Ad Code

यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं



यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम्‌। नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद् भूतयोनिं परिपश्यन्ति धीराः ॥

लिप्यन्तरणम्

yat tadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṁ tadapāṇipādam | nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tadavyayaṁ yad bhūtayoniṁ paripaśyanti dhīrāḥ ||

अन्वयः

यत् तत् अद्रैश्यम् अग्राह्यम् अगोत्रम् अवर्णम् अचक्षुः श्रोत्रम्। तत् अपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तत् अव्ययं यत् धीराः भूतयोनिं परिपश्यन्ति ॥

अन्वयलिप्यन्तरणम्

yat tat adraiśyam agrāhyam agotram avarṇam acakṣuḥ śrotram| tat apāṇipādaṁ nityaṁ vibhuṁ sarvagataṁ susūkṣmaṁ tat avyayaṁ yat dhīrāḥ bhūtayoniṁ paripaśyanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ अक्षरशब्दवाच्यपरब्रह्मस्वपरूम् ]

यत्तददेश्यमग्राह्यमगोत्रमवर्णमचक्षुः श्रोत्रं तदपाणिपादम् ।

नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥६॥

यत्-परया विद्यया प्राप्यते, तदक्षरमदेश्यमग्राह्यम् न कस्यचिद्दृशो गोचरं न वा वाचः। सति रूपे स्याद्द्द्दृशो गोचरं सति नामगोत्रादौ तेन व्यपदेष्टुं स्याद्योग्यम्, न तदुभयमपि, तद्धि अवर्णमगोत्रं च - गोत्रशब्दश्च नामगोत्रादीनामुपलक्षकः । यद्वा - ज्ञानेन्द्रियस्य कर्मेन्द्रियस्य चागोचरम् । अवर्णम् -शुक्लनीलादिरहितम्, अगोत्रम् अन्वयरहितम् । करणागोचरमित्येतावन्मात्रं न, स्वयं करणशून्यमपीत्याह - अचक्षुः श्रोत्रं तदपाणिपादमिति । ज्ञानेन्द्रियकर्मेन्द्रियरहितमिति यावत् । न तस्य कालतः परिच्छेद इत्याह - नित्यमिति । न केवलं कालतः परिच्छेदाभावः अपि तु देशतोऽपीत्याह विभुमिति । न केवलमखिल- देशसम्बन्धमात्रम्, तत्र तत्र बहिरिवान्तरपि सम्बद्धमित्याह - सर्वगतमिति । ननु सूक्ष्मेषु कथमस्यान्तः प्रवेश इत्यत्राह - सुसूक्ष्ममिति । सूक्ष्मात्सूक्ष्मतरमित्यर्थः । अव्ययम् - अपचयरहितम् । भूतस्यास्य सर्वस्य योनिम् उपादानं यत् अक्षरं धीराः परिपश्यन्ति - परित: साक्षात्कुर्वन्ति ।

अयं भावः - यदि सर्वस्यास्योपादानमक्षरं स्यादुपादेय उपादानस्याक्षरस्यान्वयेन भाव्यम् । जगदिदं त्वतदात्मकमुपलभ्यत इति चेत् । सत्यम् । पामरैस्तु तथैवोपलभ्यते । धीरैः परब्रह्मयाथात्म्यविज्ञानरसिकैस्तु सर्वत एव तत्साक्षात्क्रियते, सर्वं तदात्मकतयैव साक्षात्क्रियत इति तस्य सर्वभूतयोनित्वे न किञ्चिद्बाधकमिति ॥६॥

आङ्गल-अर्थः ॥

That the invisible, that the unseizable, without connections, without hue, without eye or ear, that which is without hands or feet, eternal, pervading, which is in all things and impalpable, that which is Imperishable, that which is the womb of creatures sages behold everywhere.

हिन्दी-अर्थः ॥

'वह' जो अदृश्य है, अग्राह्य है, सम्बन्धहीन (अगोत्र) है। अवर्ण है, चक्षु तथा श्रोत्र रहित है, जो अपाणिपाद (हाथ-पाँव रहित) है, नित्य है, विभु है, सर्वगत है, सब में ओतप्रोत है, अतिसूक्ष्म है, अव्यय है, जो समस्त प्राणियों की उत्पत्ति का उद्गम-स्थल (योनि) है, ज्ञानीजन (धीरजन) सर्वत्र उसका दर्शन करते हैं।

शब्दावली

यत् तत् अद्रैश्यम् - yat tat adraiśyam - that the invisible

अग्राह्यम् - agrāhyam - that the unseizable

अगोत्रम् - agotram - without connections

अवर्णम् - avarṇam - without hue

अचक्षुः श्रोत्रम् - acakṣuḥ śrotram - without eye or ear

तत् अपाणिपादम् - tat apāṇipādam - that which is without hands or feet

नित्यम् - nityam - eternal

विभुम् - vibhum - pervading

सर्वगतम् - sarvagatam - which is in all things

सुसूक्ष्मम् - susūkṣmam - impalpable

तत् अव्ययम् - tat avyayam - that which is Imperishable

यत् - yat - that

धीराः - dhīrāḥ - sages

भूतयोनिम् - bhūtayonim - that which is the womb of creatures

परिपश्यन्ति - paripaśyanti - behold everywhere


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code