणो लोके प्रविष्टा मुक्ता भवन्तीत्यर्थः ॥६॥

आङ्गल-अर्थः

Doers of askesis who have made sure of the aim of the whole knowledge of Vedanta, the inner being purified by the Yoga of renunciation, all in the hour of their last end passing beyond death are released into the worlds of the Brahman.

हिन्दी-अर्थः

वे तपस्वीजन जिन्होंने वेदान्त के समग्रज्ञान (विज्ञान) के लक्ष्य११ को निश्चित रूप से जान लिया है, संन्यासयोग के द्वारा जिनकी अन्तर सत्ता पूर्णतः परिशुद्ध हो चुकी है, वे सब अपने अन्तकाल में, मृत्यु के परे जाकर ब्रह्मलोक में सर्वथा मुक्त हो जाते हैं।

शब्दावली

वेदान्तविज्ञानसुनिश्चितार्थाः - vedāntavijñānasuniścitārthāḥ - who have made sure of the aim of the whole knowledge of Vedanta

यतयः - yatayaḥ - doers of askesis

सन्न्यासयोगात् - sannyāsayogāt - by the Yoga of renunciation

शुद्धसत्त्वाः - śuddhasattvāḥ - whose inner being is purified

ते सर्वे - te sarve - they all

परान्तकाले - parāntakāle - in the hour of their last end

ब्रह्मलोकेषु - brahmalokeṣu - into the worlds of the Brahman

परामृताः - parāmṛtāḥ - passing beyond death

परिमुच्यन्ति - parimucyanti - are released

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code