Ad Code

स यध्येकमात्रमभिध्यायीत स तेनैव



स यध्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्याभिसंपध्यते। तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥

लिप्यन्तरणम्

sa yadhyekamātramabhidhyāyīta sa tenaiva saṁveditastūrṇameva jagatyābhisaṁpadhyate | tamṛco manuṣyalokamupanayante sa tatra tapasā brahmacaryeṇa śraddhayā saṁpanno mahimānamanubhavati ||

अन्वयः

सः यदि एकमात्रम् अभिध्यायीत सः तेन एव संवेदितः तूर्णम् एव जगत्याम् अभिसम्पद्यत्ते। ऋचः तं मनुष्यलोकम् उपनयन्ते। सः तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नः महिमानम् अनुभवति ॥

अन्वयलिप्यन्तरणम्

saḥ yadi ekamātram abhidhyāayīta saḥ tena eva saṁveditaḥ tūrṇam eva jagatyām abhisampadyatte| ṛcaḥ taṁ manuṣyalokam upanayante| saḥ tatra tapasā brahmacaryeṇa śraddhayā sampannaḥ mahimānam anubhavati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तत्र प्रथममपरब्रह्मोपासनं तत्फलं चाह - स इति ।

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते ।

तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥३॥

सः - उपासकः, एकमात्रं प्रणवं यद्यभिध्यायीत - तदवलम्बनमपरब्रह्मोपासीत यदीति यावत् । तेनैवालम्बनभूतेन प्रणवेन विज्ञानं प्रापितस्तूर्णमेव जगत्यामभिसम्पद्यते । तत्रापि मनुष्यलोक एनमृच उपनयन्ते प्रापयन्ति । स तत्र मानुषे दुराचारो न भवेत्, किन्तु तप:प्रभृतिभि: परिपूर्णः प्रकृष्टमैश्वर्यं मानुषमनुभवति ॥३॥

आङ्गल-अर्थः ॥

“If he meditate on the one letter of OM the syllable, by that enlightened he attaineth swiftly in the material universe, and the hymns of the Rigveda escort him to the world of men; there endowed with askesis and faith and holiness he experienceth majesty.

हिन्दी-अर्थः

''यदि वह इस 'ओंकार' की एक मात्रा का ध्यान करता है तो, उससे अलोकित होकर शीघ्र ही भौतिक जगत् को प्राप्त करता है, तथा ऋग्वेद की ऋचाएँ उसे मनुष्यलोक में ले जाती हैं; वहाँ तप, श्रद्धा एवं ब्रह्मचर्य से सम्पन्न वह महिमा की अनुभूति करता है।

शब्दावली

यदि सः हि - yadi saḥ hi - if he

एकमात्रम् - ekamātram - the one letter of OM the syllable

अभिध्यायीत - abhidhyāayīta - meditate

सः तेन एव - saḥ tena eva - by that

संवेदितः - saṁveditaḥ - enlightened

तूर्णम् एव - tūrṇam eva - swiftly

जगत्याम् - jagatyām - in the material universe

अभिसम्पद्यत्ते - abhisampadyatte - he attaineth

ऋचः - ṛcaḥ - the hymns of the Rigveda

तम् - tam - him

मनुष्यलोकम् - manuṣyalokam - to the world of men

उपनयन्ते - upanayante - escort

सः तत्र - saḥ tatra - there he

तपसा - tapasā - askesis

ब्रह्मचर्येण - brahmacaryeṇa - holiness

श्रद्धया - śraddhayā - faith

सम्पन्नः - sampannaḥ - endowed with

महिमानम् - mahimānam - majesty

अनुभवति - anubhavati - experienceth

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code