Ad Code

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः

 


जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्‌। ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥

॥ लिप्यन्तरणम् ॥

jānāmyahaṁ śevadhirityanityaṁ na hyadhruvaiḥ prāpyate hi dhruvaṁ tat | tato mayā nāciketaścito'gniranityairdravyaiḥ prāptavānasmi nityam ||

॥ अन्वयः ॥

शेवधिः अनित्यं इति अहं जानामि हि धृवम् हि तत् अधृवैः न हि प्राप्यते। ततः मया अनित्यैः द्रव्यैः नचिकेतः अग्निः चितः तेन नित्यं प्राप्तवान् अस्मि ॥

॥ अन्वयलिप्यन्तरणम् ॥

śevadhiḥ anityaṁ iti ahaṁ jānāmi hi dhṛvam hi tat adhṛvaiḥ na hi prāpyate| tataḥ mayā anityaiḥ dravyaiḥ naciketaḥ agniḥ citaḥ ( tena ) nityaṁ prāptavān asmi ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ आत्मतत्त्वम् अस्थिरफलप्रदकर्मभिरलभ्यम् ]

तुष्टो मृत्युः स्वस्य परमनिःश्रेयससाधनभूतात्मज्ञानागमप्रकारमाह - जानामि इति । 

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत् ।

ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम् ॥१०॥

शेवधि: निधिः, इदमखिलस्य कर्मफलस्योपलक्षकम्, निधिवत् भोग्यत्वात् । कर्मफलमखिलमेव अनित्यम् इति अहं जानामि । नाऽप्येतैरात्मलाभे लेशत उपयोगो वा । न ह्यध्रुवैः - इन्द्राद्यैरपि पदैः ध्रुवं तदात्मस्वरूपं प्राप्यते । याम्ये ऐश्वर्ये स्थितेनाऽपि मयेदमकिञ्चित्करं ज्ञात्वा तत एव नाचिकेतः अग्निर्विना फलसङ्गं चितः । अतश्च स्वतः अनित्यैः अप्येतैः इष्टकादिद्रव्यैः - फलाभिसन्धिरहितकर्मसु विनियुक्तैः लब्धवानस्मि नित्यम् । नित्यफलसाधनत्वात् नित्यम् इत्युक्तिः । आत्मस्वरूपज्ञानमित्येतत् । नित्यफलसाधनस्याऽस्य निकृष्टात्मज्ञानस्य लाभो मम अनेनैवाग्निना निष्कामं चितेनेत्याशयः ॥१०॥

॥ आङ्गल-अर्थः ॥

I know of treasure that it is not for ever; for not by things unstable shall one attain That which is stable; therefore I heaped the fire of Nachiketas, and by the sacrifice of transitory things I won the Eternal.

॥ हिन्दी-अर्थः ॥

''मैं धनकोष के विषय मे जानता हूँ कि वह अनित्य है; अनित्य (अध्रुव) पदार्थो से उस 'तत्त्व' की प्राप्ति नहीं होती जो नित्य (ध्रुव) है। इसलिए मैंने नचिकेता- अग्नि को संचित किया है तथा अनित्य पदार्थों की हवि देकर 'नित्य' तत्त्व को प्राप्त किया है।''

॥ शब्दावली ॥

शेवधिः - śevadhiḥ - treasure

अनित्यम् - anityam - not for ever

इति - iti - thus

अहम् जानामि - aham jānāmi - I know

हि - hi - for shall one attain

धृवम् - dhṛvam - by things unstable

हि - hi - for shall one attain

अधृवैः - adhṛvaiḥ - by things unstable

तत् ध्रुवम् - tat dhruvam - that which is stable

न हि - na hi - not

प्राप्यते - prāpyate - obtained

ततः - tataḥ - therefore

मया - mayā - by me

अनित्यैः द्रव्यैः - anityaiḥ dravyaiḥ - by the sacrifice of transitory things

नचिकेतः अग्निः - naciketaḥ agniḥ - the fire of Nachiketas

चितः - citaḥ - heaped

नित्यम् - nityam - the Eternal

प्राप्तवान् अस्मि - prāptavān asmi - I have obtained


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code