अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः। देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
asya visraṁsamānasya śarīrasthasya dehinaḥ | dehādvimucyamānasya kimatra pariśiṣyate | etadvai tat ||
॥ अन्वयः ॥
अस्य शरीरस्थस्य देहिनः विस्रंसमानस्य देहात् विमुच्यमानस्य। अत्र किम् परिशिष्यते। एतत् वै तत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
asya śarīrasthasya dehinaḥ visraṁsamānasya dehāt vimucyamānasya| atra kim pariśiṣyate| etat vai tat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मोपासकस्य शरीरमेवान्तरायः ]
ननु - प्राणगतिव्यवस्थापकः प्रत्यगात्मनो नातिरिच्यत इत्यत्रोच्यते - अस्य इति ।
अस्य विस्त्रंसमानस्य शरीरस्थस्य देहिनः ।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते ॥ एतद्वै तत् ॥४॥
शरीरस्थस्य देहिनः - अनादरे षष्ठी, अस्ति नाम शरीरे प्रत्यगात्मा, स चायं देहस्य स्वामी, स्वेन कर्मणा ह्यर्जितोऽयं देहः, स चायमावासमात्मनो रक्षितुमेव वाञ्छति, न तूत्सादयितुम्, सर्वो हि जीवितुमाकाङ्क्षत इति विदितमेतत्, अथाप्येनमनादृत्य प्राणो निःसरणोन्मुखो भवति नाम, अन्ते च शरीराद्वियुज्यते च तत् विस्त्रंसमानस्य- शिथिलीभवतोऽस्य प्राणस्य, अन्ततो देहाद्विमुच्यमानस्य च, अत्र विस्रंसने विमोक्षे च विषये किं परिशिष्यते निमित्तं किं परिशेषात्सिद्ध्यति, पर्यालोच्यतामित्यर्थः । प्रत्यगात्मा चेत् प्राणगतिव्यवस्थापकः, जीवितुं वाञ्छतोऽपि तस्य प्राणाः कुतो निःसरन्ति, तत् प्राणनिस्सरणे निमित्तत्त्वं प्रत्यगात्मनि बाधितमन्यत्र प्रसङ्गानर्हतया परमात्मनि परिशिष्यते । प्राणगतिव्यवस्थापकस्य तस्य वैमुख्याच्च तद्विश्लेषो घटत इति भावः । प्राणापानगतिव्यवस्थापकोऽयमन्तरात्मैव पूर्वप्रस्तुतं ब्रह्मेत्यर्थः ॥४॥
॥ आङ्गल-अर्थः ॥
When this encased spirit that is in the body falleth away from it, when He is freed from its casing, what is there then that remaineth? This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''जब शरीरकोष में स्थित यह आत्मा इससे निकल जाता है, जब 'यह' इस कोष से मुक्त हो जाता है, तब वहाँ क्या शेष रह जाता है? यही है 'वह', जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
अस्य शरीरस्थस्य - asya śarīrasthasya - in the body
देहिनः - dehinaḥ - of this encased spirit
विस्रंसमानस्य - visraṁsamānasya - falleth away
देहात् - dehāt - from the body
विमुच्यमानस्य - vimucyamānasya - when He is freed
अत्र किम् परिशिष्यते - atra kim pariśiṣyate - what is there then that remaineth
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know