प्राणाग्रय एवैतस्मिन् पुरे जाग्रति। गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते प्रणयनादाहवनीयः प्राणः ॥
॥ लिप्यन्तरणम् ॥
prāṇāgraya evaitasmin pure jāgrati | gārhapatyo ha vā eṣo'pāno vyāno'nvāhāryapacano yad gārhapatyāt praṇīyate praṇayanādāhavanīyaḥ prāṇaḥ ||
॥ अन्वयः ॥
एतस्मिन् पुरे प्राणाग्नयः एव जाग्रति एषः अपानः वै गार्हपत्यः व्यानः अन्वाहार्यपचनः यत् गार्हपत्यात् प्रणयनात् प्रणीयते प्राणः एव आहवनीयः ॥
॥ अन्वयलिप्यन्तरणम् ॥
etasmin pure prāṇāgnayaḥ eva jāgrati eṣaḥ apānaḥ vai gārhapatyaḥ vyānaḥ anvāhāryapacanaḥ yat gārhapatyāt praṇayanāt praṇīyate prāṇaḥ eva āhavanīyaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
प्राणाग्नय एवैतस्मिन्पुरे जाग्रति गार्हपत्यो ह वा एषोऽपानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्रणयनादाहवनीयः प्राणः ॥३॥
कानि जाग्रतीत्यत्राह - प्राणा एवाग्नयः, त एवास्मिन्पुरे देहे तदानीं जाग्रति । शरीरधारणलक्षणप्राणवृत्तीनां तदानीमप्यनपायादिति भाव: । जाग्रत्सु तेष्वग्नित्वनिरूपणे विशेषं प्रकाशयन्नग्निहोत्रदृष्टिं विधत्ते - गार्हपत्यो ह वा एषोऽपानः - य एष मूलाधारस्थोऽपानवायुः स गार्हपत्याग्निः । यस्तु व्यानः सोऽन्वाहार्यपचनः - दक्षिणाग्नि: । य: प्राण: स आहवनीयः, तेषां तथात्वेन निरूपणे किं निमित्तं तत्राह - यद्गार्हपत्यात्प्रणीयते प्रणयनादिति । प्रणयनादिति गार्हपत्यस्य विशेषणम्, प्रणीयते अस्मादिति प्रणयनम्, आहवनीयो ह्यग्निर्गार्हपत्यात्प्रणीयते, तस्माद्गार्हपत्यं प्रणयनम्, ततो यः प्रणीयते स आहवनीयः । प्राणस्तु हृदयादूर्ध्व- मुदञ्चन्नपानादधोऽवस्थितादुन्नीयत इव, अतः प्राण आहवनीयत्वेन रूप्यते, यत उन्नीयते सोऽपानो गार्हपत्यत्वेन रूप्यत इति भावः । व्यानस्य दक्षिणाग्नित्वेन रूपणे दक्षिणदिक्सम्बन्धो निमित्तं बोध्यम् । स च हृदयस्य दक्षिणसुषिरसम्बन्धरूपः । श्रूयते च - 'अथ योऽस्य दक्षिण: सुषिर: स व्यान:' (छांदोग्योपनिषद् - १.१३.२) इति ॥३॥
॥ आङ्गल-अर्थः ॥
“But the fires of the breath keep watch in that sleeping city. The lower breath is the householder's fire and the breath pervasor the fire of the Lares that burneth to the southward. The main breath is the orient fire of the sacrifice; and even as the eastern fire taketh its fuel from the western, so in the slumber of a man the main breath taketh from the lower.
॥ हिन्दी-अर्थः ॥
''किन्तु इस सुप्त नगरी में प्राणाग्नियाँ ही जागती रहती हैं। अपान-वायु है गृहस्थ की अग्नि (गार्हपत्य अग्नि) तथा व्यान है गृहदेवता की अग्नि जो दक्षिण की ओर प्रज्वलित होती रहती है। मुख्य प्राणा-वायु है यज्ञ की पूर्वाग्नि; और जिस प्रकार पूर्वाग्नि अपना हवनीय (ईधन) पश्चिमाग्नि से ग्रहण करती है, उसी प्रकार मनुष्य की सुप्तावस्था में मुख्य प्राण-वायु अपान-वायु से ग्रहण करता है।
॥ शब्दावली ॥
एतस्मिन् पुरे - etasmin pure - in that sleeping city
प्राणाग्नयः एव - prāṇāgnayaḥ eva - the fires of the breath
जाग्रति - jāgrati - keep watch
एषः अपानः वै - eṣaḥ apānaḥ vai - the lower breath is
गार्हपत्यः - gārhapatyaḥ - the householder's fire
व्यानः - vyānaḥ - the breath pervasor
अन्वाहार्यपचनः - anvāhāryapacanaḥ - the fire of the Lares that burneth to the southward
यत् - yat -
गार्हपत्यात् - gārhapatyāt -
प्रणयनात् - praṇayanāt -
प्रणीयते - praṇīyate -
प्राणः एव - prāṇaḥ eva - the main breath
आहवनीयः - āhavanīyaḥ - is the orient fire of the sacrifice
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know