स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रा उत्कर्षादुभयत्वाद् वा उत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित् कुले भवति य एवं वेद ॥
॥ लिप्यन्तरणम् ॥
svapnasthānastaijasa ukāro dvitīyā mātrā utkarṣādubhayatvād vā utkarṣati ha vai jñānasantatiṁ samānaśca bhavati nāsyābrahmavit kule bhavati ya evaṁ veda ||
॥ अन्वयः ॥
स्वप्नस्थानः तैजसः उकारः द्वितीया मात्रा। उत्कर्षात् उभयत्वात् वा। यः एवं वेद सः ज्ञानसन्ततिं उतर्षति। समानः भवति। अस्य कुले अब्रह्मवित् न भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
svapnasthānaḥ taijasaḥ ukāraḥ dvitīyā mātrā| utkarṣāt ubhayatvāt vā| yaḥ evaṁ veda ( saḥ ) jñānasantatiṁ utarṣati| samānaḥ bhavati| asya kule abrahmavit na bhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उकाररूप: तैजसः प्रणवद्वितीयमात्रा ]
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षादुभयत्वाद्वोत्कर्षति ह वै
ज्ञानसन्ततिं समानश्च भवति नास्याब्रह्मवित्कुले भवति य एवं वेद ॥३॥
योऽयमुकारः प्रणवस्य द्वितीया मात्रा सोऽयं स्वप्नस्थानस्तैजसः - उकारे तैजसदृष्टि: कार्येति यावत् । तस्य तद्रूपत्वेन भावनानिमित्तं समानगुणयोगमाह - उत्कर्षादुभयत्वाद्वेति । विश्वतो हि बाह्मेन्द्रियार्थ सम्प्रयोगसापेक्षभोगात्तन्निरपेक्षानन्यसामान्यविचित्रार्थ भोग- सम्पत्तेस्तैजस उत्कृष्ट इव ।
यद्वा - उत्कर्ष उत्कर्षणम्, स्थूलादुत्कृष्ट इव हि प्रविविक्तमर्थं सूक्ष्ममनुभवति तैजसः । उकारश्च प्रणवावयवः अकारमकारमध्यसंलग्नः समुत्कृष्ट इव प्रकाशमेति । उभयत्वात् - जाग्रत्सुषुप्तिमध्यसंलग्ने स्वप्ने नियतो हि पूर्वापरांशसम्बन्धः । । उत्कर्षति ह वै ज्ञानसन्ततिं य एवं वेद - शिष्यप्रशिष्यपरम्परया ज्ञानानुवृत्तिर्भवतीति यावत् । समानश्च भवति - मानसहितो भवति, मानं प्राप्नोति लोक इति यावत् । नास्याब्रह्मवित्कुले भवति नावेदविदस्य कुले भवति ॥३॥
॥ आङ्गल-अर्थः ॥
The Dreamer, Taijasa, the Inhabitant in Luminous Mind, He is U, the second letter, because of Advance and Centrality; he that knoweth Him for such, advanceth the bounds of his knowledge and riseth above difference; nor of his seed is any born that knoweth not the Eternal.
॥ हिन्दी-अर्थः ॥
स्वप्न-अवस्थावाला, 'तेजस'--'तेजोमय मन में निवास करने वाला'-अपनी 'श्रेष्ठता' (उत्कर्ष) एवं 'मध्यमावस्था' (उभयत्व) के कारण 'वह' है 'उकार', द्वितीय वर्णाक्षर; जो 'उसे' इस प्रकार जानता है वह अपने ज्ञान की सीमाओं का उत्कर्ष करता (अभी बढ़ाता) है तथा असमानताओं से ऊपर उठ जाता है; ऐसे व्यक्ति के कुल में उसके वीर्य से उत्पन्न सन्तति 'अब्रह्मविद्' (ब्रह्म को न जानने वाली) नहीं होती।
॥ शब्दावली ॥
स्वप्नस्थानः - svapnasthānaḥ - the Dreamer
तैजसः - taijasaḥ - Taijasa, the Inhabitant in Luminous Mind
उकारः - ukāraḥ - He is U
द्वितीया मात्रा - dvitīyā mātrā - the second letter
उत्कर्षात् - utkarṣāt - because of Advance
उभयत्वात् वा - ubhayatvāt vā - and Centrality
यः एवम् वेद - yaḥ evam veda - he that knoweth Him for such
ज्ञानसन्ततिम् - jñānasantatim - the bounds of his knowledge
उतर्षति - utarṣati - advanceth
समानः भवति - samānaḥ bhavati - and riseth above difference
अस्य कुले - asya kule - in his family
अब्रह्मवित् - abrahmavit - that knoweth not the Eternal
न भवति - na bhavati - none takes birth

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know