श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः। अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥
॥ लिप्यन्तरणम् ॥
śvobhāvā martyasya yadantakaitatsarvendriyāṇāṁ jarayanti tejaḥ | api sarvaṁ jīvitamalpameva tavaiva vāhāstava nṛtyagīte ||
॥ अन्वयः ॥
अन्तक त्वदुक्ताः भोगः श्वोभाबाः किञ्च मर्त्यस्य सर्वेन्द्रियाणां यत् तेजः एतत् जरयन्ति अपि सर्वम् जीवितम् अल्पम् एव। तव वाहाः नृत्यगीते तव एव तिष्ठन्तु ॥
॥ अन्वयलिप्यन्तरणम् ॥
antaka ( tvaduktāḥ bhogaḥ ) śvobhābāḥ ( kiñca ) martyasya sarvendriyāṇāṁ yat tejaḥ etat jarayanti api sarvam jīvitam alpam eva| tava vāhāḥ nṛtyagīte tava eva ( tiṣṭhantu ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ यमेन बहुधा प्रलोभितस्यापि नचिकेतसः तत्तत्कामतिरस्करणम् ]
एवं मृत्युना प्रलोभ्यमानोऽपि नचिकेता महाबुद्धिरेव गभीराशयः मात्रयाऽपि अक्षुभितः प्राह श्वोऽभावा मर्त्यस्य इति ।
श्वोऽभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥२६॥
कामा इति शेषः । मर्त्यस्य कामाः - पुत्र-पौत्र - गवाश्व - हस्ति - हिरण्यप्रभृतयो मानुषभोगाः, श्वः अभावो येषां ते श्वोऽभावा: - दिनद्वयमपि न स्युः । अन्तक! त्वमसि मनुष्याणां जीवितहरः, जानासि नाम मानुषभोगस्थैर्यं कीदृशमिति । न हि सागरपरिघामेकः स्वशासनवशगाम् अनुभवन्नपि मेदिनीं सह पुत्र - मित्र - कलत्रादिभिः एकस्मिन्दिन इव अन्यस्मिन्दिनेऽपि स्वयं तिष्ठति सुखेन । यदेतद्वितीयं प्रलोभनम् अप्सरः प्रभृतिदिव्यभोगाः, त एते सर्वेन्द्रियाणां तेजो जरयन्ति इन्द्रियदौर्बल्यमेवापादयन्ति । वीर्य - प्रज्ञा - तेजो- यशःप्रभृतीनां विनाशका इति यावत् । या च चिरजीविका त्वयोक्ता साऽपि अजानतः प्ररोचनायैव । कुत: ? अपि सर्वं जीवितमल्पमेव - ब्रह्मणोऽपि जीवितम् अल्पमेव तदपि हि सावधि। तत् सर्वथा मानुषात् दिव्याद्वा भोगात् चिरजीविकातश्च विमुखस्य मे रथादिभिः एभि: किम् ? वाहाः नृत्तगीते वा, तवैव सन्तु त्वद्विभूतयः तवैव सन्तु ॥२६॥
॥ आङ्गल-अर्थः ॥
“Until the morrow mortal man has these things, O Ender, and they wear away all this keenness and glory of his senses; nay, all life is even for a little. Thine are these chariots and thine the dancing of these women and their singing.
॥ हिन्दी-अर्थः ॥
(नचिकेता कहता है) '' हे अन्तक! (अन्त करने वाले देव) मर्त्य मनुष्य के ये सब भोग पदार्थ कल तक ही रहने वाले हैं, ये सब इन्द्रियों की आतुरता तथा उनके तेज को जीर्णशीर्णं कर देते हैं, सम्पूर्ण जीवन भी स्वल्प मात्र ही है। आपके लिए ही हैं ये रथादि वाहन, आपके लिए ही हैं ये रमणीयों के नृत्य तथा गीत। *यह वाक्यांश संस्कृत के मूलपाठ में हैं, श्रीअरविन्द ने इसको शब्दशः अनुवाद में नहीं लिखा है।-अनुवादक
॥ शब्दावली ॥
अन्तक - antaka - O Ender!
मर्त्यस्य - martyasya - of the mortal man
एतत् - etat - all this
श्वोभाबाः - śvobhābāḥ - until the morrow
सर्वेन्द्रियाणाम् - sarvendriyāṇām - of the senses
यत् तेजः - yat tejaḥ - the glory
जरयन्ति - jarayanti - they wear away
सर्वम् जीवितम् - sarvam jīvitam - all life
अपि - api - also
अल्पम् एव - alpam eva - for a little
वाहाः - vāhāḥ - these chariots
तव एव - tava eva - thine only
नृत्यगीते - nṛtyagīte - the dancing of these women and their singing
तव एव - tava eva - thine only

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know