Ad Code

न प्राणेन नापानेन मर्त्यो जीवति



न प्राणेन नापानेन मर्त्यो जीवति कश्चन। इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥

॥ लिप्यन्तरणम् ॥

na prāṇena nāpānena martyo jīvati kaścana | itareṇa tu jīvanti yasminnetāvupāśritau ||

॥ अन्वयः ॥

कश्चन मर्त्यः न प्राणेन न अपाननेन जीवति। इतरेण तु जीवन्ति। यस्मिन् एतौ उपाश्रितौ ॥

॥ अन्वयलिप्यन्तरणम् ॥

kaścana martyaḥ na prāṇena na apānanena jīvati| itareṇa tu jīvanti| yasmin etau upāśritau ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सर्वप्राणिप्राणभूतः परमात्मा ]

अत एव जीवितं प्राणिनां प्राणापानायत्तमिति पामरप्रवादोऽप्यसङ्गत इत्याह - न इति ।

न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।

इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥५॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन प्राणसंश्लेष एव जीवितम्, तत्र च निमित्तेनान्येन भाव्यम्, न हि स्वसंश्लेषे स्वस्य निमित्तत्त्वमुचितम्, तत् यस्मिन् - परमात्मनि एतावुपाश्रितौ, तेन तु जीवन्तीति भावः ॥

परे तु आचार्याः - अस्येति मन्त्रमुपासकपरतया योजयन्ति । अस्मिन् पक्षे देहस्थस्य विस्त्रं समानस्य देहाद्विमुच्यमानस्यास्य देहिन इति सामानाधिकरण्येनान्वयः । अस्योपासकस्येत्यर्थः । अत्र जगति किं परिशिष्यते - किं कर्तव्यमवशिष्यते, कृतकृत्यो हि सः। एतद्वै तत् - इदमुपासकस्वरूपमपि ब्रह्मात्मकमित्यर्थो बोध्यः॥५॥

॥ आङ्गल-अर्थः ॥

Man that is mortal liveth not by the breath, no, nor by the lower breath; but by something else we live in which both these have their being.

॥ हिन्दी-अर्थः ॥

''मर्त्य मनुष्य न प्राण से जीता है न अपान से। किसी ऐसे अन्य तत्त्व से ही हम सब जीवित रहते हैं जिसमें इन दोनों का अस्तित्व उपाश्रित है।

॥ शब्दावली ॥

कश्चन मर्त्यः - kaścana martyaḥ - man that is mortal

न प्राणेन - na prāṇena - not by the breath

न अपाननेन - na apānanena - nor by the lower breath

जीवति - jīvati - liveth

इतरेण - itareṇa - but by something else

जीवन्ति - jīvanti - live

यस्मिन् - yasmin - in which

एतौ उपाश्रितौ - etau upāśritau - both these have their being

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code