अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं वेध्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥
॥ लिप्यन्तरणम् ॥
arā iva rathanābhau kalā yasmin pratiṣṭhitāḥ | taṁ vedhyaṁ puruṣaṁ veda yathā mā vo mṛtyuḥ parivyathā iti ||
॥ अन्वयः ॥
रथनाभौ अराः इव कलाः यस्मिन् प्रतिष्ःहिताः तम् वेद्यं पुरुषं वेद यथा मृत्युः वः मा परिव्यथाः ॥
॥ अन्वयलिप्यन्तरणम् ॥
rathanābhau arāḥ iva kalāḥ yasmin pratiṣḥhitāḥ tam vedyaṁ puruṣaṁ veda yathā mṛtyuḥ vaḥ mā parivyathāḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।
तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥
अरा इव रथनाभौ प्राणादयः सकलाः कला यस्मिन्पुरुषे परस्मिन्प्रतिष्ठिता: - यदेकाधारकाः कला इत्यर्थः । एतेन जीवघनाद्वैलक्षण्यं व्यज्यते । स हि कलानां वशग: भोक्ता च, अयं तु तन्निर्वाहक इति । तं वेद्यं मुमुक्षुभिः पुरुषं वेद - विजानीयात् । एवं मदुक्तप्रकारेण विजानतां वो मृत्युः संसाररूपः परितो व्यथां मा कुर्यादित्यर्थः ।
यद्वा ' स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते' (प्रश्नोपनिषत् - ५.५ ) इत्यत्र प्रस्तुतो जीवघनो यश्च प्रस्तुतस्तत: परात्परः पुरिशयः पुरुषस्तयोर्मिथो यदन्तरं तदवगमयितुमयं प्रश्नः प्रवर्तते । तत्र प्रतिवचनतश्चेदमन्तरमवगम्यते, यददृष्टात्प्राणादिषोडशकलानामुदयः, यश्चासां भोक्ता, सोऽयं षोडशकलो जीवघन: । ततः परात्परः पुरिशयः पुरुष इति । वचनार्थस्त्वेवं नेयः । यस्यां पुरि शरीरे परात्परः पुरुषः शेते, इहैव शरीरे अन्तः षोडशकलः पुरुषोऽपि । परं तु वक्ष्यमाणाः षोडशकला यस्मिन्प्रभवन्ति - स्वकार्यमाधातुं समर्था भवन्ति, सोऽयं प्राणादिषोडशकलानां भोक्ता, तत उच्यते षोडशकल इत्युक्तंभवति । स च जीवघन: । स ईक्षांचक्रे - कस्मिन्नहमुत्क्रान्ते उत्क्रान्तो भविष्यामीति । यद्यपि स्वयं चेतनः कर्ता च । अथापि कर्मनियन्त्रितोऽयं प्रलये अस्तोपकरण उत्क्रमणादिषु कार्येषु सहायमेकमाकाङ्क्षते स्म, आकाङ्क्षया च प्राणादिकमसृजत् । अदृष्टद्वारा सृष्टौ कर्तृत्वं बोध्यम् । अयं ह्यनीश्वरः । एतत्प्रारब्धबलेन प्राणादिसर्वमुदभूदिति तु तदाशयः । ततश्चायं षोडशकलो जीवघन इत्युपदिष्टं भवति । अथास्मादत्यन्तविलक्षण आसां कलानां लयस्थानमकलः पुरुष इत्युच्यते - यथेति । शिष्टं पूर्ववत्॥६॥
॥ आङ्गल-अर्थः ॥
“'He in whom the members are set, Him know for the Being who is the goal of knowledge, so shall death pass away from you and his anguish.' ”
॥ हिन्दी-अर्थः ॥
'' 'जिस प्रकार रथ के चक्र की नाभि में समस्त अरे अवस्थित होते हैं, उसी प्रकार 'वह' है जिसमें ये कलाएँ अवस्थित हैं 'उसी' को 'पुरुष' समझो जो कि ज्ञान का चरम लक्ष्य है, इसी के द्वारा तुम मृत्यु एवं उसकी व्यथा से मुक्त होओगे।'''
॥ शब्दावली ॥
रथनाभौ अराः इव - rathanābhau arāḥ iva - as the spokes of a wheel are set in its nave
कलाः प्रतिष्ःहिताः - kalāḥ pratiṣḥhitāḥ - kaläù pratiñùhitäù
तम् वेद्यम् पुरुषम् वेद - tam vedyam puruṣam veda - Him know for the Being who is the goal of knowledge
यथा मृत्युः - yathā mṛtyuḥ - as death
वः - vaḥ - to you
मा परिव्यथाः - mā parivyathāḥ - will not torment
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know