Ad Code

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया



सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥

लिप्यन्तरणम्

suṣuptasthānaḥ prājño makārastṛtīyā mātrā miterapītervā minoti ha vā idaṁ sarvamapītiśca bhavati ya evaṁ veda ||

अन्वयः

सुषुप्तस्थानः प्राज्ञः तृतीया मात्रा मकारः। मितेः अपीतेः वा यः एवं वेद सः ह वै इदं मिनोति। अपीतिः च भवति ॥

अन्वयलिप्यन्तरणम्

suṣuptasthānaḥ prājñaḥ tṛtīyā mātrā makāraḥ| miteḥ apīteḥ vā yaḥ evaṁ veda ( saḥ ) ha vai idaṁ minoti| apītiḥ ca bhavati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ तृतीयमात्रायाः मकारस्य निरूपणम् ]

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वा मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥४॥

सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा - मकारे प्राज्ञं भावयेदिति यावत् । तत्र निमित्तं समानगुणयोगमाह - मितेरपीतेर्वेति । मिनोति हि प्राज्ञो जाग्रदवस्थं स्वाप्नावस्थं च तादात्म्येन स्वात्मनि, एवमकारोकारौ हि मकारो मिनोति, प्रणवस्य मकारावधित्वात् । अपीतिः - अप्यय:, नाशः । सुषुप्तौ ह्यस्तं गच्छतो नामरूपे, अत एव च जाग्रत्स्वाप्नयोरवसानभूमिरयम् । एवं प्रणवे मकारो ह्यवसानभूमिः । मिनोति ह वा इदं सर्वं य एवं वेद - य एवमुपास्ते सर्वमिदं मिनोति परिच्छिनत्ति जानाति, अस्यापीतिश्च भवति - दुःखक्षयो भवति ॥४॥

॥ इति माण्डूक्योपनिषद्भाष्ये तृतीयः खण्डः ॥

आङ्गल-अर्थः

The Sleeper, Prajna, the Lord of Wisdom, He is M, the third letter, because of Measure and Finality; he that knoweth Him for such measureth with himself the Universe and becometh the departure into the Eternal.

हिन्दी-अर्थः

सुषुप्त-अवस्थावाला, 'प्राज्ञ'-'प्रज्ञा का ईश्वर' मापने के कारण तथा 'अन्तिमावस्था' के कारण, 'वह' है 'मकार', तृतीय वर्णाक्षर; जो 'उसे' इस प्रकार जानता है वह अपने साथ सम्पूर्ण 'विश्व' को माप लेता है एवं 'ब्रह्म' में लीन हो जाता है।

शब्दावली

सुषुप्तस्थानः - suṣuptasthānaḥ - the Sleeper

प्राज्ञः - prājñaḥ - Prajna, the Lord of Wisdom

तृतीया मात्रा - tṛtīyā mātrā - the third letter

मकारः - makāraḥ - he is M

मितेः - miteḥ - because of Measure

अपीतेः वा - apīteḥ vā - and Finality

यः एवम् ह वेद - yaḥ evam ha veda - he that knoweth Him for such

इदम् वै - idam vai - the Universe

मिनोति - minoti - measureth with himself

अपीतिः च भवति - apītiḥ ca bhavati - and becometh the departure into the Eternal


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code