इह चेदवेदीदथ सत्यमस्ति। न चेदिहावेदीन्महती विनष्टिः। भूतेषु भूतेषु विचित्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥
॥ लिप्यन्तरणम् ॥
iha cedavedīdatha satyamasti | na cedihāvedīnmahatī vinaṣṭiḥ | bhūteṣu bhūteṣu vicitya dhīrāḥ | pretyāsmāllokādamṛtā bhavanti ||
॥ अन्वयः ॥
इह अवेदीत् चेत् अथ सत्यम् अस्तिन्। इह न अवेदीत् चेत् तदा महती विनष्टिः। तस्मात् धीराः भूतेषु भूतेषु विचित्य अस्मात् लोकात् प्रेत्य अमृताः भवन्ति॥
॥ अन्वयलिप्यन्तरणम् ॥
iha avedīt cet atha satyam astin | iha na avedīt cet ( tadā ) mahatī vinaṣṭiḥ| ( tasmāt ) dhīrāḥ bhūteṣu bhūteṣu vicitya asmāt lokāt pretya amṛtāḥ bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अस्मिन् जन्मनि ब्रह्मज्ञाने फलम् ]
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचिन्त्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥५॥
इह - प्राप्ते शास्त्राधिकारयोग्येऽस्मिन्नेव जन्मनि, अवेदीच्चेत् । अथ अनुपदम्, सत्यमस्ति अनश्वरं फलमस्ति । नावेदीच्चेन्महती विनष्टिः - महान् अनर्थः, संसारनिरयपात एव । धिया रमन्त इति धीराः आत्मतत्त्ववेदनशीलाः । भूतेषु भूतेषु - प्रतिभूतमन्तर्यामितया स्थितम्, विचिन्त्य - तेभ्यो विलक्षणत्वेनावधार्य । अस्माल्लोकात्प्रेत्य - निर्गत्य, निश्शेषं विनष्टपापा: प्राकृतमिमं लोकं समतिक्रम्य, देशविशेषं प्राप्य । अमृता भवन्ति - मुक्ता भवन्ति ॥५॥
॥ इति केनोपनिषद्भाष्ये द्वितीयः खण्डः ॥
॥ आङ्गल-अर्थः ॥
If here one comes to that knowledge, then one truly is; if here one comes not to the knowledge, then great is the perdition. The wise distinguish That in all kinds of becomings and they pass forward from this world and become immortal.
॥ हिन्दी-अर्थः ॥
यदि व्यक्ति यहीं (इसी लोक में) उस ज्ञान को प्राप्त कर लेता है तो व्यक्ति का अस्तित्व सार्थक है, यदि यहीं उस ज्ञान की प्राप्ति नहीं की, तो महाविनाश है। ज्ञानीजन विविध भूत-पदार्थों में 'उस' का विवेचन कर, इस लोक से प्रयाण करके अमर हो जाते हैं।
॥ शब्दावली ॥
इह - iha - here
अवेदीत् - avedīt - (one) comes to that knowledge
चेत् - cet - if
अथ - atha - then
सत्यम् अस्ति - satyam asti - one truly is
इह - iha - here
न अवेदीत् - na avedīt - comes not to the knowledge
चेत् - cet - if
महती - mahatī - (then) great
विनष्टिः - vinaṣṭiḥ - is the perdition
धीराः - dhīrāḥ - the wise
भूतेषु भूतेषु - bhūteṣu bhūteṣu - in all kinds of becomings
विचित्य - vicitya - distinguishing (That)
अस्मात् लोकात् - asmāt lokāt - from this world
प्रेत्य - pretya - having passed forward
अमृताः - amṛtāḥ - immortal
भवन्ति - bhavanti - (they) become

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know