तस्मै स होवाच। यथ गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति। ताः पुनः पुनरुदयतः प्रचरन्त्येवं ह वै तत् सर्वं परे देवे मनस्येकीभवति। तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥
॥ लिप्यन्तरणम् ॥
tasmai sa hovaca | yatha gārgya marīcayo'rkasyāstaṁ gacchataḥ sarvā etasmiṁstejomaṇḍala ekībhavanti | tāḥ punaḥ punarudayataḥ pracarantyevaṁ ha vai tat sarvaṁ pare deve manasyekībhavati | tena tarhyeṣa puruṣo na śṛṇoti na paśyati na jighrati na rasayate na spṛśate nābhivadate nādatte nānandayate na visṛjate neyāyate svapitītyācakṣate ||
॥ अन्वयः ॥
सः तस्मै उवाच - गार्ग्य यथा अस्तंगच्छतः अर्कस्य सर्वाः मरीचयः एतस्मिन् तेजोमण्डले एकीभवन्ति पुनः उदयतः अर्कस्य ताः पुनः प्रचरन्ति एवं ह तत् सर्वं परे देवे मनसि एकीभवति। तेन तर्हि एषः पुरुषः न श्रुणोति न पश्यति न जिघ्रति न रसयते न स्पृशते न अभिवदते न आदत्ते न आनन्दयते न विसृजते न इयायते तदा स्वपिति इति आचक्षते ॥
॥ अन्वयलिप्यन्तरणम् ॥
saḥ tasmai uvāca - gārgya yathā astaṁgacchataḥ arkasya sarvāḥ marīcayaḥ etasmin tejomaṇḍale ekībhavanti punaḥ udayataḥ ( arkasya ) tāḥ punaḥ pracaranti evaṁ ha tat sarvaṁ pare deve manasi ekībhavati| tena tarhi eṣaḥ puruṣaḥ na śruṇoti na paśyati na jighrati na rasayate na spṛśate na abhivadate na ādatte na ānandayate na visṛjate na iyāyate ( tadā ) svapiti iti ācakṣate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनरुदयतः प्रचलन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयति न स्पृशति नाभिवदते नाऽऽदत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥
स पिप्पलादस्तस्मै गार्ग्यायोवाच । यथाऽस्तं गच्छतः सूर्यस्य सर्व एव किरणास्तन्मण्डल एवैकीभवन्ति - परितः प्रसरणशून्यास्तेन सहाविभागं गच्छन्ति, उदयतस्तु तस्य ते परितः प्रसरन्ति । तथैव तत्सर्वं चक्षुरादि जाग्रद्दशायां परितः प्रसरत् स्वप्नसमये परे देवे मनस्येकीभवति - अविभागं याति । अविभागश्चात्र दर्शनादिव्यापाराक्षमतापादकः संयोगविशेषः । स्वस्वव्यापाराक्षमतैव वा । द्योतनगुणयोगाद्देवशब्द इन्द्रिये प्रवर्तते, तेष्वन्तःकरणं प्रधानमिति परे देव इति विशिष्यते । यतो मनस्येकीभवन्ति श्रोत्रादीनि तेन निमित्तेन तदानीमेष पुरुष: श्रवणादिव्यापारशून्यः केवलं स्वपितीत्येवाचक्षते जना एनम् । एतेन कानि स्वपन्तीत्येतदुत्तरितमिन्द्रियाण्येव स्वपन्तीति ॥२॥
॥ आङ्गल-अ him answered the Rishi Pippalada: “O Gargya, as are the rays of the sun in its setting, for they retire and all become one in yonder circle of splendour, but when he riseth again once more they walk abroad, so all the man becomes one in the highest god, even the mind. Then indeed this being seeth not, neither heareth, nor doth he smell, nor taste, nor touch, nor speaketh he aught, nor taketh in or giveth out, nor cometh nor goeth; he feeleth not any felicity. Then they say of him, 'He sleepeth'.
॥ हिन्दी-अर्थः ॥
ऋषि पिप्पलाद नें उसे उत्तर दिया, ''हे गार्ग्य, जिस प्रकार अस्त होते हुए सूर्य की रश्मियाँ होती हैं, क्योंकि वे सभी उस तेजोमण्डल में एकीभूत होकर अस्त हो जाती हैं, किन्तु जब वह पुनः उदित होता है तो वे भी विचरण करती हैं, उसी प्रकार परमोच्च ईश्वर में मनुष्य की सशृण सत्ता, उसका मन भी, एकीभूत हो जाता है। इसी कारण उस समय यह सत्ता, यह पुरुष न देखता है, न सुनता है, न सूँघता है, न स्वाद लेता है, न स्पर्श करता है, न उसे कुछ बोलना होता है, न कुछ ग्रहण करता है, न दान करता है, न आता है, न जाता है, वह किसी आनन्द का अनुभव नहीं करता। तब उसके सम्बन्ध में कहा जाता है 'वह सुप्त है'।
॥ शब्दावली ॥
सः तस्मै उवाच - saḥ tasmai uvāca - to him he (the Rishi Pippalada) answered
गार्ग्य - gārgya - O Gargya!
यथा - yathā - as
अस्तंगच्छतः अर्कस्य - astaṁgacchataḥ arkasya - of the sun in its setting
सर्वाः मरीचयः - sarvāḥ marīcayaḥ - all rays
एतस्मिन् तेजोमण्डले - etasmin tejomaṇḍale - in yonder circle of splendour
एकीभवन्ति - ekībhavanti - all become one
पुनः उदयतः - punaḥ udayataḥ - but when he riseth again
ताः पुनः प्रचरन्ति - tāḥ punaḥ pracaranti - once more they walk abroad
एवम् ह - evam ha - so
तत् सर्वम् - tat sarvam - all the man
परे देवे - pare deve - in the highest god
मनसि - manasi - in the mind
एकीभवति - ekībhavati - becomes one
तेन तर्हि - tena tarhi - then indeed
एषः पुरुषः - eṣaḥ puruṣaḥ - this being
न श्रुणोति - na śruṇoti - heareth not
न पश्यति - na paśyati - seeth not
न जिघ्रति - na jighrati - nor doth he smell
न रसयते - na rasayate - nor taste
न स्पृशते - na spṛśate - nor touch
न अभिवदते - na abhivadate - nor speaketh he aught
न आदत्ते - na ādatte - nor taketh in or giveth out
न आनन्दयते - na ānandayate - he feeleth not any felicity
न विसृजते - na visṛjate - nor goeth
न इयायते - na iyāyate - nor cometh
स्वपिति इति - svapiti iti - 'He sleepeth'
आचक्षते - ācakṣate - then they say of him
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know