Ad Code

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वै

 


अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कार आत्मैव संविशत्यात्मनात्मानं य एवं वेद य एवं वेद ॥

॥ लिप्यन्तरणम्

amātraścaturtho'vyavahāryaḥ prapañcopaśamaḥ śivo'dvaita evamoṅkāra ātmaiva saṁviśatyātmanātmānaṁ ya evaṁ veda ya evaṁ veda ||

अन्वयः

अमात्रः अव्यवहार्यः प्रपञ्चोपशमः शिवः अद्वैतः चतुर्थः एवम् ओंकारः आत्मा एव। यः एवं वेद सः आत्मना आत्मानं संविशति ॥

अन्वयलिप्यन्तरणम्

amātraḥ avyavahāryaḥ prapañcopaśamaḥ śivaḥ advaitaḥ caturthaḥ evam oṁkāraḥ ātmā eva| yaḥ evaṁ veda ( saḥ ) ātmanā ātmānaṁ saṁviśati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

चतुर्थ: खण्ड:

[ प्रणवस्थनादस्य निरूपणम् ]

अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत एवमोङ्कारः, आत्मैव संविशत्यात्मनात्मानं य एवं वेद य एवं वेद ॥१॥

अमात्रश्चतुर्थः - जाग्रदाद्यवस्थात्रयातीतश्चतुर्थः शुद्धः प्रत्यगात्मा, अमात्रः न विद्यते मात्रा आलम्बनं यस्य । विश्वादयो ह्यस्यांशाः प्रणवांशभूतमात्रावलम्बना:, अयं त्वंशी चतुर्थः न मात्रालम्बनः, किन्तु विशिष्टप्रणवालम्बन एवेति भावः । यद्वा - अमात्रः - परिच्छेदशून्य इत्यर्थः । अद्वैत इत्यन्तं पूर्ववद्व्याख्येयम् । एवमोङ्कारः - अकारादिमात्रासु विश्वादिचिन्तनपूर्वकं प्रणवे चतुर्थं शुद्धप्रत्यगात्मानं विचिन्तयेदिति भावः । न केवलमवस्थात्रयातीतत्वेन, अपि तु ब्रह्मात्मकत्वेनापीति बोध्यम् । प्रक्रमे हि तु 'सोऽयमात्मा चतुष्पादि 'त्यत्र तच्छब्देन ब्रह्मात्मकत्वं प्रस्तुतम् । य एवं वेद सोऽयमात्मैव स्वयमेव आत्मनैव स्वेनैव रूपेणैवमुपासितेन साधनेनात्मानं स्वस्वरूपमेव विशुद्धं संविशति । वस्तुतस्त्वस्या उपनिषद: प्राचीनैः विश्वो वैश्वानरः जाग्रद्दशानिर्वाहकः वैश्वानरविद्योक्तः परमात्मनोऽवतारविशेष:, तैजसः स्वाप्नदशानिर्वाहकः प्रद्युम्नो व्यूहविशेषः, प्राज्ञः सुषुप्तिनिर्वाहकः सङ्कर्षणः, चतुर्थ: परो वासुदेवः, एवं परमात्मा चतुष्पात्, अस्मिन्नेव यथाक्रमं व्यस्तसमस्तप्रणवदृष्टिर्विधीयत इति यद्व्याख्यातं तदव्याक्षेपम् । शब्दार्थक्रमस्तु तत एवावगन्तव्यः ॥१॥

॥ इति माण्डूक्योपनिषद्भाष्ये चतुर्थः खण्डः ॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंस-वर्य्ययोगिराजश्रीगोपालानन्दस्वामिविरचितं माण्डूक्योपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

आङ्गल-अर्थः

Lette fourth, the Incommunicable, the end of phenomena, the Good, the One than Whom there is no other; thus is OM. He that knoweth is the Self and entereth by his self into the Self, he that knoweth, he that knoweth.

हिन्दी-अर्थः

चतुर्थ है 'अवर्णाक्षर' (अमात्रा), 'अव्यवहार्य', इस (सृष्टि) प्रपञ्च का उपशम अर्थात् अन्त, परम मंगलकारी-'शिव', 'अद्वैत' (अद्वितीय) ऐसा है 'ओम्'। 'आत्मा' ही आत्मा के द्वारा 'आत्मा' में प्रवेश करके 'आत्मा' को जानता है, जो यह जानता है, वही यह जानता है।

शब्दावली

अमात्रः - amātraḥ - letterless

अव्यवहार्यः - avyavahāryaḥ - the Incommunicable

प्रपञ्चोपशमः - prapañcopaśamaḥ - the end of phenomena

शिवः - śivaḥ - the Good

अद्वैतः - advaitaḥ - the One than Whom there is no other

चतुर्थः - caturthaḥ - is the fourth

एवम् ओंकारः - evam oṁkāraḥ - thus is OM

आत्मा एव - ātmā eva - the Self

आत्मना - ātmanā - by his self

आत्मानम् - ātmānam - into the Self

संविशति - saṁviśati - entereth


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code