यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः। मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥
॥ लिप्यन्तरणम् ॥
yasya brahma ca kṣatraṁ ca ubhe bhavata odanaḥ | mṛtyuryasyopasecanaṁ ka itthā veda yatra saḥ ||
॥ अन्वयः ॥
यस्य ब्रह्म च क्षत्रं च उभे ओदनः भवतः। यस्य मृत्युः उपसेचनं। सः यत्र अस्ति तत् इत्या कः वेदः ॥
॥ अन्वयलिप्यन्तरणम् ॥
yasya brahma ca kṣatraṁ ca ubhe odanaḥ bhavataḥ| yasya mṛtyuḥ upasecanaṁ| saḥ yatra ( asti ) ( tat ) ityā kaḥ vedaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सकलचराचरसंहर्ता परमात्मा ]
अथास्य महिमाऽपरिच्छेद्य इत्याह- यस्येति ।
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥२५॥
ब्रह्म च क्षत्रं च - इदमुपलक्षणं प्राणिमात्रस्य । यस्य इदम् ओदनम् उपसंहार्यमित्यर्थः । संहारकारणीभूतो मृत्युर्यस्य उपसेचनम् - संहारद्वारभूतं सत्स्वयं च संहार्यम् । सर्वस्यास्य चराचरप्रपञ्चस्य संहर्ता य इति भावः । सः परमात्मा यत्र महिम्नि वर्तते, तं महिमानम्, इत्था - इत्थमिति, को वेद - परिच्छिद्य को वेद ? न कोऽपीत्यर्थः । अपरिच्छिन्नमहिमाऽयमिति यावत् ।
यद्वा - परमात्मप्रसादादृते तत्त्वत: को वैनं वेत्तुमर्हति ? इत्याह यस्येति । यस्मिन्प्रकारेऽस्ति, तं प्रकारमित्थमिति को वा तत्प्रसादादृते वेदेत्यर्थः।
यद्वा - मदन्य: को वेत्ति ? इत्याह - इत्थमहं यथा वेद्मि तथा वेदेत्यर्थः ॥२५॥
॥ इति कठोपनिषद्भाष्ये प्रथमाध्याये द्वितीया वल्ली ॥
॥ आङ्गल-अर्थः ॥
He to whom the sages are as meat and heroes as food for His eating and Death is an ingredient of His banquet, how thus shall one know of Him where He abideth?
॥ हिन्दी-अर्थः ॥
'''वह' (परतत्त्व) जिसके लिए ब्राह्मण और क्षत्रिय दोनो भोज्य पदार्थ (ओदन) मात्र हैं, और 'मृत्यु' जिसके महाभोज का एक रसाहार (उपसेचन) है। अतः ऐसे 'उसे' कौन जान पायेगा कि 'वह' क्या है और कहाँ निवास करता है?"
॥ शब्दावली ॥
यस्य - yasya - He to whom
ब्रह्म - brahma - the sages
च - ca - and
क्षत्रम् - kṣatram - heroes
च - ca - and
उभे - ubhe - both
ओदनः भवतः - odanaḥ bhavataḥ - are as food for His eating
यस्य - yasya - He to whom
मृत्युः - mṛtyuḥ - Death, of Him where He abideth?
उपसेचनम् - upasecanam - is an ingredient of His banquet
सः - saḥ - He
यत्र - yatra - where abideth
इत्या - ityā - thus
कः वेदः - kaḥ vedaḥ - how shall one know

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know