Ad Code

य इमं मध्वदं वेद आत्मानं



य इमं मध्वदं वेद आत्मानं जीवमन्तिकात्‌। ईशानं भूतभव्यस्य न ततो विजुगुप्सते। एतद्वै तत्‌ ॥

॥ लिप्यन्तरणम् ॥

ya imaṁ madhvadaṁ veda ātmānaṁ jīvamantikāt | īśānaṁ bhūtabhavyasya na tato vijugupsate | etadvai tat ||

॥ अन्वयः ॥

यः इमं मध्वदं जीवम् आत्मानं भूतभव्यस्य ईशानम् अन्तिकात् वेद सः ततः न विजुगुप्सते ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ imaṁ madhvadaṁ jīvam ātmānaṁ bhūtabhavyasya īśānam antikāt veda ( saḥ ) tataḥ na vijugupsate ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

पुनर्विशिनष्टि -

[त्रिकालवर्तिपदार्थनियामकः परमात्मा ]

य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते । एतद्वै तत् ॥५॥

य इदं मध्वदं जीवात्मानं वेद - अयमहमस्मि इत्यापाततः प्रतीयमानं कर्मफलभोक्तारं जीवात्मानं सम्यग्वेद, वेद चास्यान्तिके भूतभव्यस्येशानं परमात्मानम् । सः पश्चान्नात्मानं कुतश्चिज्जुगुप्सते - गोपायितुमिच्छेत्, भयाप्रसङ्गात् । स ह्यभयं गतो भवति ।

यद्वा - जुगुप्साशब्दः निन्दार्थकः । यः एतदुभयं वेत्ति, तं वर्णतो वृत्ततो वा विहीनमपि लोको न निन्देदित्यर्थः । सार्वविभक्तिकस्तसिः ।

यद्वा - सः ततः पश्चात् कमपि न निन्देदित्यर्थः । स्वस्य परस्य च हृदयगुहायां सन्निविष्टमेकमन्तर्यामिणं जानतो न तदवसरः, सर्वस्यैकात्मकत्वानुसन्धानादिति भावः । एतद्वै तत् - एतन्मन्त्रप्रतिपादितं सर्वस्येशभूतं तत् पूर्वं प्राप्यतयोक्तं स्वरूपमित्यर्थः । योऽसावनेन जीवेनात्मना सहानुप्रविश्य हृदयगुहां यथाकर्म नियमयन्नास्ते भूतभव्येशः स एव स इति यावत्॥५॥

॥ आङ्गल-अर्थः ॥

He that hath known from very close this Eater of sweetness, the Jiva, the Self within that is lord of what was and what shall be, shrinketh not thereafter from aught nor abhorreth any. This is the thing thou seekest.

॥ हिन्दी-अर्थः ॥

'' जिसने इस मधुरता के भोक्ता 'जीव' को, उस अन्तःस्थ 'आत्मा' को अत्यन्त समीपता से जान लिया, जो भूत और भविष्य का ईश्वर है तत्पश्चात् वह किसी से नहीं सकुचाता अथवा उसे किसी के प्रति जुगुप्सा नहीं होती। यही है 'वह', जिसकी तुम्हें अभीप्सा है।

॥ शब्दावली ॥

यः - yaḥ - he who

इमम् - imam - this

मध्वदम् - madhvadam - Eater of sweetness

जीवम् - jīvam - the Jiva

आत्मानम् - ātmānam - the Self within

भूतभव्यस्य ईशानम् - bhūtabhavyasya īśānam - lord of what was and what shall be

अन्तिकात् - antikāt - from very close

वेद - veda -

ततः - tataḥ - thereafter

न विजुगुप्सते - na vijugupsate - shrinketh not from aught nor abhorreth any

एतत् वै तत् - etat vai tat - this is the thing thou seekest

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code