ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त। त ऐक्शन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥
॥ लिप्यन्तरणम् ॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta | ta aikśantāsmākamevāyaṁ vijayo'smākamevāyaṁ mahimeti ||
॥ अन्वयः ॥
ब्रह्म ह देवेभ्यः विजिग्ये। तस्य ब्रह्मणः विजये देवाः अमहीयन्त ह। ते ऐक्शन्त विजयः अस्माकम् एव अस्माकम् एव अयं महिमा च इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
brahma ha devebhyaḥ vijigye | tasya brahmaṇaḥ vijaye devāḥ amahīyanta ha | te aikśanta vijayaḥ asmākam eva asmākam eva ayaṁ mahimā ( ca ) iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तृतीयः खण्डः
[ इन्द्रियाणां कार्यकरणशक्तिकत्वे आख्यायिका ]
एवं प्रथमद्वितीयखण्डाभ्यां प्रश्नप्रतिवचनमुखेन करणाधिपाधिपस्वरूपम् उक्त्वा तृतीयखण्ड एतदाहितकरणशक्तिकानामेव तत्तत्कार्यविशेषकर्तृत्वसामर्थ्यम् आख्यायिका- मुखेनाह - ब्रह्म इति ।
ब्रह्म देवेभ्यो विजिग्ये । अथ तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥१॥
ब्रह्म- पुरा देवासुर संग्रामे, देवेभ्यः - देवानां निमित्ते, विजिग्ये विजयमकरोत् । देवानामन्तर्यामितया स्थितं ब्रह्म तेषां करणबलापादनेन विजयं तेभ्यः प्रायच्छदिति भावः । तदानीं ते देवा अमहीयन्त पूजिता अभवन् । अथाहम्भावेनास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ऐक्षन्त - अमन्यन्त ॥१॥
॥ आङ्गल-अर्थः ॥
The Eternal conquered for the gods and in the victory of the Eternal the gods grew to greatness. They saw, “Ours the victory, ours the greatness.”
॥ हिन्दी-अर्थः ॥
'ब्रह्म' ने देवगणों के लिए विजय प्राप्त की तथा 'ब्रह्म' की उस विजय में देवगण महिमान्वित हुए। उन्हें दिखाई पड़ा कि "यह विजय हमारी है, यह हमारी ही महिमा है ।”
॥ शब्दावली ॥
ब्रह्म - brahma - the Eternal
ह - ha - indeed
देवेभ्यः - devebhyaḥ - for the gods
विजिग्ये - vijigye - conquered
तस्य - tasya - of that
ब्रह्मणः - brahmaṇaḥ - Eternal
विजये - vijaye - in the victory
देवाः - devāḥ - gods
अमहीयन्त - amahīyanta - grew to greatness
ते - te - they
ऐक्शन्त - aikśanta - saw
विजयः - vijayaḥ - the victory, ours the greatness
अस्माकम् - asmākam - ours
एव - eva - alone
अस्माकम् - asmākam - ours
एव - eva - alone
अयम् - ayam - this
महिमा - mahimā - greatness
इति - iti - thus

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know