Ad Code

तान्‌ होवाचैतावदेवाहमेतत्‌

 


तान्‌ होवाचैतावदेवाहमेतत्‌ परं ब्रह्म वेद। नातः परमस्तीति ॥

लिप्यन्तरणम्

tān hovācaitāvadevāhametat paraṁ brahma veda | nātaḥ paramastīti ||

अन्वयः

तान् सः उवाच अहम् एतावत् एतत् परं ब्रह्म वेद। अतः परम् न अस्ति ॥

अन्वयलिप्यन्तरणम्

ān ( saḥ ) uvāca aham etāvat etat paraṁ brahma veda| ataḥ param na asti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

तान् होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥

तान् षडपि शिष्यानुवाच पिप्पलादः । एतत्परं ब्रह्माधिकृत्याहमेतावदेव जानामि । एतावदेवाहं जानामीत्युक्तिमात्रेण ज्ञातव्यमवशिष्यत इति न शङ्कयमित्याशयेनाह - नातः परमस्तीति । इतोऽपि ज्ञातव्यमपरं नावशिष्यत इत्यर्थः । ब्रह्म तु स्वरूपतो गुणतश्चापरिच्छिन्नम्, तत्सर्वांशेन तस्य ज्ञानमिति त्वसम्भावितम् । यदि कश्चिन्मन्येत निरवशेषं ब्रह्म जानामीति स भ्रान्त एव । तन्मयोक्तं ब्रह्माधिकृत्यैतावदेवाहं जानामीति । तज्ज्ञातव्यं नावशिष्यत इति भावः । एतद्ब्रह्माधिकृत्य नेतः परमस्तीत्येतावदेवाहं जानामीति चाऽन्वयः । विविच्य तत्स्वरूपरूपगुणादिकं साकल्येन इदमित्थमिति निरूपयितुं केनापि न शक्येत, तदहं परं ब्रह्माधिकृत्य इतः परं न किञ्चिदित्येव जानामि, अपरिच्छिन्नतया जानामीति यावत् । अपरिच्छिन्नतया ज्ञानमेवास्मिन्विषये साकल्येन ज्ञानमिति भावः ॥७॥

आङ्गल-अर्थः ॥

And Pippalada said to them: “Thus far do I know the Most High God; than He there is none Higher.”

हिन्दी-अर्थः ॥

और, ऋषि पिप्पलाद ने उनसे कहा '''परम ब्रह्म' के विषय में मैं इतना ही जानता हूँ; 'इससे' परतर 'उच्चतर' अन्य कुछ भी नही है।''

शब्दावली

तान् ह उवाच - tān ha uvāca - Pippalada said to them

एतावत् एतत् परम् ब्रह्म - etāvat etat param brahma - thus far the Most High God

अहम् वेद - aham veda - do I know

अतः परम् - ataḥ param - than He Higher

न अस्ति - na asti - there is none

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code