न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः। अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात् ॥
॥ लिप्यन्तरणम् ॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ | ananyaprokte gatiratra nāstyaṇīyān hyatarkyamaṇupramāṇāt ||
॥ अन्वयः ॥
एषः अवरेण नरेण प्रोक्तः न सुविज्ञेयः भवति अनन्यप्रोक्ते अत्र गतिः न अस्ति। हि एषः अणुप्रमाणात् अणीयान् अपि च अतर्क्यम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
eṣaḥ avareṇa nareṇa proktaḥ na suvijñeyaḥ ( bhavati ) ananyaprokte atra gatiḥ na asti | hi ( eṣaḥ ) aṇupramāṇāt aṇīyān ( api ca ) atarkyam ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ अतिसूक्ष्मतया प्राकृतजनाज्ञेयः ]
कुतो वक्तुर्ज्ञातुर्वा दौर्लभ्यमित्यत्राह - न नरेणेति ।
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान् ह्यतर्क्यमणुप्रमाणात् ॥८॥
यद्यपि श्रुतवेदान्ताः पाण्डित्यमात्रप्रयोजना बहवः सन्ति नाम, ते हि अनधिगतात्मसाक्षात्कारा अवरा एव, न तेष्वन्यतमेन अवरेण नरेण प्रोक्तः, एष आत्मा सुविज्ञेयः । तस्मात् येन प्रोक्तोऽयं सुष्ठु विज्ञायेत, स तु कुशलो वक्ता कश्चिदेव । एवं कुशलेन प्रोक्तः अपि अयमनादिपापवासनाभिभूतेन विषयोन्मुखचेतसा अवरेण नरेण न सुष्ठु विज्ञेयः, तज्ज्ञाताऽपि कुशलानुशिष्टः कश्चिदेव । यस्माद्गुरुणाऽनुशिष्टोऽपि यथावज्ज्ञाता अत्र दुर्लभः, तस्मात् - विनाऽत्र गुरूपदेशमूहापोहनिपुणस्यापि ज्ञानं न घटेतैवेत्याह- अनन्यप्रोक्त इति । अन्येन गुरुणाऽप्रोक्ते - स्वयमेव पर्यालोचित इति यावत् । अत्र - आत्मस्वरूपे, गतिर्नास्ति - गम्यते अनेनेति गतिः - अवकाशः, सोऽपि नास्ति इत्यर्थः । ज्ञानकथाऽपि न इति यावत् । तर्ककुशलस्य किम् ? इति दुर्ज्ञेयमित्यत्राह - अणीयान् इति । यस्मादेषः अणुप्रमाणादपि अणीयान् - अतिसूक्ष्मः, तस्मादूहापोहशालिनाऽप्यज्ञातं तत्स्वरूपम् ॥८॥
॥ आङ्गल-अर्थः ॥
An inferior man cannot tell you of Him; for thus told thou canst not truly know Him, since He is thought of in many aspects. Yet unless told of Him by another thou canst not find thy way there to Him; for He is subtler than subtlety and that which logic cannot reach.
॥ हिन्दी-अर्थः ॥
''अवर व्यक्ति (अल्पबुद्धिः ज्ञानहीन) तुम्हें 'उसके' विषय में बता नहीं सकता; उसके कथन किये जाने पर भी तुम वस्तुतː 'उसे' जान नहीं सकते क्योंकि 'उसका' बहुविध रूपों में चिन्तन किया जाता है। तथापि अन्य किसी के द्वारा 'उसके' विषय मे कथन के बिना तुम 'उस' तक पहुँचने का मार्ग भी नहीं पा सकोगे। कारण, 'वह' सूक्ष्मता से भी सूक्ष्मतर है तथा तर्क के द्वारा प्राप्य नहीं है।
॥ शब्दावली ॥
एषः - eṣaḥ - this
बहुधा चिन्त्यमानः - bahudhā cintyamānaḥ - thought of in many aspects
अवरेणनरेण - avareṇanareṇa - by an inferior man
प्रोक्तः - proktaḥ - spoken
न - na - not
सुविज्ञेयः - suvijñeyaḥ - to be known well
अनन्यप्रोक्ते - ananyaprokte - unless told by another
अत्र - atra - there to Him
गतिः न अस्ति - gatiḥ na asti - no way
अणुप्रमाणात् - aṇupramāṇāt - unless told by another
हि - hi - since
अणीयान् - aṇīyān - subtler
अतर्क्यम् - atarkyam - that which logic cannot reach

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know