अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते। एतद्वै प्राणानामायतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः। तदेष श्लोकः ॥
॥ लिप्यन्तरणम् ॥
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣyādityamabhijayante | etadvai prāṇānāmāyatanametadamṛtamabhayametat parāyaṇametasmānna punarāvartanta ityeṣa nirodhaḥ| tadeṣa ślokaḥ ||
॥ अन्वयः ॥
अथ तपसा ब्रह्मचर्येण श्रद्धया विद्यया आत्मानम् अन्विष्य उत्तरेण आदित्यं अभिजयन्ते। एतत् वै प्राणानाम् आयतनम् एतत् अमृतम् अभयम् एतत् परायणम् एतस्मात् पुनः न आवर्तन्ते। इति एषः निरोधः। तत् एषः श्लोकः भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha tapasā brahmacaryeṇa śraddhayā vidyayā ātmānam anviṣya uttareṇa ādityaṁ abhijayante| etat vai prāṇānām āyatanam etat amṛtam abhayam etat parāyaṇam etasmāt punaḥ na āvartante| iti eṣaḥ nirodhaḥ| tat eṣaḥ ślokaḥ ( bhavati ) ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मोपासकानां अपुनरावृत्तिः ]
उत्तरायणस्य प्राणत्वे हेतुं व्यञ्जयन्नाह 'एष ह वै रयिर्य: पितृयाण' इति । दक्षिणायनस्य रयित्वनिर्देशेनैवोत्तरायणस्य प्राणत्वं निर्दिष्टप्रायमेव । श्रूयते चोत्तरत्र शुक्लकृष्णयो रयिप्राणविभागस्तथाऽहोरात्रयोरपि ।
अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानमन्विष्य आदित्यमभिजयन्ते ।
एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणम् एतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥
अथेत्यनेन पूर्वस्मात्पथोऽयमन्यः पन्था इति व्यज्यते । कतिचन पुनस्तपसा कायक्लेशादिरूपेण, ब्रह्मचर्येण - स्त्रीसङ्गराहित्यरूपेण, श्रद्धया - आस्तिक्यबुद्धिरूपया, विद्यया - आत्मविषयिण्या आत्मानमन्विष्य - श्रवणादिभिर्विज्ञाय प्रारब्धदेहावसानसमये उत्तरेणायनेन देवयानरूपेण, आदित्यम् - देवयानमार्गं प्राप्नुवन्ति । एतद्वै प्राणानामायतनम्, एतदिति सामान्यतो नपुंसकनिर्देशः । यथाऽयमादित्यः प्राणानामायतनं तथोक्तं प्राक् 'प्राणान् रश्मिषु सन्निधत्त' इति । अमृतम् - अविनाशि, फलापादकत्वादमृतमिति साध्यगतो धर्म उपचर्यते । चन्द्रवद्वृद्धिह्रासशून्यत्वाद्वा तथोपचारः । अभयम् - देवतान्तर्गतमादित्यं गतानां ब्रह्मप्राप्त्या संसारभयं हि निवर्तते । परायणम् - उत्कृष्टं गतिसाधनं यतो न च्युतिः । तदेवाह - एतस्मान्न पुनरावर्तन्त इति । देवयानमार्गक्रमेणादित्यं गतो हि तत ऊर्ध्वं गत्वा ब्रह्म प्राप्नोति, तन्न पुनरावर्तते । तथा च श्रूयते - 'आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति' (छांदोग्योपनिषद् - ४.१५.५ ) इति । इत्येष निरोधः - इतिशब्दो हेतुवाची । । यस्मादेतस्मान्न पुनरावर्तन्ते तस्मादेष आदित्यो निरोधः - अधः प्रच्युतिप्रतिबन्धकः । तदेष श्लोकः - इममादित्यमधिकृत्यैष श्लोकः - वक्ष्यमाणः श्लोकः ॥१०॥
॥ आङ्गल-अर्थः ॥
“But by the way of the northern solstice go the souls that have sought the Spirit through holiness and knowledge and faith and askesis; for they conquer their heavens of the Sun. There is the resting place of the breaths, there immortality casteth out fear, there is the highest heaven of spirits; thence no soul returneth; therefore is the wall and barrier.Whereof this is the Scripture.
॥ हिन्दी-अर्थः ॥
''किन्तु उत्तरायण मार्ग का अनुसरण करते हैं वे महात्माजन जिन्होंने 'आत्मा' का ब्रह्मचर्य, विद्या, श्रद्धा एवं तपस्या के द्वारा अन्वेषण कर लिया है; क्योंकि वे 'सूर्यलोक' के अपने स्वर्ग को जीत लेते हैं। वहीं है 'प्राणों' का आयतन (विश्राम स्थल), वहाँ अमृतत्व अभय प्रदान करता है, वहाँ जीवात्माओं का सर्वोच्च द्युलोक है; वहीं से कोई लौटता नहीं हैं; अतएव यह निरोध तथा यह अवरोध है। जिसके सम्बन्ध में यह श्लोक (श्रुतिवचन) है।
॥ शब्दावली ॥
अथ - atha - but
तपसा - tapasā - through askesis
ब्रह्मचर्येण - brahmacaryeṇa - through holiness
श्रद्धया - śraddhayā - through knowledge
विद्यया - vidyayā - through faith
आत्मानम् - ātmānam - having sought
अन्विष्य - anviṣya - the Spirit
उत्तरेण - uttareṇa - by the way of the northern solstice
आदित्यम् - ādityam - heavens of the Sun
अभिजयन्ते - abhijayante - they conquer
एतत् वै - etat vai - this indeed
प्राणानाम् आयतनम् - prāṇānām āyatanam - is the resting place of the breaths
एतत् अमृतम् अभयम् - etat amṛtam abhayam - this the immortality that casteth out fear
एतत् परायणम् - etat parāyaṇam - this is the highest heaven of spirits
एतस्मात् - etasmāt - thence
पुनः - further -
न आवर्तन्ते - na āvartante - no soul returneth
इति एषः निरोधः - iti eṣaḥ nirodhaḥ - therefore is the wall and barrier
तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the Scripture

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know