Ad Code

यदुच्छ्वासनिःश्वासावेतावाहुती

 


यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः। मनो ह वाव यजमानः इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥

लिप्यन्तरणम्

yaducchvāsaniḥśvāsāvetāvāhutī samaṁ nayatīti sa samānaḥ | mano ha vāva yajamānaḥ iṣṭaphalamevodānaḥ sa enaṁ yajamānamaharaharbrahma gamayati ||

अन्वयः

यत् एतौ उच्छ्वासनिश्वासौ आहुती समं नयति इति सः समानः होता । मनः ह यजमानः उदानः एव इष्टफलं सः एनं यजमानं अहरहः ब्रह्म गमयति ॥

अन्वयलिप्यन्तरणम्

yat etau ucchvāsaniśvāsau āhutī samaṁ nayati iti saḥ samānaḥ ( hotā )| manaḥ ha yajamānaḥ udānaḥ eva iṣṭaphalaṁ saḥ enaṁ yajamānaṁ aharahaḥ brahma gamayati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति समानः । मनो ह वाव यजमान इष्टफलमेवोदानो य एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

आहुती चैतावुच्छ्वासनिःश्वासौ । ते चाहुती समं नयनीति समान उच्यते । स चायं होता, यो हि हविराहवनीयं प्रापयति स हि होता । अयं च ते आहुती व्यानमाहवनीयमभि नयति । मन एव यजमानः यो ह्यधिकरोति यागे स यजमान उच्यते । अन्तःकरणमेव तु शब्दादिविविधबाह्यदेशपर्यटन परिश्रमपरिहरणाय स्वापाग्निहोत्रे प्रवर्तते । उदानमेव इष्टस्य - यागस्य फलं पुण्यमिति यावत् । यथा पुण्यं यजमानं स्वर्गादिफलं प्रापयति, एवमेवायमुदानोऽहरहः स्वापकाले ब्रह्म गमयति ।

ननु - सुषुप्तौ जीवस्य ब्रह्मगमनवादो व्याहन्येत । मैवम् । नहि मनसस्तद्गमन- श्रवणमात्रात्तस्योपमर्दः, श्रुत्यन्तरतस्तदपि घटेत । पुरीतद्देशावच्छिन्ने ब्रह्मणि सङ्गमनादिदमपि घटेत, मनश्च सुषुप्तौ पुरीतति सङ्गच्छति । यद्यपि कानि जाग्रतीत्यस्य प्रश्नस्य प्राणा एवास्मिञ्जाग्रतीत्येवोत्तरम्, अन्यत्त्वपृष्टोत्तरम् । अथापि विदुषः स्वापोऽपि कर्मविशेष एवेति ज्ञापयितुमग्निहोत्रदृष्टिविधानमिदम् ॥४॥

आङ्गल-अर्थः ॥

“But the medial breath is the priest, the sacrificant; for he equaliseth the offering of the inbreath and the offering of the outbreath. The Mind is the giver of the sacrifice and the upper breath is the fruit of the sacrifice, for it taketh the sacrificer day by day into the presence of the Eternal.

हिन्दी-अर्थः ॥

''किन्तु समान-वायु है होता, आहुतिदाता; क्योंकि यही उच्छवास एवं निश्वास दोनों की आहुतियों को समानरूप में स्थिर करता है। मन है यजमान तथा उदान है यज्ञ का इष्टफल, क्योंकि यही दिन-प्रतिदिन यजमान को ब्रह्म के सान्निध्य में ले जाता है।

शब्दावली

यत् एतौ उच्छ्वासनिश्वासौ आहुती - yat etau ucchvāsaniśvāsau āhutī - the offering of the inbreath and the offering of the outbreath

समम् नयति इति - samam nayati iti - for he equaliseth

सः समानः - saḥ samānaḥ - the medial breath (is the priest, the sacrificant)

मनः ह - manaḥ ha - the Mind

यजमानः - yajamānaḥ - is the giver of the sacrifice

उदानः एव - udānaḥ eva - the upper breath

इष्टफलम् - iṣṭaphalam - is the fruit of the sacrifice

सः - saḥ - it

एनम् यजमानम् - enam yajamānam - the sacrificer

अहरहः - aharahaḥ - day by day

ब्रह्म - brahma - into the presence of the Eternal

गमयति - gamayati - taketh

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code