Ad Code

ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः



ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते। तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥

॥ लिप्यन्तरणम् ॥

ūrdhvamūlo'vākśākha eṣo'śvatthaḥ sanātanaḥ | tadeva śukraṁ tad brahma tadevāmṛtamucyate | tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana | etadvai tat ||

॥ अन्वयः ॥

ऊर्ध्वमूलः अवाक्शाखः एषः सनातनः अश्वत्थः। तत् एव शुक्रं। तत् ब्रह्म। तत् एव अमृतम् उच्यते। सर्वे लोकाः तस्मिन् श्रिताः। तत् उ कश्चन न अत्येति। एतत् वै तत् ॥

॥ अन्वयलिप्यन्तरणम् ॥

ūrdhvamūlaḥ avākśākhaḥ eṣaḥ sanātanaḥ aśvatthaḥ | tat eva śukraṁ| tat brahma| tat eva amṛtam ucyate| sarve lokāḥ tasmin śritāḥ| tat u kaścana na atyeti| etat vai tat ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

द्वितीयोऽध्यायः

तृतीया वल्ली (षष्ठी वल्ली )

[ परब्रह्मणः प्रकृत्यपेक्षया विलक्षणत्वप्रतिपादनम् ]

ब्रह्म दुरवबोधमिति पुनरुपदेशारम्भः । तत्रादौ प्रपञ्चाद्विलक्षणमिदं परं ब्रह्मेत्युच्यते - ऊर्ध्वमूल इति ।

ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थस्सनातनः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥१॥

एषः - परिदृश्यमानः प्रपञ्चः कोऽपि अश्वत्थः - श्वो न स्थास्यतीति तथा निरूप्यते । एतेन विनाशित्वादनुपादेयत्वं व्यज्यते । प्रसिद्धादश्वत्थादस्मिन्नश्वत्थे विशेषमाह ऊर्ध्वमूलोऽवाक्शाख इति । सर्वेषामुपरितनो हिरण्यगर्भोऽस्य मूलमित्यूर्ध्वमूलमुच्यते, ततोऽधोऽधो देवमनुष्यपशुपक्षिस्थावरान्तानां प्रसृतेरवाक् शाखत्वम् । परब्रह्मणो मूलत्वात् ऊर्ध्वमूलत्वं तु न योग्यं वक्तुम्, शाखायामिव मूलेऽपि वृक्षत्वप्राप्तेरनुपादेयत्वप्रसङ्गात् । अयं च सनातनः चिरन्तनः, अनादित्वात् संसारस्य । तमिममतिक्षुद्र सुखदुःखफलं प्रफुल्लधर्माधर्मकुसुमसञ्चयं परितः समुद्गतशब्दादिविषयप्रवालं प्रचलकर्मपलाशपरिपूर्णं दृढमूलं सर्वभूतोपजीव्यमसङ्गशस्त्रेण छेद्यमाह भगवान् - "अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा" (भगवद्गीता - १५.३) इति । परब्रह्म तु इतोऽत्यन्तविलक्षणम्, अमृतत्वाच्छुद्धत्वादुपादेयं प्रागुक्तमेवेति ज्ञापयति - तदेवेति । यदेव पूर्वमुक्तं - "य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः" (कठोपनिषद् - ५.८) इति । तस्यैव मन्त्रस्योत्तरो भाग इहानुश्रूयते ॥१॥

॥ आङ्गल-अर्थः ॥

This is the eternal uswattha tree whose roots are aloft, but its branches are downward. It is He that is called the Bright One and Brahman and Immortality, and in Him are all the worlds established; none goeth beyond Him. This is the thing thou seekest.

॥ हिन्दी-अर्थः ॥

''यह सनातन अश्वत्थ है जिसका मूल ऊपर है, किन्तु इसकी शाखाएँ नीचे हैं। 'वही' तेजोमय है, 'वही' एकमेव 'ब्रह्म' 'वही' 'अमृत' कहलाता है; 'उसी' में समस्त लोक आश्रित हैं, कोई भी 'उसके' परे नहीं जाता। यही है 'वह' जिसकी तुम्हें अभीप्सा है।

॥ शब्दावली ॥

ऊर्ध्वमूलः - ūrdhvamūlaḥ - whose roots are aloft

अवाक्शाखः - avākśākhaḥ - whose branches are downward

एषः - eṣaḥ - this

सनातनः - sanātanaḥ - the eternal

अश्वत्थः - aśvatthaḥ - uswattha / the fig tree

तत् एव शुक्रम् - tat eva śukram - It is He the Bright One

तत् ब्रह्म - tat brahma - It is He the Brahman

तत् एव अमृतम् - tat eva amṛtam - It is He the Immortality

उच्यते - ucyate - is called

सर्वे लोकाः - sarve lokāḥ - all the worlds

तस्मिन् - tasmin - in Him

श्रिताः - śritāḥ - are established

न कश्चन - na kaścana - none

तत् उ अत्येति - tat u atyeti - goeth beyond Him

एतत् वै तत् - etat vai tat - this is the thing thou seekest

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code