नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ। यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा |
॥ लिप्यन्तरणम् ॥
naiṣā tarkeṇa matirāpaneyā proktānyenaiva sujñānāya preṣṭha | yāṁ tvamāpaḥ satyadhṛtirbatāsi tvādṛṅa no bhūyānnaciketaḥ praṣṭā ||
॥ अन्वयः ॥
प्रेष्ठ त्वं याम् आप एषा मतिः तर्केण न आपनेया भवति । अन्येन प्रोक्ता सुज्ञानाय एव भवति । नचिकेतः सत्यधृतिः असि बत। नः त्वादृक् प्रष्टा भूयात् ॥
॥ अन्वयलिप्यन्तरणम् ॥
preṣṭha tvaṁ yām āpa eṣā matiḥ tarkeṇa na āpaneyā ( bhavati )| anyena proktā sujñānāya eva ( bhavati ) | naciketaḥ satyadhṛtiḥ asi bata| naḥ tvādṛk praṣṭā bhūyāt ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ तर्काऽलभ्यम् आत्मज्ञानम् ]
नैषा तर्केण मतिरापनेया प्रोक्ताऽन्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा ॥९॥
यस्मादणोः अणुः अप्रतर्क्यमात्मस्वरूपं तस्मात् एषा मतिः - आत्मस्वरूपविषयिणी, तर्केण नापनेया - प्राप्तुमयोग्या । यां त्वम् आपः - सिषाधयिषिततया प्राप्तवानसि । या मतिः सम्पाद्यतया त्वया निश्चितेत्याशयः ।
यद्वा अवधीर्य गुरूपदेशमात्मनः तर्कबलेनाऽऽत्मस्वरूपाधिगमे प्रवर्तमानस्य केवलं तर्कबलं दूरीकुर्यादेवाऽन्तत आत्मज्ञानम् । तदवधीर्य गुरुमवलम्बितेन तर्केण सैषा आत्मस्वरूपविषयिणी मतिः न आपनेया - न परिहार्या । लेशतो जाताऽपि सा केवलेन तर्केणापगच्छेदेव इति आशयः । हे प्रेष्ठ ! प्रियतम ! अन्येन प्रोक्तै व सुज्ञानाय - गुरुमुखायेवाधिगता सा सुज्ञानाय । अन्यथा त्वज्ञानफलायैवेति भावः । शिष्यमभिनन्दति सत्यधृतिर्बतासि इति । बत इति अनुकम्पायाम् । सत्यधृतिः असि - यदप्सरःप्रभृतिभिरपि भोगैरविचालितोऽस्यस्मादभिनिवेशात् । हे नचिकेतः ! त्वादृक् प्रष्टा नो भूयात् - त्वादृश: सत्यधृतिः शिष्यो नो भूयात् ॥९॥
॥ आङ्गल-अर्थः ॥
This wisdom is not to be had by reasoning, O beloved Nachiketas; only when told thee by another it brings real knowledge,-the wisdom which thou hast gotten. Truly thou art steadfast in the Truth! Even such a questioner as thou art may I meet with always.
॥ हिन्दी-अर्थः ॥
''हे प्रियतम नचिकेता! यह प्रज्ञा (मति) जिसे तुमने प्राप्त कर लिया है, तर्क के द्वारा प्राप्तव्य नहीं है, केवल अन्य के द्वारा तुम्हारे प्रति कथन किये जाने पर ही यह सत्यज्ञान (सुज्ञान) का साधन बनती है। तुम सचमुच सत्य में दृढनिष्ठ हो; मुझे तुम्हारे जैसे प्रश्नकर्ता सदैव मिलते रहें।''
॥ शब्दावली ॥
प्रेष्ठ नचिकेतः - preṣṭha naciketaḥ - O beloved Nachiketas!
त्वम् - tvam - you
याम् - yām - that which
आप - āpa - have gotten
एषा - eṣā - this
मतिः - matiḥ - wisdom
तर्केण - tarkeṇa - by reasoning
न आपनेया - na āpaneyā - is not to be had
अन्येन - anyena - by another
प्रोक्ता - proktā - said or spoken
सुज्ञानाय - sujñānāya - brings real knowledge
एव - eva - indeed
सत्यधृतिः - satyadhṛtiḥ - steadfast in the Truth
असि - asi - thou art
बत - bata - truly
नः - naḥ - for me
त्वादृक् - tvādṛk - like you / as thou art
प्रष्टा - praṣṭā - questioner
भूयात् - bhūyāt - may there be always

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know