न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः। तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥
॥ लिप्यन्तरणम् ॥
na tatra sūryo bhāti na candratārakaṁ nemā vidyuto bhānti kuto'yamagniḥ | tameva bhāntamanubhāti sarvaṁ tasya bhāsā sarvamidaṁ vibhāti ||
॥ अन्वयः ॥
तत्र सूर्यः न भाति। चन्द्रतारकं न। इमाः विद्युतः न भान्ति। अयम् अग्निः कुतः भायात् । तं भान्तं एव सर्वं अनुभाति। तस्य भासा इदं सर्वं भाति ॥
॥ अन्वयलिप्यन्तरणम् ॥
tatra sūryaḥ na bhāti| candratārakaṁ na | imāḥ vidyutaḥ na bhānti| ayam agniḥ kutaḥ ( bhāyāt )| taṁ bhāntaṁ eva sarvaṁ anubhāti| tasya bhāsā idaṁ sarvaṁ bhāti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सर्वतेजसां प्रकाशकः परमात्मा ]
सर्वतेजसां छादकं सर्वतेजसामनुग्राहकं दिव्यं रूपं परस्य ब्रह्मणोऽस्ति इत्याशयेन प्रतिवक्ति - न तत्र इति ।
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः ।
तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति ॥१५॥
सूर्यादयो भगवतो दिव्यरूपसन्निधौ निष्प्रकाशाः । तमेव भान्तमनुभाति सर्वम् - दिव्यरूपं प्रकाशमानमेनमनुप्रकाशन्ते ते । तन्मूलकास्त इति भावः । तस्य भासा सर्वमिदं विभाति तदुपजीव्यप्रकाशाश्च ते इति यावत् ।
यद्वा- गौतमः पृच्छति तदेतदिति । अनिर्देश्यम् - प्राकृतानां वाङ्मनसागोचरं परमं सुखं तत् परब्रह्म, एतदिति करतलामलकवत्, व्यक्तमिति यावत् निष्पन्नयोगाः केचन भवादृशा मन्यन्ते । अहं कथं विजानीयाम् - अपरिनिष्पन्नयोगा मादृशाः कथं विजानीयुः इति यावत्, किमु भाति साधारणतया, उत विभाति विजातीयता प्रकाशते, प्रतिवक्ति यमः - न तत्रेति । अयं भावः यच्छङ्कसे योगिनो मन्यन्ते नाम, अयोगिनः कथं विजानीयुरिति ।
सत्यम् । अगतिरेवैषामत्र, न हि प्रकाशकैः सूर्यादिभिः इदं प्रकाश्यम्, येन इतरवस्तुवत् पामराणामपि इह दृष्टिः प्रसरेत्, न तत्र परब्रह्मणि परमसुखरूपे सूर्यो भाति, न चन्द्रतारकम्, नेमा विद्युतो भान्ति, अयमग्निः कुतः ? घटाद्यर्थेषु तु प्रकाशन्ते नात्रेति अत्र को विशेषस्तत्राह - तमेव भान्तमनुभाति सर्वम् - यम् अन्तर्यामिणं प्रकाशमानम् अनु सर्वमेतत् सूर्यादि प्रकाशते । तस्य भासा सर्वमिदं विभाति - विविक्तं भाति यस्य च प्रकाशोपजीव्यः एषां विविक्तः प्रकाशः, तस्यास्य कथं प्रकाशकमेतत्सर्वं भवेत् । तन्न इदमितरसजातीयतया प्रकाशते, किन्तु अत्यन्तविसजातीयतया । तदिदं परिनिष्पन्नयोगा एव तदेतत् इति साक्षात्कर्तुं शक्ता नान्य इति ॥१५॥
॥इति कठोपनिषद्भाष्ये द्वितीयाध्याये द्वितीया वल्ली ॥
॥ आङ्गल-अर्थः ॥
There the Sun cannot shine and the moon has no lustre; all the stars are blind; there our lightnings flash not, neither any earthly fire. For all that is bright is but the shadow of His brightness and by His shining all this shineth.
॥ हिन्दी-अर्थः ॥
''वहाँ सूर्य प्रकाशमान नहीं हो सकता तथा चन्द्रमा आभाहीन हो जाता है, समस्त तारागण ज्योतिहीन हो जाते हैं; वहाँ विद्युत् भी नहीं चमकती, न ही कोई पार्थिव अग्नि प्रकाशित होती है। कारण, जो कुछ भी प्रकाशमान् है, वह 'उस' की ज्योति की प्रतिच्छाया है, 'उस' की आभा से ही यह सब प्रतिभासित होता है।''
॥ शब्दावली ॥
तत्र - tatra - there
सूर्यः - sūryaḥ - the Sun
न भाति - na bhāti - cannot shine
चन्द्रतारकम् न - candratārakam na - the moon has no luster and all the stars are blind
इमाः विद्युतः - imāḥ vidyutaḥ - there our lightnings
न भान्ति - na bhānti - flash not
अयम् अग्निः - ayam agniḥ - any earthly fire
कुतः - kutaḥ - how?
तम् एव भान्तम् - tam eva bhāntam - He when shines
सर्वम् अनुभाति - sarvam anubhāti - all the rest shines
तस्य भासा - tasya bhāsā - by His shining
इदम् सर्वम् - idam sarvam - all this
विभाति - vibhāti - shineth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know