तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्शा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति। अथ परा यया तदक्षरमधिगम्यते ॥
॥ लिप्यन्तरणम् ॥
tatrāparā ṛgvedo yajurvedaḥ sāmavedo'tharvavedaḥ śikśā kalpo vyākaraṇaṁ niruktaṁ chando jyotiṣamiti | atha parā yayā tadakṣaramadhigamyate ||
॥ अन्वयः ॥
तत्र अपरा ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः शिक्षा कल्पः व्याकरणं निरुक्तम्ं छन्दः ज्योतिषम् इति। अथ परा यया तत् अक्षरम् अधिगम्यते ॥
॥ अन्वयलिप्यन्तरणम् ॥
tatra aparā ṛgvedaḥ yajurvedaḥ sāmavedaḥ atharvavedaḥ śikṣā kalpaḥ vyākaraṇaṁ niruktamṁ chandaḥ jyotiṣam iti| atha parā yayā tat akṣaram adhigamyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परापरविद्याविभागः ]
तत्रापरां विद्यामाह - तत्रेति ।
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ।
अथ परा यया तदक्षरमधिगम्यते ॥५॥
तत्र - परापरयोर्मध्ये । यद्यप्युद्देशक्रमतः परायाः प्रथमतो निरूपणं न्याय्यम् । अथापि निरूपयिष्यमाणाया: शास्त्रजन्यशाब्दज्ञानरूपाया अपरविद्याया ब्रह्मापरोक्षरूपपर- विद्यायामुपकारकत्वेन पूर्वभावित्वाच्च प्रथमतो निरूपणम् । अत्र वेदादिपदं तत्तदर्थावबोधपरम् । अत्र शिक्षेत्यादिनाऽङ्गानां परिगणनात्साङ्गवेदजन्यं तदर्थविज्ञानमपरा विद्येत्युक्तंभवति ।
ननु वेदार्थावबोधः कथमपरा विद्या गण्यते, उपनिषदामर्थो हि परं ब्रह्म, उपनिषदश्च वेदरूपाः । सत्यम् । उपनिषदर्थावबोधरूपोऽप्ययं केवलं शब्दज्ञानजन्यः परोक्ष एवेत्यपरोक्षरूपान्निरूपयिष्यमाणात्साक्षाद्ब्रह्मप्राप्तिहेतुभूतादुपासनात्मकादपकृष्ट एवेत्यपरा विद्येत्युच्यते। इयमपरा विद्या मुमुक्षूणामपेक्षितैव, परायामुपकारकत्वात् ।
ननु कर्माणि विविधफलसाधनानि वेदैरवबोध्यन्ते, तदवबोधश्चोपघातक एव ब्रह्मविद्यायाम्, तत्कथमुच्यते 'अपरा विद्योपकारिके 'ति । सत्यम् । परन्तु कामसङ्कल्पवर्जितानां तेषामतथात्वात्, प्रत्युतानुकूलत्वात् कर्मप्रतिपादकभागस्यापि तत्रैव तात्पर्यात्, साङ्गसशिरस्कसमग्रवेदविज्ञानरूपापरविद्यायाः परविद्यायामुपकारकत्वं युक्तमेव । अत एव द्वयोर्विद्ययोर्वेदितव्यत्वं ब्रह्मविदभिमतं सङ्गच्छते । परां विद्यां निरूपयति - अथेत्यादिना । यया - विद्यया तदक्षरं यत्त्वया जिज्ञासितं कस्मिन्विदिते सर्वमिदं विदितमिति - तदक्षरमित्यर्थः । अधिगम्यते प्राप्यते । तच्छब्दस्योक्तार्थविवक्षया विनाऽध्याहार- क्लेशमपृष्टोत्तरत्वशङ्का निवारिता भवति । अथापि द्वे विद्ये वेदितव्ये इत्येतदपृष्टोत्तरमिति नाशङ्क्यम्, अस्योपोद्घातत्वात् । ब्रह्मविद्याविशेषविधानपूर्वकं प्रतिवचनं समुचितमेव । वेदितव्ये विद्ये द्वे इति वान्वयः ॥५॥
॥ आङ्गल-अर्थः ॥
Of which the lower, the Rig Veda and the Yajur Veda and the Sama Veda and the Atharva Veda, chanting, ritual, grammar, etymological interpretation, and prosody and astronomy. And then the higher by which is known the Immutable.
॥ हिन्दी-अर्थः ॥
उसमें अपरा है, ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द तथा ज्योतिष। और परा विद्या वह है जिससे 'अक्षर तत्त्व' का ज्ञान होता है।
॥ शब्दावली ॥
तत्र अपरा - tatra aparā - of which the lower
ऋग्वेदः - ṛgvedaḥ - the Rig Veda
यजुर्वेदः - yajurvedaḥ - the Yajur Veda
सामवेदः - sāmavedaḥ - the Sama Veda
अथर्ववेदः - atharvavedaḥ - the Atharva Veda
शिक्षा - śikṣā - chanting
कल्पः - kalpaḥ - ritual
व्याकरणम् - vyākaraṇam - grammar
निरुक्तम् - niruktam - etymological interpretation
छन्दः - chandaḥ - prosody
ज्योतिषम् इति - jyotiṣam iti - astronomy
अथ परा - atha parā - and then the higher
यया तत् अक्षरम् - yayā tat akṣaram - by which the Immutable
अधिगम्यते - adhigamyate - is known

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know