नाविरतो दुश्चरितान्नाशान्तो नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥
॥ लिप्यन्तरणम् ॥
nāvirato duścaritānnāśānto nāsamāhitaḥ | nāśāntamānaso vāpi prajñānenainamāpnuyāt ||
॥ अन्वयः ॥
दुश्चरितां न अविरतः न अशान्तः न असमाहितः न वा अशान्तमानसः प्रज्ञानेन अपि एनम् आप्नुयात् ॥
॥ अन्वयलिप्यन्तरणम् ॥
duścaritāṁ na avirataḥ na aśāntaḥ na asamāhitaḥ na vā aśāntamānasaḥ prajñānena api enam āpnuyāt ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ दुश्चरितविरतादेः उपासनाङ्गत्वम् ]
ननु अवगतस्यार्थस्य स्मरणाभ्यासपाटवेन भवेदपरोक्षरूपा मतिः, तदत्र वरणापेक्षा का ? अत आह - नाविरत इति ।
नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ॥२४॥
न वा प्रज्ञानेनापि एनमाप्नुयात् । वाकार एवार्थे; न हि शास्त्रजन्येनापि परमात्मनो विज्ञानेन परोक्षभूतेन तदपरोक्षरूपं विज्ञानं भवेत् ।
ननु उक्तंस्मरणाभ्यासपाटवादेव तद्भवेदिति । सत्यम् । तदेव दुर्घटम्, जानन्तोऽपि बहवः शास्त्रतत्त्वमनादिवासनादूषितचेतसो नोपरमन्ते दुश्चरितात्परदारपरद्रव्यप्रसङ्गतः, अपरे च गृहमेधिनो ग्राम्यभोगात् । अपगतबाह्यकरणपाटवाः पुनरपरे कामतः क्रोधतो वा प्रतिक्षणं समुन्मिषत्संकल्पसहस्राः किं कामदोषचिन्तया ; स्वतञ्चञ्चलमनसश्च सर्वे । चञ्चलं हि मनः, तत् यश्च दुश्चरितादविरतः, यो वा अशान्तः, यश्च अशान्तमानसः, असमाहितश्च यः स किं स्मरणाभ्यासपाटवमाप्नुयाच्छास्त्रजेन ज्ञानमात्रेण; किन्तु तदपि प्रणश्येद्विज्ञानम्, क्व परमात्मापरोक्षकथा वा, तत्परमात्मप्रसादादृते यत्नशतेनाऽपि अनादिवासनाकलुषितचेतसां मनसः समाधानं दुर्घटम्, असमाहितमनसां स्मरणाभ्यासः तन्मूलसाक्षात्कारश्च दुर्घटः, अतो यमेवैष वृणुते तेन लभ्य इति भावः । परमात्मप्राप्तौ परमात्मैव प्रधानसाधनमित्युक्तं भवति श्रावयिष्यति च “पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः " (कठोपनिषद् - ३.११) इति । पुरुषोऽत्र परमपुरुषः।
ननु " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" (भगवद्गीता - ७.१४) इति प्रपदनस्य हि प्रधानसाधनता प्रतीयते । मैवम् नात्र किमपि साधनानुष्ठानं विधीयते । यस्तु तापत्रयतो भीतभीतस्तदुपायांश्च शास्त्रदृष्टान्दैव्या गुणमय्या मायाया दुस्तरतयाऽनादिवासनादूषित- चेतसाऽत्मना दुरधिगमान्विनिश्चित्य तस्य कृपामाकाङ्गमाणः यः तिष्ठेत् तस्य तत्सिद्धिः इत्युच्यते । न हि कृपामाकाङ्क्षते इत्येतावताऽऽकाङ्क्षाया: साधनत्वं न्याय्यम् । किन्तु कृपाया एव कृपालोस्तस्य इत्येतत् । रहस्यतमोऽयमर्थ इति नेह वितन्यते । अथ चेदेवं मुमुक्षुणा तृषार्तेन चातकेनेवोन्मुखेन स्थेयम्, लाभस्तु न नियतः, मेघ इव स्वतन्त्रोऽयं कदाचिद्विमुखोऽपि स्यात् । मैवम्; अयमेवास्मिन्विशेषः । यदुन्मुखेषु न जात्वयं विमुखः । यदयमेवाह-
“सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥" (रामायण युद्धकांड - १८.३३)
"अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः " (भगवद्गीता - १८.६६) इति ।
यद्वा - देवं मत्वेत्यत्र प्रस्तुतमुपायं विशिनष्टि - नायमिति । प्रोच्यते अनेनेति प्रवचनं मननम् । मेधा - ध्यानम् । लक्षणयाऽयमर्थः । श्रुतं - श्रवणम् । श्रवणेन मननेन ध्यानेन वा केवलेन नायमात्मा लभ्यः, अपि तु प्रीतिरूपेण तेनेत्याशयेनाह - यमेवैष इति । प्रियतम एव हि वरणीयो भवेत् । तत् परमात्मनो यः प्रियतमस्तेनैव परमात्मा लभ्य इति सिद्धम् । परमात्मनः प्रियतमश्च यः परमात्मनि परमप्रीतिं करोति स एव । आह च भगवान् - "प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः " (भगवद्गीता - ७.१७) इति । तथा च प्रीतिं विना कृतेन केवलेन ध्यानेन नायं लभ्यः, अपि तु प्रीतिरूपेण तेनेति भावः । यश्च निदिध्यासितव्यम् इति सामान्यतः प्राप्तं ध्यानम्, तदप्यनेन विशेष्यत इति सिद्धम् । उक्ते उपायविशेषे अङ्गतया केषांचिद्धर्माणामवश्यापेक्षामाह नाविरत इति । दुश्चरितोपरत्यादिर्यदि न स्यात्, प्रज्ञानं न सिद्ध्येत्, तदसिद्धौ कथं तमाप्नुयात् ? अतः प्रज्ञानाङ्गतयाऽवश्यमपेक्ष्यन्ते दुश्चरितनिवृत्त्यादय इति भावः ॥२४॥
॥ आङ्गल-अर्थः ॥
None who has not ceased from doing evil, or who is not calm, or not concentrated in his being, or whose mind has not been tranquillised, can by wisdom attain to Him.
॥ हिन्दी-अर्थः ॥
''जो दुष्कर्मों से विरत नहीं हुआ है, जो शान्त नहीं है, जो अपने में एकाग्र (समाहित) नहीं है अथवा जिसका मन शान्त नहीं है ऐसे किसी को भी यह 'आत्मा' प्रज्ञा द्वारा प्राप्त नहीं हो सकता।
॥ शब्दावली ॥
दुश्चरिताम् - duścaritām - from doing evil
न अविरतः - na avirataḥ - none who has not ceased
न अशान्तः - na aśāntaḥ - none who is not calm
न असमाहितः - na asamāhitaḥ - none who is not concentrated in his being
न वा अशान्तमानसः - na vā aśāntamānasaḥ - none whose mind has not been tranquillised
प्रज्ञानेन अपि - prajñānena api - by wisdom
एनम् - enam - to Him
आप्नुयात् - āpnuyāt - can attain

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know