ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति। मध्ये वामनमासीनं विश्वे देवा उपासते ॥
॥ लिप्यन्तरणम् ॥
ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati | madhye vāmanamāsīnaṁ viśve devā upāsate ||
॥ अन्वयः ॥
सः प्राणं ऊर्ध्वम् उन्नयति अपानं प्रत्यक् अस्यति मध्ये आसीनम् तम् वामनं विश्वे देवाः उपासते ॥
॥ अन्वयलिप्यन्तरणम् ॥
(saḥ ) prāṇaṁ ūrdhvam unnayati apānaṁ pratyak asyati madhye āsīnam ( tam ) vāmanaṁ viśve devāḥ upāsate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ कल्याणगुणाकरत्वेन परमात्मा उपास्यः ]
परमात्मानं सुखेन ग्राहयन्नाह - ऊर्ध्वम् इत्यादिना ।
ऊर्ध्वं प्राणमुन्नमयत्यपानं प्रत्यगस्यति ।
मध्ये वामनमासीनं विश्वे देवा उपासते ॥३॥
यः शरीरमध्ये हृदयकमले सन्निधाय प्राणमूर्ध्वमुन्नमयत्यपानम् अधो गमयति, तमेतं प्राणापानगतिव्यवस्थापकं हृदयपुण्डरीके सन्निहतं वामनम् - भजनीयं सर्वे देवा उपासते देवा इत्युपलक्षकम् । सत्त्वप्रकृतय इति वाऽर्थः ॥३॥
॥ आङ्गल-अर्थः ॥
This is He that draweth the main breath upward and casteth the lower breath downward. The Dwarf that sitteth in the centre, to Him all the Gods do homage.
॥ हिन्दी-अर्थः ॥
'''वह' ही है जो प्राण को ऊर्ध्व दिशा में उठाता है तथा अपान को नीचे की ओर छोडता है; केन्द्र में आसीन इस 'वामन' की सभी देवगण उपासना करते है।
॥ शब्दावली ॥
प्राणम् - prāṇam - the main breath
ऊर्ध्वम् - ūrdhvam - upward
उन्नयति - unnayati - that draweth
अपानम् - apānam - the lower breath
प्रत्यक् - pratyak - downward
अस्यति - asyati - casteth
मध्ये आसीनम् - madhye āsīnam - that sitteth in the centre
वामनम् - vāmanam - The Dwarf
विश्वे देवाः - viśve devāḥ - all the Gods
उपासते - upāsate - do homage to Him
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know